| |
|

This overlay will guide you through the buttons:

प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१॥
प्रति कल्पम् प्रवक्ष्यामि रुद्र-आविर्भाव-कारणम् ॥ यतस् विच्छिन्न-संताना ब्रह्म-सृष्टिः प्रवर्तते ॥ ७।१,१४।१॥
prati kalpam pravakṣyāmi rudra-āvirbhāva-kāraṇam .. yatas vicchinna-saṃtānā brahma-sṛṣṭiḥ pravartate .. 7.1,14.1..
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२॥
कल्पे कल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांड-संभवः ॥ अ वृद्धि-हेतोः भूतानाम् मुमोह भृश-दुःखितः ॥ ७।१,१४।२॥
kalpe kalpe prajāḥ sṛṣṭvā brahmā brahmāṃḍa-saṃbhavaḥ .. a vṛddhi-hetoḥ bhūtānām mumoha bhṛśa-duḥkhitaḥ .. 7.1,14.2..
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३॥
तस्य दुःख-प्रशांति-अर्थम् प्रजानाम् च विवृद्धये ॥ तद्-तद्-कल्पेषु काल-आत्मा रुद्रः रुद्र-गण-अधिपः ॥ ७।१,१४।३॥
tasya duḥkha-praśāṃti-artham prajānām ca vivṛddhaye .. tad-tad-kalpeṣu kāla-ātmā rudraḥ rudra-gaṇa-adhipaḥ .. 7.1,14.3..
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४॥
निर्दिष्टः पममेशेन महेशः नीललोहितः ॥ पुत्रः भूत्वा अनुगृह्णाति ब्रह्माणम् ब्रह्मणः अनुजः ॥ ७।१,१४।४॥
nirdiṣṭaḥ pamameśena maheśaḥ nīlalohitaḥ .. putraḥ bhūtvā anugṛhṇāti brahmāṇam brahmaṇaḥ anujaḥ .. 7.1,14.4..
स एव भगवानीशस्तेजोराशिरनामयः ॥ अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५॥
सः एव भगवान् ईशः तेजोराशिः अनामयः ॥ भूत-संकोचकः विभुः ॥ ७।१,१४।५॥
saḥ eva bhagavān īśaḥ tejorāśiḥ anāmayaḥ .. bhūta-saṃkocakaḥ vibhuḥ .. 7.1,14.5..
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६॥
परम-ऐश्वर्य-संयुक्तः परमेश्वर-भावितः ॥ तद्-शक्त्या अधिष्ठितः शश्वत् तद्-चिह्नैः अपि चिह्नितः ॥ ७।१,१४।६॥
parama-aiśvarya-saṃyuktaḥ parameśvara-bhāvitaḥ .. tad-śaktyā adhiṣṭhitaḥ śaśvat tad-cihnaiḥ api cihnitaḥ .. 7.1,14.6..
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७॥
तद्-नाम-नामा तद्-रूपः तद्-कार्य-करण-क्षमः ॥ तद्-तुल्य-व्यवहारः च तद्-आज्ञा-परिपालकः ॥ ७।१,१४।७॥
tad-nāma-nāmā tad-rūpaḥ tad-kārya-karaṇa-kṣamaḥ .. tad-tulya-vyavahāraḥ ca tad-ājñā-paripālakaḥ .. 7.1,14.7..
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८॥
सहस्र-आदित्य-संकाशः चन्द्र-अवयव-भूषणः ॥ भुजंग-हार-केयूर-वलयः मुंज-मेखलः ॥ ७।१,१४।८॥
sahasra-āditya-saṃkāśaḥ candra-avayava-bhūṣaṇaḥ .. bhujaṃga-hāra-keyūra-valayaḥ muṃja-mekhalaḥ .. 7.1,14.8..
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९॥
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ || gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ || 7.1,14.9||
jalaṃdharaviriṃcendrakapālaśakalojjvalaḥ || gaṅgātuṃgataraṃgārdhapiṃgalānanamūrdhajaḥ || 7.1,14.9||
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१०॥
भग्न-दंष्ट्र-अंकुर-आक्रान्त-प्रान्त-कान्त-धराधरः ॥ ॥ ७।१,१४।१०॥
bhagna-daṃṣṭra-aṃkura-ākrānta-prānta-kānta-dharādharaḥ .. .. 7.1,14.10..
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११॥
महा-वृषभ-निर्याणः महा-जलद-निःस्वनः ॥ महा-अनल-सम-प्रख्यः महा-बल-पराक्रमः ॥ ७।१,१४।११॥
mahā-vṛṣabha-niryāṇaḥ mahā-jalada-niḥsvanaḥ .. mahā-anala-sama-prakhyaḥ mahā-bala-parākramaḥ .. 7.1,14.11..
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२॥
एवम् घोर-महा-रूपः ब्रह्मपुत्रीम् महेश्वरः ॥ विज्ञानम् ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७।१,१४।१२॥
evam ghora-mahā-rūpaḥ brahmaputrīm maheśvaraḥ .. vijñānam brahmaṇe dattvā sarge sahakaroti ca .. 7.1,14.12..
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३॥
तस्मात् रुद्र-प्रसादेन प्रतिकल्पम् प्रजापतेः ॥ प्रवाह-रूपतः नित्या प्रजा-सृष्टिः प्रवर्तते ॥ ७।१,१४।१३॥
tasmāt rudra-prasādena pratikalpam prajāpateḥ .. pravāha-rūpataḥ nityā prajā-sṛṣṭiḥ pravartate .. 7.1,14.13..
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४॥
कदाचिद् प्रार्थितः स्रष्टुम् ब्रह्मणा नीललोहितः ॥ स्व-आत्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७।१,१४।१४॥
kadācid prārthitaḥ sraṣṭum brahmaṇā nīlalohitaḥ .. sva-ātmanā sadṛśān sarvān sasarja manasā vibhuḥ .. 7.1,14.14..
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५॥
कपर्दिनः निरातंकान् नीलग्रीवान् त्रि-लोचनान् ॥ जरा-मरण-निर्मुक्तान् दीप्त-शूल-वर-आयुधान् ॥ ७।१,१४।१५॥
kapardinaḥ nirātaṃkān nīlagrīvān tri-locanān .. jarā-maraṇa-nirmuktān dīpta-śūla-vara-āyudhān .. 7.1,14.15..
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६॥
तैः तु संछादितम् सर्वम् चतुर्दशविधम् जगत् ॥ तान् दृष्टा विविधान् रुद्रान् रुद्रम् आह पितामहः ॥ ७।१,१४।१६॥
taiḥ tu saṃchāditam sarvam caturdaśavidham jagat .. tān dṛṣṭā vividhān rudrān rudram āha pitāmahaḥ .. 7.1,14.16..
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७॥
नमः ते देवदेवेश मा अस्राक्षीः ईदृशीः प्रजाः ॥ अन्याः सृज त्वम् भद्रम् ते प्रजाः मृत्यु-समन्विताः ॥ ७।१,१४।१७॥
namaḥ te devadeveśa mā asrākṣīḥ īdṛśīḥ prajāḥ .. anyāḥ sṛja tvam bhadram te prajāḥ mṛtyu-samanvitāḥ .. 7.1,14.17..
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८॥
इति उक्तः प्रहसन् प्राह ब्रह्माणम् परमेश्वरः ॥ न अस्ति मे तादृशः सर्गः सृज त्वम् अशुभाः प्रजाः ॥ ७।१,१४।१८॥
iti uktaḥ prahasan prāha brahmāṇam parameśvaraḥ .. na asti me tādṛśaḥ sargaḥ sṛja tvam aśubhāḥ prajāḥ .. 7.1,14.18..
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९॥
ये तु इमे मनसा सृष्टाः महात्मानः महा-बलाः ॥ चरिष्यंति मया सार्धम् सर्वे एव हि याज्ञिकाः ॥ ७।१,१४।१९॥
ye tu ime manasā sṛṣṭāḥ mahātmānaḥ mahā-balāḥ .. cariṣyaṃti mayā sārdham sarve eva hi yājñikāḥ .. 7.1,14.19..
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२०॥
इति उक्त्वा विश्वकर्माणम् विश्व-भूत-ईश्वरः हरः ॥ सह रुद्रैः प्रजा-सर्गात् निवृत्त-आत्मा व्यतिष्ठत ॥ ७।१,१४।२०॥
iti uktvā viśvakarmāṇam viśva-bhūta-īśvaraḥ haraḥ .. saha rudraiḥ prajā-sargāt nivṛtta-ātmā vyatiṣṭhata .. 7.1,14.20..
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१॥
ततस् प्रभृति देवः असौ न प्रसूते प्रजाः शुभाः ॥ ऊर्ध्वरेताः स्थितः स्थाणुः यावत् आभूतसंप्लवम् ॥ ७।१,१४।२१॥
tatas prabhṛti devaḥ asau na prasūte prajāḥ śubhāḥ .. ūrdhvaretāḥ sthitaḥ sthāṇuḥ yāvat ābhūtasaṃplavam .. 7.1,14.21..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे रुद्राविर्भाववर्णनम् नाम चतुर्दशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe rudrāvirbhāvavarṇanam nāma caturdaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In