| |
|

This overlay will guide you through the buttons:

एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ॥ मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ ७.१,१७.१ ॥
एवम् लब्ध्वा पराम् शक्तिम् ईश्वरात् एव शाश्वतीम् ॥ मैथुन-प्रभवाम् सृष्टिम् कर्तृ-कामः प्रजापतिः ॥ ७।१,१७।१ ॥
evam labdhvā parām śaktim īśvarāt eva śāśvatīm .. maithuna-prabhavām sṛṣṭim kartṛ-kāmaḥ prajāpatiḥ .. 7.1,17.1 ..
स्वयमप्यद्भुतो नारी चार्धेन पुरुषो ऽभवत् ॥ यार्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ ७.१,१७.२ ॥
स्वयम् अपि अद्भुतः नारी च अर्धेन पुरुषः अभवत् ॥ या अर्धेन नारी सा तस्मात् शतरूपा व्यजायत ॥ ७।१,१७।२ ॥
svayam api adbhutaḥ nārī ca ardhena puruṣaḥ abhavat .. yā ardhena nārī sā tasmāt śatarūpā vyajāyata .. 7.1,17.2 ..
विराजमसृजद्ब्रह्मा सो ऽर्धन पुरुषो ऽभवत् ॥ स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ ७.१,१७.३ ॥
विराजम् असृजत् ब्रह्मा सः पुरुषः अभवत् ॥ स वै स्वायंभुवः पूर्वम् पुरुषः मनुः उच्यते ॥ ७।१,१७।३ ॥
virājam asṛjat brahmā saḥ puruṣaḥ abhavat .. sa vai svāyaṃbhuvaḥ pūrvam puruṣaḥ manuḥ ucyate .. 7.1,17.3 ..
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ॥ भर्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ७.१,१७.४ ॥
सा देवी शतरूपा तु तपः कृत्वा सु दुश्चरम् ॥ भर्तारम् दीप्त-यशसम् मनुम् एव अन्वपद्यत ॥ ७।१,१७।४ ॥
sā devī śatarūpā tu tapaḥ kṛtvā su duścaram .. bhartāram dīpta-yaśasam manum eva anvapadyata .. 7.1,17.4 ..
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ॥ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ७.१,१७.५ ॥
तस्मात् तु शतरूपा सा पुत्र-द्वयम् असूयत ॥ प्रियव्रत-उत्तानपादौ पुत्रौ पुत्रवताम् वरौ ॥ ७।१,१७।५ ॥
tasmāt tu śatarūpā sā putra-dvayam asūyata .. priyavrata-uttānapādau putrau putravatām varau .. 7.1,17.5 ..
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ॥ आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ७.१,१७.६ ॥
कन्ये द्वे च महाभागे याभ्याम् जाताः तु इमाः प्रजाः ॥ आकूतिः एका विज्ञेया प्रसूतिः अपरा स्मृता ॥ ७।१,१७।६ ॥
kanye dve ca mahābhāge yābhyām jātāḥ tu imāḥ prajāḥ .. ākūtiḥ ekā vijñeyā prasūtiḥ aparā smṛtā .. 7.1,17.6 ..
स्वायंभुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ॥ रुचेः प्रजापतिश्चैव चाकूतिं समपादयत् ॥ ७.१,१७.७ ॥
स्वायंभुवः प्रसूतिम् च ददौ दक्षाय ताम् प्रभुः ॥ रुचेः प्रजापतिः च एव चाकूतिम् समपादयत् ॥ ७।१,१७।७ ॥
svāyaṃbhuvaḥ prasūtim ca dadau dakṣāya tām prabhuḥ .. ruceḥ prajāpatiḥ ca eva cākūtim samapādayat .. 7.1,17.7 ..
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ७.१,१७.८ ॥
आकूत्याम् मिथुनम् जज्ञे मानसस्य रुचेः शुभम् ॥ यज्ञः च दक्षिणा च एव याभ्याम् संवर्तितम् जगत् ॥ ७।१,१७।८ ॥
ākūtyām mithunam jajñe mānasasya ruceḥ śubham .. yajñaḥ ca dakṣiṇā ca eva yābhyām saṃvartitam jagat .. 7.1,17.8 ..
स्वायंभुवसुतायां तु प्रसूत्यां लोकमातरः ॥ चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ७.१,१७.९ ॥
स्वायंभुव-सुतायाम् तु प्रसूत्याम् लोक-मातरः ॥ चतस्रः विंशतिः कन्याः दक्षः तु अजनयत् प्रभुः ॥ ७।१,१७।९ ॥
svāyaṃbhuva-sutāyām tu prasūtyām loka-mātaraḥ .. catasraḥ viṃśatiḥ kanyāḥ dakṣaḥ tu ajanayat prabhuḥ .. 7.1,17.9 ..
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ॥ बुद्धिर्लज्जा वपुः शांतिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ ७.१,१७.१० ॥
श्रद्धा लक्ष्मीः धृतिः पुष्टिः तुष्टिः मेधा क्रिया तथा ॥ बुद्धिः लज्जा वपुः शांतिः सिद्धिः कीर्तिः त्रयोदशी ॥ ७।१,१७।१० ॥
śraddhā lakṣmīḥ dhṛtiḥ puṣṭiḥ tuṣṭiḥ medhā kriyā tathā .. buddhiḥ lajjā vapuḥ śāṃtiḥ siddhiḥ kīrtiḥ trayodaśī .. 7.1,17.10 ..
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ७.१,१७.११ ॥
पत्नी-अर्थम् प्रतिजग्राह धर्मः दाक्षायणीः प्रभुः ॥ ताभ्यः शिष्टाः यवीयस्यः एकादश सु लोचनाः ॥ ७।१,१७।११ ॥
patnī-artham pratijagrāha dharmaḥ dākṣāyaṇīḥ prabhuḥ .. tābhyaḥ śiṣṭāḥ yavīyasyaḥ ekādaśa su locanāḥ .. 7.1,17.11 ..
ख्यातिः सत्यर्थसंभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ७.१,१७.१२ ॥
ख्यातिः सती अर्थ-संभूतिः स्मृतिः प्रीतिः क्षमा तथा ॥ सन्नतिः च अनसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ७।१,१७।१२ ॥
khyātiḥ satī artha-saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā .. sannatiḥ ca anasūyā ca ūrjā svāhā svadhā tathā .. 7.1,17.12 ..
भृगुश्शर्वो मरीचिश्च अंगिराः पुलहः क्रतुः ॥ पुलस्त्यो ऽत्रिर्विशिष्ठश्च पावकः पितरस्तथा ॥ ७.१,१७.१३ ॥
भृगुः शर्वः मरीचिः च अंगिराः पुलहः क्रतुः ॥ पुलस्त्यः अत्रिः विशिष्ठः च पावकः पितरः तथा ॥ ७।१,१७।१३ ॥
bhṛguḥ śarvaḥ marīciḥ ca aṃgirāḥ pulahaḥ kratuḥ .. pulastyaḥ atriḥ viśiṣṭhaḥ ca pāvakaḥ pitaraḥ tathā .. 7.1,17.13 ..
ख्यात्याद्या जगृहुः कन्यामुनयो मुनिसत्तमाः ॥ कामाद्यास्तु यशोंता ये ते त्रयोदश सूनवः ॥ ७.१,१७.१४ ॥
ख्याति-आद्याः जगृहुः कन्या-मुनयः मुनि-सत्तमाः ॥ काम-आद्याः तु यशोंताः ये ते त्रयोदश सूनवः ॥ ७।१,१७।१४ ॥
khyāti-ādyāḥ jagṛhuḥ kanyā-munayaḥ muni-sattamāḥ .. kāma-ādyāḥ tu yaśoṃtāḥ ye te trayodaśa sūnavaḥ .. 7.1,17.14 ..
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्यास्सुसुखोत्तराः ॥ दुःखोत्तराश्च हिंसायामधर्मस्य च संततौ ॥ ७.१,१७.१५ ॥
धर्मस्य जज्ञिरे ताः तु श्रद्धा-आद्याः सु सुख-उत्तराः ॥ दुःख-उत्तराः च हिंसायाम् अधर्मस्य च संततौ ॥ ७।१,१७।१५ ॥
dharmasya jajñire tāḥ tu śraddhā-ādyāḥ su sukha-uttarāḥ .. duḥkha-uttarāḥ ca hiṃsāyām adharmasya ca saṃtatau .. 7.1,17.15 ..
निकृत्यादय उत्पन्नाःपुत्राश्च धर्मलक्षणाः ॥ नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ ७.१,१७.१६ ॥
निकृति-आदयः उत्पन्नाः पुत्राः च धर्म-लक्षणाः ॥ न एषाम् भार्याः च पुत्राः वा सर्वे तु अनियमाः स्मृताः ॥ ७।१,१७।१६ ॥
nikṛti-ādayaḥ utpannāḥ putrāḥ ca dharma-lakṣaṇāḥ .. na eṣām bhāryāḥ ca putrāḥ vā sarve tu aniyamāḥ smṛtāḥ .. 7.1,17.16 ..
स एष तामसस्सर्गो जज्ञे धर्मनियामकः ॥ या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ ७.१,१७.१७ ॥
सः एष तामसः सर्गः जज्ञे धर्म-नियामकः ॥ या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ ७।१,१७।१७ ॥
saḥ eṣa tāmasaḥ sargaḥ jajñe dharma-niyāmakaḥ .. yā sā dakṣasya duhitā rudrasya dayitā satī .. 7.1,17.17 ..
भर्तृनिन्दाप्रसंगेन त्यक्त्वा दाक्षायिणीं तनुम् ॥ दक्षं च दक्षभार्यां च विनिंद्य सह बन्धुभिः ॥ ७.१,१७.१८ ॥
भर्तृ-निन्दा-प्रसंगेन त्यक्त्वा दाक्षायिणीम् तनुम् ॥ दक्षम् च दक्ष-भार्याम् च विनिंद्य सह बन्धुभिः ॥ ७।१,१७।१८ ॥
bhartṛ-nindā-prasaṃgena tyaktvā dākṣāyiṇīm tanum .. dakṣam ca dakṣa-bhāryām ca viniṃdya saha bandhubhiḥ .. 7.1,17.18 ..
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ॥ रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ ७.१,१७.१९ ॥
सा मेनायाम् आविरभूत् पुत्री हिमवतः गिरेः ॥ रुद्रः तु ताम् सतीम् दृष्ट्वा रुद्रान् तु आत्म-सम-प्रभान् ॥ ७।१,१७।१९ ॥
sā menāyām āvirabhūt putrī himavataḥ gireḥ .. rudraḥ tu tām satīm dṛṣṭvā rudrān tu ātma-sama-prabhān .. 7.1,17.19 ..
यथासृजदसंख्यातांस्तथा कथितमेव च ॥ भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ ७.१,१७.२० ॥
यथा असृजत् असंख्यातान् तथा कथितम् एव च ॥ भृगोः ख्यात्याम् समुत्पन्ना लक्ष्मीः नारायण-प्रिया ॥ ७।१,१७।२० ॥
yathā asṛjat asaṃkhyātān tathā kathitam eva ca .. bhṛgoḥ khyātyām samutpannā lakṣmīḥ nārāyaṇa-priyā .. 7.1,17.20 ..
देवौ धातृविधातारौ मन्वंतरविधारिणौ ॥ तयोर्वै पुत्रपौत्राद्याश्शतशो ऽथ सहस्रशः ॥ ७.१,१७.२१ ॥
देवौ धातृ-विधातारौ मन्वंतर-विधारिणौ ॥ तयोः वै पुत्र-पौत्र-आद्याः शतशस् अथ सहस्रशस् ॥ ७।१,१७।२१ ॥
devau dhātṛ-vidhātārau manvaṃtara-vidhāriṇau .. tayoḥ vai putra-pautra-ādyāḥ śataśas atha sahasraśas .. 7.1,17.21 ..
स्वायंभुवे ऽंतरे नीताः सर्वे ते भार्गवा मताः ॥ मरीचेरपि संभूतिः पौर्णमासमसूयत ॥ ७.१,१७.२२ ॥
स्वायंभुवे अंतरे नीताः सर्वे ते भार्गवाः मताः ॥ मरीचेः अपि संभूतिः पौर्णमासम् असूयत ॥ ७।१,१७।२२ ॥
svāyaṃbhuve aṃtare nītāḥ sarve te bhārgavāḥ matāḥ .. marīceḥ api saṃbhūtiḥ paurṇamāsam asūyata .. 7.1,17.22 ..
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ॥ येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ ७.१,१७.२३ ॥
कन्या-चतुष्टयम् च एव महीयांसः तद्-अन्वयाः ॥ येषाम् वंशे समुत्पन्नः बहुपुत्रस्य कश्यपः ॥ ७।१,१७।२३ ॥
kanyā-catuṣṭayam ca eva mahīyāṃsaḥ tad-anvayāḥ .. yeṣām vaṃśe samutpannaḥ bahuputrasya kaśyapaḥ .. 7.1,17.23 ..
स्मृतिश्चांगिरसः पत्नी जनयामास वै सुतौ ॥ आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ ७.१,१७.२४ ॥
स्मृतिः च अंगिरसः पत्नी जनयामास वै सुतौ ॥ आग्नीध्रम् शरभम् च एव तथा कन्या-चतुष्टयम् ॥ ७।१,१७।२४ ॥
smṛtiḥ ca aṃgirasaḥ patnī janayāmāsa vai sutau .. āgnīdhram śarabham ca eva tathā kanyā-catuṣṭayam .. 7.1,17.24 ..
तदीयाः पुत्रपौत्राश्च येतीतास्ते सहस्रशः ॥ प्रीत्यां पुलस्त्यभार्यायां दन्तोग्निरभवत्सुतः ॥ पूर्वजन्मनि योगस्त्यस्स्मृतः स्वायंभुवे ऽंतरे ॥ ७.१,१७.२५ ॥
तदीयाः पुत्र-पौत्राः च या इति इताः ते सहस्रशस् ॥ प्रीत्याम् पुलस्त्य-भार्यायाम् दन्तोग्निः अभवत् सुतः ॥ पूर्व-जन्मनि योगः त्यः स्मृतः स्वायंभुवे अंतरे ॥ ७।१,१७।२५ ॥
tadīyāḥ putra-pautrāḥ ca yā iti itāḥ te sahasraśas .. prītyām pulastya-bhāryāyām dantogniḥ abhavat sutaḥ .. pūrva-janmani yogaḥ tyaḥ smṛtaḥ svāyaṃbhuve aṃtare .. 7.1,17.25 ..
तत्संततीया बहवः पौलस्त्या इति विश्रुताः ॥ क्षमा तु सुषुवे पुत्रान्पुलहस्य प्रजापतेः ॥ ७.१,१७.२६ ॥
तद्-संततीयाः बहवः पौलस्त्याः इति विश्रुताः ॥ क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ॥ ७।१,१७।२६ ॥
tad-saṃtatīyāḥ bahavaḥ paulastyāḥ iti viśrutāḥ .. kṣamā tu suṣuve putrān pulahasya prajāpateḥ .. 7.1,17.26 ..
कर्दमश्च सुरिश्चैव सहिष्णुश्चेति ते त्रयः ॥ त्रेताग्निवर्चसस्सर्वे येषां वंशः प्रतिष्ठितः ॥ ७.१,१७.२७ ॥
कर्दमः च सुरिः च एव सहिष्णुः च इति ते त्रयः ॥ त्रेताग्नि-वर्चसः सर्वे येषाम् वंशः प्रतिष्ठितः ॥ ७।१,१७।२७ ॥
kardamaḥ ca suriḥ ca eva sahiṣṇuḥ ca iti te trayaḥ .. tretāgni-varcasaḥ sarve yeṣām vaṃśaḥ pratiṣṭhitaḥ .. 7.1,17.27 ..
क्रतोः क्रतुसमान्भार्या सन्नतिस्सुषुवे सुतान् ॥ नैषां भार्याश्च पुत्राश्च सर्वे ते ह्यूर्ध्वरेतसः ॥ ७.१,१७.२८ ॥
क्रतोः क्रतु-समान् भार्या सन्नतिः सुषुवे सुतान् ॥ न एषाम् भार्याः च पुत्राः च सर्वे ते हि ऊर्ध्वरेतसः ॥ ७।१,१७।२८ ॥
kratoḥ kratu-samān bhāryā sannatiḥ suṣuve sutān .. na eṣām bhāryāḥ ca putrāḥ ca sarve te hi ūrdhvaretasaḥ .. 7.1,17.28 ..
षष्टिस्तानि सहस्राणि वालखिल्या इति स्मृताः ॥ अनूरोरग्रतो यांति परिवार्य दिवाकरम् ॥ ७.१,१७.२९ ॥
षष्टिः तानि सहस्राणि वालखिल्याः इति स्मृताः ॥ अनूरोः अग्रतस् यांति परिवार्य दिवाकरम् ॥ ७।१,१७।२९ ॥
ṣaṣṭiḥ tāni sahasrāṇi vālakhilyāḥ iti smṛtāḥ .. anūroḥ agratas yāṃti parivārya divākaram .. 7.1,17.29 ..
अत्रेर्भार्यानुसूया च पञ्चात्रेयानसूयत ॥ कन्यकां च श्रुतिं नाम माता शंखपदस्य च ॥ ७.१,१७.३० ॥
अत्रेः भार्या अनुसूया च पञ्च आत्रेयान् असूयत ॥ कन्यकाम् च श्रुतिम् नाम माता शंखपदस्य च ॥ ७।१,१७।३० ॥
atreḥ bhāryā anusūyā ca pañca ātreyān asūyata .. kanyakām ca śrutim nāma mātā śaṃkhapadasya ca .. 7.1,17.30 ..
सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्शनैश्चरः ॥ सोमश्च पञ्चमस्त्वेते पञ्चात्रेयाः प्रकीर्तिताः ॥ ७.१,१७.३१ ॥
सत्यनेत्रः च हव्यः च आपोमूर्तिः शनैश्चरः ॥ सोमः च पञ्चमः तु एते पञ्च आत्रेयाः प्रकीर्तिताः ॥ ७।१,१७।३१ ॥
satyanetraḥ ca havyaḥ ca āpomūrtiḥ śanaiścaraḥ .. somaḥ ca pañcamaḥ tu ete pañca ātreyāḥ prakīrtitāḥ .. 7.1,17.31 ..
तेषां पुत्राश्च पौत्राश्च ह्यात्रेयाणां महात्मनाम् ॥ स्वायंभुवे ऽंतरे ऽतीताः शतशो ऽथ सहस्रशः ॥ ७.१,१७.३२ ॥
तेषाम् पुत्राः च पौत्राः च हि आत्रेयाणाम् महात्मनाम् ॥ स्वायंभुवे अंतरे अतीताः शतशस् अथ सहस्रशस् ॥ ७।१,१७।३२ ॥
teṣām putrāḥ ca pautrāḥ ca hi ātreyāṇām mahātmanām .. svāyaṃbhuve aṃtare atītāḥ śataśas atha sahasraśas .. 7.1,17.32 ..
ऊर्जायां तु वसिष्ठस्य पुत्रा वै सप्त जज्ञिरे ॥ ज्यायसी च स्वसा तेषां पुंडरीका सुमध्यमा ॥ ७.१,१७.३३ ॥
ऊर्जायाम् तु वसिष्ठस्य पुत्राः वै सप्त जज्ञिरे ॥ ज्यायसी च स्वसा तेषाम् पुंडरीका सुमध्यमा ॥ ७।१,१७।३३ ॥
ūrjāyām tu vasiṣṭhasya putrāḥ vai sapta jajñire .. jyāyasī ca svasā teṣām puṃḍarīkā sumadhyamā .. 7.1,17.33 ..
रजो गात्रोर्ध्वबाहू च सवनश्चानयश्च यः ॥ सुतपाश्शुक्र इत्येते सप्त सप्तर्षयः स्मृताः ॥ ७.१,१७.३४ ॥
रजः गात्र-ऊर्ध्वबाहू च सवनः च अनयः च यः ॥ सुतपाः शुक्रः इति एते सप्त सप्तर्षयः स्मृताः ॥ ७।१,१७।३४ ॥
rajaḥ gātra-ūrdhvabāhū ca savanaḥ ca anayaḥ ca yaḥ .. sutapāḥ śukraḥ iti ete sapta saptarṣayaḥ smṛtāḥ .. 7.1,17.34 ..
गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ स्वायंभुवे ऽंतरे ऽतीतान्यर्बुदानि शतानि च ॥ ७.१,१७.३५ ॥
गोत्राणि नामभिः तेषाम् वासिष्ठानाम् महात्मनाम् ॥ स्वायंभुवे अंतरे अतीतानि अर्बुदानि शतानि च ॥ ७।१,१७।३५ ॥
gotrāṇi nāmabhiḥ teṣām vāsiṣṭhānām mahātmanām .. svāyaṃbhuve aṃtare atītāni arbudāni śatāni ca .. 7.1,17.35 ..
इत्येष ऋषिसर्गस्तु सानुबंधः प्रकीर्तितः ॥ समासाद्विस्तराद्वक्तुमशक्यो ऽयमिति द्विजाः ॥ ७.१,१७.३६ ॥
इति एषः ऋषि-सर्गः तु सानुबंधः प्रकीर्तितः ॥ समासात् विस्तरात् वक्तुम् अशक्यः अयम् इति द्विजाः ॥ ७।१,१७।३६ ॥
iti eṣaḥ ṛṣi-sargaḥ tu sānubaṃdhaḥ prakīrtitaḥ .. samāsāt vistarāt vaktum aśakyaḥ ayam iti dvijāḥ .. 7.1,17.36 ..
यो ऽसौ रुद्रात्मको बह्निब्रह्मणो मानसस्सुतः ॥ स्वाहा तस्य प्रिया लेभे पुत्रांस्त्रीनमितौजसः ॥ ७.१,१७.३७ ॥
यः असौ रुद्र-आत्मकः बह्नि-ब्रह्मणः मानसः सुतः ॥ स्वाहा तस्य प्रिया लेभे पुत्रान् त्रीन् अमित-ओजसः ॥ ७।१,१७।३७ ॥
yaḥ asau rudra-ātmakaḥ bahni-brahmaṇaḥ mānasaḥ sutaḥ .. svāhā tasya priyā lebhe putrān trīn amita-ojasaḥ .. 7.1,17.37 ..
पावकः पवमानश्च शुचिरित्येष ते त्रयः ॥ निर्मंथ्यः पवमानस्स्याद्वैद्युतः पावकस्स्मृतः ॥ ७.१,१७.३८ ॥
पावकः पवमानः च शुचिः इति एष ते त्रयः ॥ निर्मंथ्यः पवमानः स्यात् वैद्युतः पावकः स्मृतः ॥ ७।१,१७।३८ ॥
pāvakaḥ pavamānaḥ ca śuciḥ iti eṣa te trayaḥ .. nirmaṃthyaḥ pavamānaḥ syāt vaidyutaḥ pāvakaḥ smṛtaḥ .. 7.1,17.38 ..
सूर्ये तपति यश्चासौ शुचिः सौर उदाहृतः ॥ हव्यवाहः कव्यवाहः सहरक्षा इति त्रयः ॥ ७.१,१७.३९ ॥
सूर्ये तपति यः च असौ शुचिः सौरः उदाहृतः ॥ हव्यवाहः कव्यवाहः सहरक्षाः इति त्रयः ॥ ७।१,१७।३९ ॥
sūrye tapati yaḥ ca asau śuciḥ sauraḥ udāhṛtaḥ .. havyavāhaḥ kavyavāhaḥ saharakṣāḥ iti trayaḥ .. 7.1,17.39 ..
त्रयाणां क्रमशः पुत्रा देवपितृसुराश्च ते ॥ एतेषां पुत्रपौत्राश्च चत्वारिंशन्नवैव ते ॥ ७.१,१७.४० ॥
त्रयाणाम् क्रमशस् पुत्राः देव-पितृ-सुराः च ते ॥ एतेषाम् पुत्र-पौत्राः च चत्वारिंशत् नव एव ते ॥ ७।१,१७।४० ॥
trayāṇām kramaśas putrāḥ deva-pitṛ-surāḥ ca te .. eteṣām putra-pautrāḥ ca catvāriṃśat nava eva te .. 7.1,17.40 ..
काम्यनैमित्तिकाजस्रकर्मसु त्रिषु संस्थिताः ॥ सर्वे तपस्विनो ज्ञेयाः सर्वे व्रतभृतस्तथा ॥ ७.१,१७.४१ ॥
काम्य-नैमित्तिक-अजस्र-कर्मसु त्रिषु संस्थिताः ॥ सर्वे तपस्विनः ज्ञेयाः सर्वे व्रत-भृतः तथा ॥ ७।१,१७।४१ ॥
kāmya-naimittika-ajasra-karmasu triṣu saṃsthitāḥ .. sarve tapasvinaḥ jñeyāḥ sarve vrata-bhṛtaḥ tathā .. 7.1,17.41 ..
सर्वे रुद्रात्मकश्चैव सर्वे रुद्रपरायणाः ॥ तस्मादग्निमुखे यत्तद्धुतं स्यादेव केनचित् ॥ ७.१,१७.४२ ॥
सर्वे रुद्र-आत्मकः च एव सर्वे रुद्र-परायणाः ॥ तस्मात् अग्नि-मुखे यत् तत् हुतम् स्यात् एव केनचिद् ॥ ७।१,१७।४२ ॥
sarve rudra-ātmakaḥ ca eva sarve rudra-parāyaṇāḥ .. tasmāt agni-mukhe yat tat hutam syāt eva kenacid .. 7.1,17.42 ..
तत्सर्वं रुद्रमुद्दिश्य दत्तं स्यान्नात्र संशयः ॥ इत्येवं निश्चयोग्नीनामनुक्रांतो यथातथम् ॥ ७.१,१७.४३ ॥
तत् सर्वम् रुद्रम् उद्दिश्य दत्तम् स्यात् न अत्र संशयः ॥ इति एवम् निश्चय-अग्नीनाम् अनुक्रांतः यथातथम् ॥ ७।१,१७।४३ ॥
tat sarvam rudram uddiśya dattam syāt na atra saṃśayaḥ .. iti evam niścaya-agnīnām anukrāṃtaḥ yathātatham .. 7.1,17.43 ..
नातिविस्तरतो विप्राः पितॄन्वक्ष्याम्यतः परम् ॥ यस्मात्षडृतवस्तेषां स्थानं स्थानाभिमानिनाम् ॥ ७.१,१७.४४ ॥
न अति विस्तरतः विप्राः पितॄन् वक्ष्यामि अतस् परम् ॥ यस्मात् षट् ऋतवः तेषाम् स्थानम् स्थान-अभिमानिनाम् ॥ ७।१,१७।४४ ॥
na ati vistarataḥ viprāḥ pitṝn vakṣyāmi atas param .. yasmāt ṣaṭ ṛtavaḥ teṣām sthānam sthāna-abhimāninām .. 7.1,17.44 ..
ऋतवः पितरस्तस्मादित्येषा वैदिकी श्रुतिः ॥ युष्मादृतुषु सर्वे हि जायंते स्थास्नुजंगमा ॥ ७.१,१७.४५ ॥
ऋतवः पितरः तस्मात् इति एषा वैदिकी श्रुतिः ॥ युष्मात् ऋतुषु सर्वे हि जायंते स्थास्नु-जंगमा ॥ ७।१,१७।४५ ॥
ṛtavaḥ pitaraḥ tasmāt iti eṣā vaidikī śrutiḥ .. yuṣmāt ṛtuṣu sarve hi jāyaṃte sthāsnu-jaṃgamā .. 7.1,17.45 ..
तस्मादेते पितर आर्तवा इति च श्रुतम् ॥ एवं पितॄणामेतेषामृतुकालाभिमानिनाम् ॥ ७.१,१७.४६ ॥
तस्मात् एते पितरः आर्तवाः इति च श्रुतम् ॥ एवम् पितॄणाम् एतेषाम् ऋतु-काल-अभिमानिनाम् ॥ ७।१,१७।४६ ॥
tasmāt ete pitaraḥ ārtavāḥ iti ca śrutam .. evam pitṝṇām eteṣām ṛtu-kāla-abhimāninām .. 7.1,17.46 ..
आत्मैश्वर्या महात्मानस्तिष्ठंतीहाब्भ्रसंगमात् ॥ आग्निष्वात्ता बर्हिषदः पितरो द्विविधाः स्मृताः ॥ ७.१,१७.४७ ॥
आत्म-ऐश्वर्याः महात्मानः तिष्ठंति इह अब्भ्र-संगमात् ॥ आग्निष्वात्ताः बर्हिषदः पितरः द्विविधाः स्मृताः ॥ ७।१,१७।४७ ॥
ātma-aiśvaryāḥ mahātmānaḥ tiṣṭhaṃti iha abbhra-saṃgamāt .. āgniṣvāttāḥ barhiṣadaḥ pitaraḥ dvividhāḥ smṛtāḥ .. 7.1,17.47 ..
अयज्वानश्च यज्वानः क्रमात्ते मृहमेधिनः ॥ स्वधासूत पितृभ्यश्च द्वे कन्ये लोकविश्रुते ॥ ७.१,१७.४८ ॥
अयज्वानः च यज्वानः क्रमात् ते मृहमेधिनः ॥ स्वधा असूत पितृभ्यः च द्वे कन्ये लोक-विश्रुते ॥ ७।१,१७।४८ ॥
ayajvānaḥ ca yajvānaḥ kramāt te mṛhamedhinaḥ .. svadhā asūta pitṛbhyaḥ ca dve kanye loka-viśrute .. 7.1,17.48 ..
मेनां च धरणीं चैव याभ्यां विश्वमिदं धृतम् ॥ अग्निष्वात्तसुता मेना धरणी बर्हिषत्सुता ॥ ७.१,१७.४९ ॥
मेनाम् च धरणीम् च एव याभ्याम् विश्वम् इदम् धृतम् ॥ अग्निष्वात्त-सुता मेना धरणी बर्हिषद्-सुता ॥ ७।१,१७।४९ ॥
menām ca dharaṇīm ca eva yābhyām viśvam idam dhṛtam .. agniṣvātta-sutā menā dharaṇī barhiṣad-sutā .. 7.1,17.49 ..
मेना हिमवतः पत्नी मैनाकं क्रौंचमेव च ॥ गौरीं गंगां च सुषुवे भवांगाश्लेषपावनीम् ॥ ७.१,१७.५० ॥
मेना हिमवतः पत्नी मैनाकम् क्रौंचम् एव च ॥ गौरीम् गंगाम् च सुषुवे भव-अंग-आश्लेष-पावनीम् ॥ ७।१,१७।५० ॥
menā himavataḥ patnī mainākam krauṃcam eva ca .. gaurīm gaṃgām ca suṣuve bhava-aṃga-āśleṣa-pāvanīm .. 7.1,17.50 ..
मेरोस्तु धरणी पत्नी दिव्यौषधिसमन्वितम् ॥ मंदरं सुषुवे पुत्रं चित्रिसुन्दरकन्धरम् ॥ ७.१,१७.५१ ॥
मेरोः तु धरणी पत्नी दिव्य-ओषधि-समन्वितम् ॥ मंदरम् सुषुवे पुत्रम् चित्रि-सुन्दर-कन्धरम् ॥ ७।१,१७।५१ ॥
meroḥ tu dharaṇī patnī divya-oṣadhi-samanvitam .. maṃdaram suṣuve putram citri-sundara-kandharam .. 7.1,17.51 ..
स एव मंदरः श्रीमान्मेरुपुत्रस्तपोबलात् ॥ साक्षाच्छ्रीकंठनाथस्य शिवस्यावसथं गतः ॥ ७.१,१७.५२ ॥
सः एव मंदरः श्रीमान् मेरु-पुत्रः तपः-बलात् ॥ साक्षात् श्रीकंठ-नाथस्य शिवस्य आवसथम् गतः ॥ ७।१,१७।५२ ॥
saḥ eva maṃdaraḥ śrīmān meru-putraḥ tapaḥ-balāt .. sākṣāt śrīkaṃṭha-nāthasya śivasya āvasatham gataḥ .. 7.1,17.52 ..
सासूता धरणी भूयस्त्रिंशत्कन्याश्च विश्रुताः ॥ वेलां च नियतिं चैव तृतीयामपि चायतिम् ॥ ७.१,१७.५३ ॥
सा असूता धरणी भूयस्-त्रिंशत्-कन्याः च विश्रुताः ॥ वेलाम् च नियतिम् च एव तृतीयाम् अपि च आयतिम् ॥ ७।१,१७।५३ ॥
sā asūtā dharaṇī bhūyas-triṃśat-kanyāḥ ca viśrutāḥ .. velām ca niyatim ca eva tṛtīyām api ca āyatim .. 7.1,17.53 ..
आयतिर्नियतिश्चैव पत्न्यौ द्वे भृगुपुत्रयोः ॥ स्वायंभुवे ऽंतरे पूर्वं कथितस्ते तदन्वयः ॥ ७.१,१७.५४ ॥
आयतिः नियतिः च एव पत्न्यौ द्वे भृगु-पुत्रयोः ॥ स्वायंभुवे अंतरे पूर्वम् कथितः ते तद्-अन्वयः ॥ ७।१,१७।५४ ॥
āyatiḥ niyatiḥ ca eva patnyau dve bhṛgu-putrayoḥ .. svāyaṃbhuve aṃtare pūrvam kathitaḥ te tad-anvayaḥ .. 7.1,17.54 ..
सुषुवे सागराद्वेला कन्यामेकामनिंदिताम् ॥ सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः ॥ ७.१,१७.५५ ॥
सुषुवे सागरात् वेला कन्याम् एकाम् अनिंदिताम् ॥ सवर्णाम् नाम सामुद्रीम् पत्नीम् प्राचीनबर्हिषः ॥ ७।१,१७।५५ ॥
suṣuve sāgarāt velā kanyām ekām aniṃditām .. savarṇām nāma sāmudrīm patnīm prācīnabarhiṣaḥ .. 7.1,17.55 ..
सामुद्री सुषुवे पुत्रान्दश प्राचीनबर्हिषः ॥ सर्वे प्राचेतसा नाम धनुर्वेदस्य पारगाः ॥ ७.१,१७.५६ ॥
सामुद्री सुषुवे पुत्रान् दश प्राचीनबर्हिषः ॥ सर्वे प्राचेतसाः नाम धनुर्वेदस्य पारगाः ॥ ७।१,१७।५६ ॥
sāmudrī suṣuve putrān daśa prācīnabarhiṣaḥ .. sarve prācetasāḥ nāma dhanurvedasya pāragāḥ .. 7.1,17.56 ..
येषां स्वायंभुवे दक्षः पुत्रत्वमगमत्पुरा ॥ त्रियम्बकस्य शापेन चाक्षुषस्यांतरे मनोः ॥ ७.१,१७.५७ ॥
येषाम् स्वायंभुवे दक्षः पुत्र-त्वम् अगमत् पुरा ॥ त्रियम्बकस्य शापेन चाक्षुषस्य अंतरे मनोः ॥ ७।१,१७।५७ ॥
yeṣām svāyaṃbhuve dakṣaḥ putra-tvam agamat purā .. triyambakasya śāpena cākṣuṣasya aṃtare manoḥ .. 7.1,17.57 ..
इत्येते ब्रह्मपुत्राणां धर्मादीनाम्महात्मनाम् ॥ नातिसंक्षेपतो विप्रा नाति विस्तरतः क्रमात् ॥ ७.१,१७.५८ ॥
इति एते ब्रह्म-पुत्राणाम् धर्म-आदीनाम् महात्मनाम् ॥ न अति संक्षेपतः विप्राः न अति विस्तरतः क्रमात् ॥ ७।१,१७।५८ ॥
iti ete brahma-putrāṇām dharma-ādīnām mahātmanām .. na ati saṃkṣepataḥ viprāḥ na ati vistarataḥ kramāt .. 7.1,17.58 ..
वर्णिता वै मया वंशा दिव्या देवगणान्विताः ॥ क्रियावंतः प्रजावंतो महर्धिभिरलंकृताः ॥ ७.१,१७.५९ ॥
वर्णिताः वै मया वंशाः दिव्याः देव-गण-अन्विताः ॥ क्रियावंतः प्रजावंतः महा-ऋधिभिः अलंकृताः ॥ ७।१,१७।५९ ॥
varṇitāḥ vai mayā vaṃśāḥ divyāḥ deva-gaṇa-anvitāḥ .. kriyāvaṃtaḥ prajāvaṃtaḥ mahā-ṛdhibhiḥ alaṃkṛtāḥ .. 7.1,17.59 ..
प्रजानां संनिवेशो ऽयं प्रजापतिसमुद्भवः ॥ न हि शक्यः प्रसंख्यातुं वर्षकोटिशतैरपि ॥ ७.१,१७.६० ॥
प्रजानाम् संनिवेशः अयम् प्रजापति-समुद्भवः ॥ न हि शक्यः प्रसंख्यातुम् वर्ष-कोटि-शतैः अपि ॥ ७।१,१७।६० ॥
prajānām saṃniveśaḥ ayam prajāpati-samudbhavaḥ .. na hi śakyaḥ prasaṃkhyātum varṣa-koṭi-śataiḥ api .. 7.1,17.60 ..
राज्ञामपि च यो वंशो द्विधा सो ऽपि प्रवर्तते ॥ सूर्यवंशस्सोमवंश इति पुण्यतमः क्षितौ ॥ ७.१,१७.६१ ॥
राज्ञाम् अपि च यः वंशः द्विधा सः अपि प्रवर्तते ॥ सूर्यवंशः सोमवंशः इति पुण्यतमः क्षितौ ॥ ७।१,१७।६१ ॥
rājñām api ca yaḥ vaṃśaḥ dvidhā saḥ api pravartate .. sūryavaṃśaḥ somavaṃśaḥ iti puṇyatamaḥ kṣitau .. 7.1,17.61 ..
इक्ष्वाकुरम्बरीषश्च ययातिर्नाहुषादयः ॥ पुण्यश्लोकाः श्रुता ये ऽत्र ते पि तद्वंशसंभवाः ॥ ७.१,१७.६२ ॥
इक्ष्वाकुः अम्बरीषः च ययातिः नाहुष-आदयः ॥ पुण्य-श्लोकाः श्रुताः ये अत्र ते तद्-वंश-संभवाः ॥ ७।१,१७।६२ ॥
ikṣvākuḥ ambarīṣaḥ ca yayātiḥ nāhuṣa-ādayaḥ .. puṇya-ślokāḥ śrutāḥ ye atra te tad-vaṃśa-saṃbhavāḥ .. 7.1,17.62 ..
अन्ये च राजऋषयो नानावीर्यसमन्विता ॥ किं तैः फलमनुत्क्रांतैरुक्तपूर्वैः पुरातनैः ॥ ७.१,१७.६३ ॥
अन्ये च राज-ऋषयः नाना वीर्य-समन्विता ॥ किम् तैः फलम् अनुत्क्रांतैः उक्त-पूर्वैः पुरातनैः ॥ ७।१,१७।६३ ॥
anye ca rāja-ṛṣayaḥ nānā vīrya-samanvitā .. kim taiḥ phalam anutkrāṃtaiḥ ukta-pūrvaiḥ purātanaiḥ .. 7.1,17.63 ..
किं चेश्वरकथा वृत्ता यत्र तत्रान्यकीर्तनम् ॥ न सद्भिः संमतं मत्वा नोत्सहे बहुभाषितुम् ॥ ७.१,१७.६४ ॥
किम् च ईश्वर-कथा वृत्ता यत्र तत्र अन्य-कीर्तनम् ॥ न सद्भिः संमतम् मत्वा ना उत्सहे बहु-भाषितुम् ॥ ७।१,१७।६४ ॥
kim ca īśvara-kathā vṛttā yatra tatra anya-kīrtanam .. na sadbhiḥ saṃmatam matvā nā utsahe bahu-bhāṣitum .. 7.1,17.64 ..
प्रसंगादीश्वरस्यैव प्रभावद्योतनादपि ॥ सर्गादयो ऽपि कथिता इत्यत्र तत्प्रविस्तरैः ॥ ७.१,१७.६५ ॥
प्रसंगात् ईश्वरस्य एव प्रभाव-द्योतनात् अपि ॥ सर्ग-आदयः अपि कथिताः इति अत्र तद्-प्रविस्तरैः ॥ ७।१,१७।६५ ॥
prasaṃgāt īśvarasya eva prabhāva-dyotanāt api .. sarga-ādayaḥ api kathitāḥ iti atra tad-pravistaraiḥ .. 7.1,17.65 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं नाम सप्तदशो ऽध्यायः॥ ॥ 17 ॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे सृष्टिकथनम् नाम सप्तदशः अध्यायः॥ ॥ १७ ॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe sṛṣṭikathanam nāma saptadaśaḥ adhyāyaḥ.. .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In