| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ कथं हिमवतः पुत्री मेनायामभवत्पुरा ॥ ७.१,१८.१॥
देवी दक्षस्य तनया त्यक्त्वा दाक्षायणी तनुम् ॥ कथम् हिमवतः पुत्री मेनायाम् अभवत् पुरा ॥ ७।१,१८।१॥
devī dakṣasya tanayā tyaktvā dākṣāyaṇī tanum .. katham himavataḥ putrī menāyām abhavat purā .. 7.1,18.1..
कथं च निन्दितो रुद्रो दक्षेण च महात्मना ॥ निमित्तमपि किं तत्र येन स्यान्निंदितो भवः ॥ ७.१,१८.२॥
कथम् च निन्दितः रुद्रः दक्षेण च महात्मना ॥ निमित्तम् अपि किम् तत्र येन स्यात् निंदितः भवः ॥ ७।१,१८।२॥
katham ca ninditaḥ rudraḥ dakṣeṇa ca mahātmanā .. nimittam api kim tatra yena syāt niṃditaḥ bhavaḥ .. 7.1,18.2..
उत्पन्नश्च कथं दक्षो अभिशापाद्भवस्य तु ॥ चाक्षुषस्यांतरे पूर्वं मनोः प्रब्रूहि मारुत ॥ ७.१,१८.३॥
उत्पन्नः च कथम् दक्षः अभिशापात् भवस्य तु ॥ चाक्षुषस्य अंतरे पूर्वम् मनोः प्रब्रूहि मारुत ॥ ७।१,१८।३॥
utpannaḥ ca katham dakṣaḥ abhiśāpāt bhavasya tu .. cākṣuṣasya aṃtare pūrvam manoḥ prabrūhi māruta .. 7.1,18.3..
वायुरुवाव॥
शृण्वंतु कथयिष्यामि दक्षस्य लघुचेतसः ॥ वृत्तं पापात्प्रमादाच्च विश्वामरविदूषणम् ॥ ७.१,१८.४॥
शृण्वन् तु कथयिष्यामि दक्षस्य लघु-चेतसः ॥ वृत्तम् पापात् प्रमादात् च विश्व-अमर-विदूषणम् ॥ ७।१,१८।४॥
śṛṇvan tu kathayiṣyāmi dakṣasya laghu-cetasaḥ .. vṛttam pāpāt pramādāt ca viśva-amara-vidūṣaṇam .. 7.1,18.4..
पुरा सुरासुराः सर्वे सिद्धाश्च परमर्षयः ॥ कदाचिद्द्रष्टुमीशानं हिमवच्छिखरं ययुः ॥ ७.१,१८.५॥
पुरा सुर-असुराः सर्वे सिद्धाः च परम-ऋषयः ॥ कदाचिद् द्रष्टुम् ईशानम् हिमवत्-शिखरम् ययुः ॥ ७।१,१८।५॥
purā sura-asurāḥ sarve siddhāḥ ca parama-ṛṣayaḥ .. kadācid draṣṭum īśānam himavat-śikharam yayuḥ .. 7.1,18.5..
तदा देवश्च देवी च दिव्यासनगतावुभौ ॥ दर्शनं ददतुस्तेषां देवादीनां द्विजोत्तमाः ॥ ७.१,१८.६॥
तदा देवः च देवी च दिव्य-आसन-गतौ उभौ ॥ दर्शनम् ददतुः तेषाम् देव-आदीनाम् द्विजोत्तमाः ॥ ७।१,१८।६॥
tadā devaḥ ca devī ca divya-āsana-gatau ubhau .. darśanam dadatuḥ teṣām deva-ādīnām dvijottamāḥ .. 7.1,18.6..
तदानीमेव दक्षो ऽपि गतस्तत्र सहामरैः ॥ जामातरं हरं द्रष्टुं द्रष्टुं चात्मसुतां सतीम् ॥ ७.१,१८.७॥
तदानीम् एव दक्षः अपि गतः तत्र सह अमरैः ॥ जामातरम् हरम् द्रष्टुम् द्रष्टुम् च आत्म-सुताम् सतीम् ॥ ७।१,१८।७॥
tadānīm eva dakṣaḥ api gataḥ tatra saha amaraiḥ .. jāmātaram haram draṣṭum draṣṭum ca ātma-sutām satīm .. 7.1,18.7..
तदात्मगौरवाद्देवो देव्या दक्षे समागते ॥ देवादिभ्यो विशेषेण न कदाचिदभूत्स्मृतिः ॥ ७.१,१८.८॥
तद्-आत्म-गौरवात् देवः देव्याः दक्षे समागते ॥ देव-आदिभ्यः विशेषेण न कदाचिद् अभूत् स्मृतिः ॥ ७।१,१८।८॥
tad-ātma-gauravāt devaḥ devyāḥ dakṣe samāgate .. deva-ādibhyaḥ viśeṣeṇa na kadācid abhūt smṛtiḥ .. 7.1,18.8..
तस्य तस्याः परं भावमज्ञातुश्चापि केवलम् ॥ पुत्रीत्येवं विमूढस्य तस्यां वैरमजायत ॥ ७.१,१८.९॥
तस्य तस्याः परम् भावम् अज्ञातुः च अपि केवलम् ॥ पुत्री इति एवम् विमूढस्य तस्याम् वैरम् अजायत ॥ ७।१,१८।९॥
tasya tasyāḥ param bhāvam ajñātuḥ ca api kevalam .. putrī iti evam vimūḍhasya tasyām vairam ajāyata .. 7.1,18.9..
ततस्तेनैव वैरेण विधिना च प्रचोदितः ॥ नाजुवाह भवं दक्षो दीक्षितस्तामपि द्विषन् ॥ ७.१,१८.१०॥
ततस् तेन एव वैरेण विधिना च प्रचोदितः ॥ न अजुवाह भवम् दक्षः दीक्षितः ताम् अपि द्विषन् ॥ ७।१,१८।१०॥
tatas tena eva vaireṇa vidhinā ca pracoditaḥ .. na ajuvāha bhavam dakṣaḥ dīkṣitaḥ tām api dviṣan .. 7.1,18.10..
अन्याञ् आमातरस्सर्वानाहूय स यथाक्रमम् ॥ शतशः पुष्कलामर्चाञ्चकार च पृथक्पृथक् ॥ ७.१,१८.११॥
अन्यान् आ मातरः सर्वान् आहूय स यथाक्रमम् ॥ शतशस् पुष्कलाम् अर्चान् चकार च पृथक् पृथक् ॥ ७।१,१८।११॥
anyān ā mātaraḥ sarvān āhūya sa yathākramam .. śataśas puṣkalām arcān cakāra ca pṛthak pṛthak .. 7.1,18.11..
तथा तान्संगताञ्छ्रुत्वा नारदस्य मुखात्तदा ॥ ययौ रुद्राय रुद्राणी विज्ञाप्य भवनं पितुः ॥ ७.१,१८.१२॥
तथा तान् संगतान् श्रुत्वा नारदस्य मुखात् तदा ॥ ययौ रुद्राय रुद्राणी विज्ञाप्य भवनम् पितुः ॥ ७।१,१८।१२॥
tathā tān saṃgatān śrutvā nāradasya mukhāt tadā .. yayau rudrāya rudrāṇī vijñāpya bhavanam pituḥ .. 7.1,18.12..
अथ संनिहितं दिव्यं विमानं विश्वतोमुखम् ॥ लक्षणाढ्यं सुखारोहमतिमात्रमनोहरम् ॥ ७.१,१८.१३॥
अथ संनिहितम् दिव्यम् विमानम् विश्वतोमुखम् ॥ लक्षण-आढ्यम् सुख-आरोहम् अतिमात्र-मनोहरम् ॥ ७।१,१८।१३॥
atha saṃnihitam divyam vimānam viśvatomukham .. lakṣaṇa-āḍhyam sukha-āroham atimātra-manoharam .. 7.1,18.13..
तप्तजांबूनदप्रख्यं चित्ररत्नपरिष्कृतम् ॥ मुक्तामयवितानाग्न्यं स्रग्दामसमलंकृतम् ॥ ७.१,१८.१४॥
तप्त-जांबूनद-प्रख्यम् चित्र-रत्न-परिष्कृतम् ॥ मुक्ता-आमय-वितान-अग्न्यम् स्रज्-दाम-समलंकृतम् ॥ ७।१,१८।१४॥
tapta-jāṃbūnada-prakhyam citra-ratna-pariṣkṛtam .. muktā-āmaya-vitāna-agnyam sraj-dāma-samalaṃkṛtam .. 7.1,18.14..
तप्तकंचननिर्व्यूहं रत्नस्तंभशतावृतम् ॥ वज्रकल्पितसोपानं विद्रुमस्तंभतोरणम् ॥ ७.१,१८.१५॥
तप्त-कंचन-निर्व्यूहम् रत्न-स्तंभ-शत-आवृतम् ॥ वज्र-कल्पित-सोपानम् विद्रुम-स्तंभ-तोरणम् ॥ ७।१,१८।१५॥
tapta-kaṃcana-nirvyūham ratna-staṃbha-śata-āvṛtam .. vajra-kalpita-sopānam vidruma-staṃbha-toraṇam .. 7.1,18.15..
पुष्पपट्टपरिस्तीर्णं चित्ररत्नमहासनम् ॥ वज्रजालकिरच्छिद्रमच्छिद्रमणिकुट्टिमम् ॥ ७.१,१८.१६॥
पुष्प-पट्ट-परिस्तीर्णम् चित्र-रत्न-महा-आसनम् ॥ वज्र-जालकिर-छिद्रम् अच्छिद्र-मणि-कुट्टिमम् ॥ ७।१,१८।१६॥
puṣpa-paṭṭa-paristīrṇam citra-ratna-mahā-āsanam .. vajra-jālakira-chidram acchidra-maṇi-kuṭṭimam .. 7.1,18.16..
मणिदंडमनोज्ञेन महावृषभलक्ष्मणा ॥ अलंकृतपुरोभागमब्भ्रशुब्भ्रेण केतुना ॥ ७.१,१८.१७॥
मणि-दंड-मनोज्ञेन महा-वृषभ-लक्ष्मणा ॥ अलंकृत-पुरोभागम् अब्भ्र-शुब्भ्रेण केतुना ॥ ७।१,१८।१७॥
maṇi-daṃḍa-manojñena mahā-vṛṣabha-lakṣmaṇā .. alaṃkṛta-purobhāgam abbhra-śubbhreṇa ketunā .. 7.1,18.17..
रत्नकंचुकगुप्तांगैश्चित्रवेत्रकपाणिभिः ॥ अधिष्ठितमहाद्वारमप्रधृष्यैर्गुणेश्वरैः ॥ ७.१,१८.१८॥
रत्न-कंचुक-गुप्त-अंगैः चित्र-वेत्रक-पाणिभिः ॥ अधिष्ठित-महा-द्वारम् अप्रधृष्यैः गुण-ईश्वरैः ॥ ७।१,१८।१८॥
ratna-kaṃcuka-gupta-aṃgaiḥ citra-vetraka-pāṇibhiḥ .. adhiṣṭhita-mahā-dvāram apradhṛṣyaiḥ guṇa-īśvaraiḥ .. 7.1,18.18..
मृदंगतालगीतादिवेणुवीणाविशारदैः ॥ विदग्धवेषभाषैश्च बहुभिः स्त्रीजनैर्वृतम् ॥ ७.१,१८.१९॥
मृदंग-ताल-गीत-आदि-वेणु-वीणा-विशारदैः ॥ विदग्ध-वेष-भाषैः च बहुभिः स्त्री-जनैः वृतम् ॥ ७।१,१८।१९॥
mṛdaṃga-tāla-gīta-ādi-veṇu-vīṇā-viśāradaiḥ .. vidagdha-veṣa-bhāṣaiḥ ca bahubhiḥ strī-janaiḥ vṛtam .. 7.1,18.19..
आरुरोह महादेवी सह प्रियसखीजनैः ॥ चामारव्यञ्जनं तस्या वज्रदंडमनोहरे ॥ ७.१,१८.२०॥
आरुरोह महादेवी सह प्रिय-सखी-जनैः ॥ चामार-व्यञ्जनम् तस्याः वज्र-दंड-मनोहरे ॥ ७।१,१८।२०॥
āruroha mahādevī saha priya-sakhī-janaiḥ .. cāmāra-vyañjanam tasyāḥ vajra-daṃḍa-manohare .. 7.1,18.20..
गृहीत्वा रुद्रकन्ये द्वे विवीजतुरुभे शुभे ॥ तदाचामरयोर्मध्ये देव्या वदनमाबभौ ॥ ७.१,१८.२१॥
गृहीत्वा रुद्र-कन्ये द्वे विवीजतुः उभे शुभे ॥ तदा आचामरयोः मध्ये देव्याः वदनम् आबभौ ॥ ७।१,१८।२१॥
gṛhītvā rudra-kanye dve vivījatuḥ ubhe śubhe .. tadā ācāmarayoḥ madhye devyāḥ vadanam ābabhau .. 7.1,18.21..
अन्योन्यं युध्यतोर्मध्ये हंसयोरिव पंकजम् ॥ छत्रं शशिनिभं तस्याश्चूडोपरि सुमालिनी ॥ ७.१,१८.२२॥
अन्योन्यम् युध्यतोः मध्ये हंसयोः इव पंकजम् ॥ छत्रम् शशि-निभम् तस्याः चूडा-उपरि सु मालिनी ॥ ७।१,१८।२२॥
anyonyam yudhyatoḥ madhye haṃsayoḥ iva paṃkajam .. chatram śaśi-nibham tasyāḥ cūḍā-upari su mālinī .. 7.1,18.22..
धृतमुक्तापरिक्षिप्तं बभार प्रेमनिर्भरा ॥ तच्छत्रमुज्ज्वलं देव्या रुरुचे वदनोपरि ॥ ७.१,१८.२३॥
धृत-मुक्ता-परिक्षिप्तम् बभार प्रेम-निर्भरा ॥ तत् छत्रम् उज्ज्वलम् देव्याः रुरुचे वदन-उपरि ॥ ७।१,१८।२३॥
dhṛta-muktā-parikṣiptam babhāra prema-nirbharā .. tat chatram ujjvalam devyāḥ ruruce vadana-upari .. 7.1,18.23..
उपर्यमृतभांडस्य मंडलं शशिनो यथा ॥ अथ चाग्रे समासीना सुस्मितास्या शुभावती ॥ ७.१,१८.२४॥
उपरि अमृत-भांडस्य मंडलम् शशिनः यथा ॥ अथ च अग्रे समासीना सु स्मित-आस्या शुभावती ॥ ७।१,१८।२४॥
upari amṛta-bhāṃḍasya maṃḍalam śaśinaḥ yathā .. atha ca agre samāsīnā su smita-āsyā śubhāvatī .. 7.1,18.24..
अक्षद्यूतविनोदेन रमयामास वै सतीम् ॥ सुयशाः पादुके देव्याश्शुभे रत्नपरिष्कृते ॥ ७.१,१८.२५॥
अक्ष-द्यूत-विनोदेन रमयामास वै सतीम् ॥ सु यशाः पादुके देव्याः शुभे रत्न-परिष्कृते ॥ ७।१,१८।२५॥
akṣa-dyūta-vinodena ramayāmāsa vai satīm .. su yaśāḥ pāduke devyāḥ śubhe ratna-pariṣkṛte .. 7.1,18.25..
स्तनयोरंतरे कृत्वा तदा देवीमसेवतः ॥ अन्या कांचनचार्वंगी दीप्तं जग्राह दर्पणम् ॥ ७.१,१८.२६॥
स्तनयोः अंतरे कृत्वा तदा देवीम् असेवतः ॥ अन्या कांचन-चारु-अंगी दीप्तम् जग्राह दर्पणम् ॥ ७।१,१८।२६॥
stanayoḥ aṃtare kṛtvā tadā devīm asevataḥ .. anyā kāṃcana-cāru-aṃgī dīptam jagrāha darpaṇam .. 7.1,18.26..
अपरा तालवृन्तं च परा तांबूलपेटिकाम् ॥ काचित्क्रीडाशुकं चारु करे ऽकुरुत भामिनी ॥ ७.१,१८.२७॥
अपरा तालवृन्तम् च परा तांबूल-पेटिकाम् ॥ काचिद् क्रीडा-शुकम् चारु करे अकुरुत भामिनी ॥ ७।१,१८।२७॥
aparā tālavṛntam ca parā tāṃbūla-peṭikām .. kācid krīḍā-śukam cāru kare akuruta bhāminī .. 7.1,18.27..
काचित्तु सुमनोज्ञानि पुष्पाणि सुरभीणि च ॥ काचिदाभरणाधारं बभार कमलेक्षणा ॥ ७.१,१८.२८॥
काचिद् तु सु मनोज्ञानि पुष्पाणि सुरभीणि च ॥ काचिद् आभरण-आधारम् बभार कमल-ईक्षणा ॥ ७।१,१८।२८॥
kācid tu su manojñāni puṣpāṇi surabhīṇi ca .. kācid ābharaṇa-ādhāram babhāra kamala-īkṣaṇā .. 7.1,18.28..
काचिच्च पुनरालेपं सुप्रसूतं शुभांजनम् ॥ अन्याश्च सदृशास्तास्ता यथास्वमुचितक्रियाः ॥ ७.१,१८.२९॥
काचिद् च पुनर् आलेपम् सु प्रसूतम् शुभ-अंजनम् ॥ अन्याः च सदृशाः ताः ताः यथास्वम् उचित-क्रियाः ॥ ७।१,१८।२९॥
kācid ca punar ālepam su prasūtam śubha-aṃjanam .. anyāḥ ca sadṛśāḥ tāḥ tāḥ yathāsvam ucita-kriyāḥ .. 7.1,18.29..
आवृत्त्या तां महादेवीमसेवंत समंततः ॥ अतीव शुशुभे तासामंतरे परमेश्वरी ॥ ७.१,१८.३०॥
आवृत्त्या ताम् महादेवीम् असेवंत समंततः ॥ अतीव शुशुभे तासाम् अंतरे परमेश्वरी ॥ ७।१,१८।३०॥
āvṛttyā tām mahādevīm asevaṃta samaṃtataḥ .. atīva śuśubhe tāsām aṃtare parameśvarī .. 7.1,18.30..
तारापरिषदो मध्ये चंद्रलेखेव शारदी ॥ ततः शंखसमुत्थस्य नादस्य समनंतरम् ॥ ७.१,१८.३१॥
तारा-परिषदः मध्ये चंद्र-लेखा इव शारदी ॥ ततस् शंख-समुत्थस्य नादस्य समनंतरम् ॥ ७।१,१८।३१॥
tārā-pariṣadaḥ madhye caṃdra-lekhā iva śāradī .. tatas śaṃkha-samutthasya nādasya samanaṃtaram .. 7.1,18.31..
प्रास्थानिको महानादः पटहः समताड्यत ॥ ततो मधुरवाद्यानि सह तालोद्यतैस्स्वनैः ॥ ७.१,१८.३२॥
प्रास्थानिकः महा-नादः पटहः समताड्यत ॥ ततस् मधुर-वाद्यानि सह ताल-उद्यतैः स्वनैः ॥ ७।१,१८।३२॥
prāsthānikaḥ mahā-nādaḥ paṭahaḥ samatāḍyata .. tatas madhura-vādyāni saha tāla-udyataiḥ svanaiḥ .. 7.1,18.32..
अनाहतानि सन्नेदुः काहलानां शतानि च ॥ सायुधानां गणेशानां महेशसमतेजसाम् ॥ ७.१,१८.३३॥
अनाहतानि सन्नेदुः काहलानाम् शतानि च ॥ स आयुधानाम् गणेशानाम् महेश-सम-तेजसाम् ॥ ७।१,१८।३३॥
anāhatāni sanneduḥ kāhalānām śatāni ca .. sa āyudhānām gaṇeśānām maheśa-sama-tejasām .. 7.1,18.33..
सहस्राणि शतान्यष्टौ तदानीं पुरतो ययुः ॥ तेषां मध्ये वृषारूढो गजारूढो यथा गुरुः ॥ ७.१,१८.३४॥
सहस्राणि शतानि अष्टौ तदानीम् पुरतस् ययुः ॥ तेषाम् मध्ये वृष-आरूढः गज-आरूढः यथा गुरुः ॥ ७।१,१८।३४॥
sahasrāṇi śatāni aṣṭau tadānīm puratas yayuḥ .. teṣām madhye vṛṣa-ārūḍhaḥ gaja-ārūḍhaḥ yathā guruḥ .. 7.1,18.34..
जगाम गणपः श्रीमान् सोमनंदीश्वरार्चितः ॥ देवदुंदुभयो नेदुर्दिवि दिव्यसुखा घनाः ॥ ७.१,१८.३५॥
जगाम गणपः श्रीमान् सोमनंदीश्वर-अर्चितः ॥ देव-दुंदुभयः नेदुः दिवि दिव्य-सुखाः घनाः ॥ ७।१,१८।३५॥
jagāma gaṇapaḥ śrīmān somanaṃdīśvara-arcitaḥ .. deva-duṃdubhayaḥ neduḥ divi divya-sukhāḥ ghanāḥ .. 7.1,18.35..
ननृतुर्मुनयस्सर्वे मुमुदुः सिद्धयोगिनः ॥ ससृजुः पुष्पवृष्टिं च वितानोपरि वारिदाः ॥ ७.१,१८.३६॥
ननृतुः मुनयः सर्वे मुमुदुः सिद्ध-योगिनः ॥ ससृजुः पुष्प-वृष्टिम् च वितान-उपरि वारिदाः ॥ ७।१,१८।३६॥
nanṛtuḥ munayaḥ sarve mumuduḥ siddha-yoginaḥ .. sasṛjuḥ puṣpa-vṛṣṭim ca vitāna-upari vāridāḥ .. 7.1,18.36..
तदा देवगणैश्चान्यैः पथि सर्वत्र संगता ॥ क्षणादिव पितुर्गेहं प्रविवेश महेश्वरी ॥ ७.१,१८.३७॥
तदा देव-गणैः च अन्यैः पथि सर्वत्र संगता ॥ क्षणात् इव पितुः गेहम् प्रविवेश महेश्वरी ॥ ७।१,१८।३७॥
tadā deva-gaṇaiḥ ca anyaiḥ pathi sarvatra saṃgatā .. kṣaṇāt iva pituḥ geham praviveśa maheśvarī .. 7.1,18.37..
तां दृष्ट्वा कुपितो दक्षश्चात्मनः क्षयकारणात् ॥ तस्या यवीयसीभ्यो ऽपि चक्रे पूजाम सत्कृताम् ॥ ७.१,१८.३८॥
ताम् दृष्ट्वा कुपितः दक्षः च आत्मनः क्षय-कारणात् ॥ तस्याः यवीयसीभ्यः अपि चक्रे पूजाम सत्कृताम् ॥ ७।१,१८।३८॥
tām dṛṣṭvā kupitaḥ dakṣaḥ ca ātmanaḥ kṣaya-kāraṇāt .. tasyāḥ yavīyasībhyaḥ api cakre pūjāma satkṛtām .. 7.1,18.38..
तदा शशिमुखी देवी पितरं सदसि स्थितम् ॥ अंबिका युक्तमव्यग्रमुवाचाकृपणं वचः ॥ ७.१,१८.३९॥
तदा शशिमुखी देवी पितरम् सदसि स्थितम् ॥ अंबिका युक्तम् अव्यग्रम् उवाच अकृपणम् वचः ॥ ७।१,१८।३९॥
tadā śaśimukhī devī pitaram sadasi sthitam .. aṃbikā yuktam avyagram uvāca akṛpaṇam vacaḥ .. 7.1,18.39..
देव्युवाच॥
ब्रह्मादयः पिशाचांता यस्याज्ञावशवर्तिनः ॥ स देवस्सांप्रतं तात विधिना नार्चितः किल ॥ ७.१,१८.४०॥
ब्रह्म-आदयः पिशाच-अंताः यस्य आज्ञा-वश-वर्तिनः ॥ स देवः सांप्रतम् तात विधिना ना अर्चितः किल ॥ ७।१,१८।४०॥
brahma-ādayaḥ piśāca-aṃtāḥ yasya ājñā-vaśa-vartinaḥ .. sa devaḥ sāṃpratam tāta vidhinā nā arcitaḥ kila .. 7.1,18.40..
तदास्तां मम ज्यायस्याः पुत्र्याः पूजां किमीदृशीम् ॥ असत्कृतामवज्ञाय कृतवानसि गर्हितम् ॥ ७.१,१८.४१॥
तदा आस्ताम् मम ज्यायस्याः पुत्र्याः पूजाम् किम् ईदृशीम् ॥ असत्कृताम् अवज्ञाय कृतवान् असि गर्हितम् ॥ ७।१,१८।४१॥
tadā āstām mama jyāyasyāḥ putryāḥ pūjām kim īdṛśīm .. asatkṛtām avajñāya kṛtavān asi garhitam .. 7.1,18.41..
एवमुक्तो ऽब्रवीदेनां दक्षः क्रोधादमर्षितः ॥ त्वत्तः श्रेष्ठा विशिष्टाश्च पूज्या बालाः सुता मम ॥ ७.१,१८.४२॥
एवम् उक्तः अब्रवीत् एनाम् दक्षः क्रोधात् अमर्षितः ॥ त्वत्तः श्रेष्ठाः विशिष्टाः च पूज्याः बालाः सुताः मम ॥ ७।१,१८।४२॥
evam uktaḥ abravīt enām dakṣaḥ krodhāt amarṣitaḥ .. tvattaḥ śreṣṭhāḥ viśiṣṭāḥ ca pūjyāḥ bālāḥ sutāḥ mama .. 7.1,18.42..
तासां तु ये च भर्तारस्ते मे बहुमता मुदा ॥ गुनैश्चाप्यधिकास्सर्वैर्भर्तुस्ते त्र्यंबकादपि ॥ ७.१,१८.४३॥
तासाम् तु ये च भर्तारः ते मे बहु-मताः मुदा ॥ गुनैः च अपि अधिकाः सर्वैः भर्तुः ते त्र्यंबकात् अपि ॥ ७।१,१८।४३॥
tāsām tu ye ca bhartāraḥ te me bahu-matāḥ mudā .. gunaiḥ ca api adhikāḥ sarvaiḥ bhartuḥ te tryaṃbakāt api .. 7.1,18.43..
स्तब्धात्मा तामसश्शर्वस्त्वमिमं समुपाश्रिता ॥ तेन त्वामवमन्ये ऽहं प्रतिकूलो हि मे भवः ॥ ७.१,१८.४४॥
स्तब्ध-आत्मा तामसः शर्वः त्वम् इमम् समुपाश्रिता ॥ तेन त्वाम् अवमन्ये अहम् प्रतिकूलः हि मे भवः ॥ ७।१,१८।४४॥
stabdha-ātmā tāmasaḥ śarvaḥ tvam imam samupāśritā .. tena tvām avamanye aham pratikūlaḥ hi me bhavaḥ .. 7.1,18.44..
तथोक्ता पितरं दक्षं क्रुद्धा देवी तमब्रवीत् ॥ शृण्वतामेव सर्वेषां ये यज्ञसदसि स्थिताः ॥ ७.१,१८.४५॥
तथा उक्ता पितरम् दक्षम् क्रुद्धा देवी तम् अब्रवीत् ॥ शृण्वताम् एव सर्वेषाम् ये यज्ञ-सदसि स्थिताः ॥ ७।१,१८।४५॥
tathā uktā pitaram dakṣam kruddhā devī tam abravīt .. śṛṇvatām eva sarveṣām ye yajña-sadasi sthitāḥ .. 7.1,18.45..
अकस्मान्मम भर्तारमजाताशेषदूषणम् ॥ वाचा दूषयसे दक्ष साक्षाल्लोकमहेश्वरम् ॥ ७.१,१८.४६॥
अकस्मात् मम भर्तारम् अजात-अशेष-दूषणम् ॥ वाचा दूषयसे दक्ष साक्षात् लोक-महा-ईश्वरम् ॥ ७।१,१८।४६॥
akasmāt mama bhartāram ajāta-aśeṣa-dūṣaṇam .. vācā dūṣayase dakṣa sākṣāt loka-mahā-īśvaram .. 7.1,18.46..
विद्याचौरो गुरुद्रोही वेदेश्वरविदूषकः ॥ त एते बहुपाप्मानस्सर्वे दंड्या इति श्रुतिः ॥ ७.१,१८.४७॥
॥ ते एते बहु-पाप्मानः सर्वे दंड्याः इति श्रुतिः ॥ ७।१,१८।४७॥
.. te ete bahu-pāpmānaḥ sarve daṃḍyāḥ iti śrutiḥ .. 7.1,18.47..
तस्मादत्युत्कटस्यास्य पापस्य सदृशो भृशम् ॥ सहसा दारुणो दंडस्तव दैवाद्भविष्यति ॥ ७.१,१८.४८॥
तस्मात् अति उत्कटस्य अस्य पापस्य सदृशः भृशम् ॥ सहसा दारुणः दंडः तव दैवात् भविष्यति ॥ ७।१,१८।४८॥
tasmāt ati utkaṭasya asya pāpasya sadṛśaḥ bhṛśam .. sahasā dāruṇaḥ daṃḍaḥ tava daivāt bhaviṣyati .. 7.1,18.48..
त्वया न पूजितो यस्माद्देवदेवस्त्रियंबकः ॥ तस्मात्तव कुलं दुष्टं नष्टमित्यवधारय ॥ ७.१,१८.४९॥
त्वया न पूजितः यस्मात् देवदेवः त्रियंबकः ॥ तस्मात् तव कुलम् दुष्टम् नष्टम् इति अवधारय ॥ ७।१,१८।४९॥
tvayā na pūjitaḥ yasmāt devadevaḥ triyaṃbakaḥ .. tasmāt tava kulam duṣṭam naṣṭam iti avadhāraya .. 7.1,18.49..
इत्युक्त्वा पितरं रुष्टा सती संत्यक्तसाध्वसा ॥ तदीयां च तनुं त्यक्त्वा हिमवंतं ययौ गिरिम् ॥ ७.१,१८.५०॥
इति उक्त्वा पितरम् रुष्टा सती संत्यक्त-साध्वसा ॥ तदीयाम् च तनुम् त्यक्त्वा हिमवंतम् ययौ गिरिम् ॥ ७।१,१८।५०॥
iti uktvā pitaram ruṣṭā satī saṃtyakta-sādhvasā .. tadīyām ca tanum tyaktvā himavaṃtam yayau girim .. 7.1,18.50..
स पर्वतपरः श्रीमांल्लब्धपुण्यफलोदयः ॥ तदर्थमेव कृतवान् सुचिरं दुश्चरं तपः ॥ ७.१,१८.५१॥
स पर्वत-परः श्रीमान् लब्ध-पुण्य-फल-उदयः ॥ तद्-अर्थम् एव कृतवान् सु चिरम् दुश्चरम् तपः ॥ ७।१,१८।५१॥
sa parvata-paraḥ śrīmān labdha-puṇya-phala-udayaḥ .. tad-artham eva kṛtavān su ciram duścaram tapaḥ .. 7.1,18.51..
तस्मात्तमनुगृह्णाति भूधरेश्वरमीश्वरी ॥ स्वेच्छया पितरं चक्रे स्वात्मनो योगमायया ॥ ७.१,१८.५२॥
तस्मात् तम् अनुगृह्णाति भूधर-ईश्वरम् ईश्वरी ॥ स्व-इच्छया पितरम् चक्रे स्व-आत्मनः योग-मायया ॥ ७।१,१८।५२॥
tasmāt tam anugṛhṇāti bhūdhara-īśvaram īśvarī .. sva-icchayā pitaram cakre sva-ātmanaḥ yoga-māyayā .. 7.1,18.52..
यदा गता सती दक्षं विनिंद्य भयविह्वला ॥ तदा तिरोहिता मंत्रा विहतश्च ततो ऽध्वरः ॥ ७.१,१८.५३॥
यदा गता सती दक्षम् विनिंद्य भय-विह्वला ॥ तदा तिरोहिताः मंत्राः विहतः च ततस् अध्वरः ॥ ७।१,१८।५३॥
yadā gatā satī dakṣam viniṃdya bhaya-vihvalā .. tadā tirohitāḥ maṃtrāḥ vihataḥ ca tatas adhvaraḥ .. 7.1,18.53..
तदुपश्रुत्य गमनं देव्यास्त्रिपुरुमर्दनः ॥ दक्षाय च ऋषिभ्यश्च चुकोप च शशाप तान् ॥ ७.१,१८.५४॥
तत् उपश्रुत्य गमनम् देव्याः त्रिपुरु-मर्दनः ॥ दक्षाय च ऋषिभ्यः च चुकोप च शशाप तान् ॥ ७।१,१८।५४॥
tat upaśrutya gamanam devyāḥ tripuru-mardanaḥ .. dakṣāya ca ṛṣibhyaḥ ca cukopa ca śaśāpa tān .. 7.1,18.54..
यस्मादवमता दक्षमत्कृते ऽनागसा सती ॥ पूजिताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ ७.१,१८.५५॥
यस्मात् अवमता दक्ष-मद्-कृते अनागसा सती ॥ पूजिताः च इतराः सर्वाः स्व-सुताः भर्तृभिः सह ॥ ७।१,१८।५५॥
yasmāt avamatā dakṣa-mad-kṛte anāgasā satī .. pūjitāḥ ca itarāḥ sarvāḥ sva-sutāḥ bhartṛbhiḥ saha .. 7.1,18.55..
वैवस्वते ऽंतरे तस्मात्तव जामातरस्त्वमी ॥ उत्पत्स्यंते समं सर्वे ब्रह्मयज्ञेष्वयोनिजाः ॥ ७.१,१८.५६॥
वैवस्वते अंतरे तस्मात् तव जामातरः तु अमी ॥ उत्पत्स्यंते समम् सर्वे ब्रह्मयज्ञेषु अयोनिजाः ॥ ७।१,१८।५६॥
vaivasvate aṃtare tasmāt tava jāmātaraḥ tu amī .. utpatsyaṃte samam sarve brahmayajñeṣu ayonijāḥ .. 7.1,18.56..
भविता मानुषो राजा चाक्षुषस्य त्वमन्वये ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चापि प्रचेतसः ॥ ७.१,१८.५७॥
भविता मानुषः राजा चाक्षुषस्य त्वम् अन्वये ॥ प्राचीनबर्हिषः पौत्रः पुत्रः च अपि प्रचेतसः ॥ ७।१,१८।५७॥
bhavitā mānuṣaḥ rājā cākṣuṣasya tvam anvaye .. prācīnabarhiṣaḥ pautraḥ putraḥ ca api pracetasaḥ .. 7.1,18.57..
अहं तत्रापि ते विघ्नमाचरिष्यामि दुर्मते ॥ धर्मार्थकामयुक्तेषु कर्मस्वपि पुनः पुनः ॥ ७.१,१८.५८॥
अहम् तत्र अपि ते विघ्नम् आचरिष्यामि दुर्मते ॥ धर्म-अर्थ-काम-युक्तेषु कर्मसु अपि पुनर् पुनर् ॥ ७।१,१८।५८॥
aham tatra api te vighnam ācariṣyāmi durmate .. dharma-artha-kāma-yukteṣu karmasu api punar punar .. 7.1,18.58..
तेनैवं व्याहृतो दक्षो रुद्रेणामिततेजसा ॥ स्वायंभुवीं तनुं त्यक्त्वा पपात भुवि दुःखितः ॥ ७.१,१८.५९॥
तेन एवम् व्याहृतः दक्षः रुद्रेण अमित-तेजसा ॥ स्वायंभुवीम् तनुम् त्यक्त्वा पपात भुवि दुःखितः ॥ ७।१,१८।५९॥
tena evam vyāhṛtaḥ dakṣaḥ rudreṇa amita-tejasā .. svāyaṃbhuvīm tanum tyaktvā papāta bhuvi duḥkhitaḥ .. 7.1,18.59..
ततः प्राचेतसो दक्षो जज्ञे वै चाक्षुषे ऽन्तरे ॥ प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचेतसाम् ॥ ७.१,१८.६०॥
ततस् प्राचेतसः दक्षः जज्ञे वै चाक्षुषे अन्तरे ॥ प्राचीनबर्हिषः पौत्रः पुत्रः च एव प्रचेतसाम् ॥ ७।१,१८।६०॥
tatas prācetasaḥ dakṣaḥ jajñe vai cākṣuṣe antare .. prācīnabarhiṣaḥ pautraḥ putraḥ ca eva pracetasām .. 7.1,18.60..
भृग्वादयो ऽपि जाता वै मनोर्वैवस्वतस्य तु ॥ अंतरे ब्रह्मणो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ ७.१,१८.६१॥
भृगु-आदयः अपि जाताः वै मनोः वैवस्वतस्य तु ॥ अन्तरे ब्रह्मणः यज्ञे वारुणीम् बिभ्रतः तनुम् ॥ ७।१,१८।६१॥
bhṛgu-ādayaḥ api jātāḥ vai manoḥ vaivasvatasya tu .. antare brahmaṇaḥ yajñe vāruṇīm bibhrataḥ tanum .. 7.1,18.61..
तदा दक्षस्य धर्मार्थं यज्ञे तस्य दुरात्मनः ॥ महेशः कृतवान्विघ्नं मना ववस्वते सति ॥ ७.१,१८.६२॥
तदा दक्षस्य धर्म-अर्थम् यज्ञे तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नम् मनाः ववस्वते सति ॥ ७।१,१८।६२॥
tadā dakṣasya dharma-artham yajñe tasya durātmanaḥ .. maheśaḥ kṛtavān vighnam manāḥ vavasvate sati .. 7.1,18.62..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सतीदेहत्यागो नामाष्टादशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे सतीदेहत्यागः नाम अष्टादशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe satīdehatyāgaḥ nāma aṣṭādaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In