| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
कथं दक्षस्य धर्मार्थं प्रवृत्तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नमेतदिच्छाम वेदितुम् ॥ ७.१,१९.१॥
कथम् दक्षस्य धर्म-अर्थम् प्रवृत्तस्य दुरात्मनः ॥ महेशः कृतवान् विघ्नम् एतत् इच्छाम वेदितुम् ॥ ७।१,१९।१॥
katham dakṣasya dharma-artham pravṛttasya durātmanaḥ .. maheśaḥ kṛtavān vighnam etat icchāma veditum .. 7.1,19.1..
वायुरुवाच॥
विश्वस्य जगतो मातुरपि देव्यास्तपोबलात् ॥ पितृभावमुपागम्य मुदिते हिमवद्गिरौ ॥ ७.१,१९.२॥
विश्वस्य जगतः मातुः अपि देव्याः तपः-बलात् ॥ पितृ-भावम् उपागम्य मुदिते हिमवत्-गिरौ ॥ ७।१,१९।२॥
viśvasya jagataḥ mātuḥ api devyāḥ tapaḥ-balāt .. pitṛ-bhāvam upāgamya mudite himavat-girau .. 7.1,19.2..
देवे ऽपि तत्कृतोद्वाहे हिमवच्छिखरालये ॥ संकीडति तया सार्धं काले बहुतरे गते ॥ ७.१,१९.३॥
देवे अपि तद्-कृत-उद्वाहे हिमवत्-शिखर-आलये ॥ संकीडति तया सार्धम् काले बहुतरे गते ॥ ७।१,१९।३॥
deve api tad-kṛta-udvāhe himavat-śikhara-ālaye .. saṃkīḍati tayā sārdham kāle bahutare gate .. 7.1,19.3..
वैवस्वते ऽंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ अश्वमेधेन यज्ञेन यक्ष्यमाणो ऽन्वपद्यत ॥ ७.१,१९.४॥
वैवस्वते अंतरे प्राप्ते दक्षः प्राचेतसः स्वयम् ॥ अश्वमेधेन यज्ञेन यक्ष्यमाणः अन्वपद्यत ॥ ७।१,१९।४॥
vaivasvate aṃtare prāpte dakṣaḥ prācetasaḥ svayam .. aśvamedhena yajñena yakṣyamāṇaḥ anvapadyata .. 7.1,19.4..
ततो हिमवतः पृष्ठे दक्षो वै यज्ञमाहरत् ॥ गंगाद्वारे शुभे देशे ऋषिसिद्धनिषेविते ॥ ७.१,१९.५॥
ततस् हिमवतः पृष्ठे दक्षः वै यज्ञम् आहरत् ॥ गंगाद्वारे शुभे देशे ऋषि-सिद्ध-निषेविते ॥ ७।१,१९।५॥
tatas himavataḥ pṛṣṭhe dakṣaḥ vai yajñam āharat .. gaṃgādvāre śubhe deśe ṛṣi-siddha-niṣevite .. 7.1,19.5..
तस्य तस्मिन्मखेदेवाः सर्वे शक्र पुरोगमाः ॥ गमनाय समागम्य बुद्धिमापेदिरे तदा ॥ ७.१,१९.६॥
तस्य तस्मिन् मखे देवाः सर्वे शक्र पुरोगमाः ॥ गमनाय समागम्य बुद्धिम् आपेदिरे तदा ॥ ७।१,१९।६॥
tasya tasmin makhe devāḥ sarve śakra purogamāḥ .. gamanāya samāgamya buddhim āpedire tadā .. 7.1,19.6..
आदित्या वसवो रुद्रास्साध्यास्सह मरुद्गणैः ॥ ऊष्मपाः सोमपाश्चैव आज्यपा धूमपास्तथा ॥ ७.१,१९.७॥
आदित्याः वसवः रुद्राः साध्याः सह मरुत्-गणैः ॥ ऊष्मपाः सोमपाः च एव आज्यपाः धूमपाः तथा ॥ ७।१,१९।७॥
ādityāḥ vasavaḥ rudrāḥ sādhyāḥ saha marut-gaṇaiḥ .. ūṣmapāḥ somapāḥ ca eva ājyapāḥ dhūmapāḥ tathā .. 7.1,19.7..
अश्विनौ पितरश्चैव तथा चान्ये महर्षयः ॥ विष्णुना सहिताः सर्वे स्वागता यज्ञभागिनः ॥ ७.१,१९.८॥
अश्विनौ पितरः च एव तथा च अन्ये महा-ऋषयः ॥ विष्णुना सहिताः सर्वे स्वागताः यज्ञ-भागिनः ॥ ७।१,१९।८॥
aśvinau pitaraḥ ca eva tathā ca anye mahā-ṛṣayaḥ .. viṣṇunā sahitāḥ sarve svāgatāḥ yajña-bhāginaḥ .. 7.1,19.8..
दृष्ट्वा देवकुलं सर्वमीश्वरेण विनागतम् ॥ दधीचो मन्युनाविष्टो दक्षमेवमभाषत ॥ ७.१,१९.९॥
दृष्ट्वा देवकुलम् सर्वम् ईश्वरेण विना आगतम् ॥ दधीचः मन्युना आविष्टः दक्षम् एवम् अभाषत ॥ ७।१,१९।९॥
dṛṣṭvā devakulam sarvam īśvareṇa vinā āgatam .. dadhīcaḥ manyunā āviṣṭaḥ dakṣam evam abhāṣata .. 7.1,19.9..
दधीच उवाच॥
अप्रपूज्ये चैव पूजा पूज्यानां चाप्य पूजने ॥ नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ ७.१,१९.१०॥
अ प्रपूज्ये च एव पूजा पूज्यानाम् च अपि अ पूजने ॥ नरः पापम् अवाप्नोति महत् वै न अत्र संशयः ॥ ७।१,१९।१०॥
a prapūjye ca eva pūjā pūjyānām ca api a pūjane .. naraḥ pāpam avāpnoti mahat vai na atra saṃśayaḥ .. 7.1,19.10..
असतां संमतिर्यत्र सतामवमतिस्तथा ॥ दंडो देवकृतस्तत्र सद्यः पतति दारुणः ॥ ७.१,१९.११॥
असताम् संमतिः यत्र सताम् अवमतिः तथा ॥ दंडः देव-कृतः तत्र सद्यस् पतति दारुणः ॥ ७।१,१९।११॥
asatām saṃmatiḥ yatra satām avamatiḥ tathā .. daṃḍaḥ deva-kṛtaḥ tatra sadyas patati dāruṇaḥ .. 7.1,19.11..
एवमुक्त्वा तु विप्रर्षिः पुनर्दक्षमभाषत ॥ पूज्यं तु पशुभर्तारं कस्मान्नार्चयसे प्रभुम् ॥ ७.१,१९.१२॥
एवम् उक्त्वा तु विप्रर्षिः पुनर् दक्षम् अभाषत ॥ पूज्यम् तु पशुभर्तारम् कस्मात् ना अर्चयसे प्रभुम् ॥ ७।१,१९।१२॥
evam uktvā tu viprarṣiḥ punar dakṣam abhāṣata .. pūjyam tu paśubhartāram kasmāt nā arcayase prabhum .. 7.1,19.12..
दक्ष उवाच॥
संति मे बहवो रुद्राः शूलहस्ताः कपर्दिनः ॥ एकादशावस्थिता ये नान्यं वेद्मि महेश्वरम् ॥ ७.१,१९.१३॥
संति मे बहवः रुद्राः शूल-हस्ताः कपर्दिनः ॥ एकादशा अवस्थिताः ये न अन्यम् वेद्मि महेश्वरम् ॥ ७।१,१९।१३॥
saṃti me bahavaḥ rudrāḥ śūla-hastāḥ kapardinaḥ .. ekādaśā avasthitāḥ ye na anyam vedmi maheśvaram .. 7.1,19.13..
दधीच उवाच॥
किमेभिरमरैरन्यैः पूजितैरध्वरे फलम् ॥ राजा चेदध्वरस्यास्य न रुद्रः पूज्यते त्वया ॥ ७.१,१९.१४॥
किम् एभिः अमरैः अन्यैः पूजितैः अध्वरे फलम् ॥ राजा चेद् अध्वरस्य अस्य न रुद्रः पूज्यते त्वया ॥ ७।१,१९।१४॥
kim ebhiḥ amaraiḥ anyaiḥ pūjitaiḥ adhvare phalam .. rājā ced adhvarasya asya na rudraḥ pūjyate tvayā .. 7.1,19.14..
ब्रह्मविष्णुमहेशानां स्रष्टा यः प्रभुरव्ययः ॥ ब्रह्मादयः पिशाचांता यस्य कैंकर्यवादिनः ॥ ७.१,१९.१५॥
ब्रह्म-विष्णु-महेशानाम् स्रष्टा यः प्रभुः अव्ययः ॥ ब्रह्म-आदयः पिशाच-अंताः यस्य कैंकर्य-वादिनः ॥ ७।१,१९।१५॥
brahma-viṣṇu-maheśānām sraṣṭā yaḥ prabhuḥ avyayaḥ .. brahma-ādayaḥ piśāca-aṃtāḥ yasya kaiṃkarya-vādinaḥ .. 7.1,19.15..
प्रकृतीनां परश्चैव पुरुषस्य च यः परः ॥ चिंत्यते योगविद्वद्भि ऋषिभिस्तत्त्वदर्शिभिः ॥ ७.१,१९.१६॥
प्रकृतीनाम् परः च एव पुरुषस्य च यः परः ॥ चिंत्यते ऋषिभिः तत्त्व-दर्शिभिः ॥ ७।१,१९।१६॥
prakṛtīnām paraḥ ca eva puruṣasya ca yaḥ paraḥ .. ciṃtyate ṛṣibhiḥ tattva-darśibhiḥ .. 7.1,19.16..
अक्षरं परमं ब्रह्म ह्यसच्च सदसच्च यत् ॥ अनादिमध्यनिधनमप्रतर्क्यं सनातनम् ॥ ७.१,१९.१७॥
अक्षरम् परमम् ब्रह्म हि असत् च सत्-असत् च यत् ॥ अन् आदि-मध्य-निधनम् अप्रतर्क्यम् सनातनम् ॥ ७।१,१९।१७॥
akṣaram paramam brahma hi asat ca sat-asat ca yat .. an ādi-madhya-nidhanam apratarkyam sanātanam .. 7.1,19.17..
यः स्रष्टा चैव संहर्ता भर्ता चैव महेश्वरः ॥ तस्मादन्यं न पश्यामि शंकरात्मानमध्वरे ॥ ७.१,१९.१८॥
यः स्रष्टा च एव संहर्ता भर्ता च एव महेश्वरः ॥ तस्मात् अन्यम् न पश्यामि शंकर-आत्मानम् अध्वरे ॥ ७।१,१९।१८॥
yaḥ sraṣṭā ca eva saṃhartā bhartā ca eva maheśvaraḥ .. tasmāt anyam na paśyāmi śaṃkara-ātmānam adhvare .. 7.1,19.18..
दक्ष उवाच॥
एतन्मखेशस्य सुवर्णपात्रे हविः समस्तं विधिमंत्रपूतम् ॥ विष्णोर्नयाम्यप्रतिमस्य भागं प्रभोर्विभज्यावहनीयमद्य ॥ ७.१,१९.१९॥
एतत् मख-ईशस्य सुवर्ण-पात्रे हविः समस्तम् विधि-मंत्र-पूतम् ॥ विष्णोः नयामि अप्रतिमस्य भागम् प्रभोः विभज्य आवहनीयम् अद्य ॥ ७।१,१९।१९॥
etat makha-īśasya suvarṇa-pātre haviḥ samastam vidhi-maṃtra-pūtam .. viṣṇoḥ nayāmi apratimasya bhāgam prabhoḥ vibhajya āvahanīyam adya .. 7.1,19.19..
दधीच उवाच॥
यस्मान्नाराधितो रुद्रस्सर्वदेवेश्वरेश्वरः ॥ तस्माद्दक्ष तवाशेषो यज्ञो ऽयं न भविष्यति ॥ ७.१,१९.२०॥
यस्मात् न आराधितः रुद्रः सर्व-देव-ईश्वर-ईश्वरः ॥ तस्मात् दक्ष तव अशेषः यज्ञः अयम् न भविष्यति ॥ ७।१,१९।२०॥
yasmāt na ārādhitaḥ rudraḥ sarva-deva-īśvara-īśvaraḥ .. tasmāt dakṣa tava aśeṣaḥ yajñaḥ ayam na bhaviṣyati .. 7.1,19.20..
इत्युक्त्वा वचनं क्रुद्धो दधीचो मुनिसत्तमः ॥ निर्गम्य च ततो देशाज्जगाम स्वकमाश्रमम् ॥ ७.१,१९.२१॥
इति उक्त्वा वचनम् क्रुद्धः दधीचः मुनि-सत्तमः ॥ निर्गम्य च ततस् देशात् जगाम स्वकम् आश्रमम् ॥ ७।१,१९।२१॥
iti uktvā vacanam kruddhaḥ dadhīcaḥ muni-sattamaḥ .. nirgamya ca tatas deśāt jagāma svakam āśramam .. 7.1,19.21..
निर्गते ऽपि मुनौ तस्मिन्देवा दक्षं न तत्यजुः ॥ अवश्यमनुभावित्वादनर्थस्य तु भाविनः ॥ ७.१,१९.२२॥
निर्गते अपि मुनौ तस्मिन् देवाः दक्षम् न तत्यजुः ॥ अवश्यम् अनुभावि-त्वात् अनर्थस्य तु भाविनः ॥ ७।१,१९।२२॥
nirgate api munau tasmin devāḥ dakṣam na tatyajuḥ .. avaśyam anubhāvi-tvāt anarthasya tu bhāvinaḥ .. 7.1,19.22..
एतस्मिन्नेव काले तु ज्ञात्वैतत्सर्वमीश्वरात् ॥ दग्धुं दक्षाध्वरं विप्रा देवी देवमचोदयत् ॥ ७.१,१९.२३॥
एतस्मिन् एव काले तु ज्ञात्वा एतत् सर्वम् ईश्वरात् ॥ दग्धुम् दक्ष-अध्वरम् विप्राः देवी देवम् अचोदयत् ॥ ७।१,१९।२३॥
etasmin eva kāle tu jñātvā etat sarvam īśvarāt .. dagdhum dakṣa-adhvaram viprāḥ devī devam acodayat .. 7.1,19.23..
देव्या संचोदितो देवो दक्षाध्वरजिघांसया ॥ ससर्ज सहसा वीरं वीरभद्रं गणेश्वरम् ॥ ७.१,१९.२४॥
देव्या संचोदितः देवः दक्ष-अध्वर-जिघांसया ॥ ससर्ज सहसा वीरम् वीरभद्रम् गण-ईश्वरम् ॥ ७।१,१९।२४॥
devyā saṃcoditaḥ devaḥ dakṣa-adhvara-jighāṃsayā .. sasarja sahasā vīram vīrabhadram gaṇa-īśvaram .. 7.1,19.24..
सहस्रवदनं देवं सहस्रकमलेक्षणम् ॥ सहस्रमुद्गरधरं सहस्रशरपाणिकम् ॥ ७.१,१९.२५॥
सहस्र-वदनम् देवम् सहस्र-कमल-ईक्षणम् ॥ सहस्र-मुद्गर-धरम् सहस्र-शर-पाणिकम् ॥ ७।१,१९।२५॥
sahasra-vadanam devam sahasra-kamala-īkṣaṇam .. sahasra-mudgara-dharam sahasra-śara-pāṇikam .. 7.1,19.25..
शूलटंकगदाहस्तं दीप्तकार्मुकधारिणम् ॥ चक्रवज्रधरं घोरं चंद्रार्धकृतशेखरम् ॥ ७.१,१९.२६॥
शूल-टंक-गदा-हस्तम् दीप्त-कार्मुक-धारिणम् ॥ चक्र-वज्र-धरम् घोरम् चंद्र-अर्ध-कृत-शेखरम् ॥ ७।१,१९।२६॥
śūla-ṭaṃka-gadā-hastam dīpta-kārmuka-dhāriṇam .. cakra-vajra-dharam ghoram caṃdra-ardha-kṛta-śekharam .. 7.1,19.26..
कुलिशोद्योतितकरं तडिज्ज्वलितमूर्धजम् ॥ दंष्ट्राकरालं बिभ्राणं महावक्त्रं महोदरम् ॥ ७.१,१९.२७॥
कुलिश-उद्योतित-करम् तडित्-ज्वलित-मूर्धजम् ॥ दंष्ट्रा-करालम् बिभ्राणम् महा-वक्त्रम् महा-उदरम् ॥ ७।१,१९।२७॥
kuliśa-udyotita-karam taḍit-jvalita-mūrdhajam .. daṃṣṭrā-karālam bibhrāṇam mahā-vaktram mahā-udaram .. 7.1,19.27..
विद्युज्जिह्वं प्रलंबोष्ठं मेघसागरनिःस्वनम् ॥ वसानं चर्म वैयाघ्रं महद्रुधिरनिस्रवम् ॥ ७.१,१९.२८॥
विद्युत्-जिह्वम् प्रलंब-उष्ठम् मेघ-सागर-निःस्वनम् ॥ वसानम् चर्म वैयाघ्रम् महत् रुधिर-निस्रवम् ॥ ७।१,१९।२८॥
vidyut-jihvam pralaṃba-uṣṭham megha-sāgara-niḥsvanam .. vasānam carma vaiyāghram mahat rudhira-nisravam .. 7.1,19.28..
गण्डद्वितयसंसृष्टमण्डलीकृतकुण्डलम् ॥ वरामरशिरोमालावलीकलितशेखरम् ॥ ७.१,१९.२९॥
गण्ड-द्वितय-संसृष्ट-मण्डलीकृत-कुण्डलम् ॥ वर-अमर-शिरः-माला-आवली-कलित-शेखरम् ॥ ७।१,१९।२९॥
gaṇḍa-dvitaya-saṃsṛṣṭa-maṇḍalīkṛta-kuṇḍalam .. vara-amara-śiraḥ-mālā-āvalī-kalita-śekharam .. 7.1,19.29..
रणन्नूपुरकेयूरमहाकनकभूषितम् ॥ रत्नसंचयसंदीप्तं तारहारावृतोरसम् ॥ ७.१,१९.३०॥
रणत्-नूपुर-केयूर-महा-कनक-भूषितम् ॥ रत्न-संचय-संदीप्तम् तार-हार-आवृत-उरसम् ॥ ७।१,१९।३०॥
raṇat-nūpura-keyūra-mahā-kanaka-bhūṣitam .. ratna-saṃcaya-saṃdīptam tāra-hāra-āvṛta-urasam .. 7.1,19.30..
महाशरभशार्दूलसिंहैः सदृशविक्रमम् ॥ प्रशस्तमत्तमातंगसमानगमनालसम् ॥ ७.१,१९.३१॥
महा-शरभ-शार्दूल-सिंहैः सदृश-विक्रमम् ॥ प्रशस्त-मत्त-मातंग-समान-गमन-अलसम् ॥ ७।१,१९।३१॥
mahā-śarabha-śārdūla-siṃhaiḥ sadṛśa-vikramam .. praśasta-matta-mātaṃga-samāna-gamana-alasam .. 7.1,19.31..
शंखचामरकुंदेन्दुमृणालसदृशप्रभम् ॥ सतुषारमिवाद्रीन्द्रं साक्षाज्जंगमतां गतम् ॥ ७.१,१९.३२॥
शंख-चामर-कुंद-इन्दु-मृणाल-सदृश-प्रभम् ॥ स तुषारम् इव अद्रि-इन्द्रम् साक्षात् जंगम-ताम् गतम् ॥ ७।१,१९।३२॥
śaṃkha-cāmara-kuṃda-indu-mṛṇāla-sadṛśa-prabham .. sa tuṣāram iva adri-indram sākṣāt jaṃgama-tām gatam .. 7.1,19.32..
ज्वालामालापरिक्षिप्तं दीप्तमौक्तिकभूषणम् ॥ तेजसा चैव दीव्यंतं युगांत इव पावकम् ॥ ७.१,१९.३३॥
ज्वाला-माला-परिक्षिप्तम् दीप्त-मौक्तिक-भूषणम् ॥ तेजसा च एव दीव्यंतम् युगांते इव पावकम् ॥ ७।१,१९।३३॥
jvālā-mālā-parikṣiptam dīpta-mauktika-bhūṣaṇam .. tejasā ca eva dīvyaṃtam yugāṃte iva pāvakam .. 7.1,19.33..
स जानुभ्यां महीं गत्वा प्रणतः प्रांजलिस्ततः ॥ पार्श्वतो देवदेवस्य पर्यतिष्ठद्गणेश्वरः ॥ ७.१,१९.३४॥
स जानुभ्याम् महीम् गत्वा प्रणतः प्रांजलिः ततस् ॥ पार्श्वतस् देवदेवस्य पर्यतिष्ठत् गणेश्वरः ॥ ७।१,१९।३४॥
sa jānubhyām mahīm gatvā praṇataḥ prāṃjaliḥ tatas .. pārśvatas devadevasya paryatiṣṭhat gaṇeśvaraḥ .. 7.1,19.34..
मन्युना चासृजद्भद्रां भद्रकालीं महेश्वरीम् ॥ आत्मनः कर्मसाक्षित्वे तेन गंतुं सहैव तु ॥ ७.१,१९.३५॥
मन्युना च असृजत् भद्राम् भद्रकालीम् महेश्वरीम् ॥ आत्मनः कर्म-साक्षि-त्वे तेन गंतुम् सह एव तु ॥ ७।१,१९।३५॥
manyunā ca asṛjat bhadrām bhadrakālīm maheśvarīm .. ātmanaḥ karma-sākṣi-tve tena gaṃtum saha eva tu .. 7.1,19.35..
तं दृष्ट्वावस्थितं वीरभद्रं कालाग्निसन्निभम् ॥ भद्रया सहितं प्राह भद्रमस्त्विति शंकरः ॥ ७.१,१९.३६॥
तम् दृष्ट्वा अवस्थितम् वीरभद्रम् कालाग्नि-सन्निभम् ॥ भद्रया सहितम् प्राह भद्रम् अस्तु इति शंकरः ॥ ७।१,१९।३६॥
tam dṛṣṭvā avasthitam vīrabhadram kālāgni-sannibham .. bhadrayā sahitam prāha bhadram astu iti śaṃkaraḥ .. 7.1,19.36..
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ आज्ञापय महादेव किं कार्यं करवाण्यहम् ॥ ७.१,१९.३७॥
स च विज्ञापयामास सह देव्या महेश्वरम् ॥ आज्ञापय महादेव किम् कार्यम् करवाणि अहम् ॥ ७।१,१९।३७॥
sa ca vijñāpayāmāsa saha devyā maheśvaram .. ājñāpaya mahādeva kim kāryam karavāṇi aham .. 7.1,19.37..
ततस्त्रिपुरहा प्राह हैमवत्याः प्रियेच्छया ॥ वीरभद्रं महाबाहुं वाचा विपुलनादया ॥ ७.१,१९.३८॥
ततस् त्रिपुर-हा प्राह हैमवत्याः प्रिय-इच्छया ॥ वीरभद्रम् महा-बाहुम् वाचा विपुल-नादया ॥ ७।१,१९।३८॥
tatas tripura-hā prāha haimavatyāḥ priya-icchayā .. vīrabhadram mahā-bāhum vācā vipula-nādayā .. 7.1,19.38..
देवदेव उवाच॥
प्राचेतसस्य दक्षस्य यज्ञं सद्यो विनाशय ॥ भद्रकाल्या सहासि त्वमेतत्कृत्यं गणेश्वर ॥ ७.१,१९.३९॥
प्राचेतसस्य दक्षस्य यज्ञम् सद्यस् विनाशय ॥ भद्रकाल्या सह असि त्वम् एतत् कृत्यम् गणेश्वर ॥ ७।१,१९।३९॥
prācetasasya dakṣasya yajñam sadyas vināśaya .. bhadrakālyā saha asi tvam etat kṛtyam gaṇeśvara .. 7.1,19.39..
अहमप्यनया सार्धं रैभ्याश्रमसपीपतः ॥ स्थित्वा वीक्षे गणेशान विक्रमं तव दुःसहम् ॥ ७.१,१९.४०॥
अहम् अपि अनया सार्धम् रैभ्य-आश्रम-सपीपतः ॥ स्थित्वा वीक्षे गणेशान विक्रमम् तव दुःसहम् ॥ ७।१,१९।४०॥
aham api anayā sārdham raibhya-āśrama-sapīpataḥ .. sthitvā vīkṣe gaṇeśāna vikramam tava duḥsaham .. 7.1,19.40..
वृक्षा कनखले ये तु गंगाद्वारसमीपगाः ॥ सुवर्णशृंगस्य गिरेर्मेरुमंदरसंनिभाः ॥ ७.१,१९.४१॥
कन-खले ये तु गंगाद्वार-समीप-गाः ॥ सुवर्ण-शृंगस्य गिरेः मेरु-मंदर-संनिभाः ॥ ७।१,१९।४१॥
kana-khale ye tu gaṃgādvāra-samīpa-gāḥ .. suvarṇa-śṛṃgasya gireḥ meru-maṃdara-saṃnibhāḥ .. 7.1,19.41..
तस्मिन्प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ सहसा तस्य यज्ञस्य विघातं कुरु मा चिरम् ॥ ७.१,१९.४२॥
तस्मिन् प्रदेशे दक्षस्य युज्ञः संप्रति वर्तते ॥ सहसा तस्य यज्ञस्य विघातम् कुरु मा चिरम् ॥ ७।१,१९।४२॥
tasmin pradeśe dakṣasya yujñaḥ saṃprati vartate .. sahasā tasya yajñasya vighātam kuru mā ciram .. 7.1,19.42..
इत्युक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ भद्रं भद्रं च संप्रेक्ष्य वत्सं धेनुरिवौरसम् ॥ ७.१,१९.४३॥
इति उक्ते सति देवेन देवी हिमगिरीन्द्रजा ॥ भद्रम् भद्रम् च संप्रेक्ष्य वत्सम् धेनुः इव औरसम् ॥ ७।१,१९।४३॥
iti ukte sati devena devī himagirīndrajā .. bhadram bhadram ca saṃprekṣya vatsam dhenuḥ iva aurasam .. 7.1,19.43..
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनं यथा ॥ सस्मिता वचनं प्राह मधुरं मधुरं स्वयम् ॥ ७.१,१९.४४॥
आलिंग्य च समाघ्राय मूर्ध्नि षड्वदनम् यथा ॥ स स्मिता वचनम् प्राह मधुरम् मधुरम् स्वयम् ॥ ७।१,१९।४४॥
āliṃgya ca samāghrāya mūrdhni ṣaḍvadanam yathā .. sa smitā vacanam prāha madhuram madhuram svayam .. 7.1,19.44..
देव्युवाच॥
वत्स भद्र महाभाग महाबलपराक्रम ॥ मत्प्रियार्थं त्वमुत्पन्नो मम मन्युं प्रमार्जक ॥ ७.१,१९.४५॥
वत्स भद्र महाभाग महा-बल-पराक्रम ॥ मद्-प्रिय-अर्थम् त्वम् उत्पन्नः मम मन्युम् प्रमार्जक ॥ ७।१,१९।४५॥
vatsa bhadra mahābhāga mahā-bala-parākrama .. mad-priya-artham tvam utpannaḥ mama manyum pramārjaka .. 7.1,19.45..
यज्ञेश्वरमनाहूय यज्ञकर्मरतो ऽभवत् ॥ दक्षं वैरेण तं तस्माद्भिंधि यज्ञं गणेश्वर ॥ ७.१,१९.४६॥
यज्ञेश्वरम् अन् आहूय यज्ञ-कर्म-रतः अभवत् ॥ दक्षम् वैरेण तम् तस्मात् भिन्धि यज्ञम् गणेश्वर ॥ ७।१,१९।४६॥
yajñeśvaram an āhūya yajña-karma-rataḥ abhavat .. dakṣam vaireṇa tam tasmāt bhindhi yajñam gaṇeśvara .. 7.1,19.46..
यज्ञलक्ष्मीमलक्ष्मीं त्वं भद्र कृत्वा ममाज्ञया ॥ यजमानं च तं हत्वा वत्स हिंसय भद्रया ॥ ७.१,१९.४७॥
यज्ञ-लक्ष्मीम् अलक्ष्मीम् त्वम् भद्र कृत्वा मम आज्ञया ॥ यजमानम् च तम् हत्वा वत्स हिंसय भद्रया ॥ ७।१,१९।४७॥
yajña-lakṣmīm alakṣmīm tvam bhadra kṛtvā mama ājñayā .. yajamānam ca tam hatvā vatsa hiṃsaya bhadrayā .. 7.1,19.47..
अशेषामिव तामाज्ञां शिवयोश्चित्रकृत्ययोः ॥ मूर्ध्नि कृत्वा नमस्कृत्य भद्रो गंतुं प्रचक्रमे ॥ ७.१,१९.४८॥
अशेषाम् इव ताम् आज्ञाम् शिवयोः चित्र-कृत्ययोः ॥ मूर्ध्नि कृत्वा नमस्कृत्य भद्रः गंतुम् प्रचक्रमे ॥ ७।१,१९।४८॥
aśeṣām iva tām ājñām śivayoḥ citra-kṛtyayoḥ .. mūrdhni kṛtvā namaskṛtya bhadraḥ gaṃtum pracakrame .. 7.1,19.48..
अथैष भगवान्क्रुद्धः प्रेतावासकृतालयः ॥ वीरभद्रो महादेवो देव्या मन्युप्रमार्जकः ॥ ७.१,१९.४९॥
अथा एष भगवान् क्रुद्धः प्रेत-आवास-कृत-आलयः ॥ ॥ ७।१,१९।४९॥
athā eṣa bhagavān kruddhaḥ preta-āvāsa-kṛta-ālayaḥ .. .. 7.1,19.49..
ससर्ज रोमकूपेभ्यो रोमजाख्यान्गणेश्वरान् ॥ दक्षिणाद्भुजदेशात्तु शतकोटिगविश्वरान् ॥ ७.१,१९.५०॥
ससर्ज रोमकूपेभ्यः रोमज-आख्यान् गण-ईश्वरान् ॥ दक्षिणात् भुज-देशात् तु शत-कोटि-ग-विश्वरान् ॥ ७।१,१९।५०॥
sasarja romakūpebhyaḥ romaja-ākhyān gaṇa-īśvarān .. dakṣiṇāt bhuja-deśāt tu śata-koṭi-ga-viśvarān .. 7.1,19.50..
पादात्तथोरुदेशाच्च पृष्ठात्पार्श्वान्मुखाद्गलात् ॥ गुह्याद्गुल्फाच्छिरोमध्यात्कंठादास्यात्तथोदरात् ॥ ७.१,१९.५१॥
पादात् तथा ऊरु-देशात् च पृष्ठात् पार्श्वात् मुखात् गलात् ॥ गुह्यात् गुल्फात् शिरः-मध्यात् कंठात् आस्यात् तथा उदरात् ॥ ७।१,१९।५१॥
pādāt tathā ūru-deśāt ca pṛṣṭhāt pārśvāt mukhāt galāt .. guhyāt gulphāt śiraḥ-madhyāt kaṃṭhāt āsyāt tathā udarāt .. 7.1,19.51..
तदा गणेश्वरैर्भद्रैर्भद्रतुल्यपराक्रमैः ॥ संछादितमभूत्सर्वं साकाशविवरं जगत् ॥ ७.१,१९.५२॥
तदा गणेश्वरैः भद्रैः भद्र-तुल्य-पराक्रमैः ॥ संछादितम् अभूत् सर्वम् स आकाश-विवरम् जगत् ॥ ७।१,१९।५२॥
tadā gaṇeśvaraiḥ bhadraiḥ bhadra-tulya-parākramaiḥ .. saṃchāditam abhūt sarvam sa ākāśa-vivaram jagat .. 7.1,19.52..
सर्वे सहस्रहस्तास्ते सहस्रायुधपाणयः ॥ रुद्रस्यानुचरास्सर्वे सर्वे रुद्रसमप्रभाः ॥ ७.१,१९.५३॥
सर्वे सहस्र-हस्ताः ते सहस्र-आयुध-पाणयः ॥ रुद्रस्य अनुचराः सर्वे सर्वे रुद्र-सम-प्रभाः ॥ ७।१,१९।५३॥
sarve sahasra-hastāḥ te sahasra-āyudha-pāṇayaḥ .. rudrasya anucarāḥ sarve sarve rudra-sama-prabhāḥ .. 7.1,19.53..
शूलशक्तिगदाहस्ताष्टंकोपलशिलाधराः ॥ कालाग्निरुद्रसदृशास्त्रिनेत्राश्च जटाधराः ॥ ७.१,१९.५४॥
शूल-शक्ति-गदा-हस्ताः टंक-उपल-शिला-धराः ॥ कालाग्नि-रुद्र-सदृशाः त्रि-नेत्राः च जटा-धराः ॥ ७।१,१९।५४॥
śūla-śakti-gadā-hastāḥ ṭaṃka-upala-śilā-dharāḥ .. kālāgni-rudra-sadṛśāḥ tri-netrāḥ ca jaṭā-dharāḥ .. 7.1,19.54..
निपेतुर्भृशमाकाशे शतशस्सिंहवाहनाः ॥ विनेदुश्च महानादाञ्जलदा इव भद्रजाः ॥ ७.१,१९.५५॥
निपेतुः भृशम् आकाशे शतशस् सिंहवाहनाः ॥ विनेदुः च महा-नादान् जलदाः इव भद्रजाः ॥ ७।१,१९।५५॥
nipetuḥ bhṛśam ākāśe śataśas siṃhavāhanāḥ .. vineduḥ ca mahā-nādān jaladāḥ iva bhadrajāḥ .. 7.1,19.55..
तैर्भद्रैर्भगवान्मद्रस्तथा परिवृतो बभौ ॥ कालानलशतैर्युक्तो यथांते कालभैरवः ॥ ७.१,१९.५६॥
तैः भद्रैः भगवान् मद्रः तथा परिवृतः बभौ ॥ काल-अनल-शतैः युक्तः यथा अंते कालभैरवः ॥ ७।१,१९।५६॥
taiḥ bhadraiḥ bhagavān madraḥ tathā parivṛtaḥ babhau .. kāla-anala-śataiḥ yuktaḥ yathā aṃte kālabhairavaḥ .. 7.1,19.56..
तेषां मध्ये समारुह्य वृषेंद्रं वृषभध्वजः ॥ जगाम भगवान्भद्रश्शुभमभ्रं यथा भवः ॥ ७.१,१९.५७॥
तेषाम् मध्ये समारुह्य वृष-इंद्रम् वृषभध्वजः ॥ जगाम भगवान् भद्रः शुभम् अभ्रम् यथा भवः ॥ ७।१,१९।५७॥
teṣām madhye samāruhya vṛṣa-iṃdram vṛṣabhadhvajaḥ .. jagāma bhagavān bhadraḥ śubham abhram yathā bhavaḥ .. 7.1,19.57..
तस्मिन्वृषभमारूढे भद्रे तु भसितप्रभः ॥ बभार मौक्तिकं छत्रं गृहीतसितचामरः ॥ ७.१,१९.५८॥
तस्मिन् वृषभम् आरूढे भद्रे तु भसित-प्रभः ॥ बभार मौक्तिकम् छत्रम् गृहीत-सित-चामरः ॥ ७।१,१९।५८॥
tasmin vṛṣabham ārūḍhe bhadre tu bhasita-prabhaḥ .. babhāra mauktikam chatram gṛhīta-sita-cāmaraḥ .. 7.1,19.58..
स तदा शुशुभे पार्श्वे भद्रस्य भसितप्रभः ॥ भगवानिव शैलेन्द्रः पार्श्वे विश्वजगद्गुरोः ॥ ७.१,१९.५९॥
स तदा शुशुभे पार्श्वे भद्रस्य भसित-प्रभः ॥ भगवान् इव शैल-इन्द्रः पार्श्वे विश्व-जगत्-गुरोः ॥ ७।१,१९।५९॥
sa tadā śuśubhe pārśve bhadrasya bhasita-prabhaḥ .. bhagavān iva śaila-indraḥ pārśve viśva-jagat-guroḥ .. 7.1,19.59..
सो ऽपि तेन बभौ भद्रः श्वेतचामरपाणिना ॥ बालसोमेन सौम्येन यथा शूलवरायुधः ॥ ७.१,१९.६०॥
सः अपि तेन बभौ भद्रः श्वेत-चामर-पाणिना ॥ बाल-सोमेन सौम्येन यथा शूल-वर-आयुधः ॥ ७।१,१९।६०॥
saḥ api tena babhau bhadraḥ śveta-cāmara-pāṇinā .. bāla-somena saumyena yathā śūla-vara-āyudhaḥ .. 7.1,19.60..
दध्मौ शंखं सितं भद्रं भद्रस्य पुरतः शुभम् ॥ भानुकंपो महातेजा हेमरत्नैरलंकृतः ॥ ७.१,१९.६१॥
दध्मौ शंखम् सितम् भद्रम् भद्रस्य पुरतस् शुभम् ॥ भानु-कंपः महा-तेजाः हेम-रत्नैः अलंकृतः ॥ ७।१,१९।६१॥
dadhmau śaṃkham sitam bhadram bhadrasya puratas śubham .. bhānu-kaṃpaḥ mahā-tejāḥ hema-ratnaiḥ alaṃkṛtaḥ .. 7.1,19.61..
देवदुंदुभयो नेदुर्दिव्यसंकुलनिःस्वनाः ॥ ववृषुश्शतशो मूर्ध्नि पुष्पवर्षं बलाहकाः ॥ ७.१,१९.६२॥
देव-दुंदुभयः नेदुः दिव्य-संकुल-निःस्वनाः ॥ ववृषुः शतशस् मूर्ध्नि पुष्प-वर्षम् बलाहकाः ॥ ७।१,१९।६२॥
deva-duṃdubhayaḥ neduḥ divya-saṃkula-niḥsvanāḥ .. vavṛṣuḥ śataśas mūrdhni puṣpa-varṣam balāhakāḥ .. 7.1,19.62..
फुल्लानां मधुगर्भाणां पुष्पाणां गंधबंधवः ॥ मार्गानुकूलसंवाहा वबुश्च पथि मारुताः ॥ ७.१,१९.६३॥
फुल्लानाम् मधु-गर्भाणाम् पुष्पाणाम् गंध-बंधवः ॥ मार्ग-अनुकूल-संवाहाः वबुः च पथि मारुताः ॥ ७।१,१९।६३॥
phullānām madhu-garbhāṇām puṣpāṇām gaṃdha-baṃdhavaḥ .. mārga-anukūla-saṃvāhāḥ vabuḥ ca pathi mārutāḥ .. 7.1,19.63..
ततो गणेश्वराः सर्वे मत्ता युद्धबलोद्धताः ॥ ननृतुर्मुमुदुर् एदुर्जहसुर्जगदुर्जगुः ॥ ७.१,१९.६४॥
ततस् गणेश्वराः सर्वे मत्ताः युद्ध-बल-उद्धताः ॥ ननृतुः मुमुदुः एदुः जहसुः जगदुः जगुः ॥ ७।१,१९।६४॥
tatas gaṇeśvarāḥ sarve mattāḥ yuddha-bala-uddhatāḥ .. nanṛtuḥ mumuduḥ eduḥ jahasuḥ jagaduḥ jaguḥ .. 7.1,19.64..
तदा भद्रगणांतःस्थो बभौ भद्रः स भद्रया ॥ यथा रुद्रगणांतः स्थस्त्र्यम्बकोंबिकया सह ॥ ७.१,१९.६५॥
तदा भद्र-गण-अंतःस्थः बभौ भद्रः स भद्रया ॥ यथा रुद्र-गण-अंतर् स्थः त्र्यम्बक-उंबिकया सह ॥ ७।१,१९।६५॥
tadā bhadra-gaṇa-aṃtaḥsthaḥ babhau bhadraḥ sa bhadrayā .. yathā rudra-gaṇa-aṃtar sthaḥ tryambaka-uṃbikayā saha .. 7.1,19.65..
तत्क्षणादेव दक्षस्य यज्ञवाटं रण्मयम् ॥ प्रविवेश महाबाहुर्वीरभद्रो महानुगः ॥ ७.१,१९.६६॥
तद्-क्षणात् एव दक्षस्य यज्ञ-वाटम् रण्मयम् ॥ प्रविवेश महा-बाहुः वीरभद्रः महा-अनुगः ॥ ७।१,१९।६६॥
tad-kṣaṇāt eva dakṣasya yajña-vāṭam raṇmayam .. praviveśa mahā-bāhuḥ vīrabhadraḥ mahā-anugaḥ .. 7.1,19.66..
ततस्तु दक्षप्रतिपादितस्य क्रतुप्रधानस्य गणप्रधानः ॥ प्रयोगभूमिं प्रविवेश भद्रो रुद्रो यथांते भुवनं दिधक्षुः ॥ ७.१,१९.६७॥
ततस् तु दक्ष-प्रतिपादितस्य क्रतु-प्रधानस्य गण-प्रधानः ॥ प्रयोग-भूमिम् प्रविवेश भद्रः रुद्रः यथा अंते भुवनम् दिधक्षुः ॥ ७।१,१९।६७॥
tatas tu dakṣa-pratipāditasya kratu-pradhānasya gaṇa-pradhānaḥ .. prayoga-bhūmim praviveśa bhadraḥ rudraḥ yathā aṃte bhuvanam didhakṣuḥ .. 7.1,19.67..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वीरभद्रोत्पत्तिवर्णनं नामैकोनविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे वीरभद्रोत्पत्तिवर्णनम् नाम एकोनविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe vīrabhadrotpattivarṇanam nāma ekonaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In