| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
पुरा कालेन महता कल्पेतीते पुनःपुनः ॥ अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्ठिकर्मणि ॥ ७.१,२.१॥
पुरा कालेन महता पुनर् पुनर् ॥ अस्मिन् उपस्थिते कल्पे प्रवृत्ते सृष्ठि-कर्मणि ॥ ७।१,२।१॥
purā kālena mahatā punar punar .. asmin upasthite kalpe pravṛtte sṛṣṭhi-karmaṇi .. 7.1,2.1..
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ॥ मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ ७.१,२.२॥
प्रतिष्ठितायाम् वार्तायाम् प्रबुद्धासु प्रजासु च ॥ मुनीनाम् षट्कुलीयानाम् ब्रुवताम् इतरेतरम् ॥ ७।१,२।२॥
pratiṣṭhitāyām vārtāyām prabuddhāsu prajāsu ca .. munīnām ṣaṭkulīyānām bruvatām itaretaram .. 7.1,2.2..
इदं परमिदं नेति विवादस्सुमहानभूत् ॥ परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ७.१,२.३॥
इदम् परम् इदम् न इति विवादः सु महान् अभूत् ॥ परस्य दुर्निरूप-त्वात् न जातः तत्र निश्चयः ॥ ७।१,२।३॥
idam param idam na iti vivādaḥ su mahān abhūt .. parasya durnirūpa-tvāt na jātaḥ tatra niścayaḥ .. 7.1,2.3..
ते ऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ॥ यत्रास्ते भगवान् ब्रह्मा स्तूयमानस्सुरासुरैः ॥ ७.१,२.४॥
ते अभिजग्मुः विधातारम् द्रष्टुम् ब्रह्माणम् अव्ययम् ॥ यत्र आस्ते भगवान् ब्रह्मा स्तूयमानः सुर-असुरैः ॥ ७।१,२।४॥
te abhijagmuḥ vidhātāram draṣṭum brahmāṇam avyayam .. yatra āste bhagavān brahmā stūyamānaḥ sura-asuraiḥ .. 7.1,2.4..
मेरुशृंगे शुभे रम्ये देवदानवसंकुले ॥ सिद्धचारणसंवादे यक्षगंधर्वसेविते ॥ ७.१,२.५॥
मेरु-शृंगे शुभे रम्ये देव-दानव-संकुले ॥ सिद्ध-चारण-संवादे यक्ष-गंधर्व-सेविते ॥ ७।१,२।५॥
meru-śṛṃge śubhe ramye deva-dānava-saṃkule .. siddha-cāraṇa-saṃvāde yakṣa-gaṃdharva-sevite .. 7.1,2.5..
विहंगसंघसंघुष्टे मणिविद्रुमभूषिते ॥ निकुंजकंदरदरीगृहानिर्झरशोभिते ॥ ७.१,२.६॥
विहंग-संघ-संघुष्टे मणि-विद्रुम-भूषिते ॥ निकुंज-कंदर-दरी-गृहा-निर्झर-शोभिते ॥ ७।१,२।६॥
vihaṃga-saṃgha-saṃghuṣṭe maṇi-vidruma-bhūṣite .. nikuṃja-kaṃdara-darī-gṛhā-nirjhara-śobhite .. 7.1,2.6..
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ॥ दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७.१,२.७॥
तत्र ब्रह्मवनम् नाम नाना मृग-समाकुलम् ॥ दश-योजन-विस्तीर्णम् शत-योजनम् आयतम् ॥ ७।१,२।७॥
tatra brahmavanam nāma nānā mṛga-samākulam .. daśa-yojana-vistīrṇam śata-yojanam āyatam .. 7.1,2.7..
सुरसामलपानीयपूर्णरम्यसरोवरम् ॥ मत्तभ्रमरसंछन्नरम्यपुष्पितपादपम् ॥ ७.१,२.८॥
सु रस-अमल-पानीय-पूर्ण-रम्य-सरोवरम् ॥ मत्त-भ्रमर-संछन्न-रम्य-पुष्पित-पादपम् ॥ ७।१,२।८॥
su rasa-amala-pānīya-pūrṇa-ramya-sarovaram .. matta-bhramara-saṃchanna-ramya-puṣpita-pādapam .. 7.1,2.8..
तरुणादित्यसंकाशं तत्र चारु महत्पुरम् ॥ दुर्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ७.१,२.९॥
तरुण-आदित्य-संकाशम् तत्र चारु महत् पुरम् ॥ दुर्धर्ष-बल-दृप्तानाम् दैत्य-दानव-रक्षसाम् ॥ ७।१,२।९॥
taruṇa-āditya-saṃkāśam tatra cāru mahat puram .. durdharṣa-bala-dṛptānām daitya-dānava-rakṣasām .. 7.1,2.9..
तप्तजांबूनदमयं प्रांशुप्राकारतोरणम् ॥ निर्व्यूहवलभीकूटप्रतोलीशतमंडितम् ॥ ७.१,२.१०॥
तप्त-जांबूनद-मयम् प्रांशु-प्राकार-तोरणम् ॥ निर्व्यूह-वलभी-कूट-प्रतोली-शत-मंडितम् ॥ ७।१,२।१०॥
tapta-jāṃbūnada-mayam prāṃśu-prākāra-toraṇam .. nirvyūha-valabhī-kūṭa-pratolī-śata-maṃḍitam .. 7.1,2.10..
महार्हमणिचित्राभिर्लेलिहानमिवांबरम् ॥ महाभवनकोटीभिरनेकाभिरलंकृतम् ॥ ७.१,२.११॥
महार्ह-मणि-चित्राभिः लेलिहानम् इव अंबरम् ॥ महा-भवन-कोटीभिः अनेकाभिः अलंकृतम् ॥ ७।१,२।११॥
mahārha-maṇi-citrābhiḥ lelihānam iva aṃbaram .. mahā-bhavana-koṭībhiḥ anekābhiḥ alaṃkṛtam .. 7.1,2.11..
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्धं प्रजापतिः ॥ तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ ७.१,२.१२॥
तस्मिन् निवसति ब्रह्मा सभ्यैः सार्धम् प्रजापतिः ॥ तत्र गत्वा महात्मानम् साक्षात् लोकपितामहम् ॥ ७।१,२।१२॥
tasmin nivasati brahmā sabhyaiḥ sārdham prajāpatiḥ .. tatra gatvā mahātmānam sākṣāt lokapitāmaham .. 7.1,2.12..
दद्दशुर्मुनयो देवा देवर्षिगणसेवितम् ॥ शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ ७.१,२.१३॥
दद्दशुः मुनयः देवाः देवर्षि-गण-सेवितम् ॥ शुद्ध-चामीकर-प्रख्यम् सर्व-आभरण-भूषितम् ॥ ७।१,२।१३॥
daddaśuḥ munayaḥ devāḥ devarṣi-gaṇa-sevitam .. śuddha-cāmīkara-prakhyam sarva-ābharaṇa-bhūṣitam .. 7.1,2.13..
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ॥ दिव्यकांतिसमायुक्तं दिव्यगंधानुलेपनम् ॥ ७.१,२.१४॥
प्रसन्न-वदनम् सौम्यम् पद्म-पत्र-आयत-ईक्षणम् ॥ दिव्य-कान्ति-समायुक्तम् दिव्य-गंध-अनुलेपनम् ॥ ७।१,२।१४॥
prasanna-vadanam saumyam padma-patra-āyata-īkṣaṇam .. divya-kānti-samāyuktam divya-gaṃdha-anulepanam .. 7.1,2.14..
दिव्यशुक्लांबरधरं दिव्यमालाविभूषितम् ॥ सुरासुरेन्द्रयोगींद्रवंद्यमानपदांबुजम् ॥ ७.१,२.१५॥
दिव्य-शुक्ल-अंबर-धरम् दिव्य-माला-विभूषितम् ॥ ॥ ७।१,२।१५॥
divya-śukla-aṃbara-dharam divya-mālā-vibhūṣitam .. .. 7.1,2.15..
सर्वलक्षणयुक्तांग्या लब्धचामरहस्तया ॥ भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ ७.१,२.१६॥
सर्व-लक्षण-युक्त-अंग्या लब्ध-चामर-हस्तया ॥ भ्राजमानम् सरस्वत्या प्रभया इव दिवाकरम् ॥ ७।१,२।१६॥
sarva-lakṣaṇa-yukta-aṃgyā labdha-cāmara-hastayā .. bhrājamānam sarasvatyā prabhayā iva divākaram .. 7.1,2.16..
तं दृष्ट्वा मुनयस्सर्वे प्रसन्नवदनेक्षणाः ॥ शिरस्यंजलिमाधाय तुष्टुवुस्सुरपुंगवम् ॥ ७.१,२.१७॥
तम् दृष्ट्वा मुनयः सर्वे प्रसन्न-वदन-ईक्षणाः ॥ शिरसि अंजलिम् आधाय तुष्टुवुः सुर-पुंगवम् ॥ ७।१,२।१७॥
tam dṛṣṭvā munayaḥ sarve prasanna-vadana-īkṣaṇāḥ .. śirasi aṃjalim ādhāya tuṣṭuvuḥ sura-puṃgavam .. 7.1,2.17..
मुनय ऊचुः॥
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यंतहेतवे ॥ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७.१,२.१८॥
नमः त्रिमूर्तये तुभ्यम् सर्ग-स्थिति-अंत-हेतवे ॥ पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ ७।१,२।१८॥
namaḥ trimūrtaye tubhyam sarga-sthiti-aṃta-hetave .. puruṣāya purāṇāya brahmaṇe paramātmane .. 7.1,2.18..
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ॥ त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ ७.१,२.१९॥
नमः प्रधान-देहाय प्रधान-क्षोभ-कारिणे ॥ त्रयोविंशति-भेदेन विकृताय अविकारिणे ॥ ७।१,२।१९॥
namaḥ pradhāna-dehāya pradhāna-kṣobha-kāriṇe .. trayoviṃśati-bhedena vikṛtāya avikāriṇe .. 7.1,2.19..
नमो ब्रह्माण्डदेहाय ब्रह्मांडोदरवर्तिने ॥ तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ ७.१,२.२०॥
नमः ब्रह्माण्ड-देहाय ब्रह्मांड-उदर-वर्तिने ॥ तत्र संसिद्ध-कार्याय संसिद्ध-करणाय च ॥ ७।१,२।२०॥
namaḥ brahmāṇḍa-dehāya brahmāṃḍa-udara-vartine .. tatra saṃsiddha-kāryāya saṃsiddha-karaṇāya ca .. 7.1,2.20..
नमोस्तु सर्वलोकाय सर्वलोकविधायिने ॥ सर्वात्मदेहसंयोग वियोगविधिहेतवे ॥ ७.१,२.२१॥
नमः अस्तु सर्व-लोकाय सर्व-लोक-विधायिने ॥ सर्व-आत्म-देह-संयोग-वियोग-विधि-हेतवे ॥ ७।१,२।२१॥
namaḥ astu sarva-lokāya sarva-loka-vidhāyine .. sarva-ātma-deha-saṃyoga-viyoga-vidhi-hetave .. 7.1,2.21..
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ॥ तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ ७.१,२.२२॥
त्वया एव निखिलम् सृष्टम् संहृतम् पालितम् जगत् ॥ तथा अपि मायया नाथ न विद्मः त्वाम् पितामह ॥ ७।१,२।२२॥
tvayā eva nikhilam sṛṣṭam saṃhṛtam pālitam jagat .. tathā api māyayā nātha na vidmaḥ tvām pitāmaha .. 7.1,2.22..
सूत उवाच॥
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन्निव ॥ ७.१,२.२३॥
एवम् ब्रह्मा महाभागैः महा-ऋषिभिः अभिष्टुतः ॥ प्राह गंभीरया वाचा मुनीन् प्रह्लादयन् इव ॥ ७।१,२।२३॥
evam brahmā mahābhāgaiḥ mahā-ṛṣibhiḥ abhiṣṭutaḥ .. prāha gaṃbhīrayā vācā munīn prahlādayan iva .. 7.1,2.23..
ब्रह्मोवाच॥
ऋषयो हे महाभागा महासत्त्वा महौजसः ॥ किमर्थं सहितास्सर्वे यूयमत्र समागताः ॥ ७.१,२.२४॥
ऋषयः हे महाभागाः महासत्त्वाः महा-ओजसः ॥ किमर्थम् सहिताः सर्वे यूयम् अत्र समागताः ॥ ७।१,२।२४॥
ṛṣayaḥ he mahābhāgāḥ mahāsattvāḥ mahā-ojasaḥ .. kimartham sahitāḥ sarve yūyam atra samāgatāḥ .. 7.1,2.24..
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ॥ वाग्भिर्विनयगर्भाभिस्सर्वे प्रांजलयो ऽब्रुवन् ॥ ७.१,२.२५॥
तम् एवम् वादिनम् देवम् ब्रह्माणम् ब्रह्म-वित्तमाः ॥ वाग्भिः विनय-गर्भाभिः सर्वे प्रांजलयः अब्रुवन् ॥ ७।१,२।२५॥
tam evam vādinam devam brahmāṇam brahma-vittamāḥ .. vāgbhiḥ vinaya-garbhābhiḥ sarve prāṃjalayaḥ abruvan .. 7.1,2.25..
मुनय ऊचुः॥
भगवन्नंधकारेण महता वयमावृताः ॥ खिन्ना विवदमानाश्च न पश्यामो ऽत्र यत्परम् ॥ ७.१,२.२६॥
भगवन् अंधकारेण महता वयम् आवृताः ॥ खिन्नाः विवदमानाः च न पश्यामः अत्र यत् परम् ॥ ७।१,२।२६॥
bhagavan aṃdhakāreṇa mahatā vayam āvṛtāḥ .. khinnāḥ vivadamānāḥ ca na paśyāmaḥ atra yat param .. 7.1,2.26..
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ॥ त्वया ह्यविदितं नाथ नेह किंचन विद्यते ॥ ७.१,२.२७॥
त्वम् हि सर्व-जगत्-धाता सर्व-कारण-कारणम् ॥ त्वया हि अ विदितम् नाथ न इह किंचन विद्यते ॥ ७।१,२।२७॥
tvam hi sarva-jagat-dhātā sarva-kāraṇa-kāraṇam .. tvayā hi a viditam nātha na iha kiṃcana vidyate .. 7.1,2.27..
कः पुमान् सर्वसत्त्वेभ्यः पुराणः पुरुषः परः ॥ विशुद्धः परिपूर्णश्च शाश्वतः परमेश्वरः ॥ ७.१,२.२८॥
कः पुमान् सर्व-सत्त्वेभ्यः पुराणः पुरुषः परः ॥ विशुद्धः परिपूर्णः च शाश्वतः परमेश्वरः ॥ ७।१,२।२८॥
kaḥ pumān sarva-sattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ .. viśuddhaḥ paripūrṇaḥ ca śāśvataḥ parameśvaraḥ .. 7.1,2.28..
केनैव चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ तत्त्वं वद महाप्राज्ञ स्वसंदेहापनुत्तये ॥ ७.१,२.२९॥
केन एव चित्र-कृत्येन प्रथमम् सृज्यते जगत् ॥ तत् त्वम् वद महा-प्राज्ञ स्व-संदेह-अपनुत्तये ॥ ७।१,२।२९॥
kena eva citra-kṛtyena prathamam sṛjyate jagat .. tat tvam vada mahā-prājña sva-saṃdeha-apanuttaye .. 7.1,2.29..
एवं पृष्टस्तदा ब्रह्मा विस्मयस्मेरवीक्षणः ॥ देवानां दानवानां च मुनीनामपि सन्निधौ ॥ ७.१,२.३०॥
एवम् पृष्टः तदा ब्रह्मा विस्मय-स्मेर-वीक्षणः ॥ देवानाम् दानवानाम् च मुनीनाम् अपि सन्निधौ ॥ ७।१,२।३०॥
evam pṛṣṭaḥ tadā brahmā vismaya-smera-vīkṣaṇaḥ .. devānām dānavānām ca munīnām api sannidhau .. 7.1,2.30..
उत्थाय सुचिरं ध्यात्वा रुद्र इत्युद्धरन् गिरिम् ॥ आनंदक्लिन्नसर्वांगः कृतांजलिरभाषत ॥ ७.१,२.३१॥
उत्थाय सु चिरम् ध्यात्वा रुद्रः इति उद्धरन् गिरिम् ॥ आनंद-क्लिन्न-सर्व-अंगः कृतांजलिः अभाषत ॥ ७।१,२।३१॥
utthāya su ciram dhyātvā rudraḥ iti uddharan girim .. ānaṃda-klinna-sarva-aṃgaḥ kṛtāṃjaliḥ abhāṣata .. 7.1,2.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं नाम द्वितीयो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे मुनिप्रस्ताववर्णनम् नाम द्वितीयः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe muniprastāvavarṇanam nāma dvitīyaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In