| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
ततो विष्णुप्रधानानां सुराणाममितौजसाम् ॥ ददर्श च महत्सत्रं चित्रध्वजपरिच्छदम् ॥ ७.१,२०.१॥
ततस् विष्णु-प्रधानानाम् सुराणाम् अमित-ओजसाम् ॥ ददर्श च महत् सत्रम् चित्र-ध्वज-परिच्छदम् ॥ ७।१,२०।१॥
tatas viṣṇu-pradhānānām surāṇām amita-ojasām .. dadarśa ca mahat satram citra-dhvaja-paricchadam .. 7.1,20.1..
सुदर्भऋतुसंस्तीर्णं सुसमिद्धहुताशनम् ॥ कांचनैर्यज्ञभांडैश्च भ्राजिष्णुभिरलंकृतम् ॥ ७.१,२०.२॥
सुदर्भ-ऋतु-संस्तीर्णम् सु समिद्ध-हुताशनम् ॥ कांचनैः यज्ञ-भांडैः च भ्राजिष्णुभिः अलंकृतम् ॥ ७।१,२०।२॥
sudarbha-ṛtu-saṃstīrṇam su samiddha-hutāśanam .. kāṃcanaiḥ yajña-bhāṃḍaiḥ ca bhrājiṣṇubhiḥ alaṃkṛtam .. 7.1,20.2..
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ॥ विधिना वेददृष्टेन स्वनुष्ठितबहुक्रमम् ॥ ७.१,२०.३॥
ऋषिभिः यज्ञ-पटुभिः यथावत् कर्म-कर्तृभिः ॥ विधिना वेद-दृष्टेन सु अनुष्ठित-बहु-क्रमम् ॥ ७।१,२०।३॥
ṛṣibhiḥ yajña-paṭubhiḥ yathāvat karma-kartṛbhiḥ .. vidhinā veda-dṛṣṭena su anuṣṭhita-bahu-kramam .. 7.1,20.3..
देवांगनासहस्राढ्यमप्सरोगणसेवितम् ॥ वेणुवीणारवैर्जुष्टं वेदघोषैश्च बृंहितम् ॥ ७.१,२०.४॥
देव-अंगना-सहस्र-आढ्यम् अप्सरः-गण-सेवितम् ॥ वेणु-वीणा-रवैः जुष्टम् वेद-घोषैः च बृंहितम् ॥ ७।१,२०।४॥
deva-aṃganā-sahasra-āḍhyam apsaraḥ-gaṇa-sevitam .. veṇu-vīṇā-ravaiḥ juṣṭam veda-ghoṣaiḥ ca bṛṃhitam .. 7.1,20.4..
दृष्ट्वा दक्षाध्वरे वीरो वीरभद्रः प्रतापवान् ॥ सिंहनादं तदा चक्रे गंभीरो जलदो यथा ॥ ७.१,२०.५॥
दृष्ट्वा दक्ष-अध्वरे वीरः वीरभद्रः प्रतापवान् ॥ सिंह-नादम् तदा चक्रे गंभीरः जलदः यथा ॥ ७।१,२०।५॥
dṛṣṭvā dakṣa-adhvare vīraḥ vīrabhadraḥ pratāpavān .. siṃha-nādam tadā cakre gaṃbhīraḥ jaladaḥ yathā .. 7.1,20.5..
ततः किलकिलाशब्द आकाशं पूरयन्निव ॥ गणेश्वरैः कृतो जज्ञे महान्न्यक्कृतसागरः ॥ ७.१,२०.६॥
ततस् किलकिला-शब्दः आकाशम् पूरयन् इव ॥ गणेश्वरैः कृतः जज्ञे महान् न्यक्कृत-सागरः ॥ ७।१,२०।६॥
tatas kilakilā-śabdaḥ ākāśam pūrayan iva .. gaṇeśvaraiḥ kṛtaḥ jajñe mahān nyakkṛta-sāgaraḥ .. 7.1,20.6..
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ दुद्रुवुः परितो भीताः स्रस्तवस्त्रविभूषणाः ॥ ७.१,२०.७॥
तेन शब्देन महताः ग्रस्ता सर्वेदिवौकसः ॥ दुद्रुवुः परितस् भीताः स्रस्त-वस्त्र-विभूषणाः ॥ ७।१,२०।७॥
tena śabdena mahatāḥ grastā sarvedivaukasaḥ .. dudruvuḥ paritas bhītāḥ srasta-vastra-vibhūṣaṇāḥ .. 7.1,20.7..
किंस्विद्भग्नो महामेरुः किंस्वित्संदीर्यते मही ॥ किमिदं किमिदं वेति जजल्पुस्त्रिदशा भृशम् ॥ ७.१,२०.८॥
किम् स्विद् भग्नः महा-मेरुः किम् स्विद् संदीर्यते मही ॥ किम् इदम् किम् इदम् वा इति जजल्पुः त्रिदशाः भृशम् ॥ ७।१,२०।८॥
kim svid bhagnaḥ mahā-meruḥ kim svid saṃdīryate mahī .. kim idam kim idam vā iti jajalpuḥ tridaśāḥ bhṛśam .. 7.1,20.8..
मृगेन्द्राणां यथा नादं गजेंद्रा गहने वने ॥ श्रुत्वा तथाविधं केचित्तत्यजुर्जीवितं भयात् ॥ ७.१,२०.९॥
मृग-इन्द्राणाम् यथा नादम् गज-इंद्राः गहने वने ॥ श्रुत्वा तथाविधम् केचिद् तत्यजुः जीवितम् भयात् ॥ ७।१,२०।९॥
mṛga-indrāṇām yathā nādam gaja-iṃdrāḥ gahane vane .. śrutvā tathāvidham kecid tatyajuḥ jīvitam bhayāt .. 7.1,20.9..
पर्वताश्च व्यशीर्यंत चकम्पे च वसुंधरा ॥ मरुतश्च व्यघूर्णंत चुक्षुभे मकरालयः ॥ ७.१,२०.१०॥
पर्वताः च व्यशीर्यंत चकम्पे च वसुंधरा ॥ मरुतः च व्यघूर्णन्त चुक्षुभे मकर-आलयः ॥ ७।१,२०।१०॥
parvatāḥ ca vyaśīryaṃta cakampe ca vasuṃdharā .. marutaḥ ca vyaghūrṇanta cukṣubhe makara-ālayaḥ .. 7.1,20.10..
अग्नयो नैव दीप्यंते न च दीप्यति भास्करः ॥ ग्रहाश्च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७.१,२०.११॥
अग्नयः न एव दीप्यंते न च दीप्यति भास्करः ॥ ग्रहाः च न प्रकाशंते नक्षत्राणि च तारकाः ॥ ७।१,२०।११॥
agnayaḥ na eva dīpyaṃte na ca dīpyati bhāskaraḥ .. grahāḥ ca na prakāśaṃte nakṣatrāṇi ca tārakāḥ .. 7.1,20.11..
एतस्मिन्नेव काले तु यज्ञवाटं तदुज्ज्वलम् ॥ संप्राप भगवान्भद्रो भद्रैश्च सह भद्रया ॥ ७.१,२०.१२॥
एतस्मिन् एव काले तु यज्ञ-वाटम् तत् उज्ज्वलम् ॥ संप्राप भगवान् भद्रः भद्रैः च सह भद्रया ॥ ७।१,२०।१२॥
etasmin eva kāle tu yajña-vāṭam tat ujjvalam .. saṃprāpa bhagavān bhadraḥ bhadraiḥ ca saha bhadrayā .. 7.1,20.12..
तं दृष्ट्वा भीतभीतो ऽपि दक्षो दृढ इव स्थितः ॥ क्रुद्धवद्वचनं प्राह को भवान् किमिहेच्छसि ॥ ७.१,२०.१३॥
तम् दृष्ट्वा भीत-भीतः अपि दक्षः दृढः इव स्थितः ॥ क्रुद्ध-वत् वचनम् प्राह कः भवान् किम् इह इच्छसि ॥ ७।१,२०।१३॥
tam dṛṣṭvā bhīta-bhītaḥ api dakṣaḥ dṛḍhaḥ iva sthitaḥ .. kruddha-vat vacanam prāha kaḥ bhavān kim iha icchasi .. 7.1,20.13..
तस्य तद्वचनं श्रुत्वा दक्षस्य च दुरात्मनः ॥ वीरभद्रो महातेजा मेघसंभीरनिस्स्वनः ॥ ७.१,२०.१४॥
तस्य तत् वचनम् श्रुत्वा दक्षस्य च दुरात्मनः ॥ वीरभद्रः महा-तेजाः मेघ-संभीर-निस्स्वनः ॥ ७।१,२०।१४॥
tasya tat vacanam śrutvā dakṣasya ca durātmanaḥ .. vīrabhadraḥ mahā-tejāḥ megha-saṃbhīra-nissvanaḥ .. 7.1,20.14..
स्मयन्निव तमालोक्य दक्षं देवाश्च ऋत्विजः ॥ अर्थगर्भमसंभ्रान्तमवोचदुचितं वचः ॥ ७.१,२०.१५॥
स्मयन् इव तम् आलोक्य दक्षम् देवाः च ऋत्विजः ॥ अर्थ-गर्भम् असंभ्रान्तम् अवोचत् उचितम् वचः ॥ ७।१,२०।१५॥
smayan iva tam ālokya dakṣam devāḥ ca ṛtvijaḥ .. artha-garbham asaṃbhrāntam avocat ucitam vacaḥ .. 7.1,20.15..
वीरभद्र उवाच॥
वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः ॥ भागाभिलिप्सया प्राप्ता भागो नस्संप्रदीयताम् ॥ ७.१,२०.१६॥
वयम् हि अनुचराः सर्वे शर्वस्य अमित-तेजसः ॥ भाग-अभिलिप्सया प्राप्ताः भागः नः संप्रदीयताम् ॥ ७।१,२०।१६॥
vayam hi anucarāḥ sarve śarvasya amita-tejasaḥ .. bhāga-abhilipsayā prāptāḥ bhāgaḥ naḥ saṃpradīyatām .. 7.1,20.16..
अथ चेदध्वरे ऽस्माकं न भागः परिकल्पितः ॥ कथ्यतां कारणं तत्र युध्यतां वा मयामरैः ॥ ७.१,२०.१७॥
अथ चेद् अध्वरे अस्माकम् न भागः परिकल्पितः ॥ कथ्यताम् कारणम् तत्र युध्यताम् वा मया अमरैः ॥ ७।१,२०।१७॥
atha ced adhvare asmākam na bhāgaḥ parikalpitaḥ .. kathyatām kāraṇam tatra yudhyatām vā mayā amaraiḥ .. 7.1,20.17..
इत्युक्तास्ते गणेंद्रेण देवा दक्षपुरोगमाः ॥ ऊचुर्मन्त्राः प्रमाणं नो न वयं प्रभवस्त्विति ॥ ७.१,२०.१८॥
इति उक्ताः ते गणेंद्रेण देवाः दक्ष-पुरोगमाः ॥ ऊचुः मन्त्राः प्रमाणम् नः न वयम् प्रभवः तु इति ॥ ७।१,२०।१८॥
iti uktāḥ te gaṇeṃdreṇa devāḥ dakṣa-purogamāḥ .. ūcuḥ mantrāḥ pramāṇam naḥ na vayam prabhavaḥ tu iti .. 7.1,20.18..
मन्त्रा ऊचुस्सुरा यूयं मोहोपहतचेतसः ॥ येन प्रथमभागार्हं न यजध्वं महेश्वरम् ॥ ७.१,२०.१९॥
मन्त्राः ऊचुः सुराः यूयम् मोह-उपहत-चेतसः ॥ येन प्रथम-भाग-अर्हम् न यजध्वम् महेश्वरम् ॥ ७।१,२०।१९॥
mantrāḥ ūcuḥ surāḥ yūyam moha-upahata-cetasaḥ .. yena prathama-bhāga-arham na yajadhvam maheśvaram .. 7.1,20.19..
मंत्रोक्ता अपि ते देवाः सर्वे संमूढचेतसः ॥ भद्राय न ददुर्भागं तत्प्रहाणमभीप्सवः ॥ ७.१,२०.२०॥
मंत्र-उक्ताः अपि ते देवाः सर्वे संमूढ-चेतसः ॥ भद्राय न ददुः भागम् तद्-प्रहाणम् अभीप्सवः ॥ ७।१,२०।२०॥
maṃtra-uktāḥ api te devāḥ sarve saṃmūḍha-cetasaḥ .. bhadrāya na daduḥ bhāgam tad-prahāṇam abhīpsavaḥ .. 7.1,20.20..
यदा तथ्यं च पथ्यं च स्ववाक्यं तद्वृथा ऽभवत् ॥ तदा ततो ययुर्मंदा ब्रह्मलोकं सनातनम् ॥ ७.१,२०.२१॥
यदा तथ्यम् च पथ्यम् च स्व-वाक्यम् तत् वृथा अभवत् ॥ तदा ततस् ययुः मंदाः ब्रह्म-लोकम् सनातनम् ॥ ७।१,२०।२१॥
yadā tathyam ca pathyam ca sva-vākyam tat vṛthā abhavat .. tadā tatas yayuḥ maṃdāḥ brahma-lokam sanātanam .. 7.1,20.21..
अथोवाच गणाध्यक्षो देवान्विष्णुपुरोगमान् ॥ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः ॥ ७.१,२०.२२॥
अथा उवाच गणाध्यक्षः देवान् विष्णु-पुरोगमान् ॥ मन्त्राः प्रमाणम् न कृताः युष्माभिः बल-गर्वितैः ॥ ७।१,२०।२२॥
athā uvāca gaṇādhyakṣaḥ devān viṣṇu-purogamān .. mantrāḥ pramāṇam na kṛtāḥ yuṣmābhiḥ bala-garvitaiḥ .. 7.1,20.22..
यस्मादस्मिन्मखे देवैरित्थं वयमसत्कृताः ॥ तस्माद्वो जीवितैस्सार्धमपनेष्यामि गर्वितम् ॥ ७.१,२०.२३॥
यस्मात् अस्मिन् मखे देवैः इत्थम् वयम् असत्कृताः ॥ तस्मात् वः जीवितैः सार्धम् अपनेष्यामि गर्वितम् ॥ ७।१,२०।२३॥
yasmāt asmin makhe devaiḥ ittham vayam asatkṛtāḥ .. tasmāt vaḥ jīvitaiḥ sārdham apaneṣyāmi garvitam .. 7.1,20.23..
इत्युक्त्वा भगवान् क्रुद्धो व्यदहन्नेत्रवह्निना ॥ यक्षवाटं महाकूटं यथातिस्रः पुरो हरः ॥ ७.१,२०.२४॥
इति उक्त्वा भगवान् क्रुद्धः व्यदहत् नेत्र-वह्निना ॥ यक्ष-वाटम् महा-कूटम् यथा अतिस्रः पुरस् हरः ॥ ७।१,२०।२४॥
iti uktvā bhagavān kruddhaḥ vyadahat netra-vahninā .. yakṣa-vāṭam mahā-kūṭam yathā atisraḥ puras haraḥ .. 7.1,20.24..
ततो गणेश्वरास्सर्वे पर्वतोदग्रविग्रहाः ॥ यूपानुत्पाट्य होत्ःणां कंठेष्वाबध्य रज्जुभिः ॥ ७.१,२०.२५॥
ततस् गणेश्वराः सर्वे पर्वत-उदग्र-विग्रहाः ॥ यूपान् उत्पाट्य होत्ःणाम् कंठेषु आबध्य रज्जुभिः ॥ ७।१,२०।२५॥
tatas gaṇeśvarāḥ sarve parvata-udagra-vigrahāḥ .. yūpān utpāṭya hotḥṇām kaṃṭheṣu ābadhya rajjubhiḥ .. 7.1,20.25..
यज्ञपात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ गृहीत्वा चैव यज्ञांगं गंगास्रोतसि चिक्षिपुः ॥ ७.१,२०.२६॥
यज्ञ-पात्राणि चित्राणि भित्त्वा संचूर्ण्य वारिणि ॥ गृहीत्वा च एव यज्ञ-अंगम् गंगा-स्रोतसि चिक्षिपुः ॥ ७।१,२०।२६॥
yajña-pātrāṇi citrāṇi bhittvā saṃcūrṇya vāriṇi .. gṛhītvā ca eva yajña-aṃgam gaṃgā-srotasi cikṣipuḥ .. 7.1,20.26..
तत्र दिव्यान्नपानानां राशयः पर्वतोपमाः ॥ क्षीरनद्यो ऽमृतस्रावाः सुस्निग्धदधिकर्दमाः ॥ ७.१,२०.२७॥
तत्र दिव्य-अन्न-पानानाम् राशयः पर्वत-उपमाः ॥ क्षीर-नद्यः अमृत-स्रावाः सु स्निग्ध-दधि-कर्दमाः ॥ ७।१,२०।२७॥
tatra divya-anna-pānānām rāśayaḥ parvata-upamāḥ .. kṣīra-nadyaḥ amṛta-srāvāḥ su snigdha-dadhi-kardamāḥ .. 7.1,20.27..
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ रसवन्ति च पानानि लेह्यचोष्याणि तानि वै ॥ ७.१,२०.२८॥
उच्चावचानि मांसानि भक्ष्याणि सुरभीणि च ॥ रसवन्ति च पानानि लेह्य-चोष्याणि तानि वै ॥ ७।१,२०।२८॥
uccāvacāni māṃsāni bhakṣyāṇi surabhīṇi ca .. rasavanti ca pānāni lehya-coṣyāṇi tāni vai .. 7.1,20.28..
वीरास्तद्भुजते वक्त्रैर्विलुंपंति क्षिपंति च ॥ वज्रैश्चक्रैर्महाशूलैश्शक्तिभिः पाशपट्टिशैः ॥ ७.१,२०.२९॥
वीराः तत् भुजते वक्त्रैः विलुंपंति क्षिपंति च ॥ वज्रैः चक्रैः महा-शूलैः शक्तिभिः पाश-पट्टिशैः ॥ ७।१,२०।२९॥
vīrāḥ tat bhujate vaktraiḥ viluṃpaṃti kṣipaṃti ca .. vajraiḥ cakraiḥ mahā-śūlaiḥ śaktibhiḥ pāśa-paṭṭiśaiḥ .. 7.1,20.29..
मुसलैरसिभिष्टंकैर्भिधिपालैः परश्वधैः ॥ उद्धतांस्त्रिदशान्सर्वांल्लोकपालपुरस्सरान् ॥ ७.१,२०.३०॥
मुसलैः असिभिः टंकैः भिधि-पालैः परश्वधैः ॥ उद्धतान् त्रिदशान् सर्वान् लोकपाल-पुरस्सरान् ॥ ७।१,२०।३०॥
musalaiḥ asibhiḥ ṭaṃkaiḥ bhidhi-pālaiḥ paraśvadhaiḥ .. uddhatān tridaśān sarvān lokapāla-purassarān .. 7.1,20.30..
बिभिदुर्बलिनो वीरा वीरभद्रांगसंभवाः ॥ छिंधि भिंधि क्षिप क्षिप्रं मार्यतां दार्यतामिति ॥ ७.१,२०.३१॥
बिभिदुः बलिनः वीराः वीरभद्र-अंग-संभवाः ॥ छिन्धि भिन्धि क्षिप क्षिप्रम् मार्यताम् दार्यताम् इति ॥ ७।१,२०।३१॥
bibhiduḥ balinaḥ vīrāḥ vīrabhadra-aṃga-saṃbhavāḥ .. chindhi bhindhi kṣipa kṣipram māryatām dāryatām iti .. 7.1,20.31..
हरस्व प्रहरस्वेति पाटयोत्पाटयेति च ॥ संरंभप्रभवाः क्रूराश्शब्दाः श्रवणशंकवः ॥ ७.१,२०.३२॥
हरस्व प्रहरस्व इति पाटय उत्पाटय इति च ॥ संरंभ-प्रभवाः क्रूराः शब्दाः श्रवण-शंकवः ॥ ७।१,२०।३२॥
harasva praharasva iti pāṭaya utpāṭaya iti ca .. saṃraṃbha-prabhavāḥ krūrāḥ śabdāḥ śravaṇa-śaṃkavaḥ .. 7.1,20.32..
यत्रतत्र गणेशानां जज्ञिरे समरोचिताः ॥ विवृत्तनयनाः केचिद्दष्टदंष्ट्रोष्ठतालवः ॥ ७.१,२०.३३॥
यत्र तत्र गणेशानाम् जज्ञिरे समर-उचिताः ॥ विवृत्त-नयनाः केचिद् दष्ट-दंष्ट्र-उष्ठ-तालवः ॥ ७।१,२०।३३॥
yatra tatra gaṇeśānām jajñire samara-ucitāḥ .. vivṛtta-nayanāḥ kecid daṣṭa-daṃṣṭra-uṣṭha-tālavaḥ .. 7.1,20.33..
आश्रमस्थान्समाकृष्य मारयन्ति तपोधनात् ॥ स्रुवानपहरन्तश्च क्षिपन्तोग्निं जलेषु च ॥ ७.१,२०.३४॥
आश्रम-स्थान् समाकृष्य मारयन्ति तपोधनात् ॥ स्रुवान् अपहरन्तः च क्षिपन्तः अग्निम् जलेषु च ॥ ७।१,२०।३४॥
āśrama-sthān samākṛṣya mārayanti tapodhanāt .. sruvān apaharantaḥ ca kṣipantaḥ agnim jaleṣu ca .. 7.1,20.34..
कलशानपि भिन्दंतश्छिंदंतो मणिवेदिकाः ॥ गायंतश्च नदन्तश्च हसन्तश्च मुहुर्मुहुः ॥ ७.१,२०.३५॥
कलशान् अपि भिन्दंतः छिन्दंतः मणि-वेदिकाः ॥ गायंतः च नदन्तः च हसन्तः च मुहुर् मुहुर् ॥ ७।१,२०।३५॥
kalaśān api bhindaṃtaḥ chindaṃtaḥ maṇi-vedikāḥ .. gāyaṃtaḥ ca nadantaḥ ca hasantaḥ ca muhur muhur .. 7.1,20.35..
रक्तासवं पिबन्तश्च ननृतुर्गणपुंगवाः ॥ निर्मथ्य सेंद्रानमरान् गणेन्द्रान्वृषेन्द्रनागेन्द्रमृगेन्द्रसाराः ॥ ७.१,२०.३६॥
रक्त-आसवम् पिबन्तः च ननृतुः गण-पुंगवाः ॥ निर्मथ्य स इंद्रान् अमरान् गण-इन्द्रान् वृष-इन्द्र-नाग-इन्द्र-मृगेन्द्र-साराः ॥ ७।१,२०।३६॥
rakta-āsavam pibantaḥ ca nanṛtuḥ gaṇa-puṃgavāḥ .. nirmathya sa iṃdrān amarān gaṇa-indrān vṛṣa-indra-nāga-indra-mṛgendra-sārāḥ .. 7.1,20.36..
चक्रुर्बहून्यप्रतिमभावाः सहर्षरोमाणि विचेष्टितानि ॥ नन्दंति केचित्प्रहरन्ति केचिद्धावन्ति केचित्प्रलपन्ति केचित् ॥ ७.१,२०.३७॥
चक्रुः बहूनि अप्रतिम-भावाः स हर्ष-रोमाणि विचेष्टितानि ॥ नन्दंति केचिद् प्रहरन्ति केचिद् धावन्ति केचिद् प्रलपन्ति केचिद् ॥ ७।१,२०।३७॥
cakruḥ bahūni apratima-bhāvāḥ sa harṣa-romāṇi viceṣṭitāni .. nandaṃti kecid praharanti kecid dhāvanti kecid pralapanti kecid .. 7.1,20.37..
नृत्यन्ति केचिद्विहसन्ति केचिद्वल्गन्ति केचित्प्रमथा बलेन ॥ केचिज्जिघृक्षंति घनान्स तोयान्केचिद्ग्रहीतुं रविमुत्पतंति ॥ ७.१,२०.३८॥
नृत्यन्ति केचिद् विहसन्ति केचिद् वल्गन्ति केचिद् प्रमथाः बलेन ॥ केचिद् जिघृक्षंति घनान् स तोयान् केचिद् ग्रहीतुम् रविम् उत्पतंति ॥ ७।१,२०।३८॥
nṛtyanti kecid vihasanti kecid valganti kecid pramathāḥ balena .. kecid jighṛkṣaṃti ghanān sa toyān kecid grahītum ravim utpataṃti .. 7.1,20.38..
केचित्प्रसर्तुं पवनेन सार्धमिच्छंति भीमाः प्रमथा वियत्स्थाः ॥ आक्षिप्य केचिच्च वरायुधानि महा भुजंगानिव वैनतेयाः ॥ ७.१,२०.३९॥
केचिद् प्रसर्तुम् पवनेन सार्धम् इच्छंति भीमाः प्रमथाः वियत्-स्थाः ॥ आक्षिप्य केचिद् च वर-आयुधानि महा भुजंगान् इव वैनतेयाः ॥ ७।१,२०।३९॥
kecid prasartum pavanena sārdham icchaṃti bhīmāḥ pramathāḥ viyat-sthāḥ .. ākṣipya kecid ca vara-āyudhāni mahā bhujaṃgān iva vainateyāḥ .. 7.1,20.39..
भ्रमंति देवानपि विद्रवंतः खमंडले पर्वतकूटकल्पाः ॥ उत्पाट्य चोत्पाट्यगृहाणि केचित्सजालवातायनवेदिकानि ॥ ७.१,२०.४०॥
भ्रमंति देवान् अपि विद्रवन्तः ख-मंडले पर्वत-कूट-कल्पाः ॥ उत्पाट्य च उत्पाट्य गृहाणि केचिद् स जालवातायन-वेदिकानि ॥ ७।१,२०।४०॥
bhramaṃti devān api vidravantaḥ kha-maṃḍale parvata-kūṭa-kalpāḥ .. utpāṭya ca utpāṭya gṛhāṇi kecid sa jālavātāyana-vedikāni .. 7.1,20.40..
विक्षिप्य विक्षिप्य जलस्य मध्ये कालांबुदाभाः प्रमथा निनेदुः ॥ उद्वर्तितद्वारकपाटकुड्यं विध्वस्तशालावलभीगवाक्षम् ॥ ७.१,२०.४१॥
विक्षिप्य विक्षिप्य जलस्य मध्ये काल-अंबुद-आभाः प्रमथाः निनेदुः ॥ उद्वर्तित-द्वार-कपाट-कुड्यम् विध्वस्त-शाला-वलभी-गवाक्षम् ॥ ७।१,२०।४१॥
vikṣipya vikṣipya jalasya madhye kāla-aṃbuda-ābhāḥ pramathāḥ nineduḥ .. udvartita-dvāra-kapāṭa-kuḍyam vidhvasta-śālā-valabhī-gavākṣam .. 7.1,20.41..
अहो बताभज्यत यज्ञवाटमनाथवद्वाक्यमिवायथार्थम् ॥ हा नाथ तातेति पितुः सुतेति भ्रतर्ममाम्बेति च मातुलेति ॥ ७.१,२०.४२॥
अहो बत अभज्यत यज्ञवाटम् अनाथ-वत् वाक्यम् इव अयथार्थम् ॥ हा नाथ तात इति पितुः सुत इति भ्रतर् मम अम्बा इति च मातुल इति ॥ ७।१,२०।४२॥
aho bata abhajyata yajñavāṭam anātha-vat vākyam iva ayathārtham .. hā nātha tāta iti pituḥ suta iti bhratar mama ambā iti ca mātula iti .. 7.1,20.42..
उत्पाट्यमानेषु गृहेषु नार्यो ह्यानाथशब्दान्बहुशः प्रचक्रुः ॥ ७.१,२०.४३॥
उत्पाट्यमानेषु गृहेषु नार्यः हि आनाथ-शब्दान् बहुशस् प्रचक्रुः ॥ ७।१,२०।४३॥
utpāṭyamāneṣu gṛheṣu nāryaḥ hi ānātha-śabdān bahuśas pracakruḥ .. 7.1,20.43..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे यज्ञविध्वंसनो नाम विंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे यज्ञविध्वंसनः नाम विंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe yajñavidhvaṃsanaḥ nāma viṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In