| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
ततस्त्रिदशमुख्यास्ते विष्णुशक्रपुरोगमाः ॥ सर्वे भयपरित्रस्तादुद्रुवुर्भयविह्वलाः ॥ ७.१,२१.१॥
ततस् त्रिदश-मुख्याः ते विष्णु-शक्र-पुरोगमाः ॥ सर्वे भय-परित्रस्ताः आदुद्रुवुः भय-विह्वलाः ॥ ७।१,२१।१॥
tatas tridaśa-mukhyāḥ te viṣṇu-śakra-purogamāḥ .. sarve bhaya-paritrastāḥ ādudruvuḥ bhaya-vihvalāḥ .. 7.1,21.1..
निजैरदूषितैरंगैर्दृष्ट्वा देवानुपद्रुतान् ॥ दंड्यानदंडितान्मत्वा चुकोप गणपुंगवः ॥ ७.१,२१.२॥
निजैः अ दूषितैः अंगैः दृष्ट्वा देवान् उपद्रुतान् ॥ दंड्यान् अ दंडितान् मत्वा चुकोप गण-पुंगवः ॥ ७।१,२१।२॥
nijaiḥ a dūṣitaiḥ aṃgaiḥ dṛṣṭvā devān upadrutān .. daṃḍyān a daṃḍitān matvā cukopa gaṇa-puṃgavaḥ .. 7.1,21.2..
ततस्त्रिशूलमादाय शर्वशक्तिनिबर्हणम् ॥ ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ ७.१,२१.३॥
ततस् त्रिशूलम् आदाय शर्व-शक्ति-निबर्हणम् ॥ ऊर्ध्व-दृष्टिः महा-बाहुः मुखात् ज्वालाः समुत्सृजन् ॥ ७।१,२१।३॥
tatas triśūlam ādāya śarva-śakti-nibarhaṇam .. ūrdhva-dṛṣṭiḥ mahā-bāhuḥ mukhāt jvālāḥ samutsṛjan .. 7.1,21.3..
अमरानपि दुद्राव द्विरदानिव केसरी ॥ तानभिद्रवतस्तस्य गमनं सुमनोहरम् ॥ ७.१,२१.४॥
अमरान् अपि दुद्राव द्विरदान् इव केसरी ॥ तान् अभिद्रवतः तस्य गमनम् सु मनोहरम् ॥ ७।१,२१।४॥
amarān api dudrāva dviradān iva kesarī .. tān abhidravataḥ tasya gamanam su manoharam .. 7.1,21.4..
वाराणस्येव मत्तस्य जगाम प्रेक्षणीयताम् ॥ ततस्तत्क्षोभयामास महत्सुरबलं बली ॥ ७.१,२१.५॥
वाराणस्या इव मत्तस्य जगाम प्रेक्षणीय-ताम् ॥ ततस् तत् क्षोभयामास महत् सुर-बलम् बली ॥ ७।१,२१।५॥
vārāṇasyā iva mattasya jagāma prekṣaṇīya-tām .. tatas tat kṣobhayāmāsa mahat sura-balam balī .. 7.1,21.5..
महासरोवरं यद्वन्मत्तो वारणयूथपः ॥ विकुर्वन्बहुधावर्णान्नीलपांडुरलोहितान् ॥ ७.१,२१.६॥
महा-सरोवरम् यद्वत् मत्तः वारण-यूथपः ॥ विकुर्वन् बहुधा वर्णान् नील-पांडुर-लोहितान् ॥ ७।१,२१।६॥
mahā-sarovaram yadvat mattaḥ vāraṇa-yūthapaḥ .. vikurvan bahudhā varṇān nīla-pāṃḍura-lohitān .. 7.1,21.6..
विभ्रद्व्याघ्राजिनं वासो हेमप्रवरतारकम् ॥ छिन्दन्भिन्दन्नुद लिन्दन्दारयन्प्रमथन्नपि ॥ ७.१,२१.७॥
विभ्रत्-व्याघ्र-अजिनम् वासः हेम-प्रवर-तारकम् ॥ छिन्दन् भिन्दन् उद लिन्दन् दारयन् प्रमथन् अपि ॥ ७।१,२१।७॥
vibhrat-vyāghra-ajinam vāsaḥ hema-pravara-tārakam .. chindan bhindan uda lindan dārayan pramathan api .. 7.1,21.7..
व्यचरद्देवसंघेषु भद्रो ऽग्निरिव कक्षगः ॥ तत्र तत्र महावेगाच्चरंतं शूलधारिणम् ॥ ७.१,२१.८॥
व्यचरत् देव-संघेषु भद्रः अग्निः इव कक्ष-गः ॥ तत्र तत्र महा-वेगात् चरन्तम् शूल-धारिणम् ॥ ७।१,२१।८॥
vyacarat deva-saṃgheṣu bhadraḥ agniḥ iva kakṣa-gaḥ .. tatra tatra mahā-vegāt carantam śūla-dhāriṇam .. 7.1,21.8..
तमेकं त्रिदशाः सर्वे सहस्रमिव मेनिरे ॥ भद्रकाली च संक्रुद्धा युद्धवृद्धमदोद्धता ॥ ७.१,२१.९॥
तम् एकम् त्रिदशाः सर्वे सहस्रम् इव मेनिरे ॥ भद्रकाली च संक्रुद्धा युद्ध-वृद्ध-मद-उद्धता ॥ ७।१,२१।९॥
tam ekam tridaśāḥ sarve sahasram iva menire .. bhadrakālī ca saṃkruddhā yuddha-vṛddha-mada-uddhatā .. 7.1,21.9..
मुक्तज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ स तया रुरुचे भद्रो रुद्रकोपसमुद्भवः ॥ ७.१,२१.१०॥
मुक्त-ज्वालेन शूलेन निर्बिभेद रणे सुरान् ॥ स तया रुरुचे भद्रः रुद्र-कोप-समुद्भवः ॥ ७।१,२१।१०॥
mukta-jvālena śūlena nirbibheda raṇe surān .. sa tayā ruruce bhadraḥ rudra-kopa-samudbhavaḥ .. 7.1,21.10..
प्रभयेव युगांताग्निश्चलया धूमधूम्रया ॥ भद्रकाली तदायुद्धे विद्रुतत्रिदशाबभौ ॥ ७.१,२१.११॥
प्रभया इव युग-अंत-अग्निः चलया धूम-धूम्रया ॥ भद्रकाली तदा आयुद्धे विद्रुत-त्रिदशा आबभौ ॥ ७।१,२१।११॥
prabhayā iva yuga-aṃta-agniḥ calayā dhūma-dhūmrayā .. bhadrakālī tadā āyuddhe vidruta-tridaśā ābabhau .. 7.1,21.11..
कल्पे शेषानलज्वालादग्धाविश्वजगद्यथा ॥ तदा सवाजिनं सूर्यं रुद्रान्रुद्रगणाग्रणीः ॥ ७.१,२१.१२॥
कल्पे शेष-अनल-ज्वाला-दग्धा अ विश्व-जगत् यथा ॥ तदा स वाजिनम् सूर्यम् रुद्रान् रुद्र-गण-अग्रणीः ॥ ७।१,२१।१२॥
kalpe śeṣa-anala-jvālā-dagdhā a viśva-jagat yathā .. tadā sa vājinam sūryam rudrān rudra-gaṇa-agraṇīḥ .. 7.1,21.12..
भद्रो मूर्ध्नि जघानाशु वामपादेन लीलया ॥ असिभिः पावकं भद्रः पट्टिशैस्तु यमं यमी ॥ ७.१,२१.१३॥
भद्रः मूर्ध्नि जघान आशु वाम-पादेन लीलया ॥ असिभिः पावकम् भद्रः पट्टिशैः तु यमम् यमी ॥ ७।१,२१।१३॥
bhadraḥ mūrdhni jaghāna āśu vāma-pādena līlayā .. asibhiḥ pāvakam bhadraḥ paṭṭiśaiḥ tu yamam yamī .. 7.1,21.13..
रुद्रान्दृढेन शूलेन मुद्गरैर्वरुणं दृढैः ॥ परिघैर्निरृतिं वायुं टंकैष्टंकधरः स्वयम् ॥ ७.१,२१.१४॥
रुद्रान् दृढेन शूलेन मुद्गरैः वरुणम् दृढैः ॥ परिघैः निरृतिम् वायुम् टंकैः टंक-धरः स्वयम् ॥ ७।१,२१।१४॥
rudrān dṛḍhena śūlena mudgaraiḥ varuṇam dṛḍhaiḥ .. parighaiḥ nirṛtim vāyum ṭaṃkaiḥ ṭaṃka-dharaḥ svayam .. 7.1,21.14..
निर्बिभेद रणे वीरो लीलयैव गणेश्वरः ॥ सर्वान्देवगणान्सद्यो मुनीञ्छंभोर्विरोधिनः ॥ ७.१,२१.१५॥
निर्बिभेद रणे वीरः लीलया एव गणेश्वरः ॥ सर्वान् देव-गणान् सद्यस् मुनीन् शंभोः विरोधिनः ॥ ७।१,२१।१५॥
nirbibheda raṇe vīraḥ līlayā eva gaṇeśvaraḥ .. sarvān deva-gaṇān sadyas munīn śaṃbhoḥ virodhinaḥ .. 7.1,21.15..
ततो देवः सरस्वत्या नासिकाग्रं सुशोभनम् ॥ चिच्छेद करजाग्रेण देवमातुस्तथैव च ॥ ७.१,२१.१६॥
ततस् देवः सरस्वत्याः नासिका-अग्रम् सु शोभनम् ॥ चिच्छेद करज-अग्रेण देवमातुः तथा एव च ॥ ७।१,२१।१६॥
tatas devaḥ sarasvatyāḥ nāsikā-agram su śobhanam .. ciccheda karaja-agreṇa devamātuḥ tathā eva ca .. 7.1,21.16..
चिच्छेद च कुठारेण बाहुदंडं विभावसोः ॥ अग्रतो द्व्यंगुलां जिह्वां मातुर्देव्या लुलाव च ॥ ७.१,२१.१७॥
चिच्छेद च कुठारेण बाहु-दंडम् विभावसोः ॥ अग्रतस् द्वि-अंगुलाम् जिह्वाम् मातुः देव्याः लुलाव च ॥ ७।१,२१।१७॥
ciccheda ca kuṭhāreṇa bāhu-daṃḍam vibhāvasoḥ .. agratas dvi-aṃgulām jihvām mātuḥ devyāḥ lulāva ca .. 7.1,21.17..
स्वाहादेव्यास्तथा देवो दक्षिणं नासिकापुटम् ॥ चकर्त करजाग्रेण वामं च स्तनचूचुकम् ॥ ७.१,२१.१८॥
स्वाहादेव्याः तथा देवः दक्षिणम् नासिका-पुटम् ॥ चकर्त करज-अग्रेण वामम् च स्तन-चूचुकम् ॥ ७।१,२१।१८॥
svāhādevyāḥ tathā devaḥ dakṣiṇam nāsikā-puṭam .. cakarta karaja-agreṇa vāmam ca stana-cūcukam .. 7.1,21.18..
भगस्य विपुले नेत्रे शतपत्रसमप्रभे ॥ प्रसह्योत्पाटयामास भद्रः परमवेगवान् ॥ ७.१,२१.१९॥
भगस्य विपुले नेत्रे शतपत्र-सम-प्रभे ॥ प्रसह्य उत्पाटयामास भद्रः परम-वेगवान् ॥ ७।१,२१।१९॥
bhagasya vipule netre śatapatra-sama-prabhe .. prasahya utpāṭayāmāsa bhadraḥ parama-vegavān .. 7.1,21.19..
पूष्णो दशनरेखां च दीप्तां मुक्तावलीमिव ॥ जघान धनुषः कोट्या स तेनास्पष्टवागभूत् ॥ ७.१,२१.२०॥
पूष्णः दशन-रेखाम् च दीप्ताम् मुक्ता-आवलीम् इव ॥ जघान धनुषः कोट्या स तेन अस्पष्ट-वाच् अभूत् ॥ ७।१,२१।२०॥
pūṣṇaḥ daśana-rekhām ca dīptām muktā-āvalīm iva .. jaghāna dhanuṣaḥ koṭyā sa tena aspaṣṭa-vāc abhūt .. 7.1,21.20..
ततश्चंद्रमसं देवः पादांगुष्ठेन लीलया ॥ क्षणं कृमिवदाक्रम्य घर्षयामास भूतले ॥ ७.१,२१.२१॥
ततस् चंद्रमसम् देवः पादांगुष्ठेन लीलया ॥ क्षणम् कृमि-वत् आक्रम्य घर्षयामास भू-तले ॥ ७।१,२१।२१॥
tatas caṃdramasam devaḥ pādāṃguṣṭhena līlayā .. kṣaṇam kṛmi-vat ākramya gharṣayāmāsa bhū-tale .. 7.1,21.21..
शिरश्चिच्छेद दक्षस्य भद्रः परमकोपतः ॥ क्रोशंत्यामेव वैरिण्यां भद्रकाल्यै ददौ च तत् ॥ ७.१,२१.२२॥
शिरः चिच्छेद दक्षस्य भद्रः परम-कोपतः ॥ क्रोशंत्याम् एव वैरिण्याम् भद्रकाल्यै ददौ च तत् ॥ ७।१,२१।२२॥
śiraḥ ciccheda dakṣasya bhadraḥ parama-kopataḥ .. krośaṃtyām eva vairiṇyām bhadrakālyai dadau ca tat .. 7.1,21.22..
तत्प्रहृष्टा समादाय शिरस्तालफलोपमम् ॥ सा देवी कंडुकक्रीडां चकार समरांगणे ॥ ७.१,२१.२३॥
तत् प्रहृष्टा समादाय शिरः ताल-फल-उपमम् ॥ सा देवी कंडुक-क्रीडाम् चकार समर-अंगणे ॥ ७।१,२१।२३॥
tat prahṛṣṭā samādāya śiraḥ tāla-phala-upamam .. sā devī kaṃḍuka-krīḍām cakāra samara-aṃgaṇe .. 7.1,21.23..
ततो दक्षस्य यज्ञस्त्री कुशीला भर्तृभिर्यथा ॥ पादाभ्यां चैव हस्ताभ्यां हन्यते स्म गणेश्वरैः ॥ ७.१,२१.२४॥
ततस् दक्षस्य यज्ञ-स्त्री कुशीला भर्तृभिः यथा ॥ पादाभ्याम् च एव हस्ताभ्याम् हन्यते स्म गणेश्वरैः ॥ ७।१,२१।२४॥
tatas dakṣasya yajña-strī kuśīlā bhartṛbhiḥ yathā .. pādābhyām ca eva hastābhyām hanyate sma gaṇeśvaraiḥ .. 7.1,21.24..
अरिष्टनेमिने सोमं धर्मं चैव प्रजापतिम् ॥ बहुपुत्रं चांगिरसं कृशाश्वं कश्यपं तथा ॥ ७.१,२१.२५॥
अरिष्टनेमिने सोमम् धर्मम् च एव प्रजापतिम् ॥ बहुपुत्रम् च अंगिरसम् कृशाश्वम् कश्यपम् तथा ॥ ७।१,२१।२५॥
ariṣṭanemine somam dharmam ca eva prajāpatim .. bahuputram ca aṃgirasam kṛśāśvam kaśyapam tathā .. 7.1,21.25..
गले प्रगृह्य बलिनो गणपाः सिंहविक्रमाः ॥ भर्त्सयंतो भृशं वाग्भिर्निर्जघ्नुर्मूर्ध्नि मुष्टिभिः ॥ ७.१,२१.२६॥
गले प्रगृह्य बलिनः गणपाः सिंह-विक्रमाः ॥ भर्त्सयंतः भृशम् वाग्भिः निर्जघ्नुः मूर्ध्नि मुष्टिभिः ॥ ७।१,२१।२६॥
gale pragṛhya balinaḥ gaṇapāḥ siṃha-vikramāḥ .. bhartsayaṃtaḥ bhṛśam vāgbhiḥ nirjaghnuḥ mūrdhni muṣṭibhiḥ .. 7.1,21.26..
धर्षिता भूतवेतालैर्दारास्सुतपरिग्रहाः ॥ यथा कलियुगे जारैर्बलेन कुलयोषितः ॥ ७.१,२१.२७॥
धर्षिताः भूत-वेतालैः दाराः सुत-परिग्रहाः ॥ यथा कलि-युगे जारैः बलेन कुल-योषितः ॥ ७।१,२१।२७॥
dharṣitāḥ bhūta-vetālaiḥ dārāḥ suta-parigrahāḥ .. yathā kali-yuge jāraiḥ balena kula-yoṣitaḥ .. 7.1,21.27..
तच्च विध्वस्तकलशं भग्नयूपं गतोत्सवम् ॥ प्रदीपितमहाशालं प्रभिन्नद्वारतोरणम् ॥ ७.१,२१.२८॥
तत् च विध्वस्त-कलशम् भग्न-यूपम् गत-उत्सवम् ॥ प्रदीपित-महा-शालम् प्रभिन्न-द्वार-तोरणम् ॥ ७।१,२१।२८॥
tat ca vidhvasta-kalaśam bhagna-yūpam gata-utsavam .. pradīpita-mahā-śālam prabhinna-dvāra-toraṇam .. 7.1,21.28..
उत्पाटितसुरानीकं हन्यमानं तपोधनम् ॥ प्रशान्तब्रह्मनिर्घोषं प्रक्षीणजनसंचयम् ॥ ७.१,२१.२९॥
उत्पाटित-सुर-अनीकम् हन्यमानम् तपोधनम् ॥ प्रशान्त-ब्रह्म-निर्घोषम् प्रक्षीण-जन-संचयम् ॥ ७।१,२१।२९॥
utpāṭita-sura-anīkam hanyamānam tapodhanam .. praśānta-brahma-nirghoṣam prakṣīṇa-jana-saṃcayam .. 7.1,21.29..
क्रन्दमानातुरस्त्रीकं हताशेषपरिच्छदम् ॥ शून्यारण्यनिभं जज्ञे यज्ञवाटं तदार्दितम् ॥ ७.१,२१.३०॥
क्रन्दमान-आतुर-स्त्रीकम् हत-अशेष-परिच्छदम् ॥ शून्य-अरण्य-निभम् जज्ञे यज्ञ-वाटम् तदा अर्दितम् ॥ ७।१,२१।३०॥
krandamāna-ātura-strīkam hata-aśeṣa-paricchadam .. śūnya-araṇya-nibham jajñe yajña-vāṭam tadā arditam .. 7.1,21.30..
शूलवेगप्ररुग्णाश्च भिन्नबाहूरुवक्षसः ॥ विनिकृत्तोत्तमांगाश्च पेतुरुर्व्यां सुरोत्तमाः ॥ ७.१,२१.३१॥
शूल-वेग-प्ररुग्णाः च भिन्न-बाहु-ऊरु-वक्षसः ॥ विनिकृत्त-उत्तमांगाः च पेतुः उर्व्याम् सुर-उत्तमाः ॥ ७।१,२१।३१॥
śūla-vega-prarugṇāḥ ca bhinna-bāhu-ūru-vakṣasaḥ .. vinikṛtta-uttamāṃgāḥ ca petuḥ urvyām sura-uttamāḥ .. 7.1,21.31..
हतेषु तेषु देवेषु पतितेषुः सहस्रशः ॥ प्रविवेश गणेशानः क्षणादाहवनीयकम् ॥ ७.१,२१.३२॥
हतेषु तेषु देवेषु पतिताः इषुः सहस्रशस् ॥ प्रविवेश गणेशानः क्षणात् आहवनीयकम् ॥ ७।१,२१।३२॥
hateṣu teṣu deveṣu patitāḥ iṣuḥ sahasraśas .. praviveśa gaṇeśānaḥ kṣaṇāt āhavanīyakam .. 7.1,21.32..
प्रविष्टमथ तं दृष्ट्वा भद्रं कालाग्निसंनिभम् ॥ दुद्राव मरणाद्भीतो यज्ञो मृगवपुर्धरः ॥ ७.१,२१.३३॥
प्रविष्टम् अथ तम् दृष्ट्वा भद्रम् कालाग्नि-संनिभम् ॥ दुद्राव मरणात् भीतः यज्ञः मृग-वपुः-धरः ॥ ७।१,२१।३३॥
praviṣṭam atha tam dṛṣṭvā bhadram kālāgni-saṃnibham .. dudrāva maraṇāt bhītaḥ yajñaḥ mṛga-vapuḥ-dharaḥ .. 7.1,21.33..
स विस्फार्य महच्चापं दृढज्याघोषणभीषणम् ॥ भद्रस्तमभिदुद्राव विक्षिपन्नेव सायकान् ॥ ७.१,२१.३४॥
स विस्फार्य महत् चापम् दृढ-ज्या-घोषण-भीषणम् ॥ भद्रः तम् अभिदुद्राव विक्षिपन् एव सायकान् ॥ ७।१,२१।३४॥
sa visphārya mahat cāpam dṛḍha-jyā-ghoṣaṇa-bhīṣaṇam .. bhadraḥ tam abhidudrāva vikṣipan eva sāyakān .. 7.1,21.34..
आकर्णपूर्णमाकृष्टं धनुरम्बुदसंनिभम् ॥ नादयामास च ज्यां द्यां खं च भूमिं च सर्वशः ॥ ७.१,२१.३५॥
आकर्णपूर्णम् आकृष्टम् धनुः अम्बुद-संनिभम् ॥ नादयामास च ज्याम् द्याम् खम् च भूमिम् च सर्वशस् ॥ ७।१,२१।३५॥
ākarṇapūrṇam ākṛṣṭam dhanuḥ ambuda-saṃnibham .. nādayāmāsa ca jyām dyām kham ca bhūmim ca sarvaśas .. 7.1,21.35..
तमुपश्रित्य सन्नादं हतो ऽस्मीत्येव विह्वलम् ॥ शरणार्धेन वक्रेण स वीरो ऽध्वरपूरुषम् ॥ ७.१,२१.३६॥
तम् उपश्रित्य सत्-नादम् हतः अस्मि इति एव विह्वलम् ॥ शरण-अर्धेन वक्रेण स वीरः अध्वर-पूरुषम् ॥ ७।१,२१।३६॥
tam upaśritya sat-nādam hataḥ asmi iti eva vihvalam .. śaraṇa-ardhena vakreṇa sa vīraḥ adhvara-pūruṣam .. 7.1,21.36..
महाभयस्खलत्पादं वेपन्तं विगतत्विषम् ॥ मृगरूपेण धावन्तं विशिरस्कं तदाकरोत् ॥ ७.१,२१.३७॥
महा-भय-स्खलत्-पादम् वेपन्तम् विगत-त्विषम् ॥ मृग-रूपेण धावन्तम् विशिरस्कम् तदा अकरोत् ॥ ७।१,२१।३७॥
mahā-bhaya-skhalat-pādam vepantam vigata-tviṣam .. mṛga-rūpeṇa dhāvantam viśiraskam tadā akarot .. 7.1,21.37..
तमीदृशमवज्ञातं दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परमसंक्रुद्धो युद्धायाभवदुद्यतः ॥ ७.१,२१.३८॥
तम् ईदृशम् अवज्ञातम् दृष्ट्वा वै सूर्यसंभवम् ॥ विष्णुः परम-संक्रुद्धः युद्धाय अभवत् उद्यतः ॥ ७।१,२१।३८॥
tam īdṛśam avajñātam dṛṣṭvā vai sūryasaṃbhavam .. viṣṇuḥ parama-saṃkruddhaḥ yuddhāya abhavat udyataḥ .. 7.1,21.38..
तमुवाह महावेगात्स्कन्धेन नतसंधिना ॥ सर्वेषां वयसां राजा गरुडः पन्नगाशनः ॥ ७.१,२१.३९॥
तम् उवाह महा-वेगात् स्कन्धेन नत-संधिना ॥ सर्वेषाम् वयसाम् राजा गरुडः पन्नगाशनः ॥ ७।१,२१।३९॥
tam uvāha mahā-vegāt skandhena nata-saṃdhinā .. sarveṣām vayasām rājā garuḍaḥ pannagāśanaḥ .. 7.1,21.39..
देवाश्च हतशिष्टा ये देवराजपुरोगमाः ॥ प्रचक्रुस्तस्य साहाय्यं प्राणांस्त्यक्तुमिवोद्यताः ॥ ७.१,२१.४०॥
देवाः च हत-शिष्टाः ये देवराज-पुरोगमाः ॥ प्रचक्रुः तस्य साहाय्यम् प्राणान् त्यक्तुम् इव उद्यताः ॥ ७।१,२१।४०॥
devāḥ ca hata-śiṣṭāḥ ye devarāja-purogamāḥ .. pracakruḥ tasya sāhāyyam prāṇān tyaktum iva udyatāḥ .. 7.1,21.40..
विष्णुना सहितान्देवान्मृगेन्द्रः क्रोष्टुकानिव ॥ दृष्ट्वा जहास भूतेन्द्रो मृगेन्द्र इव विव्यथः ॥ ७.१,२१.४१॥
विष्णुना सहितान् देवान् मृगेन्द्रः क्रोष्टुकान् इव ॥ दृष्ट्वा जहास भूत-इन्द्रः मृगेन्द्रः इव विव्यथः ॥ ७।१,२१।४१॥
viṣṇunā sahitān devān mṛgendraḥ kroṣṭukān iva .. dṛṣṭvā jahāsa bhūta-indraḥ mṛgendraḥ iva vivyathaḥ .. 7.1,21.41..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवदंडवर्णनं नामैकविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे देवदंडवर्णनम् नाम एकविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe devadaṃḍavarṇanam nāma ekaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In