| |
|

This overlay will guide you through the buttons:

तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥ सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥ ७.१,२२.१॥
तस्मिन् अवसरे व्योम्नि समाविरभवत् रथः ॥ सहस्र-सूर्य-संकाशः चारु-चीर-वृष-ध्वजः ॥ ७।१,२२।१॥
tasmin avasare vyomni samāvirabhavat rathaḥ .. sahasra-sūrya-saṃkāśaḥ cāru-cīra-vṛṣa-dhvajaḥ .. 7.1,22.1..
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥ सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥ ७.१,२२.२॥
॥ सञ्चित-अनेक-दिव्य-अस्त्र-शस्त्र-रत्न-परिष्कृतः ॥ ७।१,२२।२॥
.. sañcita-aneka-divya-astra-śastra-ratna-pariṣkṛtaḥ .. 7.1,22.2..
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥ यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥ ७.१,२२.३॥
तस्य अपि रथ-वर्यस्य स्यात् सः एव हि सारथिः ॥ यथा च त्रैपुरे युद्धे पूर्वम् शार्वरथे स्थितः ॥ ७।१,२२।३॥
tasya api ratha-varyasya syāt saḥ eva hi sārathiḥ .. yathā ca traipure yuddhe pūrvam śārvarathe sthitaḥ .. 7.1,22.3..
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥ हरेस्समीपमानीय कृताञ्जलिरभाषत ॥ ७.१,२२.४॥
स तम् रथ-वरम् ब्रह्मा शासनात् एव शूलिनः ॥ हरेः समीपम् आनीय कृताञ्जलिः अभाषत ॥ ७।१,२२।४॥
sa tam ratha-varam brahmā śāsanāt eva śūlinaḥ .. hareḥ samīpam ānīya kṛtāñjaliḥ abhāṣata .. 7.1,22.4..
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥ आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥ ७.१,२२.५॥
भगवन् भद्र भद्रांग भगवान् इन्दु-भूषणः ॥ आज्ञापयति वीरः त्वाम् रथम् आरोढुम् अव्ययः ॥ ७।१,२२।५॥
bhagavan bhadra bhadrāṃga bhagavān indu-bhūṣaṇaḥ .. ājñāpayati vīraḥ tvām ratham āroḍhum avyayaḥ .. 7.1,22.5..
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥ सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥ ७.१,२२.६॥
रेभी-आश्रम-समीप-स्थः त्र्यंबकः अंबिकया सह ॥ सम्पश्यते महा-बाहो दुस्सहम् ते पराक्रमम् ॥ ७।१,२२।६॥
rebhī-āśrama-samīpa-sthaḥ tryaṃbakaḥ aṃbikayā saha .. sampaśyate mahā-bāho dussaham te parākramam .. 7.1,22.6..
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥ आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥ ७.१,२२.७॥
तस्य तत् वचनम् श्रुत्वा स वीरः गण-कुञ्जरः ॥ आरुरोह रथम् दिव्यम् अनुगृह्य पितामहम् ॥ ७।१,२२।७॥
tasya tat vacanam śrutvā sa vīraḥ gaṇa-kuñjaraḥ .. āruroha ratham divyam anugṛhya pitāmaham .. 7.1,22.7..
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥ भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥ ७.१,२२.८॥
तथा रथ-वरे तस्मिन् स्थिते ब्रह्मणि सारथौ ॥ भद्रस्य ववृधे लक्ष्मी रुद्रस्य इव पुरद्विषः ॥ ७।१,२२।८॥
tathā ratha-vare tasmin sthite brahmaṇi sārathau .. bhadrasya vavṛdhe lakṣmī rudrasya iva puradviṣaḥ .. 7.1,22.8..
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥ प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥ ७.१,२२.९॥
ततस् शंख-वरम् दीप्तम् पूर्ण-चंद्र-सम-प्रभम् ॥ प्रदध्मौ वदने कृत्वा भानु-कंपः महा-बलः ॥ ७।१,२२।९॥
tatas śaṃkha-varam dīptam pūrṇa-caṃdra-sama-prabham .. pradadhmau vadane kṛtvā bhānu-kaṃpaḥ mahā-balaḥ .. 7.1,22.9..
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥ श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥ ७.१,२२.१०॥
तस्य शंखस्य तम् नादम् भिन्न-सारस-सन्निभम् ॥ श्रुत्वा भयेन देवानाम् जज्वाल जठर-अनलः ॥ ७।१,२२।१०॥
tasya śaṃkhasya tam nādam bhinna-sārasa-sannibham .. śrutvā bhayena devānām jajvāla jaṭhara-analaḥ .. 7.1,22.10..
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥ क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥ ७.१,२२.११॥
यक्ष-विद्याधर-अहि-इन्द्रैः सिद्धैः युद्ध-दिदृक्षुभिः ॥ क्षणेन निबडीभूताः स आकाश-विवराः दिशाः ॥ ७।१,२२।११॥
yakṣa-vidyādhara-ahi-indraiḥ siddhaiḥ yuddha-didṛkṣubhiḥ .. kṣaṇena nibaḍībhūtāḥ sa ākāśa-vivarāḥ diśāḥ .. 7.1,22.11..
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥ महता बाणवर्षेण तुतोद गणगोवृषम् ॥ ७.१,२२.१२॥
ततस् शार्ङ्गेण चाप-अङ्कात् स नारायण-नीरदः ॥ महता बाण-वर्षेण तुतोद गण-गो-वृषम् ॥ ७।१,२२।१२॥
tatas śārṅgeṇa cāpa-aṅkāt sa nārāyaṇa-nīradaḥ .. mahatā bāṇa-varṣeṇa tutoda gaṇa-go-vṛṣam .. 7.1,22.12..
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥ स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥ ७.१,२२.१३॥
तम् दृष्ट्वा विष्णु-मायान्तम् शतधा बाण-वर्षिणम् ॥ स च आददे धनुः जैत्रम् भद्रः बाण-सहस्र-मुच् ॥ ७।१,२२।१३॥
tam dṛṣṭvā viṣṇu-māyāntam śatadhā bāṇa-varṣiṇam .. sa ca ādade dhanuḥ jaitram bhadraḥ bāṇa-sahasra-muc .. 7.1,22.13..
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥ शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥ ७.१,२२.१४॥
समादाय च तत् दिव्यम् धनुः समर-भैरवम् ॥ शनैस् विस्फारयामास मेरुम् धनुः इव ईश्वरः ॥ ७।१,२२।१४॥
samādāya ca tat divyam dhanuḥ samara-bhairavam .. śanais visphārayāmāsa merum dhanuḥ iva īśvaraḥ .. 7.1,22.14..
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥ तेन स्वनेन महता पृथिवीं समकंपयत् ॥ ७.१,२२.१५॥
तस्य विस्फार्यमाणस्य धनुषः अभूत् महा-स्वनः ॥ तेन स्वनेन महता पृथिवीम् समकंपयत् ॥ ७।१,२२।१५॥
tasya visphāryamāṇasya dhanuṣaḥ abhūt mahā-svanaḥ .. tena svanena mahatā pṛthivīm samakaṃpayat .. 7.1,22.15..
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥ जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥ ७.१,२२.१६॥
ततस् शर-वरम् घोरम् दीप्तम् आशीविष-उपमम् ॥ जग्राह गणपः श्रीमान् स्वयम् उग्र-पराक्रमः ॥ ७।१,२२।१६॥
tatas śara-varam ghoram dīptam āśīviṣa-upamam .. jagrāha gaṇapaḥ śrīmān svayam ugra-parākramaḥ .. 7.1,22.16..
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥ प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥ ७.१,२२.१७॥
बाण-उद्धारे भुजः हि अस्य तूणी-वदन-संगतः ॥ प्रत्यदृश्यत वल्मीकम् विवेक्षुः इव पन्नगः ॥ ७।१,२२।१७॥
bāṇa-uddhāre bhujaḥ hi asya tūṇī-vadana-saṃgataḥ .. pratyadṛśyata valmīkam vivekṣuḥ iva pannagaḥ .. 7.1,22.17..
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥ महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥ ७.१,२२.१८॥
समुद्धृतः करे तस्य तद्-क्षणम् रुरुचे शरेः ॥ महा-भुजंग-संदष्टः यथा बाल-भुजङ्गमः ॥ ७।१,२२।१८॥
samuddhṛtaḥ kare tasya tad-kṣaṇam ruruce śareḥ .. mahā-bhujaṃga-saṃdaṣṭaḥ yathā bāla-bhujaṅgamaḥ .. 7.1,22.18..
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥ विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥ ७.१,२२.१९॥
शरेण घन-तीव्रेण भद्रः रुद्र-पराक्रमः ॥ विव्याध कुपितः गाढम् ललाटे विष्णुम् अव्ययम् ॥ ७।१,२२।१९॥
śareṇa ghana-tīvreṇa bhadraḥ rudra-parākramaḥ .. vivyādha kupitaḥ gāḍham lalāṭe viṣṇum avyayam .. 7.1,22.19..
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥ चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥ ७.१,२२.२०॥
ललाटे अभिहितः विष्णुः पूर्वम् एव अवमानितः ॥ चुकोप गणप-इंद्राय मृग-इंद्राय इव गो-वृषः ॥ ७।१,२२।२०॥
lalāṭe abhihitaḥ viṣṇuḥ pūrvam eva avamānitaḥ .. cukopa gaṇapa-iṃdrāya mṛga-iṃdrāya iva go-vṛṣaḥ .. 7.1,22.20..
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥ विव्याध गणराजस्य भुजे भुजगसन्निभे ॥ ७.१,२२.२१॥
ततस् तु अशनि-कल्पेन क्रूर-आस्येन महा-इषुणा ॥ विव्याध गण-राजस्य भुजे भुजग-सन्निभे ॥ ७।१,२२।२१॥
tatas tu aśani-kalpena krūra-āsyena mahā-iṣuṇā .. vivyādha gaṇa-rājasya bhuje bhujaga-sannibhe .. 7.1,22.21..
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥ विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥ ७.१,२२.२२॥
सः अपि तस्य भुजे भूयस् सूर्य-अयुत-सम-प्रभम् ॥ विससर्ज शरम् वेगात् वीरभद्रः महा-बलः ॥ ७।१,२२।२२॥
saḥ api tasya bhuje bhūyas sūrya-ayuta-sama-prabham .. visasarja śaram vegāt vīrabhadraḥ mahā-balaḥ .. 7.1,22.22..
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥ स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥ ७.१,२२.२३॥
स च विष्णुः पुनर् भद्रम् भद्रः विष्णुम् तथा पुनर् ॥ स च तम् स च तम् विप्राः शरैः तौ अनुजघ्नतुः ॥ ७।१,२२।२३॥
sa ca viṣṇuḥ punar bhadram bhadraḥ viṣṇum tathā punar .. sa ca tam sa ca tam viprāḥ śaraiḥ tau anujaghnatuḥ .. 7.1,22.23..
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥ द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥ ७.१,२२.२४॥
तयोः परस्परम् वेगात् शरान् आशु विमुंचतोः ॥ द्वयोः समभवत् युद्धम् तुमुलम् रोम-हर्षणम् ॥ ७।१,२२।२४॥
tayoḥ parasparam vegāt śarān āśu vimuṃcatoḥ .. dvayoḥ samabhavat yuddham tumulam roma-harṣaṇam .. 7.1,22.24..
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥ हाहाकारो महानासीदाकाशे खेचरेरितः ॥ ७.१,२२.२५॥
तत् दृष्ट्वा तुमुलम् युद्धम् तयोः एव परस्परम् ॥ हाहाकारः महान् आसीत् आकाशे खेचर-ईरितः ॥ ७।१,२२।२५॥
tat dṛṣṭvā tumulam yuddham tayoḥ eva parasparam .. hāhākāraḥ mahān āsīt ākāśe khecara-īritaḥ .. 7.1,22.25..
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥ विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥ ७.१,२२.२६॥
ततस् तु अनल-तुंडेन शरेण आदित्य-वर्चसा ॥ विव्याध सु दृढम् भद्रः विष्णोः महति वक्षसि ॥ ७।१,२२।२६॥
tatas tu anala-tuṃḍena śareṇa āditya-varcasā .. vivyādha su dṛḍham bhadraḥ viṣṇoḥ mahati vakṣasi .. 7.1,22.26..
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥ महतीं रुजमासाद्य निपपात विमोहितः ॥ ७.१,२२.२७॥
स तु तीव्र-प्रपातेन शरेण दृढम् आहतः ॥ महतीम् रुजम् आसाद्य निपपात विमोहितः ॥ ७।१,२२।२७॥
sa tu tīvra-prapātena śareṇa dṛḍham āhataḥ .. mahatīm rujam āsādya nipapāta vimohitaḥ .. 7.1,22.27..
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥ सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥ ७.१,२२.२८॥
पुनर् क्षणात् इव उत्थाय लब्ध-संज्ञः तदा हरिः ॥ सर्वाणि अपि च दिव्य-अस्त्राणि अथ एनम् प्रत्यवासृजत् ॥ ७।१,२२।२८॥
punar kṣaṇāt iva utthāya labdha-saṃjñaḥ tadā hariḥ .. sarvāṇi api ca divya-astrāṇi atha enam pratyavāsṛjat .. 7.1,22.28..
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥ सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ७.१,२२.२९॥
स च विष्णुः धनुः-मुक्तान् सर्वान् शर्व-चमूपतिः ॥ सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥ ७।१,२२।२९॥
sa ca viṣṇuḥ dhanuḥ-muktān sarvān śarva-camūpatiḥ .. sahasā vārayāmāsa ghoraiḥ pratiśaraiḥ śarān .. 7.1,22.29..
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥ ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥ ७.१,२२.३०॥
ततस् विष्णुः स्व-नाम-अंकम् बाणम् अव्याहतम् क्वचिद् ॥ ससर्ज क्रोध-रक्ता क्षस्तम् उद्दिश्य गणेश्वरम् ॥ ७।१,२२।३०॥
tatas viṣṇuḥ sva-nāma-aṃkam bāṇam avyāhatam kvacid .. sasarja krodha-raktā kṣastam uddiśya gaṇeśvaram .. 7.1,22.30..
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥ अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥ ७.१,२२.३०॥
तम् बाणम् बाण-वर्येण भद्रः भद्र-आह्वयेण तु ॥ अ प्राप्तम् एव भगवान् चिच्छेद शतधा पथि ॥ ७।१,२२।३०॥
tam bāṇam bāṇa-varyeṇa bhadraḥ bhadra-āhvayeṇa tu .. a prāptam eva bhagavān ciccheda śatadhā pathi .. 7.1,22.30..
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥ निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥ ७.१,२२.३१॥
अथ एकेन इषुणा शार्ङ्गम् द्वाभ्याम् पक्षौ गरुत्मतः ॥ निमेषात् एव चिच्छेद तत् अद्भुतम् इव अभवत् ॥ ७।१,२२।३१॥
atha ekena iṣuṇā śārṅgam dvābhyām pakṣau garutmataḥ .. nimeṣāt eva ciccheda tat adbhutam iva abhavat .. 7.1,22.31..
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥ शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥ ७.१,२२.३२॥
ततस् योग-बलात् विष्णुः देहात् देवान् सु दारुणान् ॥ शंख-चक्र-गदा-हस्तान् विससर्ज सहस्रशस् ॥ ७।१,२२।३२॥
tatas yoga-balāt viṣṇuḥ dehāt devān su dāruṇān .. śaṃkha-cakra-gadā-hastān visasarja sahasraśas .. 7.1,22.32..
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥ निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥ ७.१,२२.३३॥
सर्वान् तान् क्षण-मात्रेण त्रैपुरान् इव शंकरः ॥ निर्ददाह महा-बाहुः नेत्र-सृष्टेन वह्निना ॥ ७।१,२२।३३॥
sarvān tān kṣaṇa-mātreṇa traipurān iva śaṃkaraḥ .. nirdadāha mahā-bāhuḥ netra-sṛṣṭena vahninā .. 7.1,22.33..
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥ तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥ ७.१,२२.३४॥
ततस् क्रुद्धतरः विष्णुः चक्रम् उद्यम्य स त्वरः ॥ तस्मिन् वीरो समुत्स्रष्टुम् तदानीम् उद्यतः अभवत् ॥ ७।१,२२।३४॥
tatas kruddhataraḥ viṣṇuḥ cakram udyamya sa tvaraḥ .. tasmin vīro samutsraṣṭum tadānīm udyataḥ abhavat .. 7.1,22.34..
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥ स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥ ७.१,२२.३५॥
तम् दृष्ट्वा चक्रम् उद्यम्य पुरतस् समुपस्थितम् ॥ स्मयन् इव गणेशानः व्यष्टंभयत् अयत्नतः ॥ ७।१,२२।३५॥
tam dṛṣṭvā cakram udyamya puratas samupasthitam .. smayan iva gaṇeśānaḥ vyaṣṭaṃbhayat ayatnataḥ .. 7.1,22.35..
स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥ इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥ ७.१,२२.३६॥
स्तंभित-अंगः तु तत् चक्रम् घोरम् अप्रतिमम् क्वचिद् ॥ इच्छन् अपि समुत्स्रष्टुम् न विष्णुः अभवत् क्षमः ॥ ७।१,२२।३६॥
staṃbhita-aṃgaḥ tu tat cakram ghoram apratimam kvacid .. icchan api samutsraṣṭum na viṣṇuḥ abhavat kṣamaḥ .. 7.1,22.36..
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥ अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥ ७.१,२२.३७॥
श्वसन् इव एकम् उद्धृत्य बाहुम् चक्र-समन्वितम् ॥ अतिष्ठत् अलसः भूत्वा पाषाणः इव निश्चलः ॥ ७।१,२२।३७॥
śvasan iva ekam uddhṛtya bāhum cakra-samanvitam .. atiṣṭhat alasaḥ bhūtvā pāṣāṇaḥ iva niścalaḥ .. 7.1,22.37..
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥ विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥ ७.१,२२.३८॥
विशरीरः यथा आजीवः विशृङ्गः वा यथा वृषः ॥ विदंष्ट्रः च यथा सिंहः तथा विष्णुः अवस्थितः ॥ ७।१,२२।३८॥
viśarīraḥ yathā ājīvaḥ viśṛṅgaḥ vā yathā vṛṣaḥ .. vidaṃṣṭraḥ ca yathā siṃhaḥ tathā viṣṇuḥ avasthitaḥ .. 7.1,22.38..
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥ समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥ ७.१,२२.३९॥
तम् दृष्ट्वा दुर्दशा-आपन्नम् विष्णुम् इन्द्र-आदयः सुराः ॥ समुन्नद्धाः गण-इन्द्रेण मृग-इंद्रेण इव गो-वृषाः ॥ ७।१,२२।३९॥
tam dṛṣṭvā durdaśā-āpannam viṣṇum indra-ādayaḥ surāḥ .. samunnaddhāḥ gaṇa-indreṇa mṛga-iṃdreṇa iva go-vṛṣāḥ .. 7.1,22.39..
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥ ७.१,२२.४०॥
प्रगृहीत-आयुधाः यौद्धुंक्रुद्धाः समुपतस्थिरे ॥ तान् दृष्ट्वा समरे भद्रः क्षुद्रान् इव हरिः मृगान् ॥ ७।१,२२।४०॥
pragṛhīta-āyudhāḥ yauddhuṃkruddhāḥ samupatasthire .. tān dṛṣṭvā samare bhadraḥ kṣudrān iva hariḥ mṛgān .. 7.1,22.40..
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥ अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥ ७.१,२२.४१॥
साक्षात् रुद्र-तनुः वीरः वर-वीर-गण-आवृतः ॥ अट्टहासेन घोरेण भय-द-निंदितः ॥ ७।१,२२।४१॥
sākṣāt rudra-tanuḥ vīraḥ vara-vīra-gaṇa-āvṛtaḥ .. aṭṭahāsena ghoreṇa bhaya-da-niṃditaḥ .. 7.1,22.41..
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥ सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥ ७.१,२२.४२॥
तथा शतमखस्य अपि स वज्रः दक्षिणः करः ॥ सिसृक्षोः एव उद्वज्रः चित्रीकृतः इव अभवत् ॥ ७।१,२२।४२॥
tathā śatamakhasya api sa vajraḥ dakṣiṇaḥ karaḥ .. sisṛkṣoḥ eva udvajraḥ citrīkṛtaḥ iva abhavat .. 7.1,22.42..
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥ अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥ ७.१,२२.४३॥
अन्येषाम् अपि सर्वेषाम् स रक्ताः अपि बाहवः ॥ अलसानाम् इव आरंभाः तादृशाः प्रतियांति उत ॥ ७।१,२२।४३॥
anyeṣām api sarveṣām sa raktāḥ api bāhavaḥ .. alasānām iva āraṃbhāḥ tādṛśāḥ pratiyāṃti uta .. 7.1,22.43..
एवं भगवता तेन व्याहताशेषवैभवात् ॥ अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥ ७.१,२२.४४॥
एवम् भगवता तेन व्याहत-अशेष-वैभवात् ॥ अमराः समरे तस्य पुरतस् स्थातुम् अक्षमाः ॥ ७।१,२२।४४॥
evam bhagavatā tena vyāhata-aśeṣa-vaibhavāt .. amarāḥ samare tasya puratas sthātum akṣamāḥ .. 7.1,22.44..
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥ स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥ ७.१,२२.४५॥
स्तब्धैः अवयवैः एव दुद्रुवुः भय-विह्वलाः ॥ स्थितिम् च चक्रिरे युद्धे वीर-तेजः-भय-आकुलाः ॥ ७।१,२२।४५॥
stabdhaiḥ avayavaiḥ eva dudruvuḥ bhaya-vihvalāḥ .. sthitim ca cakrire yuddhe vīra-tejaḥ-bhaya-ākulāḥ .. 7.1,22.45..
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥ विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥ ७.१,२२.४६॥
विद्रुतान् त्रिदशान् वीरान् वीरभद्रः महा-भुजः ॥ विव्याध निशितैः बाणैः मघः वर्षैः इव अचलान् ॥ ७।१,२२।४६॥
vidrutān tridaśān vīrān vīrabhadraḥ mahā-bhujaḥ .. vivyādha niśitaiḥ bāṇaiḥ maghaḥ varṣaiḥ iva acalān .. 7.1,22.46..
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥ शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥ ७.१,२२.४७॥
बहवः तस्य वीरस्य बाहवः परिघ-उपमाः ॥ शस्त्रैः चकाशिरे दीप्तैः स अग्नि-ज्वालाः इव उरगाः ॥ ७।१,२२।४७॥
bahavaḥ tasya vīrasya bāhavaḥ parigha-upamāḥ .. śastraiḥ cakāśire dīptaiḥ sa agni-jvālāḥ iva uragāḥ .. 7.1,22.47..
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥ विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥ ७.१,२२.४८॥
अस्त्र-शस्त्राणि अनेकानि स वीरः विसृजन् बभौ ॥ विसृजन् सर्व-भूतानि यथा आदौ विश्व-संभवः ॥ ७।१,२२।४८॥
astra-śastrāṇi anekāni sa vīraḥ visṛjan babhau .. visṛjan sarva-bhūtāni yathā ādau viśva-saṃbhavaḥ .. 7.1,22.48..
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥ तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥ ७.१,२२.४९॥
यथा रश्मिभिः आदित्यः प्रच्छादयति मेदिनीम् ॥ तथा वीरः क्षणात् एव शरैः प्राच्छादयत् दिशः ॥ ७।१,२२।४९॥
yathā raśmibhiḥ ādityaḥ pracchādayati medinīm .. tathā vīraḥ kṣaṇāt eva śaraiḥ prācchādayat diśaḥ .. 7.1,22.49..
खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥ उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥ ७.१,२२.५०॥
ख-मंडले गणेन्द्रस्य शराः कनक-भूषिताः ॥ उत्पतन्तः तडित्-रूपैः उपमान-पदम् ययुः ॥ ७।१,२२।५०॥
kha-maṃḍale gaṇendrasya śarāḥ kanaka-bhūṣitāḥ .. utpatantaḥ taḍit-rūpaiḥ upamāna-padam yayuḥ .. 7.1,22.50..
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥ प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥ ७.१,२२.५१॥
महांतः ते सुर-गणान् मंडूकान् इव डुंडुभाः ॥ प्राणैः वियोजयामासुः पपुः च रुधिर-आसवम् ॥ ७।१,२२।५१॥
mahāṃtaḥ te sura-gaṇān maṃḍūkān iva ḍuṃḍubhāḥ .. prāṇaiḥ viyojayāmāsuḥ papuḥ ca rudhira-āsavam .. 7.1,22.51..
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥ पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥ ७.१,२२.५२॥
निकृत्त-बाहवः केचिद् केचिद् लून-वर-आननाः ॥ पार्श्वे विदारिताः केचिद् निपेतुः अमराः भुवि ॥ ७।१,२२।५२॥
nikṛtta-bāhavaḥ kecid kecid lūna-vara-ānanāḥ .. pārśve vidāritāḥ kecid nipetuḥ amarāḥ bhuvi .. 7.1,22.52..
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥ विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥ ७.१,२२.५३॥
विशिख-उन्मथितैः गात्रैः बहुभिः छिन्न-सन्धिभिः ॥ विवृत्त-नयनाः केचिद् निपेतुः भू-तले मृताः ॥ ७।१,२२।५३॥
viśikha-unmathitaiḥ gātraiḥ bahubhiḥ chinna-sandhibhiḥ .. vivṛtta-nayanāḥ kecid nipetuḥ bhū-tale mṛtāḥ .. 7.1,22.53..
गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥ अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥ ७.१,२२.५३॥
गाम् प्रवेष्टुम् इव इच्छन्तः खम् गंतुम् इव लिप्सवः ॥ अलब्ध-आत्म-निरोधानाम् व्यलीयन्तः परस्परम् ॥ ७।१,२२।५३॥
gām praveṣṭum iva icchantaḥ kham gaṃtum iva lipsavaḥ .. alabdha-ātma-nirodhānām vyalīyantaḥ parasparam .. 7.1,22.53..
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥ अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥ ७.१,२२.५४॥
भूमौ केचिद् प्रविविशुः पर्वतानाम् गुहाः परे ॥ अपरे जग्मुः आकाशम् परे च विविशुः जलम् ॥ ७।१,२२।५४॥
bhūmau kecid praviviśuḥ parvatānām guhāḥ pare .. apare jagmuḥ ākāśam pare ca viviśuḥ jalam .. 7.1,22.54..
तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥ परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥ ७.१,२२.५५॥
तथा संछिन्न-सर्व-अंगैः स वीरः त्रिदशैः बभौ ॥ परिग्रस्त-प्रजा-वर्गः भगवान् इव भैरवः ॥ ७।१,२२।५५॥
tathā saṃchinna-sarva-aṃgaiḥ sa vīraḥ tridaśaiḥ babhau .. parigrasta-prajā-vargaḥ bhagavān iva bhairavaḥ .. 7.1,22.55..
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥ एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥ ७.१,२२.५६॥
दग्ध-त्रिपुर-संव्यूहः त्रिपुरारिः यथा भवत् ॥ एवम् देव-बलम् सर्वम् दीनम् बीभत्स-दर्शनम् ॥ ७।१,२२।५६॥
dagdha-tripura-saṃvyūhaḥ tripurāriḥ yathā bhavat .. evam deva-balam sarvam dīnam bībhatsa-darśanam .. 7.1,22.56..
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥ तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥ ७.१,२२.५७॥
गणेश्वर-समुत्पन्नम् कृपणम् वपुः आददे ॥ तदा त्रिदश-वीराणाम् असृक्-सलिल-वाहिनी ॥ ७।१,२२।५७॥
gaṇeśvara-samutpannam kṛpaṇam vapuḥ ādade .. tadā tridaśa-vīrāṇām asṛk-salila-vāhinī .. 7.1,22.57..
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥ रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥ ७.१,२२.५८॥
प्रावर्तत नदी घोरा प्राणिनाम् भय-शंसिनी ॥ रुधिरेण परिक्लिन्ना यज्ञ-भूमिः तदा बभौ ॥ ७।१,२२।५८॥
prāvartata nadī ghorā prāṇinām bhaya-śaṃsinī .. rudhireṇa pariklinnā yajña-bhūmiḥ tadā babhau .. 7.1,22.58..
रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥ तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥ ७.१,२२.५९॥
रक्त-आर्द्र-वसना श्यामा हत-शुंभा इव कैशिकी ॥ तस्मिन् महति संवृत्ते समरे भृश-दारुणे ॥ ७।१,२२।५९॥
rakta-ārdra-vasanā śyāmā hata-śuṃbhā iva kaiśikī .. tasmin mahati saṃvṛtte samare bhṛśa-dāruṇe .. 7.1,22.59..
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥ महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥ ७.१,२२.६०॥
भयेन इव परित्रस्ता प्रचचाल वसुन्धरा ॥ महा-ऊर्मि-कलिल-आवर्तः चुक्षुभे च महा-उदधिः ॥ ७।१,२२।६०॥
bhayena iva paritrastā pracacāla vasundharā .. mahā-ūrmi-kalila-āvartaḥ cukṣubhe ca mahā-udadhiḥ .. 7.1,22.60..
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥ अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥ ७.१,२२.६१॥
पेतुः च उल्काः महा-उत्पाताः शाखाः च मुमुचुः द्रुमाः ॥ अप्रसन्नाः दिशः सर्वाः पवनः च अशिवः ववौ ॥ ७।१,२२।६१॥
petuḥ ca ulkāḥ mahā-utpātāḥ śākhāḥ ca mumucuḥ drumāḥ .. aprasannāḥ diśaḥ sarvāḥ pavanaḥ ca aśivaḥ vavau .. 7.1,22.61..
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥ यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥ ७.१,२२.६२॥
अहो विधि-विपर्यासः तु अश्वमेधः यम् अध्वरः ॥ यजमानः स्वयम् दक्षौ ब्रह्म-पुत्र-प्रजापतिः ॥ ७।१,२२।६२॥
aho vidhi-viparyāsaḥ tu aśvamedhaḥ yam adhvaraḥ .. yajamānaḥ svayam dakṣau brahma-putra-prajāpatiḥ .. 7.1,22.62..
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥ भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥ ७.१,२२.६३॥
धर्म-आदयः सदस्याः च रक्षिता गरुडध्वजः ॥ भागान् च प्रतिगृह्णंति साक्षात् इंद्र-आदयः सुराः ॥ ७।१,२२।६३॥
dharma-ādayaḥ sadasyāḥ ca rakṣitā garuḍadhvajaḥ .. bhāgān ca pratigṛhṇaṃti sākṣāt iṃdra-ādayaḥ surāḥ .. 7.1,22.63..
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥ सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥ ७.१,२२.६४॥
तथा अपि यजमानस्य यज्ञस्य च सह ऋत्विजः ॥ सद्यस् एव शिरः-छेदः साधु संपद्यते फलम् ॥ ७।१,२२।६४॥
tathā api yajamānasya yajñasya ca saha ṛtvijaḥ .. sadyas eva śiraḥ-chedaḥ sādhu saṃpadyate phalam .. 7.1,22.64..
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥ नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥ ७.१,२२.६५॥
तस्मात् न अ वेद-निर्दिष्टम् न च ईश्वर-बहिष्कृतम् ॥ न असत्-परिगृहीतम् च कर्म कुर्यात् कदाचन ॥ ७।१,२२।६५॥
tasmāt na a veda-nirdiṣṭam na ca īśvara-bahiṣkṛtam .. na asat-parigṛhītam ca karma kuryāt kadācana .. 7.1,22.65..
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥ न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥ ७.१,२२.६६॥
कृत्वा अपि सु महत् पुण्यम् इष्ट्वा यज्ञ-शतैः अपि ॥ न तद्-फलम् अवाप्नोति भक्ति-हीनः महेश्वरे ॥ ७।१,२२।६६॥
kṛtvā api su mahat puṇyam iṣṭvā yajña-śataiḥ api .. na tad-phalam avāpnoti bhakti-hīnaḥ maheśvare .. 7.1,22.66..
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥ मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥ ७.१,२२.६७॥
कृत्वा अपि सु महत् पापम् भक्त्या यजति यः शिवम् ॥ मुच्यते पातकैः सर्वैः न अत्र कार्या विचारणा ॥ ७।१,२२।६७॥
kṛtvā api su mahat pāpam bhaktyā yajati yaḥ śivam .. mucyate pātakaiḥ sarvaiḥ na atra kāryā vicāraṇā .. 7.1,22.67..
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥ वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥ ७.१,२२.६८॥
बहुना अत्र किम् उक्तेन वृथा दानम् वृथा तपः ॥ वृथा यज्ञः वृथा होमः शिव-निन्दा-रतस्य तु ॥ ७।१,२२।६८॥
bahunā atra kim uktena vṛthā dānam vṛthā tapaḥ .. vṛthā yajñaḥ vṛthā homaḥ śiva-nindā-ratasya tu .. 7.1,22.68..
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥ गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥ ७.१,२२.६९॥
ततस् स नारायणकाः स रुद्राः स लोकपालाः समरे सुर-ओघाः ॥ गणेंद्र-चाप-च्युत-बाण-विद्धाः प्रदुद्रुवुः गाढ-रुजा-अभिभूताः ॥ ७।१,२२।६९॥
tatas sa nārāyaṇakāḥ sa rudrāḥ sa lokapālāḥ samare sura-oghāḥ .. gaṇeṃdra-cāpa-cyuta-bāṇa-viddhāḥ pradudruvuḥ gāḍha-rujā-abhibhūtāḥ .. 7.1,22.69..
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥ पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥ ७.१,२२.७०॥
चेलुः क्वचिद् केचन शीर्ण-केशाः सेदुः क्वचिद् केचन दीर्घ-गात्राः ॥ पेतुः क्वचिद् केचन भिन्न-वक्त्राः नेशुः क्वचिद् केचन देव-वीराः ॥ ७।१,२२।७०॥
celuḥ kvacid kecana śīrṇa-keśāḥ seduḥ kvacid kecana dīrgha-gātrāḥ .. petuḥ kvacid kecana bhinna-vaktrāḥ neśuḥ kvacid kecana deva-vīrāḥ .. 7.1,22.70..
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥ निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥ ७.१,२२.७१॥
केचिद् च तत्र त्रिदशाः विपन्नाः विस्रस्त-वस्त्र-आभरण-अस्त्र-शस्त्राः ॥ निपेतुः उद्भासित-दीन-मुद्राः मदम् च दर्पम् च बलम् च हित्वा ॥ ७।१,२२।७१॥
kecid ca tatra tridaśāḥ vipannāḥ visrasta-vastra-ābharaṇa-astra-śastrāḥ .. nipetuḥ udbhāsita-dīna-mudrāḥ madam ca darpam ca balam ca hitvā .. 7.1,22.71..
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥ बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥ ७.१,२२.७२॥
सस्मिन् उत्पथ-प्रस्थितम् अप्रधृष्यः विक्षिप्य दक्ष-अध्वरम् अक्षत-अस्त्रैः ॥ बभौ गणेशः स गणेश्वराणाम् मध्ये स्थितः सिंहः इव ऋषभाणाम् ॥ ७।१,२२।७२॥
sasmin utpatha-prasthitam apradhṛṣyaḥ vikṣipya dakṣa-adhvaram akṣata-astraiḥ .. babhau gaṇeśaḥ sa gaṇeśvarāṇām madhye sthitaḥ siṃhaḥ iva ṛṣabhāṇām .. 7.1,22.72..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्-खण्डे दक्षयज्ञविध्वंसवर्णनम् नाम द्वाविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūr-khaṇḍe dakṣayajñavidhvaṃsavarṇanam nāma dvāviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In