| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
इति सञ्छिन्नभिन्नांगा देवा विष्णुपुरोगमाः ॥ क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिता ॥ ७.१,२३.१॥
इति सञ्छिन्न-भिन्न-अंगाः देवाः विष्णु-पुरोगमाः ॥ क्षणात् कष्टाम् दशाम् एत्य त्रेसुः स्तोक-अवशेषिता ॥ ७।१,२३।१॥
iti sañchinna-bhinna-aṃgāḥ devāḥ viṣṇu-purogamāḥ .. kṣaṇāt kaṣṭām daśām etya tresuḥ stoka-avaśeṣitā .. 7.1,23.1..
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ॥ प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ ७.१,२३.२॥
त्रस्तान् तान् समरे वीरान् देवान् अन्यान् च वै गणाः ॥ प्रमथाः परम-क्रुद्धाः वीरभद्र-प्रणोदिताः ॥ ७।१,२३।२॥
trastān tān samare vīrān devān anyān ca vai gaṇāḥ .. pramathāḥ parama-kruddhāḥ vīrabhadra-praṇoditāḥ .. 7.1,23.2..
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ॥ बबन्धुः पाणिपादेषु कंधरेषूदरेषु च ॥ ७.१,२३.३॥
प्रगृह्य च तथा दोषम् निगडैः आयसैः दृढैः ॥ बबन्धुः पाणि-पादेषु कंधरेषु उदरेषु च ॥ ७।१,२३।३॥
pragṛhya ca tathā doṣam nigaḍaiḥ āyasaiḥ dṛḍhaiḥ .. babandhuḥ pāṇi-pādeṣu kaṃdhareṣu udareṣu ca .. 7.1,23.3..
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ॥ सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतो ऽब्रवीत् ॥ ७.१,२३.४॥
तस्मिन् अवसरे ब्रह्मा ॥ सारथ्यात् लब्ध-वात्सल्यः प्रार्थयन् प्रणतः अब्रवीत् ॥ ७।१,२३।४॥
tasmin avasare brahmā .. sārathyāt labdha-vātsalyaḥ prārthayan praṇataḥ abravīt .. 7.1,23.4..
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ॥ प्रसीद क्षम्यतां सर्वं रोमजैस्सह सुव्रत ॥ ७.१,२३.५॥
अलम् क्रोधेन भगवत् नष्टाः च एते दिवौकसः ॥ प्रसीद क्षम्यताम् सर्वम् रोम-जैः सह सुव्रत ॥ ७।१,२३।५॥
alam krodhena bhagavat naṣṭāḥ ca ete divaukasaḥ .. prasīda kṣamyatām sarvam roma-jaiḥ saha suvrata .. 7.1,23.5..
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ॥ शमं जगाम संप्रीतो गणपस्तस्य गौरवात् ॥ ७.१,२३.६॥
एवम् विज्ञापितः तेन ब्रह्मणा परमेष्ठिना ॥ शमम् जगाम संप्रीतः गणपः तस्य गौरवात् ॥ ७।१,२३।६॥
evam vijñāpitaḥ tena brahmaṇā parameṣṭhinā .. śamam jagāma saṃprītaḥ gaṇapaḥ tasya gauravāt .. 7.1,23.6..
देवाश्च लब्धावसरा देवदेवस्य मंत्रिणः ॥ धारयन्तो ऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७.१,२३.७॥
देवाः च लब्ध-अवसराः देवदेवस्य मंत्रिणः ॥ धारयन्तः अञ्जलीन् मूर्ध्नि तुष्टुवुः विविधैः स्तवैः ॥ ७।१,२३।७॥
devāḥ ca labdha-avasarāḥ devadevasya maṃtriṇaḥ .. dhārayantaḥ añjalīn mūrdhni tuṣṭuvuḥ vividhaiḥ stavaiḥ .. 7.1,23.7..
देवा ऊचुः॥
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ॥ रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ७.१,२३. ८॥
नमः शिवाय शान्ताय यज्ञ-हन्त्रे त्रिशूलिने ॥ रुद्र-भद्राय रुद्राणाम् पतये रुद्र-भूतये ॥ ७।१,२३। ८॥
namaḥ śivāya śāntāya yajña-hantre triśūline .. rudra-bhadrāya rudrāṇām pataye rudra-bhūtaye .. 7.1,23. 8..
कालाग्निरुद्ररूपाय कालकामांगहारिणे ॥ देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ७.१,२३.९॥
कालाग्नि-रुद्र-रूपाय काल-काम-अंग-हारिणे ॥ देवतानाम् शिरः-हन्त्रे दक्षस्य च दुरात्मनः ॥ ७।१,२३।९॥
kālāgni-rudra-rūpāya kāla-kāma-aṃga-hāriṇe .. devatānām śiraḥ-hantre dakṣasya ca durātmanaḥ .. 7.1,23.9..
संसर्गादस्य पापस्य दक्षस्याक्लिष्टकर्मणः ॥ शासिताः समरे वीर त्वया वयमनिन्दिता ॥ ७.१,२३.१०॥
संसर्गात् अस्य पापस्य दक्षस्य अक्लिष्ट-कर्मणः ॥ शासिताः समरे वीर त्वया वयम् अनिन्दिता ॥ ७।१,२३।१०॥
saṃsargāt asya pāpasya dakṣasya akliṣṭa-karmaṇaḥ .. śāsitāḥ samare vīra tvayā vayam aninditā .. 7.1,23.10..
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ॥ त्वमेव गतिरस्माकं त्राहि नश्शरणागतान् ॥ ७.१,२३.११॥
दग्धाः च अमी वयम् सर्वे त्वत्तः भीताः च भो प्रभो ॥ त्वम् एव गतिः अस्माकम् त्राहि नः शरण-आगतान् ॥ ७।१,२३।११॥
dagdhāḥ ca amī vayam sarve tvattaḥ bhītāḥ ca bho prabho .. tvam eva gatiḥ asmākam trāhi naḥ śaraṇa-āgatān .. 7.1,23.11..
वायुरुवाच॥
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ॥ आनयद्देवदेवस्य समीपममरानिह ॥ ७.१,२३.१२॥
तुष्टः तु एवम् स्तुतः देवान् विसृज्य निगडात् प्रभुः ॥ आनयत् देवदेवस्य समीपम् अमरान् इह ॥ ७।१,२३।१२॥
tuṣṭaḥ tu evam stutaḥ devān visṛjya nigaḍāt prabhuḥ .. ānayat devadevasya samīpam amarān iha .. 7.1,23.12..
देवोपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ॥ सगणः सर्वगः शर्वस्सर्वलोकमहेश्वरः ॥ ७.१,२३.१३॥
तत्र भगवान् अन्तरिक्षे स्थितः प्रभुः ॥ स गणः सर्वगः शर्वः सर्व-लोक-महेश्वरः ॥ ७।१,२३।१३॥
tatra bhagavān antarikṣe sthitaḥ prabhuḥ .. sa gaṇaḥ sarvagaḥ śarvaḥ sarva-loka-maheśvaraḥ .. 7.1,23.13..
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ॥ प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ ७.१,२३.१४॥
तम् दृष्ट्वा परमेशानम् देवाः विष्णु-पुरोगमाः ॥ प्रीताः अपि च भीताः च नमः चक्रुः महेश्वरम् ॥ ७।१,२३।१४॥
tam dṛṣṭvā parameśānam devāḥ viṣṇu-purogamāḥ .. prītāḥ api ca bhītāḥ ca namaḥ cakruḥ maheśvaram .. 7.1,23.14..
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ॥ इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७.१,२३.१५॥
दृष्ट्वा तान् अमरान् भीतान् प्रणत-आर्ति-हरः हरः ॥ इदम् आह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ ७।१,२३।१५॥
dṛṣṭvā tān amarān bhītān praṇata-ārti-haraḥ haraḥ .. idam āha mahādevaḥ prahasan prekṣya pārvatīm .. 7.1,23.15..
महादेव उवाच॥
माभैष्ट त्रिदशास्सर्वे यूयं वै मामिकाः प्रजाः ॥ अनुग्रहार्थमेवेह धृतो दंडः कृपालुना ॥ ७.१,२३.१६॥
मा अभैष्ट त्रिदशाः सर्वे यूयम् वै मामिकाः प्रजाः ॥ अनुग्रह-अर्थम् एवा इह धृतः दंडः कृपालुना ॥ ७।१,२३।१६॥
mā abhaiṣṭa tridaśāḥ sarve yūyam vai māmikāḥ prajāḥ .. anugraha-artham evā iha dhṛtaḥ daṃḍaḥ kṛpālunā .. 7.1,23.16..
भवतां निर्जराणां हि क्षान्तो ऽस्माभिर्व्यतिक्रमः ॥ क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ ७.१,२३.१७॥
भवताम् निर्जराणाम् हि क्षान्तः अस्माभिः व्यतिक्रमः ॥ क्रुद्धेषु अस्मासु युष्माकम् न स्थितिः न च जीवितम् ॥ ७।१,२३।१७॥
bhavatām nirjarāṇām hi kṣāntaḥ asmābhiḥ vyatikramaḥ .. kruddheṣu asmāsu yuṣmākam na sthitiḥ na ca jīvitam .. 7.1,23.17..
वायुरुवाच॥
इत्युक्तास्त्रिदशास्सर्वे शर्वेणामिततेजसा ॥ सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ ७.१,२३.१८॥
इति उक्ताः त्रिदशाः सर्वे शर्वेण अमित-तेजसा ॥ सद्यस् विगत-सन्देहाः ननृतुः विबुधाः मुदा ॥ ७।१,२३।१८॥
iti uktāḥ tridaśāḥ sarve śarveṇa amita-tejasā .. sadyas vigata-sandehāḥ nanṛtuḥ vibudhāḥ mudā .. 7.1,23.18..
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ॥ स्तुतिमारेभिरे कर्तुं शंकरस्य दिवौकसः ॥ ७.१,२३.१९॥
प्रसन्न-मनसः भूत्वा आनन्द-विह्वल-मानसाः ॥ स्तुतिम् आरेभिरे कर्तुम् शंकरस्य दिवौकसः ॥ ७।१,२३।१९॥
prasanna-manasaḥ bhūtvā ānanda-vihvala-mānasāḥ .. stutim ārebhire kartum śaṃkarasya divaukasaḥ .. 7.1,23.19..
देवा ऊचुः॥
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरो ऽसि ॥ कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमस्सत्त्वधृतात्ममूर्ते ॥ ७.१,२३.२०॥
त्वम् एव देव अखिल-लोक-कर्ता पाता च हर्ता परमेश्वरः असि ॥ क-विष्णु-रुद्र-आख्य-स्व-रूप-भेदैः रजः-तमः-सत्त्व-धृत-आत्म-मूर्ते ॥ ७।१,२३।२०॥
tvam eva deva akhila-loka-kartā pātā ca hartā parameśvaraḥ asi .. ka-viṣṇu-rudra-ākhya-sva-rūpa-bhedaiḥ rajaḥ-tamaḥ-sattva-dhṛta-ātma-mūrte .. 7.1,23.20..
सर्वमूर्ते नमस्ते ऽस्तु विश्वभावन पावन ॥ अमूर्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ ७.१,२३.२१॥
सर्वमूर्ते नमः ते अस्तु विश्वभावन पावन ॥ अमूर्ते भक्त-हेतोः हि गृहीत-आकृति-सौख्य-द ॥ ७।१,२३।२१॥
sarvamūrte namaḥ te astu viśvabhāvana pāvana .. amūrte bhakta-hetoḥ hi gṛhīta-ākṛti-saukhya-da .. 7.1,23.21..
चंद्रो ऽगदो हि देवेश कृपातस्तव शंकर ॥ निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ ७.१,२३.२२॥
चंद्रः अगदः हि देवेश कृपातः तव शंकर ॥ निमज्जनात् मृतः प्राप सुखम् मिहिरजाजलिः ॥ ७।१,२३।२२॥
caṃdraḥ agadaḥ hi deveśa kṛpātaḥ tava śaṃkara .. nimajjanāt mṛtaḥ prāpa sukham mihirajājaliḥ .. 7.1,23.22..
सीमन्तिनी हतधवा तव पूजनतः प्रभो ॥ सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ ७.१,२३.२३॥
सीमन्तिनी हत-धवा तव पूजनतः प्रभो ॥ सौभाग्यम् अतुलम् प्राप सोमवारव्रतात् सुतान् ॥ ७।१,२३।२३॥
sīmantinī hata-dhavā tava pūjanataḥ prabho .. saubhāgyam atulam prāpa somavāravratāt sutān .. 7.1,23.23..
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ॥ सुदर्शनमरक्षस्त्वं नृपमंडलभीतितः ॥ ७.१,२३.२४॥
श्रीकराय ददौ देवः स्वीयम् पदम् अनुत्तमम् ॥ सुदर्शनम् अरक्षः त्वम् नृप-मंडल-भीतितः ॥ ७।१,२३।२४॥
śrīkarāya dadau devaḥ svīyam padam anuttamam .. sudarśanam arakṣaḥ tvam nṛpa-maṃḍala-bhītitaḥ .. 7.1,23.24..
मेदुरं तारयामास सदारं च घृणानिधिः ॥ शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ ७.१,२३.२५॥
मेदुरम् तारयामास स दारम् च घृणा-निधिः ॥ शारदाम् विधवाम् चक्रे स धवाम् क्रियया भवान् ॥ ७।१,२३।२५॥
meduram tārayāmāsa sa dāram ca ghṛṇā-nidhiḥ .. śāradām vidhavām cakre sa dhavām kriyayā bhavān .. 7.1,23.25..
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ॥ सौमिनी भवबन्धाद्वै मुक्ता ऽभूत्तव सेवनात् ॥ ७.१,२३.२६॥
भद्र-आयुषः विपत्तिम् च विच्छिद्य त्वम् अदाः सुखम् ॥ सौमिनी भव-बन्धात् वै मुक्ता अभूत् तव सेवनात् ॥ ७।१,२३।२६॥
bhadra-āyuṣaḥ vipattim ca vicchidya tvam adāḥ sukham .. sauminī bhava-bandhāt vai muktā abhūt tava sevanāt .. 7.1,23.26..
विष्णुरुवाच॥
त्वं शंभो कहरीशाश्च रजस्सत्त्वतमोगुणैः ॥ कर्ता पाता तथा हर्ता जनानुग्रहकांक्षया ॥ ७.१,२३.२७॥
त्वम् शंभो कहरि-ईशाः च रजः-सत्त्व-तमः-गुणैः ॥ कर्ता पाता तथा हर्ता जन-अनुग्रह-कांक्षया ॥ ७।१,२३।२७॥
tvam śaṃbho kahari-īśāḥ ca rajaḥ-sattva-tamaḥ-guṇaiḥ .. kartā pātā tathā hartā jana-anugraha-kāṃkṣayā .. 7.1,23.27..
सर्वगर्वापहारी च सर्वतेजोविलासकः ॥ सर्वविद्यादिगूढश्च सर्वानुग्रहकारकः ॥ ७.१,२३.२८॥
च सर्व ॥ सर्व-विद्या-आदि-गूढः च सर्व-अनुग्रह-कारकः ॥ ७।१,२३।२८॥
ca sarva .. sarva-vidyā-ādi-gūḍhaḥ ca sarva-anugraha-kārakaḥ .. 7.1,23.28..
त्वत्तः सर्वं च त्वं सर्वं त्वयि सर्वं गिरीश्वर ॥ त्राहि त्राहि पुनस्त्राहि कृपां कुरु ममोपरि ॥ ७.१,२३.२९॥
त्वत्तः सर्वम् च त्वम् सर्वम् त्वयि सर्वम् गिरि-ईश्वर ॥ त्राहि त्राहि पुनर् त्राहि कृपाम् कुरु मम उपरि ॥ ७।१,२३।२९॥
tvattaḥ sarvam ca tvam sarvam tvayi sarvam giri-īśvara .. trāhi trāhi punar trāhi kṛpām kuru mama upari .. 7.1,23.29..
अथास्मिन्नन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ एवं त्ववसरं प्राप्य व्यज्ञापयत शूलिने ॥ ७.१,२३.३०॥
अथ अस्मिन् अन्तरे ब्रह्मा प्रणिपत्य कृतांजलिः ॥ एवम् तु अवसरम् प्राप्य व्यज्ञापयत शूलिने ॥ ७।१,२३।३०॥
atha asmin antare brahmā praṇipatya kṛtāṃjaliḥ .. evam tu avasaram prāpya vyajñāpayata śūline .. 7.1,23.30..
ब्रह्मोवाच॥
जय देव महादेव प्रणतार्तिविभंजन ॥ ईदृशेष्वपराधेषु को ऽन्यस्त्वत्तः प्रसीदति ॥ ७.१,२३.३१॥
जय देव महादेव प्रणत-आर्ति-विभंजन ॥ ईदृशेषु अपराधेषु कः अन्यः त्वत्तः प्रसीदति ॥ ७।१,२३।३१॥
jaya deva mahādeva praṇata-ārti-vibhaṃjana .. īdṛśeṣu aparādheṣu kaḥ anyaḥ tvattaḥ prasīdati .. 7.1,23.31..
लब्धमानो भविष्यंति ये पुरा निहिता मृधे ॥ प्रत्यापत्तिर्न कस्य स्यात्प्रसन्ने परमेश्वरे ॥ ७.१,२३.३२॥
भविष्यन्ति ये पुरा निहिताः मृधे ॥ प्रत्यापत्तिः न कस्य स्यात् प्रसन्ने परमेश्वरे ॥ ७।१,२३।३२॥
bhaviṣyanti ye purā nihitāḥ mṛdhe .. pratyāpattiḥ na kasya syāt prasanne parameśvare .. 7.1,23.32..
यदिदं देवदेवानां कृतमन्तुषु दूषणम् ॥ तदिदं भूषणं मन्येत अंगीकारगौरवात् ॥ ७.१,२३.३३॥
यत् इदम् देवदेवानाम् कृत-मन्तुषु दूषणम् ॥ तत् इदम् भूषणम् मन्येत अंगीकार-गौरवात् ॥ ७।१,२३।३३॥
yat idam devadevānām kṛta-mantuṣu dūṣaṇam .. tat idam bhūṣaṇam manyeta aṃgīkāra-gauravāt .. 7.1,23.33..
इति विज्ञाप्यमानस्तु ब्रह्मणा परमेष्ठिना ॥ विलोक्य वदनं देव्या देवदेवस्स्मयन्निव ॥ ७.१,२३.३४॥
इति विज्ञाप्यमानः तु ब्रह्मणा परमेष्ठिना ॥ विलोक्य वदनम् देव्याः देवदेवः स्मयन् इव ॥ ७।१,२३।३४॥
iti vijñāpyamānaḥ tu brahmaṇā parameṣṭhinā .. vilokya vadanam devyāḥ devadevaḥ smayan iva .. 7.1,23.34..
पुत्रभूतस्य वात्सल्याद्ब्रह्मणः पद्मजन्मनः ॥ देवादीनां यथापूर्वमंगानि प्रददौ प्रभुः ॥ ७.१,२३.३५॥
पुत्र-भूतस्य वात्सल्यात् ब्रह्मणः पद्मजन्मनः ॥ देव-आदीनाम् यथापूर्वम् अंगानि प्रददौ प्रभुः ॥ ७।१,२३।३५॥
putra-bhūtasya vātsalyāt brahmaṇaḥ padmajanmanaḥ .. deva-ādīnām yathāpūrvam aṃgāni pradadau prabhuḥ .. 7.1,23.35..
प्रथमाद्यैश्च या देव्यो दंडिता देवमातरः ॥ तासामपि यथापूर्वाण्यंगानि गिरिशो ददौ ॥ ७.१,२३.३६॥
प्रथम-आद्यैः च याः देव्यः दंडिताः देवमातरः ॥ तासाम् अपि यथापूर्वाणि अंगानि गिरिशः ददौ ॥ ७।१,२३।३६॥
prathama-ādyaiḥ ca yāḥ devyaḥ daṃḍitāḥ devamātaraḥ .. tāsām api yathāpūrvāṇi aṃgāni giriśaḥ dadau .. 7.1,23.36..
दक्षस्य भगवानेव स्वयं ब्रह्मा पितामहः ॥ तत्पापानुगुणं चक्रे जरच्छागमुखं मुखम् ॥ ७.१,२३.३७॥
दक्षस्य भगवान् एव स्वयम् ब्रह्मा पितामहः ॥ तद्-पाप-अनुगुणम् चक्रे जरत्-छाग-मुखम् मुखम् ॥ ७।१,२३।३७॥
dakṣasya bhagavān eva svayam brahmā pitāmahaḥ .. tad-pāpa-anuguṇam cakre jarat-chāga-mukham mukham .. 7.1,23.37..
सो ऽपि संज्ञां ततो लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ भीतः कृताञ्जलिः शंभुं तुष्टाव प्रलपन्बहु ॥ ७.१,२३.३८॥
सः अपि संज्ञाम् ततस् लब्ध्वा स दृष्ट्वा जीवितः सुधी ॥ भीतः कृताञ्जलिः शंभुम् तुष्टाव प्रलपन् बहु ॥ ७।१,२३।३८॥
saḥ api saṃjñām tatas labdhvā sa dṛṣṭvā jīvitaḥ sudhī .. bhītaḥ kṛtāñjaliḥ śaṃbhum tuṣṭāva pralapan bahu .. 7.1,23.38..
दक्ष उवाच॥
जय देव जगन्नाथ लोकानुग्रहकारक ॥ कृपां कुरु महेशानापराधं मे क्षमस्व ह ॥ ७.१,२३.३९॥
जय देव जगन्नाथ लोक-अनुग्रह-कारक ॥ कृपाम् कुरु महेशान अपराधम् मे क्षमस्व ह ॥ ७।१,२३।३९॥
jaya deva jagannātha loka-anugraha-kāraka .. kṛpām kuru maheśāna aparādham me kṣamasva ha .. 7.1,23.39..
कर्ता भर्ता च हर्ता च त्वमेव जगतां प्रभो ॥ मया ज्ञातं विशेषेण विष्ण्वादिसकलेश्वरः ॥ ७.१,२३.४०॥
कर्ता भर्ता च हर्ता च त्वम् एव जगताम् प्रभो ॥ मया ज्ञातम् विशेषेण विष्णु-आदि-सकल-ईश्वरः ॥ ७।१,२३।४०॥
kartā bhartā ca hartā ca tvam eva jagatām prabho .. mayā jñātam viśeṣeṇa viṣṇu-ādi-sakala-īśvaraḥ .. 7.1,23.40..
त्वयैव विततं सर्वं व्याप्तं सृष्टं न नाशितम् ॥ न हि त्वदधिकाः केचिदीशास्ते ऽच्युतकादयः ॥ ७.१,२३.४१॥
त्वया एव विततम् सर्वम् व्याप्तम् सृष्टम् न नाशितम् ॥ न हि त्वद्-अधिकाः केचिद् ईशाः ते अच्युतक-आदयः ॥ ७।१,२३।४१॥
tvayā eva vitatam sarvam vyāptam sṛṣṭam na nāśitam .. na hi tvad-adhikāḥ kecid īśāḥ te acyutaka-ādayaḥ .. 7.1,23.41..
वायुरुवाच॥
तं तथा व्याकुलं भीतं प्रलपंतं कृतागसम् ॥ स्मयन्निवावदत्प्रेक्ष्य मा भैरिति घृणानिधिः ॥ ७.१,२३.४२॥
तम् तथा व्याकुलम् भीतम् प्रलपन्तम् कृत-आगसम् ॥ स्मयन् इव अवदत् प्रेक्ष्य मा भैः इति घृणा-निधिः ॥ ७।१,२३।४२॥
tam tathā vyākulam bhītam pralapantam kṛta-āgasam .. smayan iva avadat prekṣya mā bhaiḥ iti ghṛṇā-nidhiḥ .. 7.1,23.42..
तथोक्त्वा ब्रह्मणस्तस्य पितुः प्रियचिकीर्षया ॥ गाणपत्यं ददौ तस्मै दक्षायाक्षयमीश्वरः ॥ ७.१,२३.४३॥
तथा उक्त्वा ब्रह्मणः तस्य पितुः प्रिय-चिकीर्षया ॥ गाणपत्यम् ददौ तस्मै दक्षाय अक्षयम् ईश्वरः ॥ ७।१,२३।४३॥
tathā uktvā brahmaṇaḥ tasya pituḥ priya-cikīrṣayā .. gāṇapatyam dadau tasmai dakṣāya akṣayam īśvaraḥ .. 7.1,23.43..
ततो ब्रह्मादयो देवा अभिवंद्य कृत ंजलिः ॥ तुष्टुवुः प्रश्रया वाचा शंकरं गिरिजाधिपम् ॥ ७.१,२३.४४॥
ततस् ब्रह्म-आदयः देवाः अभिवंद्य कृत-अंजलिः ॥ तुष्टुवुः प्रश्रया वाचा शंकरम् गिरिज-अधिपम् ॥ ७।१,२३।४४॥
tatas brahma-ādayaḥ devāḥ abhivaṃdya kṛta-aṃjaliḥ .. tuṣṭuvuḥ praśrayā vācā śaṃkaram girija-adhipam .. 7.1,23.44..
ब्रह्मादय ऊचुः॥
जय शंकर देवेश दीनानाथ महाप्रभो ॥ कृपां कुरु महेशानापराधं नो क्षमस्व वै ॥ ७.१,२३.४५॥
जय शंकर देवेश दीनानाथ महा-प्रभो ॥ कृपाम् कुरु महेशान अपराधम् नो क्षमस्व वै ॥ ७।१,२३।४५॥
jaya śaṃkara deveśa dīnānātha mahā-prabho .. kṛpām kuru maheśāna aparādham no kṣamasva vai .. 7.1,23.45..
मखपाल मखाधीश मखविध्वंसकारक ॥ कृपां कुरु मशानापराधं नः क्षमस्व वै ॥ ७.१,२३.४६॥
॥ कृपाम् कुरु मशान-अपराधम् नः क्षमस्व वै ॥ ७।१,२३।४६॥
.. kṛpām kuru maśāna-aparādham naḥ kṣamasva vai .. 7.1,23.46..
देवदेव परेशान भक्तप्राणप्रपोषक ॥ दुष्टदण्डप्रद स्वामिन्कृपां कुरु नमो ऽस्तु ते ॥ ७.१,२३.४७॥
॥ दुष्ट-दण्ड-प्रद स्वामिन् कृपाम् कुरु नमः अस्तु ते ॥ ७।१,२३।४७॥
.. duṣṭa-daṇḍa-prada svāmin kṛpām kuru namaḥ astu te .. 7.1,23.47..
त्वं प्रभो गर्वहर्ता वै दुष्टानां त्वामजानताम् ॥ रक्षको हि विशेषेण सतां त्वत्सक्तचेतसाम् ॥ ७.१,२३.४८॥
त्वम् प्रभो गर्व-हर्ता वै दुष्टानाम् त्वाम् अ जानताम् ॥ रक्षकः हि विशेषेण सताम् त्वद्-सक्त-चेतसाम् ॥ ७।१,२३।४८॥
tvam prabho garva-hartā vai duṣṭānām tvām a jānatām .. rakṣakaḥ hi viśeṣeṇa satām tvad-sakta-cetasām .. 7.1,23.48..
अद्भुतं चरितं ते हि निश्चितं कृपया तव ॥ सर्वापराधः क्षंतव्यो विभवो दीनवत्सलाः ॥ ७.१,२३.४९॥
अद्भुतम् चरितम् ते हि निश्चितम् कृपया तव ॥ सर्व-अपराधः क्षंतव्यः विभवः दीन-वत्सलाः ॥ ७।१,२३।४९॥
adbhutam caritam te hi niścitam kṛpayā tava .. sarva-aparādhaḥ kṣaṃtavyaḥ vibhavaḥ dīna-vatsalāḥ .. 7.1,23.49..
वायुरुवाच॥
इति स्तुतो महादेवो ब्रह्माद्यैरमरैः प्रभुः ॥ स भक्तवत्सलस्स्वामी तुतोष करुणोदधिः ॥ ७.१,२३.५०॥
इति स्तुतः महादेवः ब्रह्म-आद्यैः अमरैः प्रभुः ॥ स भक्त-वत्सलः स्वामी तुतोष करुणा-उदधिः ॥ ७।१,२३।५०॥
iti stutaḥ mahādevaḥ brahma-ādyaiḥ amaraiḥ prabhuḥ .. sa bhakta-vatsalaḥ svāmī tutoṣa karuṇā-udadhiḥ .. 7.1,23.50..
चकारानुग्रहं तेषां ब्रह्मादीनां दिवौकसाम् ॥ ददौ नरांश्च सुप्रीत्या शंकरो दीनवत्सलः ॥ ७.१,२३.५१॥
चकार अनुग्रहम् तेषाम् ब्रह्म-आदीनाम् दिवौकसाम् ॥ ददौ नरान् च सु प्रीत्या शंकरः दीन-वत्सलः ॥ ७।१,२३।५१॥
cakāra anugraham teṣām brahma-ādīnām divaukasām .. dadau narān ca su prītyā śaṃkaraḥ dīna-vatsalaḥ .. 7.1,23.51..
स च ततस्त्रिदशाञ्छरणागतान् परमकारुणिकः परमेश्वरः ॥ अनुगतस्मितलक्षणया गिरा शमितसर्वभयः समभाषत ॥ ७.१,२३.५२॥
स च ततस् त्रिदशान् शरण-आगतान् परम-कारुणिकः परमेश्वरः ॥ अनुगत-स्मित-लक्षणया गिरा शमित-सर्व-भयः समभाषत ॥ ७।१,२३।५२॥
sa ca tatas tridaśān śaraṇa-āgatān parama-kāruṇikaḥ parameśvaraḥ .. anugata-smita-lakṣaṇayā girā śamita-sarva-bhayaḥ samabhāṣata .. 7.1,23.52..
शिव उवाच॥
यदिदमाग इहाचरितं सुरैर्विधिनियोगवशादिव यन्त्रितैः ॥ शरणमेव गतानवलोक्य वस्तदखिलं किल विस्मृतमेव नः ॥ ७.१,२३.५३॥
यत् इदम् आगः इह आचरितम् सुरैः विधि-नियोग-वशात् इव यन्त्रितैः ॥ शरणम् एव गतान् अवलोक्य वः तत् अखिलम् किल विस्मृतम् एव नः ॥ ७।१,२३।५३॥
yat idam āgaḥ iha ācaritam suraiḥ vidhi-niyoga-vaśāt iva yantritaiḥ .. śaraṇam eva gatān avalokya vaḥ tat akhilam kila vismṛtam eva naḥ .. 7.1,23.53..
तदिह यूयमपि प्रकृतं मनस्यविगणय्य विमर्दमपत्रपाः ॥ हरिविरिंचिसुरेन्द्रमुखास्सुखं व्रजत देवपुरं प्रति संप्रति ॥ ७.१,२३.५४॥
तत् इह यूयम् अपि प्रकृतम् मनसि अ विगणय्य विमर्दम् अपत्रपाः ॥ हरि-विरिंचि-सुर-इन्द्र-मुखाः सुखम् व्रजत देव-पुरम् प्रति संप्रति ॥ ७।१,२३।५४॥
tat iha yūyam api prakṛtam manasi a vigaṇayya vimardam apatrapāḥ .. hari-viriṃci-sura-indra-mukhāḥ sukham vrajata deva-puram prati saṃprati .. 7.1,23.54..
इति सुरानभिधाय सुरेश्वरो निकृतदक्षकृतक्रतुरक्रतुः ॥ सगिरिजानुचरस्सपरिच्छदः स्थित इवाम्बरतोन्तरधाद्धरः ॥ ७.१,२३.५५॥
इति सुरान् अभिधाय सुरेश्वरः निकृत-दक्ष-कृत-क्रतुः अक्रतुः ॥ स गिरिज-अनुचरः स परिच्छदः स्थितः इव अम्बरतः न्तरधात् हरः ॥ ७।१,२३।५५॥
iti surān abhidhāya sureśvaraḥ nikṛta-dakṣa-kṛta-kratuḥ akratuḥ .. sa girija-anucaraḥ sa paricchadaḥ sthitaḥ iva ambarataḥ ntaradhāt haraḥ .. 7.1,23.55..
अथ सुरा अपि ते विगतव्यथाः कथितभद्रसुभद्रपराक्रमाः ॥ सपदि खेन सुखेन यथासुखं ययुरनेकमुखाः मघवन्मुखाः ॥ ७.१,२३.५६॥
अथ सुराः अपि ते विगत-व्यथाः कथित-भद्र-सु भद्र-पराक्रमाः ॥ सपदि खेन सुखेन यथासुखम् ययुः अनेक-मुखाः मघव-मुखाः ॥ ७।१,२३।५६॥
atha surāḥ api te vigata-vyathāḥ kathita-bhadra-su bhadra-parākramāḥ .. sapadi khena sukhena yathāsukham yayuḥ aneka-mukhāḥ maghava-mukhāḥ .. 7.1,23.56..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो नाम त्रयोविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे गिरिशानुनयः नाम त्रयोविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe giriśānunayaḥ nāma trayoviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In