| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१॥
अन्तर्धान-गतः देव्या सह स अनुचरः हरः ॥ क्व यातः कुत्र वासः किम् कृत्वा विरराम ह ॥ ७।१,२४।१॥
antardhāna-gataḥ devyā saha sa anucaraḥ haraḥ .. kva yātaḥ kutra vāsaḥ kim kṛtvā virarāma ha .. 7.1,24.1..
वायुरुवाच॥
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२॥
महीधर-वरः श्रीमान् मंदरः चित्र-कंदरः ॥ दयितः देवदेवस्य निवासः तपसः अभवत् ॥ ७।१,२४।२॥
mahīdhara-varaḥ śrīmān maṃdaraḥ citra-kaṃdaraḥ .. dayitaḥ devadevasya nivāsaḥ tapasaḥ abhavat .. 7.1,24.2..
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३॥
तपः महत् कृतम् तेन वोढुम् स्व-शिरसा शिवौ ॥ चिरेण लब्धम् तद्-पाद-पंकज-स्पर्श-जम् सुखम् ॥ ७।१,२४।३॥
tapaḥ mahat kṛtam tena voḍhum sva-śirasā śivau .. cireṇa labdham tad-pāda-paṃkaja-sparśa-jam sukham .. 7.1,24.3..
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४॥
तस्य शैलस्य सौन्दर्यम् सहस्र-वदनैः अपि ॥ न शक्यम् विस्तरात् वक्तुम् वर्ष-कोटि-शतैः अपि ॥ ७।१,२४।४॥
tasya śailasya saundaryam sahasra-vadanaiḥ api .. na śakyam vistarāt vaktum varṣa-koṭi-śataiḥ api .. 7.1,24.4..
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५॥
शक्यम् अपि अस्य सौन्दर्यम् न वर्णयितुम् उत्सहे ॥ पर्वत-अन्तर-सौन्दर्यम् साधारण-विधारणात् ॥ ७।१,२४।५॥
śakyam api asya saundaryam na varṇayitum utsahe .. parvata-antara-saundaryam sādhāraṇa-vidhāraṇāt .. 7.1,24.5..
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६॥
इदम् तु शक्यते वक्तुम् अस्मिन् पर्वत-सुन्दरे ॥ ऋद्ध्या कया अपि सौन्दर्यम् ईश्वर-आवास-योग्य-ता ॥ ७।१,२४।६॥
idam tu śakyate vaktum asmin parvata-sundare .. ṛddhyā kayā api saundaryam īśvara-āvāsa-yogya-tā .. 7.1,24.6..
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७॥
अतस् एव हि देवेन देव्याः प्रिय-चिकीर्षया ॥ अतीव रमणीयः इयम् गिरिः अन्तःपुरीकृतः ॥ ७।१,२४।७॥
atas eva hi devena devyāḥ priya-cikīrṣayā .. atīva ramaṇīyaḥ iyam giriḥ antaḥpurīkṛtaḥ .. 7.1,24.7..
मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८॥
मेखला-भूमयः तस्य विमल-उपल-पादपाः ॥ शिवयोः नित्य-सान्निध्यात् न्यक्कुर्वंति अखिलम् जगत् ॥ ७।१,२४।८॥
mekhalā-bhūmayaḥ tasya vimala-upala-pādapāḥ .. śivayoḥ nitya-sānnidhyāt nyakkurvaṃti akhilam jagat .. 7.1,24.8..
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९॥
पितृभ्याम् जगतः नित्यम् स्नान-पान-उपयोगतः ॥ अवाप्त-पुण्य-संस्कारः प्रसरद्भिः इतस् ततस् ॥ ७।१,२४।९॥
pitṛbhyām jagataḥ nityam snāna-pāna-upayogataḥ .. avāpta-puṇya-saṃskāraḥ prasaradbhiḥ itas tatas .. 7.1,24.9..
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१०॥
लघु-शीतल-संस्पर्शैः अच्छ-अच्छैः निर्झर-अम्बुभिः ॥ अधिराज्येन च अद्रीणाम् अद्रीरेषः अभिषिच्यते ॥ ७।१,२४।१०॥
laghu-śītala-saṃsparśaiḥ accha-acchaiḥ nirjhara-ambubhiḥ .. adhirājyena ca adrīṇām adrīreṣaḥ abhiṣicyate .. 7.1,24.10..
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११॥
निशासु शिखर-प्रान्तर् वर्तिना स शिलोच्चयः ॥ चंद्रेण अचल साम्राज्य-छत्रेण इव विराजते ॥ ७।१,२४।११॥
niśāsu śikhara-prāntar vartinā sa śiloccayaḥ .. caṃdreṇa acala sāmrājya-chatreṇa iva virājate .. 7.1,24.11..
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२॥
स शैलः चंचलीभूतैः बालैः च अमर-योषिताम् ॥ सर्व-पर्वत-साम्राज्य-चामरैः इव वीज्यते ॥ ७।१,२४।१२॥
sa śailaḥ caṃcalībhūtaiḥ bālaiḥ ca amara-yoṣitām .. sarva-parvata-sāmrājya-cāmaraiḥ iva vījyate .. 7.1,24.12..
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३॥
प्रातर् अभ्युदिते भानौ भूधरः रत्न-भूषितः ॥ दर्पणे देह-सौभाग्यम् द्रष्टु-कामः इव स्थितः ॥ ७।१,२४।१३॥
prātar abhyudite bhānau bhūdharaḥ ratna-bhūṣitaḥ .. darpaṇe deha-saubhāgyam draṣṭu-kāmaḥ iva sthitaḥ .. 7.1,24.13..
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४॥
कूजत्-विहंग-वाचालैः वात-उद्धृत-लता-भुजैः ॥ विमुक्त-पुष्पैः सततम् व्यालम्बि-मृदु-पल्लवैः ॥ ७।१,२४।१४॥
kūjat-vihaṃga-vācālaiḥ vāta-uddhṛta-latā-bhujaiḥ .. vimukta-puṣpaiḥ satatam vyālambi-mṛdu-pallavaiḥ .. 7.1,24.14..
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५॥
लता-प्रतान-जटिलैः तरुभिः तपसैः इव ॥ जय-आशिषा सह अभ्यर्च्य निषेव्यते इव अद्रिराज् ॥ ७।१,२४।१५॥
latā-pratāna-jaṭilaiḥ tarubhiḥ tapasaiḥ iva .. jaya-āśiṣā saha abhyarcya niṣevyate iva adrirāj .. 7.1,24.15..
अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६॥
अधोमुखैः ऊर्ध्व-मुखैः शृंगैः तिर्यक्-मुखैः तथा ॥ प्रपतन् इव पाताले भू-पृष्ठात् उत्पतन् इव ॥ ७।१,२४।१६॥
adhomukhaiḥ ūrdhva-mukhaiḥ śṛṃgaiḥ tiryak-mukhaiḥ tathā .. prapatan iva pātāle bhū-pṛṣṭhāt utpatan iva .. 7.1,24.16..
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७॥
परीतः सर्वतस् दिक्षु भ्रमन् इव विहायसि ॥ पश्यन् इव जगत् सर्वम् नृत्यन् इव निरन्तरम् ॥ ७।१,२४।१७॥
parītaḥ sarvatas dikṣu bhraman iva vihāyasi .. paśyan iva jagat sarvam nṛtyan iva nirantaram .. 7.1,24.17..
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८॥
॥ अजीर्ण-लावण्य-तया जृंभमाणः इव अचलः ॥ ७।१,२४।१८॥
.. ajīrṇa-lāvaṇya-tayā jṛṃbhamāṇaḥ iva acalaḥ .. 7.1,24.18..
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९॥
ग्रसन् इव जगत् सर्वम् पिबन् इव पयोनिधिम् ॥ वमन् इव तमः-न्त-स्थम् माद्यन् इव खम् अम्बुदैः ॥ ७।१,२४।१९॥
grasan iva jagat sarvam piban iva payonidhim .. vaman iva tamaḥ-nta-stham mādyan iva kham ambudaiḥ .. 7.1,24.19..
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२०॥
निवास भूमयः ताः ताः दर्पण-प्रतिमा-उदराः ॥ तिरस्कृत-आतपाः स्निग्ध-आश्रम-छाया-महीरुहाः ॥ ७।१,२४।२०॥
nivāsa bhūmayaḥ tāḥ tāḥ darpaṇa-pratimā-udarāḥ .. tiraskṛta-ātapāḥ snigdha-āśrama-chāyā-mahīruhāḥ .. 7.1,24.20..
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१॥
सरित्-सरः-तडाग-आदि-संपर्क-शिशिर-अनिलाः ॥ तत्र तत्र निषण्णाभ्याम् शिवाभ्याम् सफलीकृताः ॥ ७।१,२४।२१॥
sarit-saraḥ-taḍāga-ādi-saṃparka-śiśira-anilāḥ .. tatra tatra niṣaṇṇābhyām śivābhyām saphalīkṛtāḥ .. 7.1,24.21..
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२॥
तम् इमम् सर्वतस् श्रेष्ठम् स्मृत्वा साम्बः त्रियम्बकः ॥ रैभ्य-आश्रम-समीप-स्थः च अन्तर्धानम् गतः ययौ ॥ ७।१,२४।२२॥
tam imam sarvatas śreṣṭham smṛtvā sāmbaḥ triyambakaḥ .. raibhya-āśrama-samīpa-sthaḥ ca antardhānam gataḥ yayau .. 7.1,24.22..
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३॥
तत्र उद्यानम् अनुप्राप्य देव्या सह महेश्वरः ॥ रराम रमणीयासु देव्या-अन्तःपुर-भूमिषु ॥ ७।१,२४।२३॥
tatra udyānam anuprāpya devyā saha maheśvaraḥ .. rarāma ramaṇīyāsu devyā-antaḥpura-bhūmiṣu .. 7.1,24.23..
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४॥
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ दैत्यौ शुंभ-निशुंभ-आख्यौ भ्रातरौ संबभूवतुः ॥ ७।१,२४।२४॥
tathā gateṣu kāleṣu pravṛddhāsu prajāsu ca .. daityau śuṃbha-niśuṃbha-ākhyau bhrātarau saṃbabhūvatuḥ .. 7.1,24.24..
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ॥ अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५॥
ताभ्याम् तपः बलात् दत्तम् ब्रह्मणा परमेष्ठिना ॥ अवध्य-त्वम् जगति अस्मिन् पुरुषैः अखिलैः अपि ॥ ७।१,२४।२५॥
tābhyām tapaḥ balāt dattam brahmaṇā parameṣṭhinā .. avadhya-tvam jagati asmin puruṣaiḥ akhilaiḥ api .. 7.1,24.25..
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६॥
अयोनि-जा तु या कन्या हि अंबिका-अंश-समुद्भवा ॥ अ जात-पुंस्पर्श-रतिः अ विलंघ्य-पराक्रमा ॥ ७।१,२४।२६॥
ayoni-jā tu yā kanyā hi aṃbikā-aṃśa-samudbhavā .. a jāta-puṃsparśa-ratiḥ a vilaṃghya-parākramā .. 7.1,24.26..
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७॥
तया तु नौ वधः संख्ये तस्याम् काम-अभिभूतयोः ॥ इति च अभ्यर्थितः ब्रह्मा ताभ्याम् प्राह तथा अस्तु इति ॥ ७।१,२४।२७॥
tayā tu nau vadhaḥ saṃkhye tasyām kāma-abhibhūtayoḥ .. iti ca abhyarthitaḥ brahmā tābhyām prāha tathā astu iti .. 7.1,24.27..
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८॥
ततस् प्रभृति शक्र-आदीन् विजित्य समरे सुरान् ॥ निःस्वाध्यायवषट्कारम् जगत् चक्रतुः अक्रमात् ॥ ७।१,२४।२८॥
tatas prabhṛti śakra-ādīn vijitya samare surān .. niḥsvādhyāyavaṣaṭkāram jagat cakratuḥ akramāt .. 7.1,24.28..
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९॥
तयोः वधाय देवेशम् ब्रह्मा अभ्यर्थितवान् पुनर् ॥ विनिंद्य अपि रहस्यम् वाम् क्रोधयित्वा यथा तथा ॥ ७।१,२४।२९॥
tayoḥ vadhāya deveśam brahmā abhyarthitavān punar .. viniṃdya api rahasyam vām krodhayitvā yathā tathā .. 7.1,24.29..
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३०॥
तद्-वर्ण-कोश-जाम् शक्तिम् अकामाम् कन्यका-आत्मिकाम् ॥ निशुम्भ-शुंभयोः हंत्रीम् सुरेभ्यः दातुम् अर्हसि ॥ ७।१,२४।३०॥
tad-varṇa-kośa-jām śaktim akāmām kanyakā-ātmikām .. niśumbha-śuṃbhayoḥ haṃtrīm surebhyaḥ dātum arhasi .. 7.1,24.30..
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१॥
एवम् अभ्यर्थितः धात्रा भगवान् नीललोहितः ॥ कालि इति आह रहस्यम् वाम् निन्दयन् इव स स्मितः ॥ ७।१,२४।३१॥
evam abhyarthitaḥ dhātrā bhagavān nīlalohitaḥ .. kāli iti āha rahasyam vām nindayan iva sa smitaḥ .. 7.1,24.31..
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२॥
ततस् क्रुद्धा तदा देवी सुवर्णा वर्ण-कारणात् ॥ स्मयन्ती च आह भर्तारम् असमाधेयया गिरा ॥ ७।१,२४।३२॥
tatas kruddhā tadā devī suvarṇā varṇa-kāraṇāt .. smayantī ca āha bhartāram asamādheyayā girā .. 7.1,24.32..
देव्युवाच॥
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३॥
ईदृशः मम रतिः भवतः अस्ति चेद् ॥ एवावन्तम् चिरम् कालम् कथम् एषा नियम्यते ॥ ७।१,२४।३३॥
īdṛśaḥ mama ratiḥ bhavataḥ asti ced .. evāvantam ciram kālam katham eṣā niyamyate .. 7.1,24.33..
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४॥
अरत्या वर्तमानः अपि कथम् च रमसे मया ॥ न हि अशक्यम् जगति अस्मिन् ईश्वरस्य जगत्प्रभोः ॥ ७।१,२४।३४॥
aratyā vartamānaḥ api katham ca ramase mayā .. na hi aśakyam jagati asmin īśvarasya jagatprabhoḥ .. 7.1,24.34..
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५॥
स्व-आत्म-आरामस्य भवतः रतिः न सुख-साधनम् ॥ इति हेतोः स्मरः यस्मात् प्रसभम् भस्मसात्कृतः ॥ ७।१,२४।३५॥
sva-ātma-ārāmasya bhavataḥ ratiḥ na sukha-sādhanam .. iti hetoḥ smaraḥ yasmāt prasabham bhasmasātkṛtaḥ .. 7.1,24.35..
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६॥
या च ना अभिमता भर्तुः अपि सर्व-अंग-सुन्दरी ॥ सा वृथा एव हि जायेत सर्वैः अपि गुण-अन्तरैः ॥ ७।१,२४।३६॥
yā ca nā abhimatā bhartuḥ api sarva-aṃga-sundarī .. sā vṛthā eva hi jāyeta sarvaiḥ api guṇa-antaraiḥ .. 7.1,24.36..
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७॥
भर्तुः भोग-एक-शेषः हि सर्गः एव एष योषिताम् ॥ तथा असती अन्यथाभूता नारी कुत्र उपयुज्यते ॥ ७।१,२४।३७॥
bhartuḥ bhoga-eka-śeṣaḥ hi sargaḥ eva eṣa yoṣitām .. tathā asatī anyathābhūtā nārī kutra upayujyate .. 7.1,24.37..
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८॥
तस्मात् वर्णम् इमम् त्यक्त्वा त्वया रहसि निन्दितम् ॥ वर्ण-अन्तरम् भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७।१,२४।३८॥
tasmāt varṇam imam tyaktvā tvayā rahasi ninditam .. varṇa-antaram bhajiṣye vā na bhajiṣyāmi vā svayam .. 7.1,24.38..
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९॥
इति उक्त्वा उत्थाय शयनात् देवी सा आचष्ट गद्गदम् ॥ ययाचे अनुमतिम् भर्तुः तपसे कृत-निश्चया ॥ ७।१,२४।३९॥
iti uktvā utthāya śayanāt devī sā ācaṣṭa gadgadam .. yayāce anumatim bhartuḥ tapase kṛta-niścayā .. 7.1,24.39..
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४०॥
तथा प्रणय-भंगेन भीतः भूतपतिः स्वयम् ॥ पादयोः प्रणमन् एव भवानीम् प्रत्यभाषत ॥ ७।१,२४।४०॥
tathā praṇaya-bhaṃgena bhītaḥ bhūtapatiḥ svayam .. pādayoḥ praṇaman eva bhavānīm pratyabhāṣata .. 7.1,24.40..
ईश्वर उवाच॥
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१॥
अ जानती च क्रीडा-उक्तिम् प्रिये किम् कुपिता असि मे ॥ रतिः कुतस् वा जायेत त्वत्तः चेद् अरतिः मम ॥ ७।१,२४।४१॥
a jānatī ca krīḍā-uktim priye kim kupitā asi me .. ratiḥ kutas vā jāyeta tvattaḥ ced aratiḥ mama .. 7.1,24.41..
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२॥
माता त्वम् अस्य जगतः पिता अहम् अधिपः तथा ॥ कथम् तत् उत्पपद्येत त्वत्तः न अभिरतिः मम ॥ ७।१,२४।४२॥
mātā tvam asya jagataḥ pitā aham adhipaḥ tathā .. katham tat utpapadyeta tvattaḥ na abhiratiḥ mama .. 7.1,24.42..
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३॥
आवयोः अभिकामः अपि किम् असौ काम-कारितः ॥ यतस् काम-समुत्पत्तिः प्राक् एव जगत्-उद्भवः ॥ ७।१,२४।४३॥
āvayoḥ abhikāmaḥ api kim asau kāma-kāritaḥ .. yatas kāma-samutpattiḥ prāk eva jagat-udbhavaḥ .. 7.1,24.43..
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४॥
पृथग्जनानाम् रतये काम-आत्मा कल्पितः मया ॥ ततस् कथम् उपालब्धः काम-दाहात् अहम् त्वया ॥ ७।१,२४।४४॥
pṛthagjanānām rataye kāma-ātmā kalpitaḥ mayā .. tatas katham upālabdhaḥ kāma-dāhāt aham tvayā .. 7.1,24.44..
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५॥
माम् वै त्रिदश-सामान्यम् मन्यमानः मनोभवः ॥ मनाक् परिभवम् कुर्वत् मया वै भस्मसात्कृतः ॥ ७।१,२४।४५॥
mām vai tridaśa-sāmānyam manyamānaḥ manobhavaḥ .. manāk paribhavam kurvat mayā vai bhasmasātkṛtaḥ .. 7.1,24.45..
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६॥
विहारः उप्य आवयोः अस्य जगतः त्राण-कारणात् ॥ ततस् तद्-अर्थम् त्वयि अद्य क्रीडा-उक्तिम् कृत-वाहनम् ॥ ७।१,२४।४६॥
vihāraḥ upya āvayoḥ asya jagataḥ trāṇa-kāraṇāt .. tatas tad-artham tvayi adya krīḍā-uktim kṛta-vāhanam .. 7.1,24.46..
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७॥
स च अयम् अचिरात् अर्थः तव एव आविष्करिष्यते ॥ क्रोधस्य जनकम् वाक्यम् हृदि कृत्वा इदम् अब्रवीत् ॥ ७।१,२४।४७॥
sa ca ayam acirāt arthaḥ tava eva āviṣkariṣyate .. krodhasya janakam vākyam hṛdi kṛtvā idam abravīt .. 7.1,24.47..
देव्युवाच॥
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८॥
श्रुत-पूर्वम् हि भगवन् तव चाटु वचः मया ॥ येन एवम् अति धीरा अहम् अपि प्राक् अभिवंचिता ॥ ७।१,२४।४८॥
śruta-pūrvam hi bhagavan tava cāṭu vacaḥ mayā .. yena evam ati dhīrā aham api prāk abhivaṃcitā .. 7.1,24.48..
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९॥
प्राणान् अपि अप्रिया भर्तुः नारी या न परित्यजेत् ॥ कुल-अंगना शुभा सद्भिः कुत्सिता एव हि गम्यते ॥ ७।१,२४।४९॥
prāṇān api apriyā bhartuḥ nārī yā na parityajet .. kula-aṃganā śubhā sadbhiḥ kutsitā eva hi gamyate .. 7.1,24.49..
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५०॥
भूयसी च तव अप्रीतिः अगौरम् इति मे वपुः ॥ क्रीडा-उक्तिः अपि काली इति घटते कथम् अन्यथा ॥ ७।१,२४।५०॥
bhūyasī ca tava aprītiḥ agauram iti me vapuḥ .. krīḍā-uktiḥ api kālī iti ghaṭate katham anyathā .. 7.1,24.50..
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१॥
सद्भिः विगर्हितम् तस्मात् तव कार्ष्ण्यम् अ संमतम् ॥ अन् उत्सृज्य तपः-योगात् स्थातुम् एवा इह न उत्सहे ॥ ७।१,२४।५१॥
sadbhiḥ vigarhitam tasmāt tava kārṣṇyam a saṃmatam .. an utsṛjya tapaḥ-yogāt sthātum evā iha na utsahe .. 7.1,24.51..
शिव उवाच॥
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२॥
स यदि एवंविध-तापः ते तपसा किम् प्रयोजनम् ॥ मम इच्छया स्व-इच्छया वा वर्ण-अन्तरवती भव ॥ ७।१,२४।५२॥
sa yadi evaṃvidha-tāpaḥ te tapasā kim prayojanam .. mama icchayā sva-icchayā vā varṇa-antaravatī bhava .. 7.1,24.52..
देव्युवाच॥
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३॥
न इच्छामि भवतः वर्णम् स्वयम् वा कर्तुम् अन्यथा ॥ ब्रह्माणम् तपसा आराध्य क्षिप्रम् गौरी भवामि अहम् ॥ ७।१,२४।५३॥
na icchāmi bhavataḥ varṇam svayam vā kartum anyathā .. brahmāṇam tapasā ārādhya kṣipram gaurī bhavāmi aham .. 7.1,24.53..
ईश्वर उवाच॥
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४॥
मद्-प्रसादात् पुरा ब्रह्मा ब्रह्मत्वम् प्राप्तवान् पुरा ॥ तम् आहूय महादेवि तपसा किम् करिष्यसि ॥ ७।१,२४।५४॥
mad-prasādāt purā brahmā brahmatvam prāptavān purā .. tam āhūya mahādevi tapasā kim kariṣyasi .. 7.1,24.54..
देव्युवाच॥
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५॥
त्वत्तः लब्ध-पदाः एव सर्वे ब्रह्म-आदयः सुराः ॥ तथा अपि आराध्य तपसा ब्रह्माणम् त्वद्-नियोगतः ॥ ७।१,२४।५५॥
tvattaḥ labdha-padāḥ eva sarve brahma-ādayaḥ surāḥ .. tathā api ārādhya tapasā brahmāṇam tvad-niyogataḥ .. 7.1,24.55..
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६॥
पुरा किल सती नाम्ना दक्षस्य दुहिता अभवम् ॥ जगताम् पतिम् एवम् त्वाम् पतिम् प्राप्तवती तथा ॥ ७।१,२४।५६॥
purā kila satī nāmnā dakṣasya duhitā abhavam .. jagatām patim evam tvām patim prāptavatī tathā .. 7.1,24.56..
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७॥
एवम् अद्य अपि तपसा तोषयित्वा द्विजम् विधिम् ॥ गौरी भवितुम् इच्छामि कः दोषः कथ्यताम् इह ॥ ७।१,२४।५७॥
evam adya api tapasā toṣayitvā dvijam vidhim .. gaurī bhavitum icchāmi kaḥ doṣaḥ kathyatām iha .. 7.1,24.57..
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८॥
एवम् उक्तः महादेव्या वामदेवः स्मयन् इव ॥ न ताम् निर्बंधयामास देव-कार्य-चिकीर्षया ॥ ७।१,२४।५८॥
evam uktaḥ mahādevyā vāmadevaḥ smayan iva .. na tām nirbaṃdhayāmāsa deva-kārya-cikīrṣayā .. 7.1,24.58..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनम् नाम चतुर्विंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe śivamandaragirinivāsakrīḍoktavarṇanam nāma caturviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In