| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
ततः प्रदक्षिणीकृत्य पतिमम्बा पतिव्रता ॥ नियम्य च वियोगार्तिं जगाम हिमवद्गिरिम् ॥ ७.१,२५.१॥
ततस् प्रदक्षिणीकृत्य पतिम् अम्बा पतिव्रता ॥ नियम्य च वियोग-आर्तिम् जगाम हिमवत्-गिरिम् ॥ ७।१,२५।१॥
tatas pradakṣiṇīkṛtya patim ambā pativratā .. niyamya ca viyoga-ārtim jagāma himavat-girim .. 7.1,25.1..
तपःकृतवती पूर्वं देशे यस्मिन्सखीजनैः ॥ तमेव देशमवृनोत्तपसे प्रणयात्पुनः ॥ ७.१,२५.२॥
तपः कृतवती पूर्वम् देशे यस्मिन् सखी-जनैः ॥ तम् एव देशम् अवृनोत् तपसे प्रणयात् पुनर् ॥ ७।१,२५।२॥
tapaḥ kṛtavatī pūrvam deśe yasmin sakhī-janaiḥ .. tam eva deśam avṛnot tapase praṇayāt punar .. 7.1,25.2..
ततः स्वपितरं दृष्ट्वा मातरं च तयोर्गृहे ॥ प्रणम्य वृत्तं विज्ञाप्य ताभ्यां चानुमता सती ॥ ७.१,२५.३॥
ततस् स्व-पितरम् दृष्ट्वा मातरम् च तयोः गृहे ॥ प्रणम्य वृत्तम् विज्ञाप्य ताभ्याम् च अनुमता सती ॥ ७।१,२५।३॥
tatas sva-pitaram dṛṣṭvā mātaram ca tayoḥ gṛhe .. praṇamya vṛttam vijñāpya tābhyām ca anumatā satī .. 7.1,25.3..
पुनस्तपोवनं गत्वा भूषणानि विसृज्य च ॥ स्नात्वा तपस्विनो वेषं कृत्वा परमपावनम् ॥ ७.१,२५.४॥
पुनर् तपः-वनम् गत्वा भूषणानि विसृज्य च ॥ स्नात्वा तपस्विनः वेषम् कृत्वा परम-पावनम् ॥ ७।१,२५।४॥
punar tapaḥ-vanam gatvā bhūṣaṇāni visṛjya ca .. snātvā tapasvinaḥ veṣam kṛtvā parama-pāvanam .. 7.1,25.4..
संकल्प्य च महातीव्रं तपः परमदुश्चरम् ॥ सदा मनसि सन्धाय भर्तुश्चरणपंकजम् ॥ ७.१,२५.५॥
संकल्प्य च महा-तीव्रम् तपः परम-दुश्चरम् ॥ सदा मनसि सन्धाय भर्तुः चरण-पंकजम् ॥ ७।१,२५।५॥
saṃkalpya ca mahā-tīvram tapaḥ parama-duścaram .. sadā manasi sandhāya bhartuḥ caraṇa-paṃkajam .. 7.1,25.5..
तमेव क्षणिके लिंगे ध्यात्वा बाह्यविधानतः ॥ त्रिसन्ध्यमभ्यर्चयन्ती वन्यैः पुष्पैः फलादिभिः ॥ ७.१,२५.६॥
तम् एव क्षणिके लिंगे ध्यात्वा बाह्य-विधानतः ॥ त्रिसन्ध्यम् अभ्यर्चयन्ती वन्यैः पुष्पैः फल-आदिभिः ॥ ७।१,२५।६॥
tam eva kṣaṇike liṃge dhyātvā bāhya-vidhānataḥ .. trisandhyam abhyarcayantī vanyaiḥ puṣpaiḥ phala-ādibhiḥ .. 7.1,25.6..
स एव ब्रह्मणो मूर्तिमास्थाय तपसः फलम् ॥ प्रदास्यति ममेत्येवं नित्यं कृत्वा ऽकरोत्तपः ॥ ७.१,२५.७॥
सः एव ब्रह्मणः मूर्तिम् आस्थाय तपसः फलम् ॥ प्रदास्यति मम इति एवम् नित्यम् कृत्वा अकरोत् तपः ॥ ७।१,२५।७॥
saḥ eva brahmaṇaḥ mūrtim āsthāya tapasaḥ phalam .. pradāsyati mama iti evam nityam kṛtvā akarot tapaḥ .. 7.1,25.7..
तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ दृष्टः कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् ॥ ७.१,२५.८॥
तथा तपः चरन्तीम् ताम् काले बहुतिथे गते ॥ दृष्टः कश्चिद् महा-व्याघ्रः दुष्ट-भावात् उपागमत् ॥ ७।१,२५।८॥
tathā tapaḥ carantīm tām kāle bahutithe gate .. dṛṣṭaḥ kaścid mahā-vyāghraḥ duṣṭa-bhāvāt upāgamat .. 7.1,25.8..
तथैवोपगतस्यापि तस्यातीवदुरात्मनः ॥ गात्रं चित्रार्पितमिव स्तब्धं तस्यास्सकाशतः ॥ ७.१,२५.९॥
तथा एव उपगतस्य अपि तस्य अतीव दुरात्मनः ॥ गात्रम् चित्र-अर्पितम् इव स्तब्धम् तस्याः सकाशतः ॥ ७।१,२५।९॥
tathā eva upagatasya api tasya atīva durātmanaḥ .. gātram citra-arpitam iva stabdham tasyāḥ sakāśataḥ .. 7.1,25.9..
तं दृष्ट्वापि तथा व्याघ्रं दुष्टभावादुपागतम् ॥ न पृथग्जनवद्देवी स्वभावेन विविच्यते ॥ ७.१,२५.१०॥
तम् दृष्ट्वा अपि तथा व्याघ्रम् दुष्ट-भावात् उपागतम् ॥ न पृथग्जन-वत् देवी स्वभावेन विविच्यते ॥ ७।१,२५।१०॥
tam dṛṣṭvā api tathā vyāghram duṣṭa-bhāvāt upāgatam .. na pṛthagjana-vat devī svabhāvena vivicyate .. 7.1,25.10..
स तु विष्टब्धसर्वांगो बुभुक्षापरिपीडितः ॥ ममामिषं ततो नान्यदिति मत्वा निरन्तरम् ॥ ७.१,२५.११॥
स तु विष्टब्ध-सर्व-अंगः बुभुक्षा-परिपीडितः ॥ मम आमिषम् ततस् न अन्यत् इति मत्वा निरन्तरम् ॥ ७।१,२५।११॥
sa tu viṣṭabdha-sarva-aṃgaḥ bubhukṣā-paripīḍitaḥ .. mama āmiṣam tatas na anyat iti matvā nirantaram .. 7.1,25.11..
निरीक्ष्यमाणः सततं देवीमेव तदा ऽनिशम् ॥ अतिष्ठदग्रतस्तस्या उपासनमिवाचरत् ॥ ७.१,२५.१२॥
निरीक्ष्यमाणः सततम् देवीम् एव तदा अनिशम् ॥ अतिष्ठत् अग्रतस् तस्याः उपासनम् इव अचरत् ॥ ७।१,२५।१२॥
nirīkṣyamāṇaḥ satatam devīm eva tadā aniśam .. atiṣṭhat agratas tasyāḥ upāsanam iva acarat .. 7.1,25.12..
देव्याश्च हृदये नित्यं ममैवायमुपासकः ॥ त्राता च दुष्टसत्त्वेभ्य इति प्रववृते कृपा ॥ ७.१,२५.१३॥
देव्याः च हृदये नित्यम् मम एव अयम् उपासकः ॥ त्राता च दुष्ट-सत्त्वेभ्यः इति प्रववृते कृपा ॥ ७।१,२५।१३॥
devyāḥ ca hṛdaye nityam mama eva ayam upāsakaḥ .. trātā ca duṣṭa-sattvebhyaḥ iti pravavṛte kṛpā .. 7.1,25.13..
तस्या एव कृपा योगात्सद्योनष्टमलत्रयः ॥ बभूव सहसा व्याघ्रो देवीं च बुबुधे तदा ॥ ७.१,२५.१४॥
तस्याः एव कृपा योगात् सद्यस् नष्ट-मल-त्रयः ॥ बभूव सहसा व्याघ्रः देवीम् च बुबुधे तदा ॥ ७।१,२५।१४॥
tasyāḥ eva kṛpā yogāt sadyas naṣṭa-mala-trayaḥ .. babhūva sahasā vyāghraḥ devīm ca bubudhe tadā .. 7.1,25.14..
न्यवर्तत बुभुक्षा च तस्यांगस्तम्भनं तथा ॥ दौरात्म्यं जन्मसिद्धं च तृप्तिश्च समजायत ॥ ७.१,२५.१५॥
न्यवर्तत बुभुक्षा च तस्य अंग-स्तम्भनम् तथा ॥ दौरात्म्यम् जन्म-सिद्धम् च तृप्तिः च समजायत ॥ ७।१,२५।१५॥
nyavartata bubhukṣā ca tasya aṃga-stambhanam tathā .. daurātmyam janma-siddham ca tṛptiḥ ca samajāyata .. 7.1,25.15..
तदा परमभावेन ज्ञात्वा कार्तार्थ्यमात्मनः ॥ सद्योपासक एवैष सिषेवे परमेश्वरीम् ॥ ७.१,२५.१६॥
तदा परम-भावेन ज्ञात्वा कार्तार्थ्यम् आत्मनः ॥ सद्यस् उपासकः एव एष सिषेवे परमेश्वरीम् ॥ ७।१,२५।१६॥
tadā parama-bhāvena jñātvā kārtārthyam ātmanaḥ .. sadyas upāsakaḥ eva eṣa siṣeve parameśvarīm .. 7.1,25.16..
दुष्टानामपि सत्त्वानां तथान्येषान्दुरात्मनाम् ॥ स एव द्रावको भूत्वा विचचार तपोवने ॥ ७.१,२५.१७॥
दुष्टानाम् अपि सत्त्वानाम् तथा अन्येषान् दुरात्मनाम् ॥ सः एव द्रावकः भूत्वा विचचार तपोवने ॥ ७।१,२५।१७॥
duṣṭānām api sattvānām tathā anyeṣān durātmanām .. saḥ eva drāvakaḥ bhūtvā vicacāra tapovane .. 7.1,25.17..
तपश्च ववृधे देव्यास्तीव्रं तीव्रतरात्मकम् ॥ देवाश्च दैत्यनिर्बन्धाद्ब्रह्माणं शरणं गताः ॥ ७.१,२५.१८॥
तपः च ववृधे देव्याः तीव्रम् तीव्रतर-आत्मकम् ॥ देवाः च दैत्य-निर्बन्धात् ब्रह्माणम् शरणम् गताः ॥ ७।१,२५।१८॥
tapaḥ ca vavṛdhe devyāḥ tīvram tīvratara-ātmakam .. devāḥ ca daitya-nirbandhāt brahmāṇam śaraṇam gatāḥ .. 7.1,25.18..
चक्रुर्निवेदनं देवाः स्वदुःखस्यारिपीडनात् ॥ यथा च ददतुः शुम्भनिशुम्भौ वरसम्मदात् ॥ ७.१,२५.१९॥
चक्रुः निवेदनम् देवाः स्व-दुःखस्य अरि-पीडनात् ॥ यथा च ददतुः शुम्भ-निशुम्भौ वर-सम्मदात् ॥ ७।१,२५।१९॥
cakruḥ nivedanam devāḥ sva-duḥkhasya ari-pīḍanāt .. yathā ca dadatuḥ śumbha-niśumbhau vara-sammadāt .. 7.1,25.19..
सो ऽपि श्रुत्वा विधिर्दुःखं सुराणां कृपयान्वितः ॥ आसीद्दैत्यवधायैव स्मृत्वा हेत्वाश्रयां कथाम् ॥ ७.१,२५.२०॥
सः अपि श्रुत्वा विधिः दुःखम् सुराणाम् कृपया अन्वितः ॥ आसीत् दैत्य-वधाय एव स्मृत्वा हेतु-आश्रयाम् कथाम् ॥ ७।१,२५।२०॥
saḥ api śrutvā vidhiḥ duḥkham surāṇām kṛpayā anvitaḥ .. āsīt daitya-vadhāya eva smṛtvā hetu-āśrayām kathām .. 7.1,25.20..
सामरः प्रार्थितो ब्रह्मा ययौ देव्यास्तपोवनम् ॥ संस्मरन्मनसा देवदुःखमोक्षं स्वयत्नतः ॥ ७.१,२५.२१॥
स अमरः प्रार्थितः ब्रह्मा ययौ देव्याः तपः-वनम् ॥ संस्मरन् मनसा देव-दुःख-मोक्षम् स्व-यत्नतः ॥ ७।१,२५।२१॥
sa amaraḥ prārthitaḥ brahmā yayau devyāḥ tapaḥ-vanam .. saṃsmaran manasā deva-duḥkha-mokṣam sva-yatnataḥ .. 7.1,25.21..
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ प्रतिष्ठामिव विश्वस्य भवानीं परमेश्वरीम् ॥ ७.१,२५.२२॥
ददर्श च सुरश्रेष्ठः श्रेष्ठे तपसि निष्ठिताम् ॥ प्रतिष्ठाम् इव विश्वस्य भवानीम् परमेश्वरीम् ॥ ७।१,२५।२२॥
dadarśa ca suraśreṣṭhaḥ śreṣṭhe tapasi niṣṭhitām .. pratiṣṭhām iva viśvasya bhavānīm parameśvarīm .. 7.1,25.22..
ननाम चास्य जगतो मातरं स्वस्य वै हरेः ॥ रुद्रस्य च पितुर्भार्यामार्यामद्रीश्वरात्मजाम् ॥ ७.१,२५.२३॥
ननाम च अस्य जगतः मातरम् स्वस्य वै हरेः ॥ रुद्रस्य च पितुः भार्याम् आर्याम् अद्रीश्वर-आत्मजाम् ॥ ७।१,२५।२३॥
nanāma ca asya jagataḥ mātaram svasya vai hareḥ .. rudrasya ca pituḥ bhāryām āryām adrīśvara-ātmajām .. 7.1,25.23..
ब्रह्माणमागतं दृष्ट्वा देवी देवगणैः सह ॥ अर्घ्यं तदर्हं दत्त्वा ऽस्मै स्वागताद्यैरुपाचरत् ॥ ७.१,२५.२४॥
ब्रह्माणम् आगतम् दृष्ट्वा देवी देव-गणैः सह ॥ अर्घ्यम् तद्-अर्हम् दत्त्वा अस्मै स्वागत-आद्यैः उपाचरत् ॥ ७।१,२५।२४॥
brahmāṇam āgatam dṛṣṭvā devī deva-gaṇaiḥ saha .. arghyam tad-arham dattvā asmai svāgata-ādyaiḥ upācarat .. 7.1,25.24..
तां च प्रत्युपचारोक्तिं पुरस्कृत्याभिनंद्य च ॥ पप्रच्छ तपसो हेतुमजानन्निव पद्मजः ॥ ७.१,२५.२५॥
ताम् च प्रत्युपचार-उक्तिम् पुरस्कृत्य अभिनंद्य च ॥ पप्रच्छ तपसः हेतुम् अ जानन् इव पद्मजः ॥ ७।१,२५।२५॥
tām ca pratyupacāra-uktim puraskṛtya abhinaṃdya ca .. papraccha tapasaḥ hetum a jānan iva padmajaḥ .. 7.1,25.25..
ब्रह्मोवाच॥
तीव्रेण तपसानेन देव्या किमिह साध्यते ॥ तपःफलानां सर्वेषां त्वदधीना हि सिद्धयः ॥ ७.१,२५.२६॥
तीव्रेण तपसा अनेन देव्या किम् इह साध्यते ॥ तपः-फलानाम् सर्वेषाम् त्वद्-अधीनाः हि सिद्धयः ॥ ७।१,२५।२६॥
tīvreṇa tapasā anena devyā kim iha sādhyate .. tapaḥ-phalānām sarveṣām tvad-adhīnāḥ hi siddhayaḥ .. 7.1,25.26..
यश्चैव जगतां भर्ता तमेव परमेश्वरम् ॥ भर्तारमात्मना प्राप्य प्राप्तञ्च तपसः फलम् ॥ ७.१,२५.२७॥
यः च एव जगताम् भर्ता तम् एव परमेश्वरम् ॥ भर्तारम् आत्मना प्राप्य प्राप्तम् च तपसः फलम् ॥ ७।१,२५।२७॥
yaḥ ca eva jagatām bhartā tam eva parameśvaram .. bhartāram ātmanā prāpya prāptam ca tapasaḥ phalam .. 7.1,25.27..
अथवा सर्वमेवैतत्क्रीडाविलसितं तव ॥ इदन्तु चित्रं देवस्य विरहं सहसे कथम् ॥ ७.१,२५.२८॥
अथवा सर्वम् एव एतत् क्रीडा-विलसितम् तव ॥ चित्रम् देवस्य विरहम् सहसे कथम् ॥ ७।१,२५।२८॥
athavā sarvam eva etat krīḍā-vilasitam tava .. citram devasya viraham sahase katham .. 7.1,25.28..
देव्युवाच॥
सर्गादौ भवतो देवादुत्पत्तिः श्रूयते यदा ॥ तदा प्रजानां प्रथमस्त्वं मे प्रथमजः सुतः ॥ ७.१,२५.२९॥
सर्ग-आदौ भवतः देवात् उत्पत्तिः श्रूयते यदा ॥ तदा प्रजानाम् प्रथमः त्वम् मे प्रथम-जः सुतः ॥ ७।१,२५।२९॥
sarga-ādau bhavataḥ devāt utpattiḥ śrūyate yadā .. tadā prajānām prathamaḥ tvam me prathama-jaḥ sutaḥ .. 7.1,25.29..
यदा पुनः प्रजावृद्ध्यै ललाटाद्भवतो भवः ॥ उत्पन्नो ऽभूत्तदा त्वं मे गुरुः श्वशुरभावतः ॥ ७.१,२५.३०॥
यदा पुनर् प्रजा-वृद्ध्यै ललाटात् भवतः भवः ॥ उत्पन्नः अभूत् तदा त्वम् मे गुरुः श्वशुर-भावतः ॥ ७।१,२५।३०॥
yadā punar prajā-vṛddhyai lalāṭāt bhavataḥ bhavaḥ .. utpannaḥ abhūt tadā tvam me guruḥ śvaśura-bhāvataḥ .. 7.1,25.30..
यदा भवद्गिरीन्द्रस्ते पुत्रो मम पिता स्वयम् ॥ तदा पितामहस्त्वं मे जातो लोकपितामह ॥ ७.१,२५.३१॥
यदा भवत्-गिरि-इन्द्रः ते पुत्रः मम पिता स्वयम् ॥ तदा पितामहः त्वम् मे जातः लोकपितामह ॥ ७।१,२५।३१॥
yadā bhavat-giri-indraḥ te putraḥ mama pitā svayam .. tadā pitāmahaḥ tvam me jātaḥ lokapitāmaha .. 7.1,25.31..
तदीदृशस्य भवतो लोकयात्राविधायिनः ॥ वृत्तवन्तःपुरे भर्ता कथयिष्ये कथं पुनः ॥ ७.१,२५.३२॥
तत् ईदृशस्य भवतः लोकयात्रा-विधायिनः ॥ वृत्तवन्तःपुरे-अन्तःपुरे भर्ता कथयिष्ये कथम् पुनर् ॥ ७।१,२५।३२॥
tat īdṛśasya bhavataḥ lokayātrā-vidhāyinaḥ .. vṛttavantaḥpure-antaḥpure bhartā kathayiṣye katham punar .. 7.1,25.32..
किमत्र बहुना देहे यश्चायं मम कालिमा ॥ त्यक्त्वा सत्त्वविधानेन गौरी भवितुमुत्सहे ॥ ७.१,२५.३३॥
किम् अत्र बहुना देहे यः च अयम् मम कालिमा ॥ त्यक्त्वा सत्त्व-विधानेन गौरी भवितुम् उत्सहे ॥ ७।१,२५।३३॥
kim atra bahunā dehe yaḥ ca ayam mama kālimā .. tyaktvā sattva-vidhānena gaurī bhavitum utsahe .. 7.1,25.33..
ब्रह्मोवाच॥
एतावता किमर्थेन तीव्रं देवि तपः कृतम् ॥ स्वेच्छैव किमपर्याप्ता क्रीडेयं हि तवेदृशी ॥ ७.१,२५.३४॥
एतावता किमर्थेन तीव्रम् देवि तपः कृतम् ॥ स्वेच्छा एव किम् अपर्याप्ता क्रीडा इयम् हि तव ईदृशी ॥ ७।१,२५।३४॥
etāvatā kimarthena tīvram devi tapaḥ kṛtam .. svecchā eva kim aparyāptā krīḍā iyam hi tava īdṛśī .. 7.1,25.34..
क्रीडा ऽपि च जगन्मातस्तव लोकहिताय वै ॥ अतो ममेष्टमनया फलं किमपि साध्यताम् ॥ ७.१,२५.३५॥
क्रीडा अपि च जगन्मातर् तव लोक-हिताय वै ॥ अतस् मम इष्टम् अनया फलम् किम् अपि साध्यताम् ॥ ७।१,२५।३५॥
krīḍā api ca jaganmātar tava loka-hitāya vai .. atas mama iṣṭam anayā phalam kim api sādhyatām .. 7.1,25.35..
निशुंभशुंभनामानौ दैत्यौ दत्तवरौ मया ॥ दृप्तौ देवान्प्रबाधेते त्वत्तो लब्धस्तयोर्वधः ॥ ७.१,२५.३६॥
निशुंभ-शुंभ-नामानौ दैत्यौ दत्त-वरौ मया ॥ दृप्तौ देवान् प्रबाधेते त्वत्तः लब्धः तयोः वधः ॥ ७।१,२५।३६॥
niśuṃbha-śuṃbha-nāmānau daityau datta-varau mayā .. dṛptau devān prabādhete tvattaḥ labdhaḥ tayoḥ vadhaḥ .. 7.1,25.36..
अलं विलंबनेनात्र त्वं क्षणेन स्थिरा भव ॥ शक्तिर्विसृज्यमाना ऽद्य तयोर्मृत्युर्भविष्यति ॥ ७.१,२५.३७॥
अलम् विलंबनेन अत्र त्वम् क्षणेन स्थिरा भव ॥ शक्तिः विसृज्यमाना अद्य तयोः मृत्युः भविष्यति ॥ ७।१,२५।३७॥
alam vilaṃbanena atra tvam kṣaṇena sthirā bhava .. śaktiḥ visṛjyamānā adya tayoḥ mṛtyuḥ bhaviṣyati .. 7.1,25.37..
ब्राह्मणाभ्यर्थिता चैव देवी गिरिवरात्मजा ॥ त्वक्कोशं सहसोत्सृज्य गौरी सा समजायत ॥ ७.१,२५.३८॥
ब्राह्मण-अभ्यर्थिता च एव देवी गिरि-वर-आत्मजा ॥ त्वक्कोशम् सहसा उत्सृज्य गौरी सा समजायत ॥ ७।१,२५।३८॥
brāhmaṇa-abhyarthitā ca eva devī giri-vara-ātmajā .. tvakkośam sahasā utsṛjya gaurī sā samajāyata .. 7.1,25.38..
सा त्वक्कोशात्मनोत्सृष्टा कौशिकी नाम नामतः ॥ काली कालाम्बुदप्रख्या कन्यका समपद्यत ॥ ७.१,२५.३९॥
सा त्वक्कोश-आत्मना उत्सृष्टा कौशिकी नाम नामतः ॥ काली काल-अम्बुद-प्रख्या कन्यका समपद्यत ॥ ७।१,२५।३९॥
sā tvakkośa-ātmanā utsṛṣṭā kauśikī nāma nāmataḥ .. kālī kāla-ambuda-prakhyā kanyakā samapadyata .. 7.1,25.39..
सा तु मायात्मिका शक्तिर्योगनिद्रा च वैष्णवी ॥ शंखचक्रत्रिशूलादिसायुधाष्टमहाभुजा ॥ ७.१,२५.४०॥
सा तु माया-आत्मिका शक्तिः योगनिद्रा च वैष्णवी ॥ शंख-चक्र-त्रिशूल-आदि-स आयुध-अष्ट-महा-भुजा ॥ ७।१,२५।४०॥
sā tu māyā-ātmikā śaktiḥ yoganidrā ca vaiṣṇavī .. śaṃkha-cakra-triśūla-ādi-sa āyudha-aṣṭa-mahā-bhujā .. 7.1,25.40..
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ अजातपुंस्पर्शरतिरधृष्या चातिसुन्दरी ॥ ७.१,२५.४१॥
सौम्या घोरा च मिश्रा च त्रिनेत्रा चन्द्रशेखरा ॥ अ जात-पुंस्पर्श-रतिः अधृष्या च अति सुन्दरी ॥ ७।१,२५।४१॥
saumyā ghorā ca miśrā ca trinetrā candraśekharā .. a jāta-puṃsparśa-ratiḥ adhṛṣyā ca ati sundarī .. 7.1,25.41..
दत्ता च ब्रह्मणे देव्या शक्तिरेषा सनातनी ॥ निशुंभस्य च शुंभस्य निहंत्री दैत्यसिंहयोः ॥ ७.१,२५.४२॥
दत्ता च ब्रह्मणे देव्या शक्तिः एषा सनातनी ॥ निशुंभस्य च शुंभस्य निहंत्री दैत्य-सिंहयोः ॥ ७।१,२५।४२॥
dattā ca brahmaṇe devyā śaktiḥ eṣā sanātanī .. niśuṃbhasya ca śuṃbhasya nihaṃtrī daitya-siṃhayoḥ .. 7.1,25.42..
ब्रह्मणापि प्रहृष्टेन तस्यै परमशक्तये ॥ प्रबलः केसरी दत्तो वाहनत्वे समागतः ॥ ७.१,२५.४३॥
ब्रह्मणा अपि प्रहृष्टेन तस्यै परम-शक्तये ॥ प्रबलः केसरी दत्तः वाहन-त्वे समागतः ॥ ७।१,२५।४३॥
brahmaṇā api prahṛṣṭena tasyai parama-śaktaye .. prabalaḥ kesarī dattaḥ vāhana-tve samāgataḥ .. 7.1,25.43..
विन्ध्ये च वसतिं तस्याः पूजामासवपूर्वकैः ॥ मांसैर्मत्स्यैरपूपैश्च निर्वर्त्यासौ समादिशत् ॥ ७.१,२५.४४॥
विन्ध्ये च वसतिम् तस्याः पूजाम् आसव-पूर्वकैः ॥ मांसैः मत्स्यैः अपूपैः च निर्वर्त्य असौ समादिशत् ॥ ७।१,२५।४४॥
vindhye ca vasatim tasyāḥ pūjām āsava-pūrvakaiḥ .. māṃsaiḥ matsyaiḥ apūpaiḥ ca nirvartya asau samādiśat .. 7.1,25.44..
सा चैव संमता शक्तिर्ब्रह्मणो विश्वकर्मणः ॥ प्रणम्य मातरं गौरीं ब्रह्माणं चानुपूर्वशः ॥ ७.१,२५.४५॥
सा च एव संमता शक्तिः ब्रह्मणः विश्वकर्मणः ॥ प्रणम्य मातरम् गौरीम् ब्रह्माणम् च अनुपूर्वशस् ॥ ७।१,२५।४५॥
sā ca eva saṃmatā śaktiḥ brahmaṇaḥ viśvakarmaṇaḥ .. praṇamya mātaram gaurīm brahmāṇam ca anupūrvaśas .. 7.1,25.45..
शक्तिभिश्चापि तुल्याभिः स्वात्मजाभिरनेकशः ॥ परीता प्रययौ विन्ध्यं दैत्येन्द्रौ हन्तुमुद्यता ॥ ७.१,२५.४६॥
शक्तिभिः च अपि तुल्याभिः स्व-आत्मजाभिः अनेकशस् ॥ परीता प्रययौ विन्ध्यम् दैत्य-इन्द्रौ हन्तुम् उद्यता ॥ ७।१,२५।४६॥
śaktibhiḥ ca api tulyābhiḥ sva-ātmajābhiḥ anekaśas .. parītā prayayau vindhyam daitya-indrau hantum udyatā .. 7.1,25.46..
निहतौ च तया तत्र समरे दैत्यपुंगवौ ॥ तद्बाणैः कामबाणैश्च च्छिन्नभिन्नांगमानसौ ॥ ७.१,२५.४७॥
निहतौ च तया तत्र समरे दैत्य-पुंगवौ ॥ तद्-बाणैः काम-बाणैः च छिन्न-भिन्न-अंग-मानसौ ॥ ७।१,२५।४७॥
nihatau ca tayā tatra samare daitya-puṃgavau .. tad-bāṇaiḥ kāma-bāṇaiḥ ca chinna-bhinna-aṃga-mānasau .. 7.1,25.47..
तद्युद्धविस्तरश्चात्र न कृतो ऽन्यत्र वर्णनात् ॥ ऊहनीयं परस्माच्च प्रस्तुतं वर्णयामि वः ॥ ७.१,२५.४८॥
तद्-युद्ध-विस्तरः च अत्र न कृतः अन्यत्र वर्णनात् ॥ ऊहनीयम् परस्मात् च प्रस्तुतम् वर्णयामि वः ॥ ७।१,२५।४८॥
tad-yuddha-vistaraḥ ca atra na kṛtaḥ anyatra varṇanāt .. ūhanīyam parasmāt ca prastutam varṇayāmi vaḥ .. 7.1,25.48..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे देवीगौरत्वभवनं नाम पञ्चविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे देवीगौरत्वभवनम् नाम पञ्चविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe devīgauratvabhavanam nāma pañcaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In