| |
|

This overlay will guide you through the buttons:

वायुरुवाचउत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥
वायुः उवाच उत्पाद्य कौशिकीम् गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ ॥
vāyuḥ uvāca utpādya kauśikīm gaurī brahmaṇe pratipādya tām .. ..
उत्पाद्य कौशिकीं गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ तस्य प्रत्युपकाराय पितामहमथाब्रवीत् ॥ ७.१,२६.१॥
उत्पाद्य कौशिकीम् गौरी ब्रह्मणे प्रतिपाद्य ताम् ॥ तस्य प्रत्युपकाराय पितामहम् अथ अब्रवीत् ॥ ७।१,२६।१॥
utpādya kauśikīm gaurī brahmaṇe pratipādya tām .. tasya pratyupakārāya pitāmaham atha abravīt .. 7.1,26.1..
देव्युवाच॥
दृष्टः किमेष भवता शार्दूलो मदुपाश्रयः ॥ अनेन दुष्टसत्त्वेभ्यो रक्षितं मत्तपोवनम् ॥ ७.१,२६.२॥
दृष्टः किम् एष भवता शार्दूलः मद्-उपाश्रयः ॥ अनेन दुष्ट-सत्त्वेभ्यः रक्षितम् मद्-तपः-वनम् ॥ ७।१,२६।२॥
dṛṣṭaḥ kim eṣa bhavatā śārdūlaḥ mad-upāśrayaḥ .. anena duṣṭa-sattvebhyaḥ rakṣitam mad-tapaḥ-vanam .. 7.1,26.2..
मय्यर्पितमना एष भजते मामनन्यधीः ॥ अस्य संरक्षणादन्यत्प्रियं मम न विद्यते ॥ ७.१,२६.३॥
मयि अर्पित-मनाः एष भजते माम् अन् अन्य-धीः ॥ अस्य संरक्षणात् अन्यत् प्रियम् मम न विद्यते ॥ ७।१,२६।३॥
mayi arpita-manāḥ eṣa bhajate mām an anya-dhīḥ .. asya saṃrakṣaṇāt anyat priyam mama na vidyate .. 7.1,26.3..
भवितव्यमनेनातो ममान्तःपुरचारिणा ॥ गणेश्वरपदं चास्मै प्रीत्या दास्यति शंकरः ॥ ७.१,२६.४॥
भवितव्यम् अनेन अतस् मम अन्तःपुर-चारिणा ॥ गणेश्वर-पदम् च अस्मै प्रीत्या दास्यति शंकरः ॥ ७।१,२६।४॥
bhavitavyam anena atas mama antaḥpura-cāriṇā .. gaṇeśvara-padam ca asmai prītyā dāsyati śaṃkaraḥ .. 7.1,26.4..
एनमग्रेसरं कृत्वा सखीभिर्गन्तुमुत्सहे ॥ प्रदीयतामनुज्ञा मे प्रजानां पतिना त्वया ॥ ७.१,२६.५॥
एनम् अग्रेसरम् कृत्वा सखीभिः गन्तुम् उत्सहे ॥ प्रदीयताम् अनुज्ञा मे प्रजानाम् पतिना त्वया ॥ ७।१,२६।५॥
enam agresaram kṛtvā sakhībhiḥ gantum utsahe .. pradīyatām anujñā me prajānām patinā tvayā .. 7.1,26.5..
इत्युक्तः प्रहसन्ब्रह्मा देवीम्मुग्धामिव स्मयन् ॥ तस्य तीव्रैः पुरावृत्तैर्दौरात्म्यं समवर्णयत् ॥ ७.१,२६.६॥
इति उक्तः प्रहसन् ब्रह्मा देवीम् मुग्धाम् इव स्मयन् ॥ तस्य तीव्रैः पुरावृत्तैः दौरात्म्यम् समवर्णयत् ॥ ७।१,२६।६॥
iti uktaḥ prahasan brahmā devīm mugdhām iva smayan .. tasya tīvraiḥ purāvṛttaiḥ daurātmyam samavarṇayat .. 7.1,26.6..
ब्रह्मोवाच॥
पशौ देवि मृगाः क्रूराः क्व च ते ऽनुग्रहः शुभः ॥ आशीविषमुखे साक्षादमृतं किं निषिच्यते ॥ ७.१,२६.७॥
पशौ देवि मृगाः क्रूराः क्व च ते अनुग्रहः शुभः ॥ आशीविष-मुखे साक्षात् अमृतम् किम् निषिच्यते ॥ ७।१,२६।७॥
paśau devi mṛgāḥ krūrāḥ kva ca te anugrahaḥ śubhaḥ .. āśīviṣa-mukhe sākṣāt amṛtam kim niṣicyate .. 7.1,26.7..
व्याघ्रमात्रेण सन्नेष दुष्टः को ऽपि निशाचरः ॥ अनेन भक्षिता गावो ब्राह्मणाश्च तपोधनाः ॥ ७.१,२६.८॥
व्याघ्र-मात्रेण सन् एष दुष्टः कः अपि निशाचरः ॥ अनेन भक्षिताः गावः ब्राह्मणाः च तपोधनाः ॥ ७।१,२६।८॥
vyāghra-mātreṇa san eṣa duṣṭaḥ kaḥ api niśācaraḥ .. anena bhakṣitāḥ gāvaḥ brāhmaṇāḥ ca tapodhanāḥ .. 7.1,26.8..
तर्पयंस्तान्यथाकामं कामरूपी चरत्यसौ ॥ अवश्यं खलु भोक्तव्यं फलं पापस्य कर्मणः ॥ ७.१,२६.९॥
तर्पयन् तान् यथाकामम् कामरूपी चरति असौ ॥ अवश्यम् खलु भोक्तव्यम् फलम् पापस्य कर्मणः ॥ ७।१,२६।९॥
tarpayan tān yathākāmam kāmarūpī carati asau .. avaśyam khalu bhoktavyam phalam pāpasya karmaṇaḥ .. 7.1,26.9..
अतः किं कृपया कृत्यमीदृशेषु दुरात्मसु ॥ अनेन देव्याः किं कृत्यं प्रकृत्या कलुषात्मना ॥ ७.१,२६.१०॥
अतस् किम् कृपया कृत्यम् ईदृशेषु दुरात्मसु ॥ अनेन देव्याः किम् कृत्यम् प्रकृत्या कलुष-आत्मना ॥ ७।१,२६।१०॥
atas kim kṛpayā kṛtyam īdṛśeṣu durātmasu .. anena devyāḥ kim kṛtyam prakṛtyā kaluṣa-ātmanā .. 7.1,26.10..
देव्युवाच॥
यदुक्तं भवता सर्वं तथ्यमस्त्वयमीदृशः ॥ तथापि मां प्रपन्नो ऽभून्न त्याज्यो मामुपाश्रितः ॥ ७.१,२६.११॥
यत् उक्तम् भवता सर्वम् तथ्यम् अस्तु अयम् ईदृशः ॥ तथा अपि माम् प्रपन्नः अभूत् न त्याज्यः माम् उपाश्रितः ॥ ७।१,२६।११॥
yat uktam bhavatā sarvam tathyam astu ayam īdṛśaḥ .. tathā api mām prapannaḥ abhūt na tyājyaḥ mām upāśritaḥ .. 7.1,26.11..
ब्रह्मोवाच॥
अस्य भक्तिमविज्ञाय प्राग्वृत्तं ते निवेदितम् ॥ भक्तिश्चेदस्य किं पापैर्न ते भक्तः प्रणश्यति ॥ ७.१,२६.१२॥
अस्य भक्तिम् अ विज्ञाय प्राच्-वृत्तम् ते निवेदितम् ॥ भक्तिः चेद् अस्य किम् पापैः न ते भक्तः प्रणश्यति ॥ ७।१,२६।१२॥
asya bhaktim a vijñāya prāc-vṛttam te niveditam .. bhaktiḥ ced asya kim pāpaiḥ na te bhaktaḥ praṇaśyati .. 7.1,26.12..
पुण्यकर्मापि किं कुर्यात्त्वदीयाज्ञानपेक्षया ॥ अजा प्रज्ञा पुराणी च त्वमेव परमेश्वरी ॥ ७.१,२६.१३॥
पुण्य-कर्मा अपि किम् कुर्यात् त्वदीय-अज्ञान-अपेक्षया ॥ अजा प्रज्ञा पुराणी च त्वम् एव परमेश्वरी ॥ ७।१,२६।१३॥
puṇya-karmā api kim kuryāt tvadīya-ajñāna-apekṣayā .. ajā prajñā purāṇī ca tvam eva parameśvarī .. 7.1,26.13..
त्वदधीना हि सर्वेषां बंधमोक्षव्यवस्थितिः ॥ त्वदृते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७.१,२६.१४॥
त्वद्-अधीना हि सर्वेषाम् बंध-मोक्ष-व्यवस्थितिः ॥ त्वत् ऋते परमा शक्तिः संसिद्धिः कस्य कर्मणा ॥ ७।१,२६।१४॥
tvad-adhīnā hi sarveṣām baṃdha-mokṣa-vyavasthitiḥ .. tvat ṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā .. 7.1,26.14..
त्वमेव विविधा शक्तिः भवानामथ वा स्वयम् ॥ अशक्तः कर्मकरणे कर्ता वा किं करिष्यति ॥ ७.१,२६.१५॥
त्वम् एव विविधा शक्तिः भवानाम् अथ वा स्वयम् ॥ अशक्तः कर्म-करणे कर्ता वा किम् करिष्यति ॥ ७।१,२६।१५॥
tvam eva vividhā śaktiḥ bhavānām atha vā svayam .. aśaktaḥ karma-karaṇe kartā vā kim kariṣyati .. 7.1,26.15..
विष्णोश्च मम चान्येषां देवदानवरक्षसाम् ॥ तत्तदैश्वर्यसम्प्राप्त्यै तवैवाज्ञा हि कारणम् ॥ ७.१,२६.१६॥
विष्णोः च मम च अन्येषाम् देव-दानव-रक्षसाम् ॥ तद्-तद्-ऐश्वर्य-सम्प्राप्त्यै तव एव आज्ञा हि कारणम् ॥ ७।१,२६।१६॥
viṣṇoḥ ca mama ca anyeṣām deva-dānava-rakṣasām .. tad-tad-aiśvarya-samprāptyai tava eva ājñā hi kāraṇam .. 7.1,26.16..
अतीताः खल्वसंख्याता ब्रह्माणो हरयो भवाः ॥ अनागतास्त्वसंख्यातास्त्वदाज्ञानुविधायिनः ॥ ७.१,२६.१७॥
अतीताः खलु असंख्याताः ब्रह्माणः हरयः भवाः ॥ अनागताः तु असंख्याताः त्वद्-आज्ञा-अनुविधायिनः ॥ ७।१,२६।१७॥
atītāḥ khalu asaṃkhyātāḥ brahmāṇaḥ harayaḥ bhavāḥ .. anāgatāḥ tu asaṃkhyātāḥ tvad-ājñā-anuvidhāyinaḥ .. 7.1,26.17..
त्वामनाराध्य देवेशि पुरुषार्थचतुष्टयम् ॥ लब्धुं न शक्यमस्माभिरपि सर्वैः सुरोत्तमैः ॥ ७.१,२६.१८॥
त्वाम् अन् आराध्य देवेशि पुरुष-अर्थ-चतुष्टयम् ॥ लब्धुम् न शक्यम् अस्माभिः अपि सर्वैः सुर-उत्तमैः ॥ ७।१,२६।१८॥
tvām an ārādhya deveśi puruṣa-artha-catuṣṭayam .. labdhum na śakyam asmābhiḥ api sarvaiḥ sura-uttamaiḥ .. 7.1,26.18..
व्यत्यासो ऽपि भवेत्सद्यो ब्रह्मत्वस्थावरत्वयोः ॥ सुकृतं दुष्कृतं चापि त्वयेव स्थापितं यतः ॥ ७.१,२६.१९॥
व्यत्यासः अपि भवेत् सद्यस् ब्रह्म-त्व-स्थावर-त्वयोः ॥ सुकृतम् दुष्कृतम् च अपि त्वया इव स्थापितम् यतस् ॥ ७।१,२६।१९॥
vyatyāsaḥ api bhavet sadyas brahma-tva-sthāvara-tvayoḥ .. sukṛtam duṣkṛtam ca api tvayā iva sthāpitam yatas .. 7.1,26.19..
त्वं हि सर्वजगद्भर्तुश्शिवस्य परमात्मनः ॥ अनादिमध्यनिधना शक्तिराद्या सनातनी ॥ ७.१,२६.२०॥
त्वम् हि सर्व-जगत्-भर्तुः शिवस्य परमात्मनः ॥ अन् आदि-मध्य-निधना शक्तिः आद्या सनातनी ॥ ७।१,२६।२०॥
tvam hi sarva-jagat-bhartuḥ śivasya paramātmanaḥ .. an ādi-madhya-nidhanā śaktiḥ ādyā sanātanī .. 7.1,26.20..
समस्तलोकयात्रार्थं मूर्तिमाविश्य कामपि ॥ क्रीडसे विविधैर्भावैः कस्त्वां जानाति तत्त्वतः ॥ ७.१,२६.२१॥
समस्त-लोकयात्रा-अर्थम् मूर्तिम् आविश्य काम् अपि ॥ क्रीडसे विविधैः भावैः कः त्वाम् जानाति तत्त्वतः ॥ ७।१,२६।२१॥
samasta-lokayātrā-artham mūrtim āviśya kām api .. krīḍase vividhaiḥ bhāvaiḥ kaḥ tvām jānāti tattvataḥ .. 7.1,26.21..
अतो दुष्कृतकर्मापि व्याघ्रो ऽयं त्वदनुग्रहात् ॥ प्राप्नोतु परमां सिद्धिमत्र कः प्रतिबन्धकः ॥ ७.१,२६.२२॥
अतस् दुष्कृत-कर्मा अपि व्याघ्रः अयम् त्वद्-अनुग्रहात् ॥ प्राप्नोतु परमाम् सिद्धिम् अत्र कः प्रतिबन्धकः ॥ ७।१,२६।२२॥
atas duṣkṛta-karmā api vyāghraḥ ayam tvad-anugrahāt .. prāpnotu paramām siddhim atra kaḥ pratibandhakaḥ .. 7.1,26.22..
इत्यात्मनः परं भावं स्मारयित्वानुरूपतः ॥ ब्रह्मणाभ्यर्थिता गौरी तपसो ऽपि न्यवर्तत ॥ ७.१,२६.२३॥
इति आत्मनः परम् भावम् स्मारयित्वा अनुरूपतः ॥ ब्रह्मणा अभ्यर्थिता गौरी तपसः अपि न्यवर्तत ॥ ७।१,२६।२३॥
iti ātmanaḥ param bhāvam smārayitvā anurūpataḥ .. brahmaṇā abhyarthitā gaurī tapasaḥ api nyavartata .. 7.1,26.23..
ततो देवीमनुज्ञाप्य ब्रह्मण्यन्तर्हिते सति ॥ देवीं च मातरं दृष्ट्वा मेनां हिमवता सह ॥ ७.१,२६.२४॥
ततस् देवीम् अनुज्ञाप्य ब्रह्मणि अन्तर्हिते सति ॥ देवीम् च मातरम् दृष्ट्वा मेनाम् हिमवता सह ॥ ७।१,२६।२४॥
tatas devīm anujñāpya brahmaṇi antarhite sati .. devīm ca mātaram dṛṣṭvā menām himavatā saha .. 7.1,26.24..
प्रणम्याश्वास्य बहुधा पितरौ विरहासहौ ॥ तपः प्रणयिनो देवी तपोवनमहीरुहान् ॥ ७.१,२६.२५॥
प्रणम्य आश्वास्य बहुधा पितरौ विरह-असहौ ॥ तपः प्रणयिनः देवी तपः-वन-महीरुहान् ॥ ७।१,२६।२५॥
praṇamya āśvāsya bahudhā pitarau viraha-asahau .. tapaḥ praṇayinaḥ devī tapaḥ-vana-mahīruhān .. 7.1,26.25..
विप्रयोगशुचेवाग्रे पुष्पबाष्पं विमुंचतः ॥ तत्तुच्छाखासमारूढविहगो दीरितै रुतैः ॥ ७.१,२६.२६॥
विप्रयोग-शुचा इव अग्रे पुष्प-बाष्पम् विमुंचतः ॥ तद्-तुच्छ-आखा-समारूढ-विहगः दीरितैः रुतैः ॥ ७।१,२६।२६॥
viprayoga-śucā iva agre puṣpa-bāṣpam vimuṃcataḥ .. tad-tuccha-ākhā-samārūḍha-vihagaḥ dīritaiḥ rutaiḥ .. 7.1,26.26..
व्याकुलं बहुधा दीनं विलापमिव कुर्वतः ॥ सखीभ्यः कथयंत्येवं सत्त्वरा भर्तृदर्शने ॥ ७.१,२६.२७॥
व्याकुलम् बहुधा दीनम् विलापम् इव कुर्वतः ॥ सखीभ्यः कथयंति एवम् स त्वरा भर्तृ-दर्शने ॥ ७।१,२६।२७॥
vyākulam bahudhā dīnam vilāpam iva kurvataḥ .. sakhībhyaḥ kathayaṃti evam sa tvarā bhartṛ-darśane .. 7.1,26.27..
पुरस्कृत्य च तं व्याघ्रं स्नेहात्पुत्रमिवौरसम् ॥ देहस्य प्रभया चैव दीपयन्ती दिशो दश ॥ ७.१,२६.२८॥
पुरस्कृत्य च तम् व्याघ्रम् स्नेहात् पुत्रम् इव औरसम् ॥ देहस्य प्रभया च एव दीपयन्ती दिशः दश ॥ ७।१,२६।२८॥
puraskṛtya ca tam vyāghram snehāt putram iva aurasam .. dehasya prabhayā ca eva dīpayantī diśaḥ daśa .. 7.1,26.28..
प्रययौ मंदरं गौरी यत्र भर्ता महेश्वरः ॥ सर्वेषां जगतां धाता कर्ता पाता विनाशकृत् ॥ ७.१,२६.२९॥
प्रययौ मंदरम् गौरी यत्र भर्ता महेश्वरः ॥ सर्वेषाम् जगताम् धाता कर्ता पाता विनाश-कृत् ॥ ७।१,२६।२९॥
prayayau maṃdaram gaurī yatra bhartā maheśvaraḥ .. sarveṣām jagatām dhātā kartā pātā vināśa-kṛt .. 7.1,26.29..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे व्याघ्रगतिवर्णनं नाम षड्विंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे व्याघ्रगतिवर्णनम् नाम षड्विंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe vyāghragativarṇanam nāma ṣaḍviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In