| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
कृत्वा गौरं वपुर्दिव्यं देवी गिरिवरात्मजा ॥ कथं ददर्श भर्तारं प्रविष्टा मन्दितं सती ॥ ७.१,२७.१॥
कृत्वा गौरम् वपुः दिव्यम् देवी गिरि-वर-आत्मजा ॥ कथम् ददर्श भर्तारम् प्रविष्टा मन्दितम् सती ॥ ७।१,२७।१॥
kṛtvā gauram vapuḥ divyam devī giri-vara-ātmajā .. katham dadarśa bhartāram praviṣṭā manditam satī .. 7.1,27.1..
प्रवेशसमये तस्या भवनद्वारगोचरैः ॥ गणेशैः किं कृतं देवस्तान्दृष्ट्वा किन्तदा ऽकरोत् ॥ ७.१,२७.२॥
प्रवेश-समये तस्याः भवन-द्वार-गोचरैः ॥ गणेशैः किम् कृतम् देवः तान् दृष्ट्वा किम् तदा अकरोत् ॥ ७।१,२७।२॥
praveśa-samaye tasyāḥ bhavana-dvāra-gocaraiḥ .. gaṇeśaiḥ kim kṛtam devaḥ tān dṛṣṭvā kim tadā akarot .. 7.1,27.2..
वायुरुवाच॥
प्रवक्तुमंजसा ऽशक्यः तादृशः परमो रसः ॥ येन प्रणयगर्भेण भावो भाववतां हृतः ॥ ७.१,२७.३॥
प्रवक्तुम् अंजसा अशक्यः तादृशः परमः रसः ॥ येन प्रणय-गर्भेण भावः भाववताम् हृतः ॥ ७।१,२७।३॥
pravaktum aṃjasā aśakyaḥ tādṛśaḥ paramaḥ rasaḥ .. yena praṇaya-garbheṇa bhāvaḥ bhāvavatām hṛtaḥ .. 7.1,27.3..
द्वास्थैस्ससंभ्रमैरेव देवो देव्यागमोत्सुकः ॥ शंकमाना प्रविष्टान्तस्तञ्च सा समपश्यत ॥ ७.१,२७.४॥
द्वास्थैः स संभ्रमैः एव देवः देवी-आगम-उत्सुकः ॥ शंकमाना प्रविष्टा अन्तर् तत् च सा समपश्यत ॥ ७।१,२७।४॥
dvāsthaiḥ sa saṃbhramaiḥ eva devaḥ devī-āgama-utsukaḥ .. śaṃkamānā praviṣṭā antar tat ca sā samapaśyata .. 7.1,27.4..
तैस्तैः प्रणयभावैश्च भवनान्तरवर्तिभिः ॥ गणेन्द्रैर्वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ७.१,२७.५॥
तैः तैः प्रणय-भावैः च भवन-अन्तर-वर्तिभिः ॥ गण-इन्द्रैः वन्दिता वाचा प्रणनाम त्रियम्बकम् ॥ ७।१,२७।५॥
taiḥ taiḥ praṇaya-bhāvaiḥ ca bhavana-antara-vartibhiḥ .. gaṇa-indraiḥ vanditā vācā praṇanāma triyambakam .. 7.1,27.5..
प्रणम्य नोत्थिता यावत्तावत्तां परमेश्वरः ॥ प्रगृह्य दोर्भ्यामाश्लिष्य परितः परया मुदा ॥ ७.१,२७.६॥
प्रणम्य ना उत्थिता यावत् तावत् ताम् परमेश्वरः ॥ प्रगृह्य दोर्भ्याम् आश्लिष्य परितस् परया मुदा ॥ ७।१,२७।६॥
praṇamya nā utthitā yāvat tāvat tām parameśvaraḥ .. pragṛhya dorbhyām āśliṣya paritas parayā mudā .. 7.1,27.6..
स्वांके धर्तुं प्रवृत्तो ऽपि सा पर्यंके न्यषीदत ॥ पर्यंकतो बलाद्देवीं सोङ्कमारोप्य सुस्मिताम् ॥ ७.१,२७.७॥
स्व-अंके धर्तुम् प्रवृत्तः अपि सा पर्यंके न्यषीदत ॥ पर्यंकतः बलात् देवीम् स ओङ्कम् आरोप्य सु स्मिताम् ॥ ७।१,२७।७॥
sva-aṃke dhartum pravṛttaḥ api sā paryaṃke nyaṣīdata .. paryaṃkataḥ balāt devīm sa oṅkam āropya su smitām .. 7.1,27.7..
सस्मितो विवृतैर्नेत्रैस्तद्वक्त्रं प्रपिबन्निव ॥ तया संभाषणायेशः पूर्वभाषितमब्रवीत् ॥ ७.१,२७.८॥
स स्मितः विवृतैः नेत्रैः तद्-वक्त्रम् प्रपिबन् इव ॥ तया संभाषणाय ईशः पूर्व-भाषितम् अब्रवीत् ॥ ७।१,२७।८॥
sa smitaḥ vivṛtaiḥ netraiḥ tad-vaktram prapiban iva .. tayā saṃbhāṣaṇāya īśaḥ pūrva-bhāṣitam abravīt .. 7.1,27.8..
देवदेव उवाच॥
सा दशा च व्यतीता किं तव सर्वांगसुन्दरि ॥ यस्यामनुनयोपायः को ऽपि कोपान्न लभ्यते ॥ ७.१,२७.९॥
सा दशा च व्यतीता किम् तव सर्व-अंग-सुन्दरि ॥ यस्याम् अनुनय-उपायः कः अपि कोपात् न लभ्यते ॥ ७।१,२७।९॥
sā daśā ca vyatītā kim tava sarva-aṃga-sundari .. yasyām anunaya-upāyaḥ kaḥ api kopāt na labhyate .. 7.1,27.9..
स्वेच्छयापि न कालीति नान्यवर्णवतीति च ॥ त्वत्स्वभावाहृतं चित्तं सुभ्रु चिंतावहं मम ॥ ७.१,२७.१०॥
स्व-इच्छया अपि न काली इति न अन्य-वर्णवती इति च ॥ त्वद्-स्वभाव-आहृतम् चित्तम् सुभ्रु चिंतावहम् मम ॥ ७।१,२७।१०॥
sva-icchayā api na kālī iti na anya-varṇavatī iti ca .. tvad-svabhāva-āhṛtam cittam subhru ciṃtāvaham mama .. 7.1,27.10..
विस्मृतः परमो भावः कथं स्वेच्छांगयोगतः ॥ न सम्भवन्ति ये तत्र चित्तकालुष्यहेतवः ॥ ७.१,२७.११॥
विस्मृतः परमः भावः कथम् स्व-इच्छा-अंग-योगतः ॥ न सम्भवन्ति ये तत्र चित्त-कालुष्य-हेतवः ॥ ७।१,२७।११॥
vismṛtaḥ paramaḥ bhāvaḥ katham sva-icchā-aṃga-yogataḥ .. na sambhavanti ye tatra citta-kāluṣya-hetavaḥ .. 7.1,27.11..
पृथग्जनवदन्योन्यं विप्रियस्यापि कारणम् ॥ आवयोरपि यद्यस्ति नास्त्येवैतच्चराचरम् ॥ ७.१,२७.१२॥
पृथग्जन-वत् अन्योन्यम् विप्रियस्य अपि कारणम् ॥ आवयोः अपि यदि अस्ति न अस्ति एव एतत् चराचरम् ॥ ७।१,२७।१२॥
pṛthagjana-vat anyonyam vipriyasya api kāraṇam .. āvayoḥ api yadi asti na asti eva etat carācaram .. 7.1,27.12..
अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता ॥ अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठितम् ॥ ७.१,२७.१३॥
अहम् अग्नि-शिरः-निष्ठः त्वम् सोम-शिरसि स्थिता ॥ अग्नीषोम-आत्मकम् विश्वम् आवाभ्याम् समधिष्ठितम् ॥ ७।१,२७।१३॥
aham agni-śiraḥ-niṣṭhaḥ tvam soma-śirasi sthitā .. agnīṣoma-ātmakam viśvam āvābhyām samadhiṣṭhitam .. 7.1,27.13..
जगद्धिताय चरतोः स्वेच्छाधृतशरीरयोः ॥ आवयोर्विप्रयोगे हि स्यान्निरालम्बनं जगत् ॥ ७.१,२७.१४॥
जगत्-हिताय चरतोः स्व-इच्छा-धृत-शरीरयोः ॥ आवयोः विप्रयोगे हि स्यात् निरालम्बनम् जगत् ॥ ७।१,२७।१४॥
jagat-hitāya caratoḥ sva-icchā-dhṛta-śarīrayoḥ .. āvayoḥ viprayoge hi syāt nirālambanam jagat .. 7.1,27.14..
अस्ति हेत्वन्तरं चात्र शास्त्रयुक्तिविनिश्चितम् ॥ वागर्थमिव मे वैतज्जगत्स्थावरजंगमम् ॥ ७.१,२७.१५॥
अस्ति हेत्वन्तरम् च अत्र शास्त्र-युक्ति-विनिश्चितम् ॥ वाच्-अर्थम् इव मे वा एतत् जगत् स्थावर-जंगमम् ॥ ७।१,२७।१५॥
asti hetvantaram ca atra śāstra-yukti-viniścitam .. vāc-artham iva me vā etat jagat sthāvara-jaṃgamam .. 7.1,27.15..
त्वं हि वागमृतं साक्षादहमर्थामृतं परम् ॥ द्वयमप्यमृतं कस्माद्वियुक्तमुपपद्यते ॥ ७.१,२७.१६॥
त्वम् हि वाच्-अमृतम् साक्षात् अहम् अर्थ-अमृतम् परम् ॥ द्वयम् अपि अमृतम् कस्मात् वियुक्तम् उपपद्यते ॥ ७।१,२७।१६॥
tvam hi vāc-amṛtam sākṣāt aham artha-amṛtam param .. dvayam api amṛtam kasmāt viyuktam upapadyate .. 7.1,27.16..
विद्याप्रत्यायिका त्वं मे वेद्यो ऽहं प्रत्ययात्तव ॥ विद्यावेद्यात्मनोरेव विश्लेषः कथमावयोः ॥ ७.१,२७.१७॥
विद्या-प्रत्यायिका त्वम् मे वेद्यः अहम् प्रत्ययात् तव ॥ विद्या-वेद्य-आत्मनोः एव विश्लेषः कथम् आवयोः ॥ ७।१,२७।१७॥
vidyā-pratyāyikā tvam me vedyaḥ aham pratyayāt tava .. vidyā-vedya-ātmanoḥ eva viśleṣaḥ katham āvayoḥ .. 7.1,27.17..
न कर्मणा सृजामीदं जगत्प्रतिसृजामि च ॥ सर्वस्याज्ञैकलभ्यत्वादाज्ञात्वं हि गरीयसी ॥ ७.१,२७.१८॥
न कर्मणा सृजामि इदम् जगत् प्रतिसृजामि च ॥ सर्वस्य आज्ञा-एक-लभ्य-त्वात् आज्ञा-त्वम् हि गरीयसी ॥ ७।१,२७।१८॥
na karmaṇā sṛjāmi idam jagat pratisṛjāmi ca .. sarvasya ājñā-eka-labhya-tvāt ājñā-tvam hi garīyasī .. 7.1,27.18..
आज्ञैकसारमैश्वर्यं यस्मात्स्वातंत्र्यलक्षणम् ॥ आज्ञया विप्रयुक्तस्य चैश्वर्यं मम कीदृशम् ॥ ७.१,२७.१९॥
आज्ञा-एक-सारम् ऐश्वर्यम् यस्मात् स्वातंत्र्य-लक्षणम् ॥ आज्ञया विप्रयुक्तस्य च ऐश्वर्यम् मम कीदृशम् ॥ ७।१,२७।१९॥
ājñā-eka-sāram aiśvaryam yasmāt svātaṃtrya-lakṣaṇam .. ājñayā viprayuktasya ca aiśvaryam mama kīdṛśam .. 7.1,27.19..
न कदाचिदवस्थानमावयोर्विप्रयुक्तयोः ॥ देवानां कार्यमुद्दिश्य लीलोक्तिं कृतवानहम् ॥ ७.१,२७.२०॥
न कदाचिद् अवस्थानम् आवयोः विप्रयुक्तयोः ॥ देवानाम् कार्यम् उद्दिश्य लीला-उक्तिम् कृतवान् अहम् ॥ ७।१,२७।२०॥
na kadācid avasthānam āvayoḥ viprayuktayoḥ .. devānām kāryam uddiśya līlā-uktim kṛtavān aham .. 7.1,27.20..
त्वयाप्यविदितं नास्ति कथं कुपितवत्यसि ॥ ततस्त्रिलोकरक्षार्थे कोपो मय्यपि ते कृतः ॥ ७.१,२७.२१॥
त्वया अपि अ विदितम् न अस्ति कथम् कुपितवती असि ॥ ततस् त्रिलोक-रक्षा-अर्थे कोपः मयि अपि ते कृतः ॥ ७।१,२७।२१॥
tvayā api a viditam na asti katham kupitavatī asi .. tatas triloka-rakṣā-arthe kopaḥ mayi api te kṛtaḥ .. 7.1,27.21..
यदनर्थाय भूतानां न तदस्ति खलु त्वयि ॥ इति प्रियंवदे साक्षादीश्वरे परमेश्वरे ॥ ७.१,२७.२२॥
यत् अनर्थाय भूतानाम् न तत् अस्ति खलु त्वयि ॥ इति प्रियंवदे साक्षात् ईश्वरे परमेश्वरे ॥ ७।१,२७।२२॥
yat anarthāya bhūtānām na tat asti khalu tvayi .. iti priyaṃvade sākṣāt īśvare parameśvare .. 7.1,27.22..
शृंगारभावसाराणां जन्मभूमिरकृत्रिमा ॥ स्वभर्त्रा ललितन्तथ्यमुक्तं मत्वा स्मितोत्तरम् ॥ ७.१,२७.२३॥
शृंगार-भाव-साराणाम् जन्म-भूमिः अकृत्रिमा ॥ स्व-भर्त्रा ललितन्तथ्यम् उक्तम् मत्वा स्मित-उत्तरम् ॥ ७।१,२७।२३॥
śṛṃgāra-bhāva-sārāṇām janma-bhūmiḥ akṛtrimā .. sva-bhartrā lalitantathyam uktam matvā smita-uttaram .. 7.1,27.23..
लज्जया न किमप्यूचे कौशिकी वर्णनात्परम् ॥ तदेव वर्णयाम्यद्य शृणु देव्याश्च वर्णनम् ॥ ७.१,२७.२४॥
लज्जया न किम् अपि ऊचे कौशिकी वर्णनात् परम् ॥ तत् एव वर्णयामि अद्य शृणु देव्याः च वर्णनम् ॥ ७।१,२७।२४॥
lajjayā na kim api ūce kauśikī varṇanāt param .. tat eva varṇayāmi adya śṛṇu devyāḥ ca varṇanam .. 7.1,27.24..
देव्युवाच॥
किं देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ तादृशी कन्यका लोके न भूता न भविष्यति ॥ ७.१,२७.२५॥
किम् देवेन न सा दृष्टा या सृष्टा कौशिकी मया ॥ तादृशी कन्यका लोके न भूता न भविष्यति ॥ ७।१,२७।२५॥
kim devena na sā dṛṣṭā yā sṛṣṭā kauśikī mayā .. tādṛśī kanyakā loke na bhūtā na bhaviṣyati .. 7.1,27.25..
तस्या वीर्यं बलं विन्ध्यनिलयं विजयं तथा ॥ शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ ७.१,२७.२६॥
तस्याः वीर्यम् बलम् विन्ध्य-निलयम् विजयम् तथा ॥ शुंभस्य च निशुंभस्य मारणे च रणे तयोः ॥ ७।१,२७।२६॥
tasyāḥ vīryam balam vindhya-nilayam vijayam tathā .. śuṃbhasya ca niśuṃbhasya māraṇe ca raṇe tayoḥ .. 7.1,27.26..
प्रत्यक्षफलदानं च लोकाय भजते सदा ॥ लोकानां रक्षणं शश्वद्ब्रह्मा विज्ञापयिष्यति ॥ ७.१,२७.२७॥
प्रत्यक्ष-फल-दानम् च लोकाय भजते सदा ॥ लोकानाम् रक्षणम् शश्वत् ब्रह्मा विज्ञापयिष्यति ॥ ७।१,२७।२७॥
pratyakṣa-phala-dānam ca lokāya bhajate sadā .. lokānām rakṣaṇam śaśvat brahmā vijñāpayiṣyati .. 7.1,27.27..
इति संभाषमाणाया देव्या एवाज्ञया तदा ॥ व्याघ्रः सख्या समानीय पुरो ऽवस्थापितस्तदा ॥ ७.१,२७.२८॥
इति संभाषमाणायाः देव्याः एव आज्ञया तदा ॥ व्याघ्रः सख्या समानीय पुरस् अवस्थापितः तदा ॥ ७।१,२७।२८॥
iti saṃbhāṣamāṇāyāḥ devyāḥ eva ājñayā tadā .. vyāghraḥ sakhyā samānīya puras avasthāpitaḥ tadā .. 7.1,27.28..
तं प्रेक्ष्याह पुनर्देवी देवानीतमुपायतम् ॥ व्याघ्रं पश्य न चानेन सदृशो मदुपासकः ॥ ७.१,२७.२९॥
तम् प्रेक्ष्य आह पुनर् देवी देव-आनीतम् उपायतम् ॥ व्याघ्रम् पश्य न च अनेन सदृशः मद्-उपासकः ॥ ७।१,२७।२९॥
tam prekṣya āha punar devī deva-ānītam upāyatam .. vyāghram paśya na ca anena sadṛśaḥ mad-upāsakaḥ .. 7.1,27.29..
अनेन दुष्टसंघेभ्यो रक्षितं मत्तपोवनम् ॥ अतीव मम भक्तश्च विश्रब्धश्च स्वरक्षणात् ॥ ७.१,२७.३०॥
अनेन दुष्ट-संघेभ्यः रक्षितम् मद्-तपः-वनम् ॥ अतीव मम भक्तः च विश्रब्धः च स्व-रक्षणात् ॥ ७।१,२७।३०॥
anena duṣṭa-saṃghebhyaḥ rakṣitam mad-tapaḥ-vanam .. atīva mama bhaktaḥ ca viśrabdhaḥ ca sva-rakṣaṇāt .. 7.1,27.30..
स्वदेशं च परित्यज्य प्रसादार्थं समागतः ॥ यदि प्रीतिरभून्मत्तः परां प्रीतिं करोषि मे ॥ ७.१,२७.३१॥
स्व-देशम् च परित्यज्य प्रसाद-अर्थम् समागतः ॥ यदि प्रीतिः अभूत् मत्तः पराम् प्रीतिम् करोषि मे ॥ ७।१,२७।३१॥
sva-deśam ca parityajya prasāda-artham samāgataḥ .. yadi prītiḥ abhūt mattaḥ parām prītim karoṣi me .. 7.1,27.31..
नित्यमन्तःपुरद्वारि नियोगान्नन्दिनः स्वयम् ॥ रक्षिभिस्सह तच्चिह्नैर्वर्ततामयमीश्वर ॥ ७.१,२७.३२॥
नित्यम् अन्तःपुर-द्वारि नियोगात् नन्दिनः स्वयम् ॥ रक्षिभिः सह तद्-चिह्नैः वर्तताम् अयम् ईश्वर ॥ ७।१,२७।३२॥
nityam antaḥpura-dvāri niyogāt nandinaḥ svayam .. rakṣibhiḥ saha tad-cihnaiḥ vartatām ayam īśvara .. 7.1,27.32..
वायुरुवाचमधुरं प्रणयोदर्कं श्रुत्वा देव्याः शुभं वचः ॥ ॥
वायुः उवाच मधुरम् प्रणय-उदर्कम् श्रुत्वा देव्याः शुभम् वचः ॥ ॥
vāyuḥ uvāca madhuram praṇaya-udarkam śrutvā devyāḥ śubham vacaḥ .. ..
प्रीतो ऽस्मीत्याह तं देवस्स चादृश्यत तत्क्षणात् ॥ बिभ्रद्वेत्रलतां हैमीं रत्नचित्रं च कंचुकम् ॥ ७.१,२७.३३॥
प्रीतः अस्मि इति आह तम् देवः स च अदृश्यत तद्-क्षणात् ॥ बिभ्रत् वेत्र-लताम् हैमीम् रत्न-चित्रम् च कंचुकम् ॥ ७।१,२७।३३॥
prītaḥ asmi iti āha tam devaḥ sa ca adṛśyata tad-kṣaṇāt .. bibhrat vetra-latām haimīm ratna-citram ca kaṃcukam .. 7.1,27.33..
छुरिकामुरगप्रख्यां गणेशो रक्षवेषधृक् ॥ यस्मात्सोमो महादेवो नन्दी चानेन नन्दितः ॥ ७.१,२७.३४॥
छुरिकाम् उरग-प्रख्याम् गणेशः रक्ष-वेष-धृक् ॥ यस्मात् सोमः महादेवः नन्दी च अनेन नन्दितः ॥ ७।१,२७।३४॥
churikām uraga-prakhyām gaṇeśaḥ rakṣa-veṣa-dhṛk .. yasmāt somaḥ mahādevaḥ nandī ca anena nanditaḥ .. 7.1,27.34..
सोमनन्दीति विख्यातस्तस्मादेष समाख्यया ॥ इत्थं देव्याः प्रियं कृत्वा देवश्चर्धेन्दुभूषणः ॥ ७.१,२७.३५॥
सोमनन्दी इति विख्यातः तस्मात् एष समाख्यया ॥ इत्थम् देव्याः प्रियम् कृत्वा देवः च ऋध-इन्दु-भूषणः ॥ ७।१,२७।३५॥
somanandī iti vikhyātaḥ tasmāt eṣa samākhyayā .. ittham devyāḥ priyam kṛtvā devaḥ ca ṛdha-indu-bhūṣaṇaḥ .. 7.1,27.35..
भूषयामास तन्दिव्यैर्भूषणै रत्नभूषितैः ॥ ततस्स गौरीं गिरिशो गिरीन्द्रजां सगौरवां सर्वमनोहरां हरः ॥ ७.१,२७.३६॥
भूषयामास तत् दिव्यैः भूषणैः रत्न-भूषितैः ॥ ततस् स गौरीम् गिरिशः गिरीन्द्रजाम् स गौरवाम् सर्व-मनोहराम् हरः ॥ ७।१,२७।३६॥
bhūṣayāmāsa tat divyaiḥ bhūṣaṇaiḥ ratna-bhūṣitaiḥ .. tatas sa gaurīm giriśaḥ girīndrajām sa gauravām sarva-manoharām haraḥ .. 7.1,27.36..
पर्यंकमारोप्य वरांगभूषणैर्विभूषयामास शशांकभूषणः ॥ ७.१,२७.३७॥
पर्यंकम् आरोप्य वरांग-भूषणैः विभूषयामास शशांकभूषणः ॥ ७।१,२७।३७॥
paryaṃkam āropya varāṃga-bhūṣaṇaiḥ vibhūṣayāmāsa śaśāṃkabhūṣaṇaḥ .. 7.1,27.37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सप्तविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे सप्तविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe saptaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In