| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
देवीं समादधानेन देवेनेदं किमीरितम् ॥ अग्निषोमात्मकं विश्वं वागर्थात्मकमित्यपि ॥ ७.१,२८.१॥
देवीम् समादधानेन देवेन इदम् किम् ईरितम् ॥ अग्निषोम-आत्मकम् विश्वम् वाच्-अर्थ-आत्मकम् इति अपि ॥ ७।१,२८।१॥
devīm samādadhānena devena idam kim īritam .. agniṣoma-ātmakam viśvam vāc-artha-ātmakam iti api .. 7.1,28.1..
आज्ञैकसारमैश्वर्यमाज्ञा त्वमिति चोदितम् ॥ तदिदं श्रोतुमिच्छामो यथावदनुपूर्वशः ॥ ७.१,२८.२॥
आज्ञा-एक-सारम् ऐश्वर्यम् आज्ञा त्वम् इति च उदितम् ॥ तत् इदम् श्रोतुम् इच्छामः यथावत् अनुपूर्वशस् ॥ ७।१,२८।२॥
ājñā-eka-sāram aiśvaryam ājñā tvam iti ca uditam .. tat idam śrotum icchāmaḥ yathāvat anupūrvaśas .. 7.1,28.2..
वायुरुवाच॥
अग्निरित्युच्यते रौद्री घोरा या तैजसी तनुः ॥ सोमः शाक्तो ऽमृतमयः शक्तेः शान्तिकरी तनुः ॥ ७.१,२८.३॥
अग्निः इति उच्यते रौद्री घोरा या तैजसी तनुः ॥ ॥ ७।१,२८।३॥
agniḥ iti ucyate raudrī ghorā yā taijasī tanuḥ .. .. 7.1,28.3..
अमृतं यत्प्रतिष्ठा सा तेजो विद्या कला स्वयम् ॥ भूतसूक्ष्मेषु सर्वेषु त एव रसतेजसी ॥ ७.१,२८.४॥
अमृतम् यत् प्रतिष्ठा सा तेजः विद्या कला स्वयम् ॥ भूत-सूक्ष्मेषु सर्वेषु ते एव रस-तेजसी ॥ ७।१,२८।४॥
amṛtam yat pratiṣṭhā sā tejaḥ vidyā kalā svayam .. bhūta-sūkṣmeṣu sarveṣu te eva rasa-tejasī .. 7.1,28.4..
द्विविधा तेजसो वृत्तिसूर्यात्मा चानलात्मिका ॥ तथैव रसवृत्तिश्च सोमात्मा च जलात्मिका ॥ ७.१,२८.५॥
द्विविधा तेजसः वृत्ति-सूर्य-आत्मा च अनल-आत्मिका ॥ तथा एव रस-वृत्तिः च सोम-आत्मा च जल-आत्मिका ॥ ७।१,२८।५॥
dvividhā tejasaḥ vṛtti-sūrya-ātmā ca anala-ātmikā .. tathā eva rasa-vṛttiḥ ca soma-ātmā ca jala-ātmikā .. 7.1,28.5..
विद्युदादिमयन्तेजो मधुरादिमयो रसः ॥ तेजोरसविभेदैस्तु धृतमेतच्चराचरम् ॥ ७.१,२८.६॥
विद्युत्-आदि-मयन् तेजः मधुर-आदि-मयः रसः ॥ तेजः-रस-विभेदैः तु धृतम् एतत् चराचरम् ॥ ७।१,२८।६॥
vidyut-ādi-mayan tejaḥ madhura-ādi-mayaḥ rasaḥ .. tejaḥ-rasa-vibhedaiḥ tu dhṛtam etat carācaram .. 7.1,28.6..
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ॥ अत एव हि विक्रान्तमग्नीषोमं जगद्धितम् ॥ ७.१,२८.७॥
अग्नेः अमृत-निष्पत्तिः अमृतेन अग्निः एधते ॥ अतस् एव हि विक्रान्तम् अग्नीषोमम् जगत्-हितम् ॥ ७।१,२८।७॥
agneḥ amṛta-niṣpattiḥ amṛtena agniḥ edhate .. atas eva hi vikrāntam agnīṣomam jagat-hitam .. 7.1,28.7..
हविषे सस्यसम्पत्तिर्वृष्टिः सस्याभिवृद्धये ॥ वृष्टेरेव हविस्तस्मादग्नीषोमधृतं जगत् ॥ ७.१,२८.८॥
हविषे सस्य-सम्पत्तिः वृष्टिः सस्य-अभिवृद्धये ॥ वृष्टेः एव हविः तस्मात् अग्नीषोम-धृतम् जगत् ॥ ७।१,२८।८॥
haviṣe sasya-sampattiḥ vṛṣṭiḥ sasya-abhivṛddhaye .. vṛṣṭeḥ eva haviḥ tasmāt agnīṣoma-dhṛtam jagat .. 7.1,28.8..
अग्निरूर्ध्वं ज्वलत्येष यावत्सौम्यं परामृतम् ॥ यावदग्न्यास्पदं सौम्यममृतं च स्रवत्यधः ॥ ७.१,२८.९॥
अग्निः ऊर्ध्वम् ज्वलति एष यावत् सौम्यम् पर-अमृतम् ॥ यावत् अग्नि-आस्पदम् सौम्यम् अमृतम् च स्रवति अधस् ॥ ७।१,२८।९॥
agniḥ ūrdhvam jvalati eṣa yāvat saumyam para-amṛtam .. yāvat agni-āspadam saumyam amṛtam ca sravati adhas .. 7.1,28.9..
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वतः ॥ यावदादहनं चोर्ध्वमधश्चाप्लावनं भवेत् ॥ ७.१,२८.१०॥
अतस् एव हि कालाग्निः अधस्तात् शक्तिः ऊर्ध्वतस् ॥ यावत् आदहनम् च ऊर्ध्वम् अधस् च आप्लावनम् भवेत् ॥ ७।१,२८।१०॥
atas eva hi kālāgniḥ adhastāt śaktiḥ ūrdhvatas .. yāvat ādahanam ca ūrdhvam adhas ca āplāvanam bhavet .. 7.1,28.10..
आधारशक्त्यैव धृतः कालाग्निरयमूर्ध्वगः ॥ तथैव निम्नगः सोमश्शिवशक्तिपदास्पदः ॥ ७.१,२८.११॥
आधार-शक्त्या एव धृतः कालाग्निः अयम् ऊर्ध्व-गः ॥ तथा एव निम्नगः सोमः शिव-शक्ति-पद-आस्पदः ॥ ७।१,२८।११॥
ādhāra-śaktyā eva dhṛtaḥ kālāgniḥ ayam ūrdhva-gaḥ .. tathā eva nimnagaḥ somaḥ śiva-śakti-pada-āspadaḥ .. 7.1,28.11..
शिवश्चोर्ध्वमधश्शक्तिरूर्ध्वं शक्तिरधः शिवः ॥ तदित्थं शिवशक्तिभ्यान्नाव्याप्तमिह किञ्चन ॥ ७.१,२८.१२॥
शिवः च ऊर्ध्वम् अधस् शक्तिः ऊर्ध्वम् शक्तिः अधस् शिवः ॥ तत् इत्थम् शिव-शक्तिभ्यात् न अव्याप्तम् इह किञ्चन ॥ ७।१,२८।१२॥
śivaḥ ca ūrdhvam adhas śaktiḥ ūrdhvam śaktiḥ adhas śivaḥ .. tat ittham śiva-śaktibhyāt na avyāptam iha kiñcana .. 7.1,28.12..
असकृच्चाग्निना दग्धं जगद्यद्भस्मसात्कृतम् ॥ अग्नेर्वीर्यमिदं चाहुस्तद्वीर्यं भस्म यत्ततः ॥ ७.१,२८.१३॥
असकृत् च अग्निना दग्धम् जगत् यत् भस्मसात्कृतम् ॥ अग्नेः वीर्यम् इदम् च आहुः तत् वीर्यम् भस्म यत् ततस् ॥ ७।१,२८।१३॥
asakṛt ca agninā dagdham jagat yat bhasmasātkṛtam .. agneḥ vīryam idam ca āhuḥ tat vīryam bhasma yat tatas .. 7.1,28.13..
यश्चेत्थं भस्मसद्भावं ज्ञात्वा स्नाति च भस्मना ॥ अग्निरित्यादिभिर्मन्त्रैर्बद्धः पाशात्प्रमुच्यते ॥ ७.१,२८.१४॥
यः च इत्थम् भस्म-सद्भावम् ज्ञात्वा स्नाति च भस्मना ॥ अग्निः इत्यादिभिः मन्त्रैः बद्धः पाशात् प्रमुच्यते ॥ ७।१,२८।१४॥
yaḥ ca ittham bhasma-sadbhāvam jñātvā snāti ca bhasmanā .. agniḥ ityādibhiḥ mantraiḥ baddhaḥ pāśāt pramucyate .. 7.1,28.14..
अग्नेर्वीर्यं तु यद्भस्म सोमेनाप्लावितम्पुनः ॥ अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते ॥ ७.१,२८.१५॥
अग्नेः वीर्यम् तु यत् भस्म सोमेन आप्लावितम् पुनर् ॥ अयोग-युक्त्या प्रकृतेः अधिकाराय कल्पते ॥ ७।१,२८।१५॥
agneḥ vīryam tu yat bhasma somena āplāvitam punar .. ayoga-yuktyā prakṛteḥ adhikārāya kalpate .. 7.1,28.15..
योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ॥ शाक्तेनामृतवर्षेण चाधिकारान्निवर्तयेत् ॥ ७.१,२८.१६॥
योग-युक्त्या तु तत् भस्म प्लाव्यमानम् समन्ततः ॥ शाक्तेन अमृतवर्षेण च अधिकारान् निवर्तयेत् ॥ ७।१,२८।१६॥
yoga-yuktyā tu tat bhasma plāvyamānam samantataḥ .. śāktena amṛtavarṣeṇa ca adhikārān nivartayet .. 7.1,28.16..
अतो मृत्युंजयायेत्थममृतप्लावनं सदा ॥ शिवशक्त्यमृतस्पर्शे लब्धं येन कुतो मृतिः ॥ ७.१,२८.१७॥
अतस् मृत्युंजयाय इत्थम् अमृत-प्लावनम् सदा ॥ शिव-शक्ति-अमृत-स्पर्शे लब्धम् येन कुतस् मृतिः ॥ ७।१,२८।१७॥
atas mṛtyuṃjayāya ittham amṛta-plāvanam sadā .. śiva-śakti-amṛta-sparśe labdham yena kutas mṛtiḥ .. 7.1,28.17..
यो वेद दहनं गुह्यं प्लावनं च यथोदितम् ॥ अग्नीषोमपदं हित्वा न स भूयो ऽभिजायते ॥ ७.१,२८.१८॥
यः वेद दहनम् गुह्यम् प्लावनम् च यथा उदितम् ॥ अग्नीषोम-पदम् हित्वा न स भूयस् अभिजायते ॥ ७।१,२८।१८॥
yaḥ veda dahanam guhyam plāvanam ca yathā uditam .. agnīṣoma-padam hitvā na sa bhūyas abhijāyate .. 7.1,28.18..
शिवाग्निना तनुं दग्ध्वा शक्तिसौम्या मृतेन यः ॥ प्लावयेद्योगमार्गेण सो ऽमृतत्वाय कल्पते ॥ ७.१,२८.१९॥
शिव-अग्निना तनुम् दग्ध्वा शक्ति-सौम्या मृतेन यः ॥ प्लावयेत् योग-मार्गेण सः अमृत-त्वाय कल्पते ॥ ७।१,२८।१९॥
śiva-agninā tanum dagdhvā śakti-saumyā mṛtena yaḥ .. plāvayet yoga-mārgeṇa saḥ amṛta-tvāya kalpate .. 7.1,28.19..
हृदि कृत्वेममर्थं वै देवेन समुदाहृतम् ॥ अग्नीषोमात्मकं विश्वं जगदित्यनुरूपतः ॥ ७.१,२८.२०॥
हृदि कृत्वा इमम् अर्थम् वै देवेन समुदाहृतम् ॥ अग्नीषोम-आत्मकम् विश्वम् जगत् इति अनुरूपतस् ॥ ७।१,२८।२०॥
hṛdi kṛtvā imam artham vai devena samudāhṛtam .. agnīṣoma-ātmakam viśvam jagat iti anurūpatas .. 7.1,28.20..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे भस्मतत्त्ववर्णनं नामाष्टाविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे भस्मतत्त्ववर्णनम् नाम अष्टाविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe bhasmatattvavarṇanam nāma aṣṭāviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In