| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
निवेदयामि जगतो वागर्थात्म्यं कृतं यथा ॥ षडध्ववेदनं सम्यक्समासान्न तु विस्तरात् ॥ 1॥
निवेदयामि जगतः वाच्-अर्थात्म्यम् कृतम् यथा ॥ षडध्व-वेदनम् सम्यक् समासात् न तु विस्तरात् ॥ १॥
nivedayāmi jagataḥ vāc-arthātmyam kṛtam yathā .. ṣaḍadhva-vedanam samyak samāsāt na tu vistarāt .. 1..
नास्ति कश्चिदशब्दार्थो नापि शब्दो निरर्थकः ॥ ततो हि समये शब्दस्सर्वस्सर्वार्थबोधकः ॥ 2॥
ना अस्ति कश्चिद् अशब्द-अर्थः ना अपि शब्दः निरर्थकः ॥ ततस् हि समये शब्दः सर्वः सर्व-अर्थ-बोधकः ॥ २॥
nā asti kaścid aśabda-arthaḥ nā api śabdaḥ nirarthakaḥ .. tatas hi samaye śabdaḥ sarvaḥ sarva-artha-bodhakaḥ .. 2..
प्रकृतेः परिणामो ऽयं द्विधा शब्दार्थभावना ॥ तामाहुः प्राकृतीं मूर्तिं शिवयोः परमात्मनोः ॥ 3॥
प्रकृतेः परिणामः अयम् द्विधा शब्द-अर्थ-भावना ॥ ताम् आहुः प्राकृतीम् मूर्तिम् शिवयोः परम-आत्मनोः ॥ ३॥
prakṛteḥ pariṇāmaḥ ayam dvidhā śabda-artha-bhāvanā .. tām āhuḥ prākṛtīm mūrtim śivayoḥ parama-ātmanoḥ .. 3..
शब्दात्मिका विभूतिर्या सा त्रिधा कथ्यते बुधैः ॥ स्थूला सूक्ष्मा परा चेति स्थूला या श्रुतिगोचरा ॥ 4॥
शब्द-आत्मिका विभूतिः या सा त्रिधा कथ्यते बुधैः ॥ स्थूला सूक्ष्मा परा च इति स्थूला या श्रुति-गोचरा ॥ ४॥
śabda-ātmikā vibhūtiḥ yā sā tridhā kathyate budhaiḥ .. sthūlā sūkṣmā parā ca iti sthūlā yā śruti-gocarā .. 4..
सूक्ष्मा चिन्तामयी प्रोक्ता चिंतया रहिता परा ॥ या शक्तिः सा परा शक्तिश्शिवतत्त्वसमाश्रया ॥ 5॥
सूक्ष्मा चिन्ता-मयी प्रोक्ता चिंतया रहिता परा ॥ या शक्तिः सा परा शक्तिः शिवतत्त्व-समाश्रया ॥ ५॥
sūkṣmā cintā-mayī proktā ciṃtayā rahitā parā .. yā śaktiḥ sā parā śaktiḥ śivatattva-samāśrayā .. 5..
ज्ञानशक्तिसमायोगादिच्छोपोद्बलिका तथा ॥ सर्वशक्तिसमष्ट्यात्मा शक्तितत्त्वसमाख्यया ॥ 6॥
ज्ञानशक्ति-समायोगात् इच्छा-उपोद्बलिका तथा ॥ ॥ ६॥
jñānaśakti-samāyogāt icchā-upodbalikā tathā .. .. 6..
समस्तकार्यजातस्य मूलप्रकृतितां गता ॥ सैव कुण्डलिनी माया शुद्धाध्वपरमा सती ॥ 7॥
समस्त-कार्य-जातस्य मूलप्रकृति-ताम् गता ॥ सा एव कुण्डलिनी माया शुद्ध-अध्व-परमा सती ॥ ७॥
samasta-kārya-jātasya mūlaprakṛti-tām gatā .. sā eva kuṇḍalinī māyā śuddha-adhva-paramā satī .. 7..
सा विभागस्वरूपैव षडध्वात्मा विजृंभते ॥ तत्र शब्दास्त्रयो ऽध्वानस्त्रयश्चार्थाः समीरिताः ॥ 8॥
सा विभाग-स्वरूपा एव षडध्व-आत्मा विजृंभते ॥ तत्र शब्दाः त्रयः अध्वानः त्रयः च अर्थाः समीरिताः ॥ ८॥
sā vibhāga-svarūpā eva ṣaḍadhva-ātmā vijṛṃbhate .. tatra śabdāḥ trayaḥ adhvānaḥ trayaḥ ca arthāḥ samīritāḥ .. 8..
सर्वेषामपि वै पुंसां नैजशुद्ध्यनुरूपतः ॥ लयभोगाधिकारास्स्युस्सर्वतत्त्वविभागतः ॥ 9॥
सर्वेषाम् अपि वै पुंसाम् नैज-शुद्धि-अनुरूपतः ॥ लय-भोग-अधिकाराः स्युः सर्व-तत्त्व-विभागतः ॥ ९॥
sarveṣām api vai puṃsām naija-śuddhi-anurūpataḥ .. laya-bhoga-adhikārāḥ syuḥ sarva-tattva-vibhāgataḥ .. 9..
कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ 10॥
कलाभिः तानि तत्त्वानि व्याप्तानि एव यथातथम् ॥ परस्याः प्रकृतेः आदौ पञ्चधा परिणामतः ॥ १०॥
kalābhiḥ tāni tattvāni vyāptāni eva yathātatham .. parasyāḥ prakṛteḥ ādau pañcadhā pariṇāmataḥ .. 10..
कलाश्च ता निवृत्त्याद्याः पर्याप्ता इति निश्चयः ॥ मंत्राध्वा च पदाध्वा च वर्णाध्वा चेति शब्दतः ॥ 11॥
कलाः च ताः निवृत्त्य आद्याः पर्याप्ताः इति निश्चयः ॥ मंत्राध्वा च पदाध्वा च वर्णाध्वा च इति शब्दतः ॥ ११॥
kalāḥ ca tāḥ nivṛttya ādyāḥ paryāptāḥ iti niścayaḥ .. maṃtrādhvā ca padādhvā ca varṇādhvā ca iti śabdataḥ .. 11..
भुवनाध्वा च तत्त्वाध्वा कलाध्वा चार्थतः क्रमात् ॥ अत्रान्योन्यं च सर्वेषां व्याप्यव्यापकतोच्यते ॥ 12॥
भुवनाध्वा च तत्त्वाध्वा कलाध्वा च अर्थतः क्रमात् ॥ अत्र अन्योन्यम् च सर्वेषाम् व्याप्य-व्यापक-ता उच्यते ॥ १२॥
bhuvanādhvā ca tattvādhvā kalādhvā ca arthataḥ kramāt .. atra anyonyam ca sarveṣām vyāpya-vyāpaka-tā ucyate .. 12..
मंत्राः सर्वैः पदैर्व्याप्ता वाक्यभावात्पदानि च ॥ वर्णैर्वर्णसमूहं हि पदमाहुर्विपश्चितः ॥ 13॥
मंत्राः सर्वैः पदैः व्याप्ताः वाक्य-भावात् पदानि च ॥ वर्णैः वर्ण-समूहम् हि पदम् आहुः विपश्चितः ॥ १३॥
maṃtrāḥ sarvaiḥ padaiḥ vyāptāḥ vākya-bhāvāt padāni ca .. varṇaiḥ varṇa-samūham hi padam āhuḥ vipaścitaḥ .. 13..
वर्णास्तु भुवनैर्व्याप्तास्तेषां तेषूपलंभनात् ॥ भुवनान्यपि तत्त्वौघैरुत्पत्त्यांतर्बहिष्क्रमात् ॥ 14॥
वर्णाः तु भुवनैः व्याप्ताः तेषाम् तेषु उपलंभनात् ॥ भुवनानि अपि तत्त्व-ओघैः उत्पत्त्या अन्तर् बहिष्क्रमात् ॥ १४॥
varṇāḥ tu bhuvanaiḥ vyāptāḥ teṣām teṣu upalaṃbhanāt .. bhuvanāni api tattva-oghaiḥ utpattyā antar bahiṣkramāt .. 14..
व्याप्तानि कारणैस्तत्त्वैरारब्धत्वादनेकशः ॥ अंतरादुत्थितानीह भुवनानि तु कानिचित् ॥ 15॥
व्याप्तानि कारणैः तत्त्वैः आरब्ध-त्वात् अनेकशस् ॥ अंतरात् उत्थितानि इह भुवनानि तु कानिचिद् ॥ १५॥
vyāptāni kāraṇaiḥ tattvaiḥ ārabdha-tvāt anekaśas .. aṃtarāt utthitāni iha bhuvanāni tu kānicid .. 15..
पौराणिकानि चान्यानि विज्ञेयानि शिवागमे ॥ सांख्ययोगप्रसिद्धानि तत्त्वान्यपि च कानिचित् ॥ 16॥
पौराणिकानि च अन्यानि विज्ञेयानि शिव-आगमे ॥ सांख्य-योग-प्रसिद्धानि तत्त्वानि अपि च कानिचिद् ॥ १६॥
paurāṇikāni ca anyāni vijñeyāni śiva-āgame .. sāṃkhya-yoga-prasiddhāni tattvāni api ca kānicid .. 16..
शिवशास्त्रप्रसिद्धानि ततोन्यान्यपि कृत्स्नशः ॥ कलाभिस्तानि तत्त्वानि व्याप्तान्येव यथातथम् ॥ 17॥
शिव-शास्त्र-प्रसिद्धानि ततोन्यानि अपि कृत्स्नशस् ॥ कलाभिः तानि तत्त्वानि व्याप्तानि एव यथातथम् ॥ १७॥
śiva-śāstra-prasiddhāni tatonyāni api kṛtsnaśas .. kalābhiḥ tāni tattvāni vyāptāni eva yathātatham .. 17..
परस्याः प्रकृतेरादौ पञ्चधा परिणामतः ॥ कलाश्च ता निवृत्त्याद्या व्याप्ताः पञ्च यथोत्तरम् ॥ 18॥
परस्याः प्रकृतेः आदौ पञ्चधा परिणामतः ॥ कलाः च ताः निवृत्त्य आद्याः व्याप्ताः पञ्च यथोत्तरम् ॥ १८॥
parasyāḥ prakṛteḥ ādau pañcadhā pariṇāmataḥ .. kalāḥ ca tāḥ nivṛttya ādyāḥ vyāptāḥ pañca yathottaram .. 18..
व्यापिकातः परा शक्तिरविभक्ता षडध्वनाम् ॥ परप्रकृतिभावस्य तत्सत्त्वाच्छिवतत्त्वतः ॥ 19॥
परा ॥ पर-प्रकृति-भावस्य तद्-सत्त्वात् शिवतत्त्वतः ॥ १९॥
parā .. para-prakṛti-bhāvasya tad-sattvāt śivatattvataḥ .. 19..
शक्त्यादि च पृथिव्यन्तं शिवतत्त्वसमुद्भवम् ॥ व्याप्तमेकेन तेनैव मृदा कुंभादिकं यथा ॥ 20॥
शक्ति-आदि च पृथिवी-अन्तम् शिव-तत्त्व-समुद्भवम् ॥ व्याप्तम् एकेन तेन एव मृदा कुंभ-आदिकम् यथा ॥ २०॥
śakti-ādi ca pṛthivī-antam śiva-tattva-samudbhavam .. vyāptam ekena tena eva mṛdā kuṃbha-ādikam yathā .. 20..
शैवं तत्परमं धाम यत्प्राप्यं षड्भिरध्वभिः ॥ व्यापिका ऽव्यापिका शक्तिः पञ्चतत्त्वविशोधनात् ॥ 21॥
शैवम् तत् परमम् धाम यत् प्राप्यम् षड्भिः अध्वभिः ॥ ॥ २१॥
śaivam tat paramam dhāma yat prāpyam ṣaḍbhiḥ adhvabhiḥ .. .. 21..
निवृत्त्या रुद्रपर्यन्तं स्थितिरण्डस्य शोध्यते ॥ प्रतिष्ठया तदूर्ध्वं तु यावदव्यक्तगोचरम् ॥ 22॥
निवृत्त्या रुद्र-पर्यन्तम् स्थिति-रण्डस्य शोध्यते ॥ प्रतिष्ठया तद्-ऊर्ध्वम् तु यावत् अव्यक्त-गोचरम् ॥ २२॥
nivṛttyā rudra-paryantam sthiti-raṇḍasya śodhyate .. pratiṣṭhayā tad-ūrdhvam tu yāvat avyakta-gocaram .. 22..
तदूर्ध्वं विद्यया मध्ये यावद्विश्वेश्वरावधि ॥ शान्त्या तदूर्ध्वं मध्वान्ते विशुद्धिः शान्त्यतीतया ॥ 23॥
तद्-ऊर्ध्वम् विद्यया मध्ये यावत् विश्वेश्वर-अवधि ॥ शान्त्या तद्-ऊर्ध्वम् मधु-अन्ते विशुद्धिः शान्ति-अतीतया ॥ २३॥
tad-ūrdhvam vidyayā madhye yāvat viśveśvara-avadhi .. śāntyā tad-ūrdhvam madhu-ante viśuddhiḥ śānti-atītayā .. 23..
यामाहुः परमं व्योम परप्रकृतियोगतः ॥ एतानि पञ्चतत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ 24॥
याम् आहुः परमम् व्योम पर-प्रकृति-योगतः ॥ एतानि पञ्चतत्त्वानि यैः व्याप्तम् अखिलम् जगत् ॥ २४॥
yām āhuḥ paramam vyoma para-prakṛti-yogataḥ .. etāni pañcatattvāni yaiḥ vyāptam akhilam jagat .. 24..
तत्रैव सर्वमेवेदं द्रष्टव्यं खलु साधकैः ॥ अध्वव्याप्तिमविज्ञाय शुद्धिं यः कर्तुमिच्छति ॥ 25॥
तत्र एव सर्वम् एवा इदम् द्रष्टव्यम् खलु साधकैः ॥ अध्व-व्याप्तिम् अ विज्ञाय शुद्धिम् यः कर्तुम् इच्छति ॥ २५॥
tatra eva sarvam evā idam draṣṭavyam khalu sādhakaiḥ .. adhva-vyāptim a vijñāya śuddhim yaḥ kartum icchati .. 25..
स विप्रलम्भकः शुद्धेर्नालम्प्रापयितुं फलम् ॥ वृथा परिश्रमस्तस्य निरयायैव केवलम् ॥ 26॥
स विप्रलम्भकः शुद्धेः न अलम्प्रापयितुम् फलम् ॥ वृथा परिश्रमः तस्य निरयाय एव केवलम् ॥ २६॥
sa vipralambhakaḥ śuddheḥ na alamprāpayitum phalam .. vṛthā pariśramaḥ tasya nirayāya eva kevalam .. 26..
शक्तिपातसमायोगादृते तत्त्वानि तत्त्वतः ॥ तद्व्याप्तिस्तद्विवृद्धिश्च ज्ञातुमेवं न शक्यते ॥ 27॥
शक्तिपात-समायोगात् ऋते तत्त्वानि तत्त्वतः ॥ तद्-व्याप्तिः तद्-विवृद्धिः च ज्ञातुम् एवम् न शक्यते ॥ २७॥
śaktipāta-samāyogāt ṛte tattvāni tattvataḥ .. tad-vyāptiḥ tad-vivṛddhiḥ ca jñātum evam na śakyate .. 27..
शक्तिराज्ञा परा शैवी चिद्रूपा मरमेश्वरी ॥ शिवो ऽधितिष्ठत्यखिलं यया कारणभूतया ॥ 28॥
शक्तिः राज्ञा परा शैवी चित्-रूपा मरमेश्वरी ॥ शिवः अधितिष्ठति अखिलम् यया कारण-भूतया ॥ २८॥
śaktiḥ rājñā parā śaivī cit-rūpā marameśvarī .. śivaḥ adhitiṣṭhati akhilam yayā kāraṇa-bhūtayā .. 28..
नात्मनो नैव मायैषा न विकारो विचारतः ॥ न बंधो नापि मुक्तिश्च बंधमुक्तिविधायिनी ॥ 29॥
न आत्मनः ना एव माया एषा न विकारः विचारतः ॥ न बंधः ना अपि मुक्तिः च बंध-मुक्ति-विधायिनी ॥ २९॥
na ātmanaḥ nā eva māyā eṣā na vikāraḥ vicārataḥ .. na baṃdhaḥ nā api muktiḥ ca baṃdha-mukti-vidhāyinī .. 29..
सर्वैश्वर्यपराकाष्टा शिवस्य व्यभिचारिणी ॥ समानधर्मिणी तस्य तैस्तैर्भावैर्विशेषतः ॥ 30॥
सर्व-ऐश्वर्य-पराकाष्टा शिवस्य व्यभिचारिणी ॥ समान-धर्मिणी तस्य तैः तैः भावैः विशेषतः ॥ ३०॥
sarva-aiśvarya-parākāṣṭā śivasya vyabhicāriṇī .. samāna-dharmiṇī tasya taiḥ taiḥ bhāvaiḥ viśeṣataḥ .. 30..
स तयैव गृही सापि तेनैव गृहिणी सदा ॥ तयोरपत्यं यत्कार्यं परप्रकृतिजं जगत् ॥ 31॥
स तया एव गृही सा अपि तेन एव गृहिणी सदा ॥ तयोः अपत्यम् यत् कार्यम् पर-प्रकृति-जम् जगत् ॥ ३१॥
sa tayā eva gṛhī sā api tena eva gṛhiṇī sadā .. tayoḥ apatyam yat kāryam para-prakṛti-jam jagat .. 31..
स कर्ता कारणं सेति तयोर्भेदो व्यवस्थितः ॥ एक एव शिवः साक्षाद्द्विधा ऽसौ समवस्थितः ॥ 32॥
स कर्ता कारणम् सा इति तयोः भेदः व्यवस्थितः ॥ एकः एव शिवः साक्षात् द्विधा असौ समवस्थितः ॥ ३२॥
sa kartā kāraṇam sā iti tayoḥ bhedaḥ vyavasthitaḥ .. ekaḥ eva śivaḥ sākṣāt dvidhā asau samavasthitaḥ .. 32..
स्त्रीपुंसभावेन तयोर्भेद इत्यपि केचन ॥ अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ 33॥
स्त्रीपुंस-भावेन तयोः भेदः इति अपि केचन ॥ अपरे तु परा शक्तिः शिवस्य समवायिनी ॥ ३३॥
strīpuṃsa-bhāvena tayoḥ bhedaḥ iti api kecana .. apare tu parā śaktiḥ śivasya samavāyinī .. 33..
प्रभेव भानोश्चिद्रूपा भिन्नैवेति व्यवस्थितः ॥ तस्माच्छिवः परो हेतुस्तस्याज्ञा परमेश्वरी ॥ 34॥
प्रभा इव भानोः चित्-रूपा भिन्ना एवा इति व्यवस्थितः ॥ तस्मात् शिवः परः हेतुः तस्य आज्ञा परमेश्वरी ॥ ३४॥
prabhā iva bhānoḥ cit-rūpā bhinnā evā iti vyavasthitaḥ .. tasmāt śivaḥ paraḥ hetuḥ tasya ājñā parameśvarī .. 34..
तयैव प्रेरिता शैवी मूलप्रकृतिरव्यया ॥ महामाया च माया च प्रकृतिस्त्रिगुणेति च ॥ 35॥
तया एव प्रेरिता शैवी मूलप्रकृतिः अव्यया ॥ महामाया च माया च प्रकृतिः त्रिगुणा इति च ॥ ३५॥
tayā eva preritā śaivī mūlaprakṛtiḥ avyayā .. mahāmāyā ca māyā ca prakṛtiḥ triguṇā iti ca .. 35..
त्रिविधा कार्यवेधेन सा प्रसूते षडध्वनः ॥ स वागर्थमयश्चाध्वा षड्विधो निखिलं जगत् ॥ 36॥
त्रिविधा कार्य-वेधेन सा प्रसूते षडध्वनः ॥ स वाच्-अर्थ-मयः च अध्वा षड्विधः निखिलम् जगत् ॥ ३६॥
trividhā kārya-vedhena sā prasūte ṣaḍadhvanaḥ .. sa vāc-artha-mayaḥ ca adhvā ṣaḍvidhaḥ nikhilam jagat .. 36..
अस्यैव विस्तरं प्राहुः शास्त्रजातमशेषतः ॥ 37॥
अस्य एव विस्तरम् प्राहुः शास्त्र-जातम् अशेषतस् ॥ ३७॥
asya eva vistaram prāhuḥ śāstra-jātam aśeṣatas .. 37..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वागर्थकतत्त्ववर्णनं नामैकोनत्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे वागर्थकतत्त्ववर्णनम् नाम एकोनत्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe vāgarthakatattvavarṇanam nāma ekonatriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In