| |
|

This overlay will guide you through the buttons:

ब्रहमोवाच॥
यतो वाचो निवर्तंते अप्राप्य मनसा सह ॥ आनंदं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ ७.१,३.१॥
यतस् वाचः निवर्तन्ते अ प्राप्य मनसा सह ॥ आनंदम् यस्य वै विद्वान् न बिभेति कुतश्चन ॥ ७।१,३।१॥
yatas vācaḥ nivartante a prāpya manasā saha .. ānaṃdam yasya vai vidvān na bibheti kutaścana .. 7.1,3.1..
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ॥ सह भूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ ७.१,३.२॥
यस्मात् सर्वम् इदम् ब्रह्म-विष्णु-रुद्र-इन्द्र-पूर्वकम् ॥ सह भूत-इन्द्रियैः सर्वैः प्रथमम् संप्रसूयते ॥ ७।१,३।२॥
yasmāt sarvam idam brahma-viṣṇu-rudra-indra-pūrvakam .. saha bhūta-indriyaiḥ sarvaiḥ prathamam saṃprasūyate .. 7.1,3.2..
कारणानां च यो धाता ध्याता परमकारणम् ॥ न संप्रसूयते ऽन्यस्मात्कुतश्चन कदाचन ॥ ७.१,३.३॥
कारणानाम् च यः धाता ध्याता परम-कारणम् ॥ न संप्रसूयते अन्यस्मात् कुतश्चन कदाचन ॥ ७।१,३।३॥
kāraṇānām ca yaḥ dhātā dhyātā parama-kāraṇam .. na saṃprasūyate anyasmāt kutaścana kadācana .. 7.1,3.3..
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ सर्वैर्मुमुक्षुभिर्ध्येयश्शंभुराकाशमध्यगः ॥ ७.१,३.४॥
सर्व-ऐश्वर्येण संपन्नः नाम्ना सर्वेश्वरः स्वयम् ॥ सर्वैः मुमुक्षुभिः ध्येयः शंभुः आकाश-मध्य-गः ॥ ७।१,३।४॥
sarva-aiśvaryeṇa saṃpannaḥ nāmnā sarveśvaraḥ svayam .. sarvaiḥ mumukṣubhiḥ dhyeyaḥ śaṃbhuḥ ākāśa-madhya-gaḥ .. 7.1,3.4..
यो ऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ॥ तत्प्रसादान्मयालब्धं प्राजापत्यमिदं पदम् ॥ ७.१,३.५॥
यः अग्रे माम् विदधे पुत्रम् ज्ञानम् च प्रहिणोति मे ॥ तद्-प्रसादात् मया आलब्धम् प्राजापत्यम् इदम् पदम् ॥ ७।१,३।५॥
yaḥ agre mām vidadhe putram jñānam ca prahiṇoti me .. tad-prasādāt mayā ālabdham prājāpatyam idam padam .. 7.1,3.5..
ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ॥ येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ७.१,३.६॥
ईशः वृक्षः इव स्तब्धः यः एकः दिवि तिष्ठति ॥ येन इदम् अखिलम् पूर्णम् पुरुषेण महात्मना ॥ ७।१,३।६॥
īśaḥ vṛkṣaḥ iva stabdhaḥ yaḥ ekaḥ divi tiṣṭhati .. yena idam akhilam pūrṇam puruṣeṇa mahātmanā .. 7.1,3.6..
एको बहूनां जंतूनां निष्क्रियाणां च सक्रियः ॥ य एको बहुधा बीजं करोति स महेश्वरः ॥ ७.१,३.७॥
एकः बहूनाम् जंतूनाम् निष्क्रियाणाम् च स क्रियः ॥ यः एकः बहुधा बीजम् करोति स महेश्वरः ॥ ७।१,३।७॥
ekaḥ bahūnām jaṃtūnām niṣkriyāṇām ca sa kriyaḥ .. yaḥ ekaḥ bahudhā bījam karoti sa maheśvaraḥ .. 7.1,3.7..
जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते ॥ य एको भागवान्रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ ७.१,३.८॥
जीवैः एभिः इमान् लोकान् सर्वान् ईशः यः ईशते ॥ यः एकः भागवान् रुद्रः न द्वितीयः अस्ति कश्चन ॥ ७।१,३।८॥
jīvaiḥ ebhiḥ imān lokān sarvān īśaḥ yaḥ īśate .. yaḥ ekaḥ bhāgavān rudraḥ na dvitīyaḥ asti kaścana .. 7.1,3.8..
सदा जनानां हृदये संनिविष्टो ऽपि यः परैः ॥ अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ७.१,३.९॥
सदा जनानाम् हृदये संनिविष्टः अपि यः परैः ॥ अलक्ष्यः लक्षयन् विश्वम् अधितिष्ठति सर्वदा ॥ ७।१,३।९॥
sadā janānām hṛdaye saṃniviṣṭaḥ api yaḥ paraiḥ .. alakṣyaḥ lakṣayan viśvam adhitiṣṭhati sarvadā .. 7.1,3.9..
यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ॥ अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ ७.१,३.१०॥
यः तु कालात् प्रमुक्तानि कारणानि अखिलानि अपि ॥ अनन्त-शक्तिः एव एकः भगवान् अधितिष्ठति ॥ ७।१,३।१०॥
yaḥ tu kālāt pramuktāni kāraṇāni akhilāni api .. ananta-śaktiḥ eva ekaḥ bhagavān adhitiṣṭhati .. 7.1,3.10..
न यस्य दिवसो रात्रिर्न समानो न चाधिकः ॥ स्वभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ७.१,३.११॥
न यस्य दिवसः रात्रिः न समानः न च अधिकः ॥ स्वभाविकी पराशक्तिः नित्या ज्ञान-क्रिये अपि ॥ ७।१,३।११॥
na yasya divasaḥ rātriḥ na samānaḥ na ca adhikaḥ .. svabhāvikī parāśaktiḥ nityā jñāna-kriye api .. 7.1,3.11..
यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ॥ तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ ७.१,३.१२॥
यत् इदम् क्षरम् अव्यक्तम् यत् अपि अमृतम् अक्षरम् ॥ तौ उभौ अक्षर-आत्मानौ एकः देवः स्वयम् हरः ॥ ७।१,३।१२॥
yat idam kṣaram avyaktam yat api amṛtam akṣaram .. tau ubhau akṣara-ātmānau ekaḥ devaḥ svayam haraḥ .. 7.1,3.12..
ईशते तदभिध्यानाद्योजनासत्त्वभावनः ॥ भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ ७.१,३.१३॥
ईशते तद्-अभिध्यानात् योजन-असत्त्व-भावनः ॥ भूयस् हि अस्य पशोः अन्ते विश्व-माया निवर्तते ॥ ७।१,३।१३॥
īśate tad-abhidhyānāt yojana-asattva-bhāvanaḥ .. bhūyas hi asya paśoḥ ante viśva-māyā nivartate .. 7.1,3.13..
यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ॥ यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ ७.१,३.१४॥
यस्मिन् न भासते विद्युत् न सूर्यः न च चन्द्रमाः ॥ यस्य भासा विभाति इदम् इति एषा शाश्वती श्रुतिः ॥ ७।१,३।१४॥
yasmin na bhāsate vidyut na sūryaḥ na ca candramāḥ .. yasya bhāsā vibhāti idam iti eṣā śāśvatī śrutiḥ .. 7.1,3.14..
एको देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ न तस्य परमं किंचित्पदं समधिगम्यते ॥ ७.१,३.१५॥
एकः देवः महादेवः विज्ञेयः तु महेश्वरः ॥ न तस्य परमम् किंचिद् पदम् समधिगम्यते ॥ ७।१,३।१५॥
ekaḥ devaḥ mahādevaḥ vijñeyaḥ tu maheśvaraḥ .. na tasya paramam kiṃcid padam samadhigamyate .. 7.1,3.15..
अयमादिरनाद्यन्तस्स्वभावादेव निर्मलः ॥ स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ ७.१,३.१६॥
अयम् आदिः अनादि-अन्तः स्वभावात् एव निर्मलः ॥ स्वतन्त्रः परिपूर्णः च स्व-इच्छा-अधीनः चराचरः ॥ ७।१,३।१६॥
ayam ādiḥ anādi-antaḥ svabhāvāt eva nirmalaḥ .. svatantraḥ paripūrṇaḥ ca sva-icchā-adhīnaḥ carācaraḥ .. 7.1,3.16..
अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ॥ अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ ७.१,३.१७॥
अप्राकृत-वपुः श्रीमान् लक्ष्य-लक्षण-वर्जितः ॥ अयम् मुक्तः मोचकः च हि अकालः काल-चोदकः ॥ ७।१,३।१७॥
aprākṛta-vapuḥ śrīmān lakṣya-lakṣaṇa-varjitaḥ .. ayam muktaḥ mocakaḥ ca hi akālaḥ kāla-codakaḥ .. 7.1,3.17..
सर्वोपरिकृतावासस्सर्वावासश्च सर्ववित् ॥ षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ ७.१,३.१८॥
सर्व-उपरि कृत-आवासः सर्व-आवासः च सर्व-विद् ॥ षड्विध-अध्व-मयस्य अस्य सर्वस्य जगतः पतिः ॥ ७।१,३।१८॥
sarva-upari kṛta-āvāsaḥ sarva-āvāsaḥ ca sarva-vid .. ṣaḍvidha-adhva-mayasya asya sarvasya jagataḥ patiḥ .. 7.1,3.18..
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ॥ अनन्तानन्तसन्दोहमकरंदमधुव्रतः ॥ ७.१,३.१९॥
उत्तर-उत्तर-भूतानाम् उत्तरः च निरुत्तरः ॥ ॥ ७।१,३।१९॥
uttara-uttara-bhūtānām uttaraḥ ca niruttaraḥ .. .. 7.1,3.19..
अखंडजगदंडानां पिंडीकरणपंडितः ॥ औदार्यवीर्यगांभीर्यमाधुर्यमकरालयः ॥ ७.१,३.२०॥
अखंड-जगत्-दंडानाम् पिंडीकरण-पंडितः ॥ औदार्य-वीर्य-गांभीर्य-माधुर्य-मकर-आलयः ॥ ७।१,३।२०॥
akhaṃḍa-jagat-daṃḍānām piṃḍīkaraṇa-paṃḍitaḥ .. audārya-vīrya-gāṃbhīrya-mādhurya-makara-ālayaḥ .. 7.1,3.20..
नैवास्य सदृशं वस्तु नाधिकं चापि किंचन ॥ अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ ७.१,३.२१॥
न एव अस्य सदृशम् वस्तु न अधिकम् च अपि किंचन ॥ अतुलः सर्व-भूतानाम् राज-राजः च तिष्ठति ॥ ७।१,३।२१॥
na eva asya sadṛśam vastu na adhikam ca api kiṃcana .. atulaḥ sarva-bhūtānām rāja-rājaḥ ca tiṣṭhati .. 7.1,3.21..
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ॥ अंतकाले पुनश्चेदं तस्मिन्प्रलयमेष्यते ॥ ७.१,३.२२॥
अनेन चित्र-कृत्येन प्रथमम् सृज्यते जगत् ॥ अन्त-काले पुनर् च इदम् तस्मिन् प्रलयम् एष्यते ॥ ७।१,३।२२॥
anena citra-kṛtyena prathamam sṛjyate jagat .. anta-kāle punar ca idam tasmin pralayam eṣyate .. 7.1,3.22..
अस्य भूतानि वश्यानि अयं सर्वनियोजकः ॥ अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ ७.१,३.२३॥
अस्य भूतानि वश्यानि अयम् सर्व-नियोजकः ॥ अयम् तु परया भक्त्या दृश्यते ना अन्यथा क्वचिद् ॥ ७।१,३।२३॥
asya bhūtāni vaśyāni ayam sarva-niyojakaḥ .. ayam tu parayā bhaktyā dṛśyate nā anyathā kvacid .. 7.1,3.23..
व्रतानि सर्वदानानि तपांसि नियमास्तथा ॥ कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ ७.१,३.२४॥
व्रतानि सर्व-दानानि तपांसि नियमाः तथा ॥ कथितानि पुरा सद्भिः भाव-अर्थम् न अत्र संशयः ॥ ७।१,३।२४॥
vratāni sarva-dānāni tapāṃsi niyamāḥ tathā .. kathitāni purā sadbhiḥ bhāva-artham na atra saṃśayaḥ .. 7.1,3.24..
हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ॥ तपोभिरुग्रैरद्यापि तस्य दर्शनकांक्षिणः ॥ ७.१,३.२५॥
हरिः च अहम् च रुद्रः च तथा अन्ये च सुर-असुराः ॥ तपोभिः उग्रैः अद्या अपि तस्य दर्शन-कांक्षिणः ॥ ७।१,३।२५॥
hariḥ ca aham ca rudraḥ ca tathā anye ca sura-asurāḥ .. tapobhiḥ ugraiḥ adyā api tasya darśana-kāṃkṣiṇaḥ .. 7.1,3.25..
अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ॥ भक्तैरन्तर्बहिश्चापि पूज्यः संभाष्य एव च ॥ ७.१,३.२६॥
अदृश्यः पतितैः मूढैः दुर्जनैः अपि कुत्सितैः ॥ भक्तैः अन्तर् बहिस् च अपि पूज्यः संभाष्यः एव च ॥ ७।१,३।२६॥
adṛśyaḥ patitaiḥ mūḍhaiḥ durjanaiḥ api kutsitaiḥ .. bhaktaiḥ antar bahis ca api pūjyaḥ saṃbhāṣyaḥ eva ca .. 7.1,3.26..
तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ॥ अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ ७.१,३.२७॥
तत् इदम् त्रिविधम् रूपम् स्थूलम् सूक्ष्मम् ततस् परम् ॥ अस्मत् आदि-अमरैः दृश्यम् स्थूलम् सूक्ष्मम् तु योगिभिः ॥ ७।१,३।२७॥
tat idam trividham rūpam sthūlam sūkṣmam tatas param .. asmat ādi-amaraiḥ dṛśyam sthūlam sūkṣmam tu yogibhiḥ .. 7.1,3.27..
ततः परं तु यन्नित्यं ज्ञानमानंदमव्ययम् ॥ तन्निष्ठैस्तत्परैर्भक्तैर्दृश्यं तद्व्रतमाश्रितैः ॥ ७.१,३.२८॥
ततस् परम् तु यत् नित्यम् ज्ञानम् आनंदम् अव्ययम् ॥ तद्-निष्ठैः तद्-परैः भक्तैः दृश्यम् तद्-व्रतम् आश्रितैः ॥ ७।१,३।२८॥
tatas param tu yat nityam jñānam ānaṃdam avyayam .. tad-niṣṭhaiḥ tad-paraiḥ bhaktaiḥ dṛśyam tad-vratam āśritaiḥ .. 7.1,3.28..
बहुनात्र किमुक्तेन गुह्याद्गुह्यतरं परम् ॥ शिवे भक्तिर्न सन्देहस्तया युक्तो विमुच्यते ॥ ७.१,३.२९॥
बहुना अत्र किम् उक्तेन गुह्यात् गुह्यतरम् परम् ॥ शिवे भक्तिः न सन्देहः तया युक्तः विमुच्यते ॥ ७।१,३।२९॥
bahunā atra kim uktena guhyāt guhyataram param .. śive bhaktiḥ na sandehaḥ tayā yuktaḥ vimucyate .. 7.1,3.29..
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ॥ यथा चांकुरतो बीजं बीजतो वा यथांकुरः ॥ ७.१,३.३०॥
प्रसादात् एव सा भक्तिः प्रसादः भक्ति-संभवः ॥ यथा च अंकुरतः बीजम् बीजतः वा यथा अंकुरः ॥ ७।१,३।३०॥
prasādāt eva sā bhaktiḥ prasādaḥ bhakti-saṃbhavaḥ .. yathā ca aṃkurataḥ bījam bījataḥ vā yathā aṃkuraḥ .. 7.1,3.30..
प्रसादपूर्विका एव पशोस्सर्वत्र सिद्धयः ॥ स एव साधनैरन्ते सर्वैरपि च साध्यते ॥ ७.१,३.३१॥
प्रसाद-पूर्विकाः एव पशोः सर्वत्र सिद्धयः ॥ सः एव साधनैः अन्ते सर्वैः अपि च साध्यते ॥ ७।१,३।३१॥
prasāda-pūrvikāḥ eva paśoḥ sarvatra siddhayaḥ .. saḥ eva sādhanaiḥ ante sarvaiḥ api ca sādhyate .. 7.1,3.31..
प्रसादसाधनं धर्मस्स च वेदेन दर्शितः ॥ तदभ्यासवशात्साम्यं पूर्वयोः पुण्यपापयोः ॥ ७.१,३.३२॥
प्रसाद-साधनम् धर्मः स च वेदेन दर्शितः ॥ तद्-अभ्यास-वशात् साम्यम् पूर्वयोः पुण्य-पापयोः ॥ ७।१,३।३२॥
prasāda-sādhanam dharmaḥ sa ca vedena darśitaḥ .. tad-abhyāsa-vaśāt sāmyam pūrvayoḥ puṇya-pāpayoḥ .. 7.1,3.32..
साम्यात्प्रसादसंपर्को धर्मस्यातिशयस्ततः ॥ धर्मातिशयमासाद्य पशोः पापपरिक्षयः ॥ ७.१,३.३३॥
साम्यात् प्रसाद-संपर्कः धर्मस्य अतिशयः ततस् ॥ धर्म-अतिशयम् आसाद्य पशोः पाप-परिक्षयः ॥ ७।१,३।३३॥
sāmyāt prasāda-saṃparkaḥ dharmasya atiśayaḥ tatas .. dharma-atiśayam āsādya paśoḥ pāpa-parikṣayaḥ .. 7.1,3.33..
एवं प्रक्षीणपापस्य बहुभिर्जन्मभिः क्रमात् ॥ सांबे सर्वेश्वरे भक्तिर्ज्ञानपूर्वा प्रजायते ॥ ७.१,३.३४॥
एवम् प्रक्षीण-पापस्य बहुभिः जन्मभिः क्रमात् ॥ स अंबे सर्वेश्वरे भक्तिः ज्ञान-पूर्वा प्रजायते ॥ ७।१,३।३४॥
evam prakṣīṇa-pāpasya bahubhiḥ janmabhiḥ kramāt .. sa aṃbe sarveśvare bhaktiḥ jñāna-pūrvā prajāyate .. 7.1,3.34..
भावानुगुणमीशस्य प्रसादो व्यतिरिच्यते ॥ प्रसादात्कर्मसंत्यागः फलतो न स्वरूपतः ॥ ७.१,३.३५॥
भाव-अनुगुणम् ईशस्य प्रसादः व्यतिरिच्यते ॥ प्रसादात् कर्म-संत्यागः फलतः न स्वरूपतः ॥ ७।१,३।३५॥
bhāva-anuguṇam īśasya prasādaḥ vyatiricyate .. prasādāt karma-saṃtyāgaḥ phalataḥ na svarūpataḥ .. 7.1,3.35..
तस्मात्कर्मफलत्यागाच्छिवधर्मान्वयः शुभः ॥ स च गुर्वनपेक्षश्च तदपेक्ष इति द्विधा ॥ ७.१,३.३६॥
तस्मात् कर्म-फल-त्यागात् शिव-धर्म-अन्वयः शुभः ॥ स च गुरु-अनपेक्षः च तद्-अपेक्षः इति द्विधा ॥ ७।१,३।३६॥
tasmāt karma-phala-tyāgāt śiva-dharma-anvayaḥ śubhaḥ .. sa ca guru-anapekṣaḥ ca tad-apekṣaḥ iti dvidhā .. 7.1,3.36..
तत्रानपेक्षात्सापेक्षो मुख्यः शतगुणाधिकः ॥ शिवधर्मान्वयस्यास्य शिवज्ञानसमन्वयः ॥ ७.१,३.३७॥
तत्र अनपेक्षात् सापेक्षः मुख्यः शतगुण-अधिकः ॥ शिव-धर्म-अन्वयस्य अस्य शिव-ज्ञान-समन्वयः ॥ ७।१,३।३७॥
tatra anapekṣāt sāpekṣaḥ mukhyaḥ śataguṇa-adhikaḥ .. śiva-dharma-anvayasya asya śiva-jñāna-samanvayaḥ .. 7.1,3.37..
ज्ञनान्वयवशात्पुंसः संसारे दोषदर्शनम् ॥ ततो विषयवैराग्यं वैराग्याद्भावसाधनम् ॥ ७.१,३.३८॥
ज्ञना-अन्वय-वशात् पुंसः संसारे दोष-दर्शनम् ॥ ततस् विषय-वैराग्यम् वैराग्यात् भाव-साधनम् ॥ ७।१,३।३८॥
jñanā-anvaya-vaśāt puṃsaḥ saṃsāre doṣa-darśanam .. tatas viṣaya-vairāgyam vairāgyāt bhāva-sādhanam .. 7.1,3.38..
भावसिद्ध्युपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ज्ञानध्यानाभियुक्तस्य पुंसो योगः प्रवर्तते ॥ ७.१,३.३९॥
भाव-सिद्धि-उपपन्नस्य ध्याने निष्ठा न कर्मणि ॥ ज्ञान-ध्यान-अभियुक्तस्य पुंसः योगः प्रवर्तते ॥ ७।१,३।३९॥
bhāva-siddhi-upapannasya dhyāne niṣṭhā na karmaṇi .. jñāna-dhyāna-abhiyuktasya puṃsaḥ yogaḥ pravartate .. 7.1,3.39..
योगेन तु परा भक्तिः प्रसादस्तदनंतरम् ॥ प्रसादान्मुच्यते जंतुर्मुक्तः शिवसमो भवेत् ॥ ७.१,३.४०॥
योगेन तु परा भक्तिः प्रसादः तद्-अनंतरम् ॥ प्रसादात् मुच्यते जंतुः मुक्तः शिव-समः भवेत् ॥ ७।१,३।४०॥
yogena tu parā bhaktiḥ prasādaḥ tad-anaṃtaram .. prasādāt mucyate jaṃtuḥ muktaḥ śiva-samaḥ bhavet .. 7.1,3.40..
अनुग्रहप्रकारस्य क्रमो ऽयमविवक्षितः ॥ यादृशी योग्यता पुंसस्तस्य तादृगनुग्रहः ॥ ७.१,३.४१॥
अनुग्रह-प्रकारस्य क्रमः अयम् अविवक्षितः ॥ यादृशी योग्यता पुंसः तस्य तादृश् अनुग्रहः ॥ ७।१,३।४१॥
anugraha-prakārasya kramaḥ ayam avivakṣitaḥ .. yādṛśī yogyatā puṃsaḥ tasya tādṛś anugrahaḥ .. 7.1,3.41..
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथापरः ॥ बालो वा तरुणो वाथ वृद्धो वा मुच्यते परः ॥ ७.१,३.४२॥
गर्भ-स्थः मुच्यते कश्चिद् जायमानः तथा अपरः ॥ बालः वा तरुणः वा अथ वृद्धः वा मुच्यते परः ॥ ७।१,३।४२॥
garbha-sthaḥ mucyate kaścid jāyamānaḥ tathā aparaḥ .. bālaḥ vā taruṇaḥ vā atha vṛddhaḥ vā mucyate paraḥ .. 7.1,3.42..
तिर्यग्योनिगतः कश्चिन्मुच्यते नारको ऽपरः ॥ अपरस्तु पदं प्राप्तो मुच्यते स्वपदक्षये ॥ ७.१,३.४३॥
तिर्यग्योनि-गतः कश्चिद् मुच्यते नारकः अपरः ॥ अपरः तु पदम् प्राप्तः मुच्यते स्व-पद-क्षये ॥ ७।१,३।४३॥
tiryagyoni-gataḥ kaścid mucyate nārakaḥ aparaḥ .. aparaḥ tu padam prāptaḥ mucyate sva-pada-kṣaye .. 7.1,3.43..
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥ कश्चिदध्वगतस्तस्मिन् स्थित्वास्थित्वा विमुच्यते ॥ ७.१,३.४४॥
कश्चिद् क्षीण-पदः भूत्वा पुनर् आवर्त्य मुच्यते ॥ कश्चिद् अध्व-गतः तस्मिन् स्थित्वा अ स्थित्वा विमुच्यते ॥ ७।१,३।४४॥
kaścid kṣīṇa-padaḥ bhūtvā punar āvartya mucyate .. kaścid adhva-gataḥ tasmin sthitvā a sthitvā vimucyate .. 7.1,3.44..
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥ ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ॥ ७.१,३.४५॥
तस्मात् ना एक-प्रकारेण नराणाम् मुक्तिः इष्यते ॥ ज्ञान-भाव-अनुरूपेण प्रसादेन एव निर्वृतिः ॥ ७।१,३।४५॥
tasmāt nā eka-prakāreṇa narāṇām muktiḥ iṣyate .. jñāna-bhāva-anurūpeṇa prasādena eva nirvṛtiḥ .. 7.1,3.45..
तस्मादस्य प्रसादार्थं वाङ्मनोदोषवर्जिताः ॥ ध्यायंतश्शिवमेवैकं सदारतनयाग्नयः ॥ ७.१,३.४६॥
तस्मात् अस्य प्रसाद-अर्थम् वाच्-मनः-दोष-वर्जिताः ॥ ध्यायंतः शिवम् एव एकम् स दार-तनय-अग्नयः ॥ ७।१,३।४६॥
tasmāt asya prasāda-artham vāc-manaḥ-doṣa-varjitāḥ .. dhyāyaṃtaḥ śivam eva ekam sa dāra-tanaya-agnayaḥ .. 7.1,3.46..
तन्निष्ठास्तत्परास्सर्वे तद्युक्तास्तदुपाश्रयाः ॥ सर्वक्रियाः प्रकुर्वाणास्तमेव मनसागताः ॥ ७.१,३.४७॥
तद्-निष्ठाः तद्-पराः सर्वे तद्-युक्ताः तद्-उपाश्रयाः ॥ सर्व-क्रियाः प्रकुर्वाणाः तम् एव मनसा आगताः ॥ ७।१,३।४७॥
tad-niṣṭhāḥ tad-parāḥ sarve tad-yuktāḥ tad-upāśrayāḥ .. sarva-kriyāḥ prakurvāṇāḥ tam eva manasā āgatāḥ .. 7.1,3.47..
दीर्घसूत्रसमारब्धं दिव्यवर्षसहस्रकम् ॥ सत्रांते मंत्रयोगेन वायुस्तत्र गमिष्यति ॥ ७.१,३.४८॥
दीर्घसूत्र-समारब्धम् दिव्य-वर्ष-सहस्रकम् ॥ सत्र-अन्ते मंत्र-योगेन वायुः तत्र गमिष्यति ॥ ७।१,३।४८॥
dīrghasūtra-samārabdham divya-varṣa-sahasrakam .. satra-ante maṃtra-yogena vāyuḥ tatra gamiṣyati .. 7.1,3.48..
स एव भवतः श्रेयः सोपायं कथयिष्यति ॥ ततो वाराणसी पुण्या पुरी परमशोभना ॥ ७.१,३.४९॥
सः एव भवतः श्रेयः स उपायम् कथयिष्यति ॥ ततस् वाराणसी पुण्या पुरी परम-शोभना ॥ ७।१,३।४९॥
saḥ eva bhavataḥ śreyaḥ sa upāyam kathayiṣyati .. tatas vārāṇasī puṇyā purī parama-śobhanā .. 7.1,3.49..
गंतव्या यत्र विश्वेशो देव्या सह पिनाकधृक् ॥ सदा विहरति श्रीमान् भक्तानुग्रहकारणात् ॥ ७.१,३.५०॥
गंतव्याः यत्र विश्वेशः देव्या सह पिनाकधृक् ॥ सदा विहरति श्रीमान् भक्त-अनुग्रह-कारणात् ॥ ७।१,३।५०॥
gaṃtavyāḥ yatra viśveśaḥ devyā saha pinākadhṛk .. sadā viharati śrīmān bhakta-anugraha-kāraṇāt .. 7.1,3.50..
तत्राश्चर्यं महद्दृष्ट्वा मत्समीपं गमिष्यथ ॥ ततो वः कथयिष्यामि मोक्षोपाय द्विजोत्तमाः ॥ ७.१,३.५१॥
तत्र आश्चर्यम् महत् दृष्ट्वा मद्-समीपम् गमिष्यथ ॥ ततस् वः कथयिष्यामि मोक्ष-उपाय द्विजोत्तमाः ॥ ७।१,३।५१॥
tatra āścaryam mahat dṛṣṭvā mad-samīpam gamiṣyatha .. tatas vaḥ kathayiṣyāmi mokṣa-upāya dvijottamāḥ .. 7.1,3.51..
येनैकजन्मना मुक्तिर्युष्मत्करतले स्थिता ॥ अनेकजन्मसंसारबंधनिर्मोक्षकारिणी ॥ ७.१,३.५२॥
येन एक-जन्मना मुक्तिः युष्मद्-कर-तले स्थिता ॥ अनेक-जन्म-संसार-बंध-निर्मोक्ष-कारिणी ॥ ७।१,३।५२॥
yena eka-janmanā muktiḥ yuṣmad-kara-tale sthitā .. aneka-janma-saṃsāra-baṃdha-nirmokṣa-kāriṇī .. 7.1,3.52..
एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते ॥ यत्रास्य शीर्यते नेमिः स देशस्तपसश्शुभः ॥ ७.१,३.५३॥
एतत् मनः-मयम् चक्रम् मया सृष्टम् विसृज्यते ॥ यत्र अस्य शीर्यते नेमिः स देशः तपसः शुभः ॥ ७।१,३।५३॥
etat manaḥ-mayam cakram mayā sṛṣṭam visṛjyate .. yatra asya śīryate nemiḥ sa deśaḥ tapasaḥ śubhaḥ .. 7.1,3.53..
इत्युक्त्वा सूर्यसंकाशं चक्रं दृष्ट्वा मनोमयम् ॥ प्रणिपत्य महादेवं विससर्ज पितामहः ॥ ७.१,३.५४॥
इति उक्त्वा सूर्य-संकाशम् चक्रम् दृष्ट्वा मनः-मयम् ॥ प्रणिपत्य महादेवम् विससर्ज पितामहः ॥ ७।१,३।५४॥
iti uktvā sūrya-saṃkāśam cakram dṛṣṭvā manaḥ-mayam .. praṇipatya mahādevam visasarja pitāmahaḥ .. 7.1,3.54..
ते ऽपि हृष्टतरा विप्राः प्रणम्य जगतां प्रभुम् ॥ प्रययुस्तस्य चक्रस्य यत्र नेमिरशीर्यत ॥ ७.१,३.५५॥
ते अपि हृष्टतराः विप्राः प्रणम्य जगताम् प्रभुम् ॥ प्रययुः तस्य चक्रस्य यत्र नेमिः अशीर्यत ॥ ७।१,३।५५॥
te api hṛṣṭatarāḥ viprāḥ praṇamya jagatām prabhum .. prayayuḥ tasya cakrasya yatra nemiḥ aśīryata .. 7.1,3.55..
चक्रं तदपि संक्षिप्तं श्लक्ष्णं चारुशिलातले ॥ विमलस्वादुपानीये निजपात वने क्वचित् ॥ ७.१,३.५६॥
चक्रम् तत् अपि संक्षिप्तम् श्लक्ष्णम् चारु-शिला-तले ॥ विमल-स्वादु-पानीये निज-पात वने क्वचिद् ॥ ७।१,३।५६॥
cakram tat api saṃkṣiptam ślakṣṇam cāru-śilā-tale .. vimala-svādu-pānīye nija-pāta vane kvacid .. 7.1,3.56..
तद्वनं तेन विख्यातं नैमिषं मुनिपूजितम् ॥ अनेकयक्षगंधर्वविद्याधरसमाकुलम् ॥ ७.१,३.५७॥
तत् वनम् तेन विख्यातम् नैमिषम् मुनि-पूजितम् ॥ अनेक-यक्ष-गंधर्व-विद्याधर-समाकुलम् ॥ ७।१,३।५७॥
tat vanam tena vikhyātam naimiṣam muni-pūjitam .. aneka-yakṣa-gaṃdharva-vidyādhara-samākulam .. 7.1,3.57..
अष्टादश समुद्रस्य द्वीपानश्नन्पुरूरवाः ॥ विलासवशमुर्वश्या यातो दैवेन चोदितः ॥ ७.१,३.५८॥
अष्टादश समुद्रस्य द्वीपान् अश्नन् पुरूरवाः ॥ विलास-वशम् उर्वश्या यातः दैवेन चोदितः ॥ ७।१,३।५८॥
aṣṭādaśa samudrasya dvīpān aśnan purūravāḥ .. vilāsa-vaśam urvaśyā yātaḥ daivena coditaḥ .. 7.1,3.58..
अक्रमेण हरन्मोहाद्यज्ञवाटं हिरण्मयम् ॥ मुनिभिर्यत्र संक्रुद्धैः कुशवज्रैर्निपातितः ॥ ७.१,३.५९॥
अक्रमेण हरन् मोहात् यज्ञ-वाटम् हिरण्मयम् ॥ मुनिभिः यत्र संक्रुद्धैः कुश-वज्रैः निपातितः ॥ ७।१,३।५९॥
akrameṇa haran mohāt yajña-vāṭam hiraṇmayam .. munibhiḥ yatra saṃkruddhaiḥ kuśa-vajraiḥ nipātitaḥ .. 7.1,3.59..
विश्वं सिसृक्षमाणा वै यत्र विश्वसृजः पुरा ॥ सत्रमारेभिरे दिव्यं ब्रह्मज्ञा गार्हपत्यगाः ॥ ७.१,३.६०॥
विश्वम् सिसृक्षमाणाः वै यत्र विश्वसृजः पुरा ॥ सत्रम् आरेभिरे दिव्यम् ब्रह्म-ज्ञाः गार्हपत्य-गाः ॥ ७।१,३।६०॥
viśvam sisṛkṣamāṇāḥ vai yatra viśvasṛjaḥ purā .. satram ārebhire divyam brahma-jñāḥ gārhapatya-gāḥ .. 7.1,3.60..
ऋषिभिर्यत्र विद्वद्भिः शब्दार्थन्यायकोविदैः ॥ शक्तिप्रज्ञाक्रियायोगैर्विधिरासीदनुष्ठितः ॥ ७.१,३.६१॥
ऋषिभिः यत्र विद्वद्भिः शब्द-अर्थ-न्याय-कोविदैः ॥ शक्ति-प्रज्ञा-क्रिया-योगैः विधिः आसीत् अनुष्ठितः ॥ ७।१,३।६१॥
ṛṣibhiḥ yatra vidvadbhiḥ śabda-artha-nyāya-kovidaiḥ .. śakti-prajñā-kriyā-yogaiḥ vidhiḥ āsīt anuṣṭhitaḥ .. 7.1,3.61..
यत्र वेदविदो नित्यं वेदवादबहिष्कृतान् ॥ वादजल्पबलैर्घ्नंति वचोभिरतिवादिनः ॥ ७.१,३.६२॥
यत्र वेद-विदः नित्यम् वेद-वाद-बहिष्कृतान् ॥ वाद-जल्प-बलैः घ्नंति वचोभिः अतिवादिनः ॥ ७।१,३।६२॥
yatra veda-vidaḥ nityam veda-vāda-bahiṣkṛtān .. vāda-jalpa-balaiḥ ghnaṃti vacobhiḥ ativādinaḥ .. 7.1,3.62..
स्फटिकमयमहीभृत्पादजाभ्यश्शिलाभ्यः प्रसरदमृतकल्पस्स्वच्छपानीयरम्यम् ॥ अतिरसफलवृक्षप्रायमव्यालसत्त्वं तपस उचितमासीन्नैमिषं तन्मुनीनाम् ॥ ७.१,३.६३॥
स्फटिक-मय-महीभृत्-पाद-जाभ्यः शिलाभ्यः प्रसरत्-अमृत-कल्पः स्वच्छ-पानीय-रम्यम् ॥ अति रस-फल-वृक्ष-प्रायम् अव्याल-सत्त्वम् तपसः उचितम् आसीत् नैमिषम् तत् मुनीनाम् ॥ ७।१,३।६३॥
sphaṭika-maya-mahībhṛt-pāda-jābhyaḥ śilābhyaḥ prasarat-amṛta-kalpaḥ svaccha-pānīya-ramyam .. ati rasa-phala-vṛkṣa-prāyam avyāla-sattvam tapasaḥ ucitam āsīt naimiṣam tat munīnām .. 7.1,3.63..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं नाम तृतीयो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे नैमिषोपाख्यानम् नाम तृतीयः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe naimiṣopākhyānam nāma tṛtīyaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In