| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ दुर्विज्ञेयानि देवैश्च मोहयंति मनांसि नः ॥ ७.१,३०.१॥
चरितानि विचित्राणि गृह्याणि गहनानि च ॥ दुर्विज्ञेयानि देवैः च मोहयंति मनांसि नः ॥ ७।१,३०।१॥
caritāni vicitrāṇi gṛhyāṇi gahanāni ca .. durvijñeyāni devaiḥ ca mohayaṃti manāṃsi naḥ .. 7.1,30.1..
शिवयोस्तत्त्वसम्बन्धे न दोष उपलभ्यते ॥ चरितैः प्राकृतो भावस्तयोरपि विभाव्यते ॥ ७.१,३०.२॥
शिवयोः तत्त्व-सम्बन्धे न दोषः उपलभ्यते ॥ चरितैः प्राकृतः भावः तयोः अपि विभाव्यते ॥ ७।१,३०।२॥
śivayoḥ tattva-sambandhe na doṣaḥ upalabhyate .. caritaiḥ prākṛtaḥ bhāvaḥ tayoḥ api vibhāvyate .. 7.1,30.2..
ब्रह्मादयो ऽपि लोकानां सृष्टिस्थित्यन्तहेतवः ॥ निग्रहानुग्रहौ प्राप्य शिवस्य वशवर्तिनः ॥ ७.१,३०.३॥
ब्रह्म-आदयः अपि लोकानाम् सृष्टि-स्थिति-अन्त-हेतवः ॥ निग्रह-अनुग्रहौ प्राप्य शिवस्य वश-वर्तिनः ॥ ७।१,३०।३॥
brahma-ādayaḥ api lokānām sṛṣṭi-sthiti-anta-hetavaḥ .. nigraha-anugrahau prāpya śivasya vaśa-vartinaḥ .. 7.1,30.3..
शिवः पुनर्न कस्यापि निग्रहानुग्रहास्पदम् ॥ अतो ऽनायत्तमैश्वर्यं तस्यैवेति विनिश्चितम् ॥ ७.१,३०.४॥
शिवः पुनर् न कस्य अपि निग्रह-अनुग्रह-आस्पदम् ॥ अतस् अनायत्तम् ऐश्वर्यम् तस्य एव इति विनिश्चितम् ॥ ७।१,३०।४॥
śivaḥ punar na kasya api nigraha-anugraha-āspadam .. atas anāyattam aiśvaryam tasya eva iti viniścitam .. 7.1,30.4..
यद्येवमीदृशैश्वर्यं तत्तु स्वातन्त्र्यलक्षणम् ॥ स्वभावसिद्धं चैतस्य मूर्तिमत्तास्पदं भवेत् ॥ ७.१,३०.५॥
यदि एवम् ईदृश-ऐश्वर्यम् तत् तु स्वातन्त्र्य-लक्षणम् ॥ स्वभाव-सिद्धम् च एतस्य मूर्तिमत्-ता-आस्पदम् भवेत् ॥ ७।१,३०।५॥
yadi evam īdṛśa-aiśvaryam tat tu svātantrya-lakṣaṇam .. svabhāva-siddham ca etasya mūrtimat-tā-āspadam bhavet .. 7.1,30.5..
न मूर्तिश्च स्वतंत्रस्य घटते मूलहेतुना ॥ मूर्तेरपि च कार्यत्वात्तत्सिद्धिः स्यादहैतुकी ॥ ७.१,३०.६॥
न मूर्तिः च स्वतंत्रस्य घटते मूल-हेतुना ॥ मूर्तेः अपि च कार्य-त्वात् तद्-सिद्धिः स्यात् अहैतुकी ॥ ७।१,३०।६॥
na mūrtiḥ ca svataṃtrasya ghaṭate mūla-hetunā .. mūrteḥ api ca kārya-tvāt tad-siddhiḥ syāt ahaitukī .. 7.1,30.6..
सर्वत्र परमो भावो ऽपरमश्चान्य उच्यते ॥ परमापरमौ भावौ कथमेकत्र संगतौ ॥ ७.१,३०.७॥
सर्वत्र परमः भावः अपरमः च अन्यः उच्यते ॥ परम-अपरमौ भावौ कथम् एकत्र संगतौ ॥ ७।१,३०।७॥
sarvatra paramaḥ bhāvaḥ aparamaḥ ca anyaḥ ucyate .. parama-aparamau bhāvau katham ekatra saṃgatau .. 7.1,30.7..
निष्फलो हि स्वभावो ऽस्य परमः परमात्मनः ॥ स एव सकलः कस्मात्स्वभावो ह्यविपर्ययः ॥ ७.१,३०.८॥
निष्फलः हि स्वभावः अस्य परमः परमात्मनः ॥ सः एव सकलः कस्मात् स्वभावः हि अविपर्ययः ॥ ७।१,३०।८॥
niṣphalaḥ hi svabhāvaḥ asya paramaḥ paramātmanaḥ .. saḥ eva sakalaḥ kasmāt svabhāvaḥ hi aviparyayaḥ .. 7.1,30.8..
स्वभावो विपरीतश्चेत्स्वतंत्रः स्वेच्छया यदि ॥ न करोति किमीशानो नित्यानित्यविपर्ययम् ॥ ७.१,३०.९॥
स्वभावः विपरीतः चेद् स्वतंत्रः स्व-इच्छया यदि ॥ न करोति किम् ईशानः नित्य-अनित्य-विपर्ययम् ॥ ७।१,३०।९॥
svabhāvaḥ viparītaḥ ced svataṃtraḥ sva-icchayā yadi .. na karoti kim īśānaḥ nitya-anitya-viparyayam .. 7.1,30.9..
मूर्तात्मा सकलः कश्चित्स चान्यो निष्फलः शिवः ॥ शिवेनाधिष्ठितश्चेति सर्वत्र लघु कथ्यते ॥ ७.१,३०.१०॥
मूर्त-आत्मा सकलः कश्चिद् स च अन्यः निष्फलः शिवः ॥ शिवेन अधिष्ठितः च इति सर्वत्र लघु कथ्यते ॥ ७।१,३०।१०॥
mūrta-ātmā sakalaḥ kaścid sa ca anyaḥ niṣphalaḥ śivaḥ .. śivena adhiṣṭhitaḥ ca iti sarvatra laghu kathyate .. 7.1,30.10..
मूर्त्यात्मैव तदा मूर्तिः शिवस्यास्य भवेदिति ॥ तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यं हि निश्चितम् ॥ ७.१,३०.११॥
मूर्ति-आत्मा एव तदा मूर्तिः शिवस्य अस्य भवेत् इति ॥ तस्य मूर्तौ मूर्तिमतोः पारतंत्र्यम् हि निश्चितम् ॥ ७।१,३०।११॥
mūrti-ātmā eva tadā mūrtiḥ śivasya asya bhavet iti .. tasya mūrtau mūrtimatoḥ pārataṃtryam hi niścitam .. 7.1,30.11..
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ मूर्तिस्वीकरणं तस्मान्मूर्तौ साध्यफलेप्सया ॥ ७.१,३०.१२॥
अन्यथा निरपेक्षेण मूर्तिः स्वीक्रियते कथम् ॥ मूर्ति-स्वीकरणम् तस्मात् मूर्तौ साध्य-फल-ईप्सया ॥ ७।१,३०।१२॥
anyathā nirapekṣeṇa mūrtiḥ svīkriyate katham .. mūrti-svīkaraṇam tasmāt mūrtau sādhya-phala-īpsayā .. 7.1,30.12..
न हि स्वेच्छाशरीरत्वं स्वातंत्र्यायोपपद्यते ॥ स्वेच्छैव तादृशी पुंसां यस्मात्कर्मानुसारिणी ॥ ७.१,३०.१३॥
न हि स्व-इच्छा-शरीर-त्वम् स्वातंत्र्याय उपपद्यते ॥ स्वेच्छा एव तादृशी पुंसाम् यस्मात् कर्म-अनुसारिणी ॥ ७।१,३०।१३॥
na hi sva-icchā-śarīra-tvam svātaṃtryāya upapadyate .. svecchā eva tādṛśī puṃsām yasmāt karma-anusāriṇī .. 7.1,30.13..
स्वीकर्तुं स्वेच्छया देहं हातुं च प्रभवन्त्युत ॥ ब्रह्मादयः पिशाचांताः किं ते कर्मातिवर्तिनः ॥ ७.१,३०.१४॥
स्वीकर्तुम् स्व-इच्छया देहम् हातुम् च प्रभवन्ति उत ॥ ब्रह्म-आदयः पिशाच-अंताः किम् ते कर्म-अतिवर्तिनः ॥ ७।१,३०।१४॥
svīkartum sva-icchayā deham hātum ca prabhavanti uta .. brahma-ādayaḥ piśāca-aṃtāḥ kim te karma-ativartinaḥ .. 7.1,30.14..
इच्छया देहनिर्माणमिन्द्रजालोपमं विदुः ॥ अणिमादिगुणैश्वर्यवशीकारानतिक्रमात् ॥ ७.१,३०.१५॥
इच्छया देह-निर्माणम् इन्द्रजाल-उपमम् विदुः ॥ अणिम-आदि-गुण-ऐश्वर्य-वशीकार-अनतिक्रमात् ॥ ७।१,३०।१५॥
icchayā deha-nirmāṇam indrajāla-upamam viduḥ .. aṇima-ādi-guṇa-aiśvarya-vaśīkāra-anatikramāt .. 7.1,30.15..
विश्वरूपं दधद्विष्णुर्दधीचेन महर्षिणा ॥ युध्यता समुपालब्धस्तद्रूपं दधता स्वयम् ॥ ७.१,३०.१६॥
विश्व-रूपम् दधत् विष्णुः दधीचेन महा-ऋषिणा ॥ युध्यता समुपालब्धः तद्-रूपम् दधता स्वयम् ॥ ७।१,३०।१६॥
viśva-rūpam dadhat viṣṇuḥ dadhīcena mahā-ṛṣiṇā .. yudhyatā samupālabdhaḥ tad-rūpam dadhatā svayam .. 7.1,30.16..
सर्वस्मादधिकस्यापि शिवस्य परमात्मनः ॥ शरीरवत्तयान्यात्मसाधर्म्यं प्रतिभाति नः ॥ ७.१,३०.१७॥
सर्वस्मात् अधिकस्य अपि शिवस्य परमात्मनः ॥ शरीरवत्-तया अन्य-आत्म-साधर्म्यम् प्रतिभाति नः ॥ ७।१,३०।१७॥
sarvasmāt adhikasya api śivasya paramātmanaḥ .. śarīravat-tayā anya-ātma-sādharmyam pratibhāti naḥ .. 7.1,30.17..
सर्वानुग्राहकं प्राहुश्शिवं परमकारणम् ॥ स निर्गृह्णाति देवानां सर्वानुग्राहकः कथम् ॥ ७.१,३०.१८॥
सर्व-अनुग्राहकम् प्राहुः शिवम् परम-कारणम् ॥ स निर्गृह्णाति देवानाम् सर्व-अनुग्राहकः कथम् ॥ ७।१,३०।१८॥
sarva-anugrāhakam prāhuḥ śivam parama-kāraṇam .. sa nirgṛhṇāti devānām sarva-anugrāhakaḥ katham .. 7.1,30.18..
चिच्छेद बहुशो देवो ब्रह्मणः पञ्चमं शिरः ॥ शिवनिन्दां प्रकुर्वंतं पुत्रेति कुमतेर्हठात् ॥ ७.१,३०.१९॥
चिच्छेद बहुशस् देवः ब्रह्मणः पञ्चमम् शिरः ॥ शिव-निन्दाम् प्रकुर्वंतम् पुत्र इति कुमतेः हठात् ॥ ७।१,३०।१९॥
ciccheda bahuśas devaḥ brahmaṇaḥ pañcamam śiraḥ .. śiva-nindām prakurvaṃtam putra iti kumateḥ haṭhāt .. 7.1,30.19..
विष्णोरपि नृसिंहस्य रभसा शरभाकृतिः ॥ बिभेद पद्भ्यामाक्रम्य हृदयं नखरैः खरैः ॥ ७.१,३०.२०॥
विष्णोः अपि नृसिंहस्य रभसा शरभ-आकृतिः ॥ बिभेद पद्भ्याम् आक्रम्य हृदयम् नखरैः खरैः ॥ ७।१,३०।२०॥
viṣṇoḥ api nṛsiṃhasya rabhasā śarabha-ākṛtiḥ .. bibheda padbhyām ākramya hṛdayam nakharaiḥ kharaiḥ .. 7.1,30.20..
देवस्त्रीषु च देवेषु दक्षस्याध्वरकारणात् ॥ वीरेण वीरभद्रेण न हि कश्चिददण्डितः ॥ ७.१,३०.२१॥
देव-स्त्रीषु च देवेषु दक्षस्य अध्वर-कारणात् ॥ वीरेण वीरभद्रेण न हि कश्चिद् अ दण्डितः ॥ ७।१,३०।२१॥
deva-strīṣu ca deveṣu dakṣasya adhvara-kāraṇāt .. vīreṇa vīrabhadreṇa na hi kaścid a daṇḍitaḥ .. 7.1,30.21..
पुरत्रयं च सस्त्रीकं सदैत्यं सह बालकैः ॥ क्षणेनैकेन देवेन नेत्राग्नेरिंधनीकृतम् ॥ ७.१,३०.२२॥
पुरत्रयम् च स स्त्रीकम् स दैत्यम् सह बालकैः ॥ क्षणेन एकेन देवेन नेत्र-अग्नेः इंधनीकृतम् ॥ ७।१,३०।२२॥
puratrayam ca sa strīkam sa daityam saha bālakaiḥ .. kṣaṇena ekena devena netra-agneḥ iṃdhanīkṛtam .. 7.1,30.22..
प्रजानां रतिहेतुश्च कामो रतिपतिस्स्वयम् ॥ क्रोशतामेव देवानां हुतो नेत्रहुताशने ॥ ७.१,३०.२३॥
प्रजानाम् रति-हेतुः च कामः रतिपतिः स्वयम् ॥ क्रोशताम् एव देवानाम् हुतः नेत्र-हुताशने ॥ ७।१,३०।२३॥
prajānām rati-hetuḥ ca kāmaḥ ratipatiḥ svayam .. krośatām eva devānām hutaḥ netra-hutāśane .. 7.1,30.23..
गावश्च कश्चिद्दुग्धौघं स्रवन्त्यो मूर्ध्नि खेचराः ॥ सरुषा प्रेक्ष्य देवेन तत्क्षणे भस्मसात्कृतः ॥ ७.१,३०.२४॥
गावः च कश्चिद् दुग्ध-ओघम् स्रवन्त्यः मूर्ध्नि खेचराः ॥ स रुषा प्रेक्ष्य देवेन तद्-क्षणे भस्मसात्कृतः ॥ ७।१,३०।२४॥
gāvaḥ ca kaścid dugdha-ogham sravantyaḥ mūrdhni khecarāḥ .. sa ruṣā prekṣya devena tad-kṣaṇe bhasmasātkṛtaḥ .. 7.1,30.24..
जलंधरासुरो दीर्णश्चक्रीकृत्य जलं पदा ॥ बद्ध्वानंतेन यो विष्णुं चिक्षेप शतयोजनम् ॥ ७.१,३०.२५॥
जलंधर-असुरः दीर्णः चक्रीकृत्य जलम् पदा ॥ बद्ध्वा अनन्तेन यः विष्णुम् चिक्षेप शत-योजनम् ॥ ७।१,३०।२५॥
jalaṃdhara-asuraḥ dīrṇaḥ cakrīkṛtya jalam padā .. baddhvā anantena yaḥ viṣṇum cikṣepa śata-yojanam .. 7.1,30.25..
तमेव जलसंधायी शूलेनैव जघान सः ॥ तच्चक्रं तपसा लब्ध्वा लब्धवीर्यो हरिस्सदा ॥ ७.१,३०.२६॥
तम् एव जल-संधायी शूलेन एव जघान सः ॥ तत् चक्रम् तपसा लब्ध्वा लब्ध-वीर्यः हरिः सदा ॥ ७।१,३०।२६॥
tam eva jala-saṃdhāyī śūlena eva jaghāna saḥ .. tat cakram tapasā labdhvā labdha-vīryaḥ hariḥ sadā .. 7.1,30.26..
जिघांसतां सुरारीणां कुलं निर्घृणचेतसाम् ॥ त्रिशूलेनान्धकस्योरः शिखिनैवोपतापितम् ॥ ७.१,३०.२७॥
जिघांसताम् सुरारीणाम् कुलम् निर्घृण-चेतसाम् ॥ त्रिशूलेन अन्धकस्य उरः शिखिना एव उपतापितम् ॥ ७।१,३०।२७॥
jighāṃsatām surārīṇām kulam nirghṛṇa-cetasām .. triśūlena andhakasya uraḥ śikhinā eva upatāpitam .. 7.1,30.27..
कण्ठात्कालांगनां सृष्ट्वा दारको ऽपि निपातितः ॥ कौशिकीं जनयित्वा तु गौर्यास्त्वक्कोशगोचराम् ॥ ७.१,३०.२८॥
कण्ठात् काल-अंगनाम् सृष्ट्वा दारकः अपि निपातितः ॥ कौशिकीम् जनयित्वा तु गौर्याः त्वच्-कोश-गोचराम् ॥ ७।१,३०।२८॥
kaṇṭhāt kāla-aṃganām sṛṣṭvā dārakaḥ api nipātitaḥ .. kauśikīm janayitvā tu gauryāḥ tvac-kośa-gocarām .. 7.1,30.28..
शुंभस्सह निशुंभेन प्रापितो मरणं रणे ॥ श्रुतं च महदाख्यानं स्कान्दे स्कन्दसमाश्रयम् ॥ ७.१,३०.२९॥
शुंभः सह निशुंभेन प्रापितः मरणम् रणे ॥ श्रुतम् च महत् आख्यानम् स्कान्दे स्कन्द-समाश्रयम् ॥ ७।१,३०।२९॥
śuṃbhaḥ saha niśuṃbhena prāpitaḥ maraṇam raṇe .. śrutam ca mahat ākhyānam skānde skanda-samāśrayam .. 7.1,30.29..
वधार्थे तारकाख्यस्य दैत्येन्द्रस्येन्द्रविद्विषः ॥ ब्रह्मणाभ्यर्थितो देवो मन्दरान्तःपुरं गतः ॥ ७.१,३०.३०॥
वध-अर्थे तारक-आख्यस्य दैत्य-इन्द्रस्य इन्द्र-विद्विषः ॥ ब्रह्मणा अभ्यर्थितः देवः मन्दर-अन्तःपुरम् गतः ॥ ७।१,३०।३०॥
vadha-arthe tāraka-ākhyasya daitya-indrasya indra-vidviṣaḥ .. brahmaṇā abhyarthitaḥ devaḥ mandara-antaḥpuram gataḥ .. 7.1,30.30..
विहृत्य सुचिरं देव्या विहारा ऽतिप्रसङ्गतः ॥ रसां रसातलं नीतामिव कृत्वाभिधां ततः ॥ ७.१,३०.३१॥
विहृत्य सु चिरम् देव्याः विहाराः अति प्रसङ्गतः ॥ रसाम् रसातलम् नीताम् इव कृत्वा अभिधाम् ततस् ॥ ७।१,३०।३१॥
vihṛtya su ciram devyāḥ vihārāḥ ati prasaṅgataḥ .. rasām rasātalam nītām iva kṛtvā abhidhām tatas .. 7.1,30.31..
देवीं च वंचयंस्तस्यां स्ववीर्यमतिदुर्वहम् ॥ अविसृज्य विसृज्याग्नौ हविः पूतमिवामृतम् ॥ ७.१,३०.३२॥
देवीम् च वंचयन् तस्याम् स्व-वीर्य-मति-दुर्वहम् ॥ अ विसृज्य विसृज्य अग्नौ हविः पूतम् इव अमृतम् ॥ ७।१,३०।३२॥
devīm ca vaṃcayan tasyām sva-vīrya-mati-durvaham .. a visṛjya visṛjya agnau haviḥ pūtam iva amṛtam .. 7.1,30.32..
गंगादिष्वपि निक्षिप्य वह्निद्वारा तदंशतः ॥ तत्समाहृत्य शनकैस्तोकंस्तोकमितस्ततः ॥ ७.१,३०.३३॥
गंगा-आदिषु अपि निक्षिप्य वह्नि-द्वारा तद्-अंशतः ॥ तत् समाहृत्य शनकैस् तोकम् स्तोकम् इतस् ततस् ॥ ७।१,३०।३३॥
gaṃgā-ādiṣu api nikṣipya vahni-dvārā tad-aṃśataḥ .. tat samāhṛtya śanakais tokam stokam itas tatas .. 7.1,30.33..
स्वाहया कृत्तिकारूपात्स्वभर्त्रा रममाणया ॥ सुवर्णीभूतया न्यस्तं मेरौ शरवणे क्वचित् ॥ ७.१,३०.३४॥
स्वाहया कृत्तिका-रूपात् स्व-भर्त्रा रममाणया ॥ सुवर्णीभूतया न्यस्तम् मेरौ शरवणे क्वचिद् ॥ ७।१,३०।३४॥
svāhayā kṛttikā-rūpāt sva-bhartrā ramamāṇayā .. suvarṇībhūtayā nyastam merau śaravaṇe kvacid .. 7.1,30.34..
संदीपयित्वा कालेन तस्य भासा दिशो दश ॥ रञ्जयित्वा गिरीन्सर्वान्कांचनीकृत्य मेरुणा ॥ ७.१,३०.३५॥
संदीपयित्वा कालेन तस्य भासा दिशः दश ॥ रञ्जयित्वा गिरीन् सर्वान् कांचनीकृत्य मेरुणा ॥ ७।१,३०।३५॥
saṃdīpayitvā kālena tasya bhāsā diśaḥ daśa .. rañjayitvā girīn sarvān kāṃcanīkṛtya meruṇā .. 7.1,30.35..
ततश्चिरेण कालेन संजाते तत्र तेजसि ॥ कुमारे सुकुमारांगे कुमाराणां निदर्शने ॥ ७.१,३०.३६॥
ततस् चिरेण कालेन संजाते तत्र तेजसि ॥ कुमारे सुकुमार-अङ्गे कुमाराणाम् निदर्शने ॥ ७।१,३०।३६॥
tatas cireṇa kālena saṃjāte tatra tejasi .. kumāre sukumāra-aṅge kumārāṇām nidarśane .. 7.1,30.36..
तच्छैशवं स्वरूपं च तस्य दृष्ट्वा मनोहरम् ॥ सह देवसुरैर्लोकैर्विस्मिते च विमोहिते ॥ ७.१,३०.३७॥
तत् शैशवम् स्वरूपम् च तस्य दृष्ट्वा मनोहरम् ॥ सह देव-सुरैः लोकैः विस्मिते च विमोहिते ॥ ७।१,३०।३७॥
tat śaiśavam svarūpam ca tasya dṛṣṭvā manoharam .. saha deva-suraiḥ lokaiḥ vismite ca vimohite .. 7.1,30.37..
देवो ऽपि स्वयमायातः पुत्रदर्शनलालसः ॥ सह देव्यांकमारोप्य ततो ऽस्य स्मेरमाननम् ॥ ७.१,३०.३८॥
देवः अपि स्वयम् आयातः पुत्र-दर्शन-लालसः ॥ सह देव्या अंकम् आरोप्य ततस् अस्य स्मेरम् आननम् ॥ ७।१,३०।३८॥
devaḥ api svayam āyātaḥ putra-darśana-lālasaḥ .. saha devyā aṃkam āropya tatas asya smeram ānanam .. 7.1,30.38..
पीतामृतमिव स्नेहविवशेनान्तरात्मना ॥ देवेष्वपि च पश्यत्सु वीतरागैस्तपस्विभिः ॥ ७.१,३०.३९॥
पीत-अमृतम् इव स्नेह-विवशेन अन्तरात्मना ॥ देवेषु अपि च पश्यत्सु वीत-रागैः तपस्विभिः ॥ ७।१,३०।३९॥
pīta-amṛtam iva sneha-vivaśena antarātmanā .. deveṣu api ca paśyatsu vīta-rāgaiḥ tapasvibhiḥ .. 7.1,30.39..
स्वस्य वक्षःस्थले स्वैरं नर्तयित्वा कुमारकम् ॥ अनुभूय च तत्क्रीडां संभाव्य च परस्परम् ॥ ७.१,३०.४०॥
स्वस्य वक्षः-स्थले स्वैरम् नर्तयित्वा कुमारकम् ॥ अनुभूय च तद्-क्रीडाम् संभाव्य च परस्परम् ॥ ७।१,३०।४०॥
svasya vakṣaḥ-sthale svairam nartayitvā kumārakam .. anubhūya ca tad-krīḍām saṃbhāvya ca parasparam .. 7.1,30.40..
स्तन्यमाज्ञापयन्देव्याः पाययित्वामृतोपमम् ॥ तवावतारो जगतां हितायेत्यनुशास्य च ॥ ७.१,३०.४१॥
स्तन्यम् आज्ञापयन् देव्याः पाययित्वा अमृत-उपमम् ॥ तव अवतारः जगताम् हिताय इति अनुशास्य च ॥ ७।१,३०।४१॥
stanyam ājñāpayan devyāḥ pāyayitvā amṛta-upamam .. tava avatāraḥ jagatām hitāya iti anuśāsya ca .. 7.1,30.41..
स्वयन्देवश्च देवी च न तृप्तिमुपजग्मतुः ॥ ततः शक्रेण संधाय बिभ्यता तारकासुरात् ॥ ७.१,३०.४२॥
स्वयम् देवः च देवी च न तृप्तिम् उपजग्मतुः ॥ ततस् शक्रेण संधाय बिभ्यता तारक-असुरात् ॥ ७।१,३०।४२॥
svayam devaḥ ca devī ca na tṛptim upajagmatuḥ .. tatas śakreṇa saṃdhāya bibhyatā tāraka-asurāt .. 7.1,30.42..
कारयित्वाभिषेकं च सेनापत्ये दिवौकसाम् ॥ पुत्रमन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ७.१,३०.४३॥
कारयित्वा अभिषेकम् च सेनापत्ये दिवौकसाम् ॥ पुत्रम् अन्तरतः कृत्वा देवेन त्रिपुरद्विषा ॥ ७।१,३०।४३॥
kārayitvā abhiṣekam ca senāpatye divaukasām .. putram antarataḥ kṛtvā devena tripuradviṣā .. 7.1,30.43..
स्वयमंतर्हितेनैव स्कन्दमिन्द्रादिरक्षितम् ॥ तच्छक्त्या क्रौञ्चभेदिन्या युधि कालाग्निकल्पया ॥ ७.१,३०.४४॥
स्वयम् अंतर्हितेन एव स्कन्दम् इन्द्र-आदि-रक्षितम् ॥ तद्-शक्त्या क्रौञ्च-भेदिन्या युधि कालाग्नि-कल्पया ॥ ७।१,३०।४४॥
svayam aṃtarhitena eva skandam indra-ādi-rakṣitam .. tad-śaktyā krauñca-bhedinyā yudhi kālāgni-kalpayā .. 7.1,30.44..
छेदितं तारकस्यापि शिरश्शक्रभिया सह ॥ स्तुतिं चक्रुर्विशेषेण हरिधातृमुखाः सुराः ॥ ७.१,३०.४५॥
छेदितम् तारकस्य अपि शिरः शक्र-भिया सह ॥ स्तुतिम् चक्रुः विशेषेण हरि-धातृ-मुखाः सुराः ॥ ७।१,३०।४५॥
cheditam tārakasya api śiraḥ śakra-bhiyā saha .. stutim cakruḥ viśeṣeṇa hari-dhātṛ-mukhāḥ surāḥ .. 7.1,30.45..
तथा रक्षोधिपः साक्षाद्रावणो बलगर्वितः ॥ उद्धरन्स्वभुजैर्दीर्घैः कैलासं गिरिमात्मनः ॥ ७.१,३०.४६॥
तथा रक्षः-अधिपः साक्षात् रावणः बल-गर्वितः ॥ उद्धरन् स्व-भुजैः दीर्घैः कैलासम् गिरिम् आत्मनः ॥ ७।१,३०।४६॥
tathā rakṣaḥ-adhipaḥ sākṣāt rāvaṇaḥ bala-garvitaḥ .. uddharan sva-bhujaiḥ dīrghaiḥ kailāsam girim ātmanaḥ .. 7.1,30.46..
तदागो ऽसहमानस्य देवदेवस्य शूलिनः ॥ पदांगुष्ठपरिस्पन्दान्ममज्ज मृदितो भुवि ॥ ७.१,३०.४७॥
तत् आगः असहमानस्य देवदेवस्य शूलिनः ॥ पद-अंगुष्ठ-परिस्पन्दात् ममज्ज मृदितः भुवि ॥ ७।१,३०।४७॥
tat āgaḥ asahamānasya devadevasya śūlinaḥ .. pada-aṃguṣṭha-parispandāt mamajja mṛditaḥ bhuvi .. 7.1,30.47..
बटोः केनचिदर्थेन स्वाश्रितस्य गतायुषः ॥ त्वरयागत्य देवेन पादांतं गमितोन्तकः ॥ ७.१,३०.४८॥
बटोः केनचिद् अर्थेन स्व-आश्रितस्य गत-आयुषः ॥ त्वरया आगत्य देवेन पाद-अन्तम् गमितः उन्तकः ॥ ७।१,३०।४८॥
baṭoḥ kenacid arthena sva-āśritasya gata-āyuṣaḥ .. tvarayā āgatya devena pāda-antam gamitaḥ untakaḥ .. 7.1,30.48..
स्ववाहनमविज्ञाय वृषेन्द्रं वडवानलः ॥ सगलग्रहमानीतस्ततो ऽस्त्येकोदकं जगत् ॥ ७.१,३०.४९॥
स्व-वाहनम् अ विज्ञाय वृष-इन्द्रम् वडवानलः ॥ स गलग्रहम् आनीतः ततस् अस्ति एक-उदकम् जगत् ॥ ७।१,३०।४९॥
sva-vāhanam a vijñāya vṛṣa-indram vaḍavānalaḥ .. sa galagraham ānītaḥ tatas asti eka-udakam jagat .. 7.1,30.49..
अलोकविदितैस्तैस्तैर्वृत्तैरानन्दसुन्दरैः ॥ अंगहारस्वसेनेदमसकृच्चालितं जगत् ॥ ७.१,३०.५०॥
अ लोक-विदितैः तैः तैः वृत्तैः आनन्द-सुन्दरैः ॥ अंगहार-स्वसेन इदम् असकृत् चालितम् जगत् ॥ ७।१,३०।५०॥
a loka-viditaiḥ taiḥ taiḥ vṛttaiḥ ānanda-sundaraiḥ .. aṃgahāra-svasena idam asakṛt cālitam jagat .. 7.1,30.50..
शान्त एव सदा सर्वमनुगृह्णाति चेच्छिवः ॥ सर्वाणि पूरयेदेव कथं शक्तेन मोचयेत् ॥ ७.१,३०.५१॥
शान्तः एव सदा सर्वम् अनुगृह्णाति चेद् शिवः ॥ सर्वाणि पूरयेत् एव कथम् शक्तेन मोचयेत् ॥ ७।१,३०।५१॥
śāntaḥ eva sadā sarvam anugṛhṇāti ced śivaḥ .. sarvāṇi pūrayet eva katham śaktena mocayet .. 7.1,30.51..
अनादिकर्म वैचित्र्यमपि नात्र नियामकम् ॥ कारणं खलु कर्मापि भवेदीश्वरकारितम् ॥ ७.१,३०.५२॥
अनादि-कर्म वैचित्र्यम् अपि ना अत्र नियामकम् ॥ कारणम् खलु कर्म अपि भवेत् ईश्वर-कारितम् ॥ ७।१,३०।५२॥
anādi-karma vaicitryam api nā atra niyāmakam .. kāraṇam khalu karma api bhavet īśvara-kāritam .. 7.1,30.52..
किमत्र बहुनोक्तेन नास्तिक्यं हेतुकारकम् ॥ यथा ह्याशु निवर्तेत तथा कथय मारुत ॥ ७.१,३०.५३॥
किम् अत्र बहुना उक्तेन नास्तिक्यम् हेतु-कारकम् ॥ यथा हि आशु निवर्तेत तथा कथय मारुत ॥ ७।१,३०।५३॥
kim atra bahunā uktena nāstikyam hetu-kārakam .. yathā hi āśu nivarteta tathā kathaya māruta .. 7.1,30.53..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वप्रश्नो नाम त्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे शिवतत्त्वप्रश्नः नाम त्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe śivatattvapraśnaḥ nāma triṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In