| |
|

This overlay will guide you through the buttons:

स्थने संशयितं विप्रा भवद्भिर्हेतुचोदितैः ॥ जिज्ञासा हि न नास्तिक्यं साधयेत्साधुबुद्धिषु ॥ ७.१,३१.१॥
स्थने संशयितम् विप्राः भवद्भिः हेतु-चोदितैः ॥ जिज्ञासा हि न नास्तिक्यम् साधयेत् साधु-बुद्धिषु ॥ ७।१,३१।१॥
sthane saṃśayitam viprāḥ bhavadbhiḥ hetu-coditaiḥ .. jijñāsā hi na nāstikyam sādhayet sādhu-buddhiṣu .. 7.1,31.1..
प्रमणमत्र वक्ष्यामि सताम्मोहनिवर्तकम् ॥ असतां त्वन्यथाभावः प्रसादेन विना प्रभोः ॥ ७.१,३१.२॥
प्रमणम् अत्र वक्ष्यामि सताम् मोह-निवर्तकम् ॥ असताम् तु अन्यथाभावः प्रसादेन विना प्रभोः ॥ ७।१,३१।२॥
pramaṇam atra vakṣyāmi satām moha-nivartakam .. asatām tu anyathābhāvaḥ prasādena vinā prabhoḥ .. 7.1,31.2..
शिवस्य परिपूर्णस्य परानुग्रहमन्तरा ॥ न किंचिदपि कर्तव्यमिति साधु विनिश्चितम् ॥ ७.१,३१.३॥
शिवस्य परिपूर्णस्य पर-अनुग्रहम् अन्तरा ॥ न किंचिद् अपि कर्तव्यम् इति साधु विनिश्चितम् ॥ ७।१,३१।३॥
śivasya paripūrṇasya para-anugraham antarā .. na kiṃcid api kartavyam iti sādhu viniścitam .. 7.1,31.3..
स्वभाव एव पर्याप्तः परानुग्रहकर्मणि ॥ अन्यथा निस्स्वभवेन न किमप्यनुगृह्यते ॥ ७.१,३१.४॥
स्वभावः एव पर्याप्तः पर-अनुग्रह-कर्मणि ॥ अन्यथा निस्स्वभवेन न किम् अपि अनुगृह्यते ॥ ७।१,३१।४॥
svabhāvaḥ eva paryāptaḥ para-anugraha-karmaṇi .. anyathā nissvabhavena na kim api anugṛhyate .. 7.1,31.4..
परं सर्वमनुग्राह्यं पशुपाशात्मकं जगत् ॥ परस्यानुग्रहार्थं तु पत्युराज्ञासमन्वयः ॥ ७.१,३१.५॥
परम् सर्वम् अनुग्राह्यम् पशु-पाश-आत्मकम् जगत् ॥ परस्य अनुग्रह-अर्थम् तु पत्युः आज्ञा-समन्वयः ॥ ७।१,३१।५॥
param sarvam anugrāhyam paśu-pāśa-ātmakam jagat .. parasya anugraha-artham tu patyuḥ ājñā-samanvayaḥ .. 7.1,31.5..
पतिराज्ञापकः सर्वमनुगृह्णाति सर्वदा ॥ तदर्थमर्थस्वीकारे परतंत्रः कथं शिवः ॥ ७.१,३१.६॥
पतिः आज्ञापकः सर्वम् अनुगृह्णाति सर्वदा ॥ तद्-अर्थम् अर्थ-स्वीकारे परतंत्रः कथम् शिवः ॥ ७।१,३१।६॥
patiḥ ājñāpakaḥ sarvam anugṛhṇāti sarvadā .. tad-artham artha-svīkāre parataṃtraḥ katham śivaḥ .. 7.1,31.6..
अनुग्राह्यनपेक्षो ऽस्ति न हि कश्चिदनुग्रहः ॥ अतः स्वातन्त्र्यशब्दार्थाननपेक्षत्वलक्षणः ॥ ७.१,३१.७॥
अनुग्राहि-अनपेक्षः अस्ति न हि कश्चिद् अनुग्रहः ॥ अतस् स्वातन्त्र्य-शब्दार्थान् अननपेक्ष-त्व-लक्षणः ॥ ७।१,३१।७॥
anugrāhi-anapekṣaḥ asti na hi kaścid anugrahaḥ .. atas svātantrya-śabdārthān ananapekṣa-tva-lakṣaṇaḥ .. 7.1,31.7..
एतत्पुनरनुग्राह्यं परतंत्रं तदिष्यते ॥ अनुग्रहादृते तस्य भुक्तिमुक्त्योरनन्वयात् ॥ ७.१,३१.८॥
एतत् पुनर् अनुग्राह्यम् परतंत्रम् तत् इष्यते ॥ अनुग्रहात् ऋते तस्य भुक्ति-मुक्त्योः अनन्वयात् ॥ ७।१,३१।८॥
etat punar anugrāhyam parataṃtram tat iṣyate .. anugrahāt ṛte tasya bhukti-muktyoḥ ananvayāt .. 7.1,31.8..
मूर्तात्मनो ऽप्यनुग्राह्या शिवाज्ञाननिवर्तनात् ॥ अज्ञानाधिष्ठितं शम्भोर्न किंचिदिह विद्यते ॥ ७.१,३१.९॥
मूर्त-आत्मनः अपि अनुग्राह्या शिव-अज्ञान-निवर्तनात् ॥ अज्ञान-धिष्ठितम् शम्भोः न किंचिद् इह विद्यते ॥ ७।१,३१।९॥
mūrta-ātmanaḥ api anugrāhyā śiva-ajñāna-nivartanāt .. ajñāna-dhiṣṭhitam śambhoḥ na kiṃcid iha vidyate .. 7.1,31.9..
येनोपलभ्यते ऽस्माभिस्सकलेनापि निष्कलः ॥ स मूर्त्यात्मा शिवः शैवमूर्तिरित्युपचर्यते ॥ ७.१,३१.१०॥
येन उपलभ्यते अस्माभिः सकलेन अपि निष्कलः ॥ स मूर्ति-आत्मा शिवः शैव-मूर्तिः इति उपचर्यते ॥ ७।१,३१।१०॥
yena upalabhyate asmābhiḥ sakalena api niṣkalaḥ .. sa mūrti-ātmā śivaḥ śaiva-mūrtiḥ iti upacaryate .. 7.1,31.10..
न ह्यसौ निष्कलः साक्षाच्छिवः परमकारणम् ॥ साकारेणानुभावेन केनाप्यनुपलक्षितः ॥ ७.१,३१.११॥
न हि असौ निष्कलः साक्षात् शिवः परम-कारणम् ॥ स आकारेण अनुभावेन केन अपि अनुपलक्षितः ॥ ७।१,३१।११॥
na hi asau niṣkalaḥ sākṣāt śivaḥ parama-kāraṇam .. sa ākāreṇa anubhāvena kena api anupalakṣitaḥ .. 7.1,31.11..
प्रमाणगम्यतामात्रं तत्स्वभावोपपादकम् ॥ न तावतात्रोपेक्षाधीरुपलक्षणमंतरा ॥ ७.१,३१.१२॥
॥ न तावता अत्र उपेक्षा-धीः उपलक्षणम् अंतरा ॥ ७।१,३१।१२॥
.. na tāvatā atra upekṣā-dhīḥ upalakṣaṇam aṃtarā .. 7.1,31.12..
आत्मोपमोल्वणं साक्षान्मूर्तिरेव हि काचन ॥ शिवस्य मूर्तिर्मूर्त्यात्मा परस्तस्योपलक्षणम् ॥ ७.१,३१.१३॥
आत्म-उपम-उल्वणम् साक्षात् मूर्तिः एव हि काचन ॥ शिवस्य मूर्तिः मूर्ति-आत्मा परः तस्य उपलक्षणम् ॥ ७।१,३१।१३॥
ātma-upama-ulvaṇam sākṣāt mūrtiḥ eva hi kācana .. śivasya mūrtiḥ mūrti-ātmā paraḥ tasya upalakṣaṇam .. 7.1,31.13..
यथा काष्ठेष्वनारूढो न वह्निरुपलभ्यते ॥ एवं शिवो ऽपि मूर्त्यात्मन्यनारूढ इति स्थितिः ॥ ७.१,३१.१४॥
यथा काष्ठेषु अन् आरूढः न वह्निः उपलभ्यते ॥ एवम् शिवः अपि मूर्ति-आत्मनि अनारूढः इति स्थितिः ॥ ७।१,३१।१४॥
yathā kāṣṭheṣu an ārūḍhaḥ na vahniḥ upalabhyate .. evam śivaḥ api mūrti-ātmani anārūḍhaḥ iti sthitiḥ .. 7.1,31.14..
यथाग्निमानयेत्युक्ते ज्वलत्काष्ठादृते स्वयम् ॥ नाग्निरानीयते तद्वत्पूज्यो मूर्त्यात्मना शिवः ॥ ७.१,३१.१५॥
यथा अग्निम् आनय इति उक्ते ज्वलत्-काष्ठात् ऋते स्वयम् ॥ न अग्निः आनीयते तद्वत् पूज्यः मूर्ति-आत्मना शिवः ॥ ७।१,३१।१५॥
yathā agnim ānaya iti ukte jvalat-kāṣṭhāt ṛte svayam .. na agniḥ ānīyate tadvat pūjyaḥ mūrti-ātmanā śivaḥ .. 7.1,31.15..
अत एव हि पूजादौ मूर्त्यात्मपरिकल्पनम् ॥ मूर्त्यात्मनि कृतं साक्षाच्छिव एव कृतं यतः ॥ ७.१,३१.१६॥
अतस् एव हि पूजा-आदौ मूर्ति-आत्म-परिकल्पनम् ॥ मूर्ति-आत्मनि कृतम् साक्षात् शिवे एव कृतम् यतस् ॥ ७।१,३१।१६॥
atas eva hi pūjā-ādau mūrti-ātma-parikalpanam .. mūrti-ātmani kṛtam sākṣāt śive eva kṛtam yatas .. 7.1,31.16..
लिंगादावपि तत्कृत्यमर्चायां च विशेषतः ॥ तत्तन्मूर्त्यात्मभावेन शिवो ऽस्माभिरुपास्यते ॥ ७.१,३१.१७॥
लिंग-आदौ अपि तत् कृत्यम् अर्चायाम् च विशेषतः ॥ तद्-तद्-मूर्ति-आत्म-भावेन शिवः अस्माभिः उपास्यते ॥ ७।१,३१।१७॥
liṃga-ādau api tat kṛtyam arcāyām ca viśeṣataḥ .. tad-tad-mūrti-ātma-bhāvena śivaḥ asmābhiḥ upāsyate .. 7.1,31.17..
यथानुगृह्यते सो ऽपि मूर्त्यात्मा पारमेष्ठिना ॥ तथा मूर्त्यात्मनिष्ठेन शिवेन पशवो वयम् ॥ ७.१,३१.१८॥
यथा अनुगृह्यते सः अपि मूर्ति-आत्मा पारमेष्ठिना ॥ तथा मूर्ति-आत्म-निष्ठेन शिवेन पशवः वयम् ॥ ७।१,३१।१८॥
yathā anugṛhyate saḥ api mūrti-ātmā pārameṣṭhinā .. tathā mūrti-ātma-niṣṭhena śivena paśavaḥ vayam .. 7.1,31.18..
लोकानुग्रहणायैव शिवेन परमेष्ठिना ॥ सदाशिवादयस्सर्वे मूर्त्यात्मनो ऽप्यधिष्ठिताः ॥ ७.१,३१.१९॥
लोक-अनुग्रहणाय एव शिवेन परमेष्ठिना ॥ सदाशिव-आदयः सर्वे मूर्ति-आत्मनः अपि अधिष्ठिताः ॥ ७।१,३१।१९॥
loka-anugrahaṇāya eva śivena parameṣṭhinā .. sadāśiva-ādayaḥ sarve mūrti-ātmanaḥ api adhiṣṭhitāḥ .. 7.1,31.19..
आत्मनामेव भोगाय मोक्षाय च विशेषतः ॥ तत्त्वातत्त्वस्वरूपेषु मूर्त्यात्मसु शिवान्वयः ॥ ७.१,३१.२०॥
आत्मनाम् एव भोगाय मोक्षाय च विशेषतः ॥ तत्त्व-अतत्त्व-स्वरूपेषु मूर्ति-आत्मसु शिव-अन्वयः ॥ ७।१,३१।२०॥
ātmanām eva bhogāya mokṣāya ca viśeṣataḥ .. tattva-atattva-svarūpeṣu mūrti-ātmasu śiva-anvayaḥ .. 7.1,31.20..
भोगः कर्मविपाकात्मा सुखदुःखात्मको मतः ॥ न च कर्म शिवो ऽस्तीति तस्य भोगः किमात्मकः ॥ ७.१,३१.२१॥
भोगः कर्म-विपाक-आत्मा सुख-दुःख-आत्मकः मतः ॥ न च कर्म शिवः अस्ति इति तस्य भोगः किमात्मकः ॥ ७।१,३१।२१॥
bhogaḥ karma-vipāka-ātmā sukha-duḥkha-ātmakaḥ mataḥ .. na ca karma śivaḥ asti iti tasya bhogaḥ kimātmakaḥ .. 7.1,31.21..
सर्वं शिवो ऽनुगृह्णाति न निगृह्णाति किंचन ॥ निगृह्णतां तु ये दोषाश्शिवे तेषामसंभवात् ॥ ७.१,३१.२२॥
सर्वम् शिवः अनुगृह्णाति न निगृह्णाति किंचन ॥ निगृह्णताम् तु ये दोषाः शिवे तेषाम् असंभवात् ॥ ७।१,३१।२२॥
sarvam śivaḥ anugṛhṇāti na nigṛhṇāti kiṃcana .. nigṛhṇatām tu ye doṣāḥ śive teṣām asaṃbhavāt .. 7.1,31.22..
ये पुनर्निग्रहाः केचिद्ब्रह्मादिषु निदर्शिताः ॥ ते ऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना ॥ ७.१,३१.२३॥
ये पुनर् निग्रहाः केचिद् ब्रह्म-आदिषु निदर्शिताः ॥ ते अपि लोक-हिताय एव कृताः श्रीकण्ठ-मूर्तिना ॥ ७।१,३१।२३॥
ye punar nigrahāḥ kecid brahma-ādiṣu nidarśitāḥ .. te api loka-hitāya eva kṛtāḥ śrīkaṇṭha-mūrtinā .. 7.1,31.23..
ब्रह्माण्डस्याधिपत्यं हि श्रीकण्ठस्य न संशयः ॥ श्रीकण्ठाख्यां शिवो मूर्तिं क्रीडतीमधितिष्ठति ॥ ७.१,३१.२४॥
ब्रह्माण्डस्य आधिपत्यम् हि श्रीकण्ठस्य न संशयः ॥ श्रीकण्ठ-आख्याम् शिवः मूर्तिम् क्रीडतीम् अधितिष्ठति ॥ ७।१,३१।२४॥
brahmāṇḍasya ādhipatyam hi śrīkaṇṭhasya na saṃśayaḥ .. śrīkaṇṭha-ākhyām śivaḥ mūrtim krīḍatīm adhitiṣṭhati .. 7.1,31.24..
सदोषा एव देवाद्या निगृहीता यथोदितम् ॥ ततस्तेपि विपाप्मानः प्रजाश्चापि गतज्वराः ॥ ७.१,३१.२५॥
स दोषाः एव देव-आद्याः निगृहीताः यथा उदितम् ॥ ततस् ते अपि विपाप्मानः प्रजाः च अपि गत-ज्वराः ॥ ७।१,३१।२५॥
sa doṣāḥ eva deva-ādyāḥ nigṛhītāḥ yathā uditam .. tatas te api vipāpmānaḥ prajāḥ ca api gata-jvarāḥ .. 7.1,31.25..
निग्रहो ऽपि स्वरूपेण विदुषां न जुगुप्सितः ॥ अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्यते ॥ ७.१,३१.२६॥
निग्रहः अपि स्व-रूपेण विदुषाम् न जुगुप्सितः ॥ अतस् एव हि दण्ड्येषु दण्डः राज्ञाम् प्रशस्यते ॥ ७।१,३१।२६॥
nigrahaḥ api sva-rūpeṇa viduṣām na jugupsitaḥ .. atas eva hi daṇḍyeṣu daṇḍaḥ rājñām praśasyate .. 7.1,31.26..
यत्सिद्धिरीश्वरत्वेन कार्यवर्गस्य कृत्स्नशः ॥ न स चेदीशतां कुर्याज्जगतः कथमीश्वरः ॥ ७.१,३१.२७॥
यत् सिद्धिः ईश्वर-त्वेन कार्य-वर्गस्य कृत्स्नशस् ॥ न स चेद् ईशताम् कुर्यात् जगतः कथम् ईश्वरः ॥ ७।१,३१।२७॥
yat siddhiḥ īśvara-tvena kārya-vargasya kṛtsnaśas .. na sa ced īśatām kuryāt jagataḥ katham īśvaraḥ .. 7.1,31.27..
ईशेच्छा च विधातृत्वं विधेराज्ञापनं परम् ॥ आज्ञावश्यमिदं कुर्यान्न कुर्यादिति शासनम् ॥ ७.१,३१.२८॥
ईश-इच्छा च विधातृ-त्वम् विधेः आज्ञापनम् परम् ॥ आज्ञा-वश्यम् इदम् कुर्यात् न कुर्यात् इति शासनम् ॥ ७।१,३१।२८॥
īśa-icchā ca vidhātṛ-tvam vidheḥ ājñāpanam param .. ājñā-vaśyam idam kuryāt na kuryāt iti śāsanam .. 7.1,31.28..
तच्छासनानुवर्तित्वं साधुभावस्य लक्षणम् ॥ विपरीतसमाधोः स्यान्न सर्वं तत्तु दृश्यते ॥ ७.१,३१.२९॥
तद्-शासन-अनुवर्ति-त्वम् साधु-भावस्य लक्षणम् ॥ विपरीत-समाधोः स्यात् न सर्वम् तत् तु दृश्यते ॥ ७।१,३१।२९॥
tad-śāsana-anuvarti-tvam sādhu-bhāvasya lakṣaṇam .. viparīta-samādhoḥ syāt na sarvam tat tu dṛśyate .. 7.1,31.29..
साधु संरक्षणीयं चेद्विनिवर्त्यमसाधु यत् ॥ निवर्तते च सामादेरंते दण्डो हि साधनम् ॥ ७.१,३१.३०॥
साधु संरक्षणीयम् चेद् विनिवर्त्यम् असाधु यत् ॥ निवर्तते च साम-आदेः अन्ते दण्डः हि साधनम् ॥ ७।१,३१।३०॥
sādhu saṃrakṣaṇīyam ced vinivartyam asādhu yat .. nivartate ca sāma-ādeḥ ante daṇḍaḥ hi sādhanam .. 7.1,31.30..
हितार्थलक्षणं चेदं दण्डान्तमनुशासनम् ॥ अतो यद्विपरीतं तदहितं संप्रचक्षते ॥ ७.१,३१.३१॥
हित-अर्थ-लक्षणम् च इदम् दण्ड-अन्तम् अनुशासनम् ॥ अतस् यत् विपरीतम् तत् अहितम् संप्रचक्षते ॥ ७।१,३१।३१॥
hita-artha-lakṣaṇam ca idam daṇḍa-antam anuśāsanam .. atas yat viparītam tat ahitam saṃpracakṣate .. 7.1,31.31..
हिते सदा निषण्णानामीश्वरस्य निदर्शनम् ॥ स कथं दुष्यते सद्भिरसतामेव निग्रहात् ॥ ७.१,३१.३२॥
हिते सदा निषण्णानाम् ईश्वरस्य निदर्शनम् ॥ स कथम् दुष्यते सद्भिः असताम् एव निग्रहात् ॥ ७।१,३१।३२॥
hite sadā niṣaṇṇānām īśvarasya nidarśanam .. sa katham duṣyate sadbhiḥ asatām eva nigrahāt .. 7.1,31.32..
अयुक्तकारिणो लोके गर्हणीयाविवेकिता ॥ यदुद्वेजयते लोकन्तदयुक्तं प्रचक्षते ॥ ७.१,३१.३३॥
अयुक्त-कारिणः लोके गर्हणीया अविवेकि-ता ॥ यत् उद्वेजयते लोकन् तत् अयुक्तम् प्रचक्षते ॥ ७।१,३१।३३॥
ayukta-kāriṇaḥ loke garhaṇīyā aviveki-tā .. yat udvejayate lokan tat ayuktam pracakṣate .. 7.1,31.33..
सर्वो ऽपि निग्रहो लोके न च विद्वेषपूर्वकः ॥ न हि द्वेष्टि पिता पुत्रं यो निगृह्याति शिक्षयेत् ॥ ७.१,३१.३४॥
सर्वः अपि निग्रहः लोके न च विद्वेष-पूर्वकः ॥ न हि द्वेष्टि पिता पुत्रम् यः निगृह्य अति शिक्षयेत् ॥ ७।१,३१।३४॥
sarvaḥ api nigrahaḥ loke na ca vidveṣa-pūrvakaḥ .. na hi dveṣṭi pitā putram yaḥ nigṛhya ati śikṣayet .. 7.1,31.34..
माध्यस्थेनापि निग्राह्यान्यो निगृह्णाति मार्गतः ॥ तस्याप्यवश्यं यत्किंचिन्नैर्घृण्यमनुवर्तते ॥ ७.१,३१.३५॥
माध्यस्थेन अपि निग्राह्य अन्यः निगृह्णाति मार्गतः ॥ तस्य अपि अवश्यम् यत् किंचिद् नैर्घृण्यम् अनुवर्तते ॥ ७।१,३१।३५॥
mādhyasthena api nigrāhya anyaḥ nigṛhṇāti mārgataḥ .. tasya api avaśyam yat kiṃcid nairghṛṇyam anuvartate .. 7.1,31.35..
अन्यथा न हिनस्त्येव सदोषानप्यसौ परान् ॥ हिनस्ति चायमप्यज्ञान्परं माध्यस्थ्यमाचरन् ॥ ७.१,३१.३६॥
अन्यथा न हिनस्ति एव स दोषान् अपि असौ परान् ॥ हिनस्ति च अयम् अपि अज्ञान् परम् माध्यस्थ्यम् आचरन् ॥ ७।१,३१।३६॥
anyathā na hinasti eva sa doṣān api asau parān .. hinasti ca ayam api ajñān param mādhyasthyam ācaran .. 7.1,31.36..
तस्माद्दुःखात्मिकां हिंसां कुर्वाणो यः सनिर्घृणः ॥ इति निर्बंधयंत्येके नियमो नेति चापरे ॥ ७.१,३१.३७॥
तस्मात् दुःख-आत्मिकाम् हिंसाम् कुर्वाणः यः स निर्घृणः ॥ इति निर्बंधयंति एके नियमः न इति च अपरे ॥ ७।१,३१।३७॥
tasmāt duḥkha-ātmikām hiṃsām kurvāṇaḥ yaḥ sa nirghṛṇaḥ .. iti nirbaṃdhayaṃti eke niyamaḥ na iti ca apare .. 7.1,31.37..
निदानज्ञस्य भिषजो रुग्णो हिंसां प्रयुंजतः ॥ न किंचिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका ॥ ७.१,३१.३८॥
निदान-ज्ञस्य भिषजः रुग्णः हिंसाम् प्रयुंजतः ॥ न किंचिद् अपि नैर्घृण्यम् घृणा एव अत्र प्रयोजिका ॥ ७।१,३१।३८॥
nidāna-jñasya bhiṣajaḥ rugṇaḥ hiṃsām prayuṃjataḥ .. na kiṃcid api nairghṛṇyam ghṛṇā eva atra prayojikā .. 7.1,31.38..
घृणापि न गुणायैव हिंस्रेषु प्रतियोगिषु ॥ तादृशेषु घृणी भ्रान्त्या घृणान्तरितनिर्घृणः ॥ ७.१,३१.३९॥
घृणा अपि न गुणाय एव हिंस्रेषु प्रतियोगिषु ॥ तादृशेषु घृणी भ्रान्त्या घृणा-अन्तरित-निर्घृणः ॥ ७।१,३१।३९॥
ghṛṇā api na guṇāya eva hiṃsreṣu pratiyogiṣu .. tādṛśeṣu ghṛṇī bhrāntyā ghṛṇā-antarita-nirghṛṇaḥ .. 7.1,31.39..
उपेक्षापीह दोषाह रक्ष्येषु प्रतियोगिषु ॥ शक्तौ सत्यामुपेक्षातो रक्ष्यस्सद्यो विपद्यते ॥ ७.१,३१.४०॥
उपेक्षा अपि इह दोषा आह रक्ष्येषु प्रतियोगिषु ॥ शक्तौ सत्याम् उपेक्षातः रक्ष्यः सद्यस् विपद्यते ॥ ७।१,३१।४०॥
upekṣā api iha doṣā āha rakṣyeṣu pratiyogiṣu .. śaktau satyām upekṣātaḥ rakṣyaḥ sadyas vipadyate .. 7.1,31.40..
सर्पस्या"स्यगतम्पश्यन्यस्तु रक्ष्यमुपेक्षते ॥ दोषाभासान्समुत्प्रेक्ष्य फलतः सो ऽपि निर्घृणः ॥ ७.१,३१.४१॥
सर्पस्या"स्य-गतम् पश्यन् यः तु रक्ष्यम् उपेक्षते ॥ दोष-आभासान् समुत्प्रेक्ष्य फलतः सः अपि निर्घृणः ॥ ७।१,३१।४१॥
sarpasyā"sya-gatam paśyan yaḥ tu rakṣyam upekṣate .. doṣa-ābhāsān samutprekṣya phalataḥ saḥ api nirghṛṇaḥ .. 7.1,31.41..
तस्माद्घृणा गुणायैव सर्वथेति न संमतम् ॥ संमतं प्राप्तकामित्वं सर्वं त्वन्यदसम्मतम् ॥ ७.१,३१.४२॥
तस्मात् घृणा गुणाय एव सर्वथा इति न संमतम् ॥ संमतम् प्राप्त-कामित्वम् सर्वम् तु अन्यत् अ सम्मतम् ॥ ७।१,३१।४२॥
tasmāt ghṛṇā guṇāya eva sarvathā iti na saṃmatam .. saṃmatam prāpta-kāmitvam sarvam tu anyat a sammatam .. 7.1,31.42..
मूर्त्यात्मस्वपि रागाद्या दोषाः सन्त्येव वस्तुतः ॥ तथापि तेषामेवैते न शिवस्य तु सर्वथा ॥ ७.१,३१.४३॥
मूर्ति-आत्मसु अपि राग-आद्याः दोषाः सन्ति एव वस्तुतस् ॥ तथा अपि तेषाम् एव एते न शिवस्य तु सर्वथा ॥ ७।१,३१।४३॥
mūrti-ātmasu api rāga-ādyāḥ doṣāḥ santi eva vastutas .. tathā api teṣām eva ete na śivasya tu sarvathā .. 7.1,31.43..
अग्नावपि समाविष्टं ताम्रं खलु सकालिकम् ॥ इति नाग्निरसौ दुष्येत्ताम्रसंसर्गकारणात् ॥ ७.१,३१.४३॥
अग्नौ अपि समाविष्टम् ताम्रम् खलु स कालिकम् ॥ इति न अग्निः असौ दुष्येत् ताम्र-संसर्ग-कारणात् ॥ ७।१,३१।४३॥
agnau api samāviṣṭam tāmram khalu sa kālikam .. iti na agniḥ asau duṣyet tāmra-saṃsarga-kāraṇāt .. 7.1,31.43..
नाग्नेरशुचिसंसर्गादशुचित्वमपेक्षते ॥ अशुचेस्त्वग्निसंयोगाच्छुचित्वमपि जायते ॥ ७.१,३१.४४॥
न अग्नेः अशुचि-संसर्गात् अशुचि-त्वम् अपेक्षते ॥ अशुचेः तु अग्नि-संयोगात् शुचि-त्वम् अपि जायते ॥ ७।१,३१।४४॥
na agneḥ aśuci-saṃsargāt aśuci-tvam apekṣate .. aśuceḥ tu agni-saṃyogāt śuci-tvam api jāyate .. 7.1,31.44..
एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् ॥ शिवसंसर्गतस्त्वेष शोध्यात्मैव हि शुध्यति ॥ ७.१,३१.४५॥
एवम् शोध्य-आत्म-संसर्गात् न हि अशुद्धः शिवः भवेत् ॥ शिव-संसर्गतः तु एष शोध्य-आत्मा एव हि शुध्यति ॥ ७।१,३१।४५॥
evam śodhya-ātma-saṃsargāt na hi aśuddhaḥ śivaḥ bhavet .. śiva-saṃsargataḥ tu eṣa śodhya-ātmā eva hi śudhyati .. 7.1,31.45..
अयस्यग्नौ समाविष्टे दाहो ऽग्नेरेव नायसः ॥ मूर्तात्मन्येवमैश्वर्यमीश्वरस्यैव नात्मनाम् ॥ ७.१,३१.४६॥
अयसि अग्नौ समाविष्टे दाहः अग्नेः एव न अयसः ॥ मूर्त-आत्मनि एवम् ऐश्वर्यम् ईश्वरस्य एव न आत्मनाम् ॥ ७।१,३१।४६॥
ayasi agnau samāviṣṭe dāhaḥ agneḥ eva na ayasaḥ .. mūrta-ātmani evam aiśvaryam īśvarasya eva na ātmanām .. 7.1,31.46..
न हि काष्ठं ज्वलत्यूर्ध्वमग्निरेव ज्वलत्यसौ ॥ काष्ठस्यांगारता नाग्नेरेवमत्रापि योज्यताम् ॥ ७.१,३१.४७॥
न हि काष्ठम् ज्वलति ऊर्ध्वम् अग्निः एव ज्वलति असौ ॥ काष्ठस्य अंगार-ता न अग्नेः एवम् अत्र अपि योज्यताम् ॥ ७।१,३१।४७॥
na hi kāṣṭham jvalati ūrdhvam agniḥ eva jvalati asau .. kāṣṭhasya aṃgāra-tā na agneḥ evam atra api yojyatām .. 7.1,31.47..
अत एव जगत्यस्मिन्काष्ठपाषाणमृत्स्वपि ॥ शिवावेशवशादेव शिवत्वमुपचर्यते ॥ ७.१,३१.४८॥
अतस् एव जगति अस्मिन् काष्ठ-पाषाण-मृत्सु अपि ॥ शिव-आवेश-वशात् एव शिव-त्वम् उपचर्यते ॥ ७।१,३१।४८॥
atas eva jagati asmin kāṣṭha-pāṣāṇa-mṛtsu api .. śiva-āveśa-vaśāt eva śiva-tvam upacaryate .. 7.1,31.48..
मैत्र्यादयो गुणा गौणास्तस्मात्ते भिन्नवृत्तयः ॥ तैर्गुणैरुपरक्तानां दोषाय च गुणाय च ॥ ७.१,३१.४९॥
मैत्री-आदयः गुणाः गौणाः तस्मात् ते भिन्न-वृत्तयः ॥ तैः गुणैः उपरक्तानाम् दोषाय च गुणाय च ॥ ७।१,३१।४९॥
maitrī-ādayaḥ guṇāḥ gauṇāḥ tasmāt te bhinna-vṛttayaḥ .. taiḥ guṇaiḥ uparaktānām doṣāya ca guṇāya ca .. 7.1,31.49..
यत्तु गौणमगौणं च तत्सर्वमनुगृह्णतः ॥ न गुणाय न दोषाय शिवस्य गुणवृत्तयः ॥ ७.१,३१.५०॥
यत् तु गौणम् अगौणम् च तत् सर्वम् अनुगृह्णतः ॥ न गुणाय न दोषाय शिवस्य गुण-वृत्तयः ॥ ७।१,३१।५०॥
yat tu gauṇam agauṇam ca tat sarvam anugṛhṇataḥ .. na guṇāya na doṣāya śivasya guṇa-vṛttayaḥ .. 7.1,31.50..
न चानुग्रहशब्दार्थं गौणमाहुर्विपश्चितः ॥ संसारमोचनं किं तु शैवमाज्ञामयं हितम् ॥ ७.१,३१.५१॥
न च अनुग्रह-शब्द-अर्थम् गौणम् आहुः विपश्चितः ॥ संसार-मोचनम् किम् तु शैवम् आज्ञा-मयम् हितम् ॥ ७।१,३१।५१॥
na ca anugraha-śabda-artham gauṇam āhuḥ vipaścitaḥ .. saṃsāra-mocanam kim tu śaivam ājñā-mayam hitam .. 7.1,31.51..
हितं तदाज्ञाकरणं यद्धितं तदनुग्रहः ॥ सर्वं हिते नियुञ्जावः सर्वानुग्रहकारकः ॥ ७.१,३१.५२॥
हितम् तत् आज्ञा-करणम् यत् हितम् तत् अनुग्रहः ॥ सर्वम् हिते नियुञ्जावः सर्व-अनुग्रह-कारकः ॥ ७।१,३१।५२॥
hitam tat ājñā-karaṇam yat hitam tat anugrahaḥ .. sarvam hite niyuñjāvaḥ sarva-anugraha-kārakaḥ .. 7.1,31.52..
यस्तूपकारशब्दार्थस्तमप्याहुरनुग्रहम् ॥ तस्यापि हितरूपत्वाच्छिवः सर्वोपकारकः ॥ ७.१,३१.५३॥
यः तु उपकार-शब्द-अर्थः तम् अपि आहुः अनुग्रहम् ॥ तस्य अपि हित-रूप-त्वात् शिवः सर्व-उपकारकः ॥ ७।१,३१।५३॥
yaḥ tu upakāra-śabda-arthaḥ tam api āhuḥ anugraham .. tasya api hita-rūpa-tvāt śivaḥ sarva-upakārakaḥ .. 7.1,31.53..
हिते सदा नियुक्तं तु सर्वं चिदचिदात्मकम् ॥ स्वभावप्रतिबन्धं तत्समं न लभते हितम् ॥ ७.१,३१.५४॥
हिते सदा नियुक्तम् तु सर्वम् चित्-अचित्-आत्मकम् ॥ स्वभाव-प्रतिबन्धम् तद्-समम् न लभते हितम् ॥ ७।१,३१।५४॥
hite sadā niyuktam tu sarvam cit-acit-ātmakam .. svabhāva-pratibandham tad-samam na labhate hitam .. 7.1,31.54..
यथा विकासयत्येव रविः पद्मानि भानुभिः ॥ समं न विकसन्त्येव स्वस्वभावानुरोधतः ॥ ७.१,३१.५५॥
यथा विकासयति एव रविः पद्मानि भानुभिः ॥ समम् न विकसन्ति एव स्व-स्वभाव-अनुरोधतः ॥ ७।१,३१।५५॥
yathā vikāsayati eva raviḥ padmāni bhānubhiḥ .. samam na vikasanti eva sva-svabhāva-anurodhataḥ .. 7.1,31.55..
स्वभावो ऽपि हि भावानां भाविनो ऽर्थस्य कारणम् ॥ न हि स्वभावो नश्यन्तमर्थं कर्तृषु साधयेत् ॥ ७.१,३१.५६॥
स्वभावः अपि हि भावानाम् भाविनः अर्थस्य कारणम् ॥ न हि स्वभावः नश्यन्तम् अर्थम् कर्तृषु साधयेत् ॥ ७।१,३१।५६॥
svabhāvaḥ api hi bhāvānām bhāvinaḥ arthasya kāraṇam .. na hi svabhāvaḥ naśyantam artham kartṛṣu sādhayet .. 7.1,31.56..
सुवर्णमेव नांगारं द्रावयत्यग्निसंगमः ॥ एवं पक्वमलानेव मोचयेन्न शिवपरान् ॥ ७.१,३१.५७॥
सुवर्णम् एव न अंगारम् द्रावयति अग्नि-संगमः ॥ एवम् पक्व-मलान् एव मोचयेत् न शिव-परान् ॥ ७।१,३१।५७॥
suvarṇam eva na aṃgāram drāvayati agni-saṃgamaḥ .. evam pakva-malān eva mocayet na śiva-parān .. 7.1,31.57..
यद्यथा भवितुं योग्यं तत्तथा न भवेत्स्वयम् ॥ विना भावनया कर्ता स्वतन्त्रस्सन्ततो भवेत् ॥ ७.१,३१.५८॥
यत् यथा भवितुम् योग्यम् तत् तथा न भवेत् स्वयम् ॥ विना भावनया कर्ता स्वतन्त्रः सन्ततः भवेत् ॥ ७।१,३१।५८॥
yat yathā bhavitum yogyam tat tathā na bhavet svayam .. vinā bhāvanayā kartā svatantraḥ santataḥ bhavet .. 7.1,31.58..
स्वभावविमलो यद्वत्सर्वानुग्राहकश्शिवः ॥ स्वभावमलिनास्तद्वदात्मनो जीवसंज्ञिताः ॥ ७.१,३१.५९॥
स्वभाव-विमलः यद्वत् सर्व-अनुग्राहकः शिवः ॥ स्वभाव-मलिनाः तद्वत् आत्मनः जीव-संज्ञिताः ॥ ७।१,३१।५९॥
svabhāva-vimalaḥ yadvat sarva-anugrāhakaḥ śivaḥ .. svabhāva-malināḥ tadvat ātmanaḥ jīva-saṃjñitāḥ .. 7.1,31.59..
अन्यथा संसरन्त्येते नियमान्न शिवः कथम् ॥ कर्ममायानुबन्धोस्य संसारः कथ्यते बुधैः ॥ ७.१,३१.६०॥
अन्यथा संसरन्ति एते नियमात् न शिवः कथम् ॥ कर्म-माया-अनुबन्धः संसारः कथ्यते बुधैः ॥ ७।१,३१।६०॥
anyathā saṃsaranti ete niyamāt na śivaḥ katham .. karma-māyā-anubandhaḥ saṃsāraḥ kathyate budhaiḥ .. 7.1,31.60..
अनुबन्धो ऽयमस्यैव न शिवस्येति हेतुमान् ॥ स हेतुरात्मनामेव निजो नागन्तुको मलः ॥ ७.१,३१.६१॥
अनुबन्धः अयम् अस्य एव न शिवस्य इति हेतुमान् ॥ स हेतुः आत्मनाम् एव निजः ना आगन्तुकः मलः ॥ ७।१,३१।६१॥
anubandhaḥ ayam asya eva na śivasya iti hetumān .. sa hetuḥ ātmanām eva nijaḥ nā āgantukaḥ malaḥ .. 7.1,31.61..
आगन्तुकत्वे कस्यापि भाव्यं केनापि हेतुना ॥ यो ऽयं हेतुरसावेकस्त्वविचित्रस्वभावतः ॥ ७.१,३१.६२॥
आगन्तुक-त्वे कस्य अपि भाव्यम् केन अपि हेतुना ॥ यः अयम् हेतुः असौ एकः तु अविचित्र-स्वभावतः ॥ ७।१,३१।६२॥
āgantuka-tve kasya api bhāvyam kena api hetunā .. yaḥ ayam hetuḥ asau ekaḥ tu avicitra-svabhāvataḥ .. 7.1,31.62..
आत्मतायाः समत्वे ऽपि बद्धा मुक्ताः परे यतः ॥ बद्धेष्वेव पुनः केचिल्लयभोगाधिकारतः ॥ ७.१,३१.६३॥
आत्मतायाः समत्वे अपि बद्धाः मुक्ताः परे यतस् ॥ बद्धेषु एव पुनर् केचिद् लय-भोग-अधिकारतः ॥ ७।१,३१।६३॥
ātmatāyāḥ samatve api baddhāḥ muktāḥ pare yatas .. baddheṣu eva punar kecid laya-bhoga-adhikārataḥ .. 7.1,31.63..
ज्ञानैश्वर्यादिवैषम्यं भजन्ते सोत्तराधराः ॥ केचिन्मूर्त्यात्मतां यान्ति केचिदासन्नगोचराः ॥ ७.१,३१.६४॥
ज्ञान-ऐश्वर्य-आदि-वैषम्यम् भजन्ते स उत्तर-अधराः ॥ केचिद् मूर्ति-आत्म-ताम् यान्ति केचिद् आसन्न-गोचराः ॥ ७।१,३१।६४॥
jñāna-aiśvarya-ādi-vaiṣamyam bhajante sa uttara-adharāḥ .. kecid mūrti-ātma-tām yānti kecid āsanna-gocarāḥ .. 7.1,31.64..
मूर्त्यात्मसु शिवाः केचिदध्वनां मूर्धसु स्थिताः ॥ मध्ये महेश्वरा रुद्रास्त्वर्वाचीनपदे स्थिताः ॥ ७.१,३१.६५॥
मूर्ति-आत्मसु शिवाः केचिद् अध्वनाम् मूर्धसु स्थिताः ॥ मध्ये महेश्वराः रुद्राः तु अर्वाचीन-पदे स्थिताः ॥ ७।१,३१।६५॥
mūrti-ātmasu śivāḥ kecid adhvanām mūrdhasu sthitāḥ .. madhye maheśvarāḥ rudrāḥ tu arvācīna-pade sthitāḥ .. 7.1,31.65..
आसन्ने ऽपि च मायायाः परस्मात्कारणात्त्रयम् ॥ तत्राप्यात्मा स्थितो ऽधस्तादन्तरात्मा च मध्यतः ॥ ७.१,३१.६६॥
आसन्ने अपि च मायायाः परस्मात् कारणात् त्रयम् ॥ तत्र अपि आत्मा स्थितः अधस्तात् अन्तरात्मा च मध्यतस् ॥ ७।१,३१।६६॥
āsanne api ca māyāyāḥ parasmāt kāraṇāt trayam .. tatra api ātmā sthitaḥ adhastāt antarātmā ca madhyatas .. 7.1,31.66..
परस्तात्परमात्मेति ब्रह्मविष्णुमहेश्वराः ॥ वर्तन्ते वसवः केचित्परमात्मपदाश्रयाः ॥ ७.१,३१.६७॥
परस्तात् परमात्मा इति ब्रह्म-विष्णु-महेश्वराः ॥ वर्तन्ते वसवः केचिद् परमात्म-पद-आश्रयाः ॥ ७।१,३१।६७॥
parastāt paramātmā iti brahma-viṣṇu-maheśvarāḥ .. vartante vasavaḥ kecid paramātma-pada-āśrayāḥ .. 7.1,31.67..
अन्तरात्मपदे केचित्केचिदात्मपदे तथा ॥ शान्त्यतीतपदे शैवाः शान्ते माहेश्वरे ततः ॥ ७.१,३१.६८॥
अन्तरात्म-पदे केचिद् केचिद् आत्म-पदे तथा ॥ शान्ति-अतीत-पदे शैवाः शान्ते माहेश्वरे ततस् ॥ ७।१,३१।६८॥
antarātma-pade kecid kecid ātma-pade tathā .. śānti-atīta-pade śaivāḥ śānte māheśvare tatas .. 7.1,31.68..
विद्यायान्तु यथा रौद्राः प्रतिष्ठायां तु वैष्णवाः ॥ निवृत्तौ च तथात्मानो ब्रह्मा ब्रह्मांगयोनयः ॥ ७.१,३१.६९॥
विद्यायान्तु यथा रौद्राः प्रतिष्ठायाम् तु वैष्णवाः ॥ निवृत्तौ च तथा आत्मानः ब्रह्मा ब्रह्म-अंग-योनयः ॥ ७।१,३१।६९॥
vidyāyāntu yathā raudrāḥ pratiṣṭhāyām tu vaiṣṇavāḥ .. nivṛttau ca tathā ātmānaḥ brahmā brahma-aṃga-yonayaḥ .. 7.1,31.69..
देवयोन्यष्टकं मुख्यं मानुष्यमथ मध्यमम् ॥ पक्ष्यादयो ऽधमाः पञ्चयोनयस्ताश्चतुर्दश ॥ ७.१,३१.७०॥
देवयोनि-अष्टकम् मुख्यम् मानुष्यम् अथ मध्यमम् ॥ पक्षि-आदयः अधमाः पञ्चयोनयः ताः चतुर्दश ॥ ७।१,३१।७०॥
devayoni-aṣṭakam mukhyam mānuṣyam atha madhyamam .. pakṣi-ādayaḥ adhamāḥ pañcayonayaḥ tāḥ caturdaśa .. 7.1,31.70..
उत्तराधरभावो ऽपि ज्ञेयस्संसारिणो मलः ॥ यथामभावो मुक्तस्य पूर्वं पश्चात्तु पक्वता ॥ ७.१,३१.७१॥
उत्तर-अधर-भावः अपि ज्ञेयः संसारिणः मलः ॥ यथा आम-भावः मुक्तस्य पूर्वम् पश्चात् तु पक्व-ता ॥ ७।१,३१।७१॥
uttara-adhara-bhāvaḥ api jñeyaḥ saṃsāriṇaḥ malaḥ .. yathā āma-bhāvaḥ muktasya pūrvam paścāt tu pakva-tā .. 7.1,31.71..
मलो ऽप्यामश्च पक्वश्च भवेत्संसारकारणम् ॥ आमे त्वधरता पुंसां पक्वे तूत्तरता क्रमात् ॥ ७.१,३१.७२॥
मलः अपि आमः च पक्वः च भवेत् संसार-कारणम् ॥ आमे तु अधर-ता पुंसाम् पक्वे तु उत्तर-ता क्रमात् ॥ ७।१,३१।७२॥
malaḥ api āmaḥ ca pakvaḥ ca bhavet saṃsāra-kāraṇam .. āme tu adhara-tā puṃsām pakve tu uttara-tā kramāt .. 7.1,31.72..
पश्वात्मानस्त्रिधाभिन्ना एकद्वित्रिमलाः क्रमात् ॥ अत्रोत्तरा एकमला द्विमला मध्यमा मताः ॥ त्रिमलास्त्वधमा ज्ञेया यथोत्तरमधिष्ठिताः ॥ ७.१,३१.७३॥
पशु-आत्मानः त्रिधा भिन्नाः एक-द्वि-त्रि-मलाः क्रमात् ॥ अत्र उत्तराः एक-मलाः द्वि-मलाः मध्यमाः मताः ॥ त्रि-मलाः तु अधमाः ज्ञेयाः यथोत्तरम् अधिष्ठिताः ॥ ७।१,३१।७३॥
paśu-ātmānaḥ tridhā bhinnāḥ eka-dvi-tri-malāḥ kramāt .. atra uttarāḥ eka-malāḥ dvi-malāḥ madhyamāḥ matāḥ .. tri-malāḥ tu adhamāḥ jñeyāḥ yathottaram adhiṣṭhitāḥ .. 7.1,31.73..
त्रिमलानधितिष्ठंति द्विमलैकमलाः क्रमात् ॥ इत्थमौपाधिको भेदो विश्वस्य परिकल्पितः ॥ ७.१,३१.७४॥
त्रि-मलान् अधितिष्ठंति द्वि-मल-एक-मलाः क्रमात् ॥ इत्थम् औपाधिकः भेदः विश्वस्य परिकल्पितः ॥ ७।१,३१।७४॥
tri-malān adhitiṣṭhaṃti dvi-mala-eka-malāḥ kramāt .. ittham aupādhikaḥ bhedaḥ viśvasya parikalpitaḥ .. 7.1,31.74..
एकद्वित्रिमलान्सर्वाञ्छिव एको ऽधितिष्ठति ॥ अशिवात्मकमप्येतच्छिवेनाधिष्ठितं यथा ॥ ७.१,३१.७५॥
एक-द्वि-त्रि-मलान् सर्वान् शिवः एकः अधितिष्ठति ॥ अशिव-आत्मकम् अपि एतत् शिवेन अधिष्ठितम् यथा ॥ ७।१,३१।७५॥
eka-dvi-tri-malān sarvān śivaḥ ekaḥ adhitiṣṭhati .. aśiva-ātmakam api etat śivena adhiṣṭhitam yathā .. 7.1,31.75..
अरुद्रात्मकमित्येवं रुद्रैर्जगदधिष्ठितम् ॥ अण्डान्ता हि महाभूमिश्शतरुद्राद्यधिष्ठिता ॥ ७.१,३१.७६॥
अ रुद्र-आत्मकम् इति एवम् रुद्रैः जगत् अधिष्ठितम् ॥ अण्ड-अन्ता हि महाभूमिः शत-रुद्र-आदि-अधिष्ठिता ॥ ७।१,३१।७६॥
a rudra-ātmakam iti evam rudraiḥ jagat adhiṣṭhitam .. aṇḍa-antā hi mahābhūmiḥ śata-rudra-ādi-adhiṣṭhitā .. 7.1,31.76..
मायान्तमन्तरिक्षं तु ह्यमरेशादिभिः क्रमात् ॥ अंगुष्ठमात्रपर्यन्तैस्समंतात्संततं ततम् ॥ ७.१,३१.७७॥
माया-अन्तम् अन्तरिक्षम् तु हि अमर-ईश-आदिभिः क्रमात् ॥ अंगुष्ठ-मात्र-पर्यन्तैः समंतात् संततम् ततम् ॥ ७।१,३१।७७॥
māyā-antam antarikṣam tu hi amara-īśa-ādibhiḥ kramāt .. aṃguṣṭha-mātra-paryantaiḥ samaṃtāt saṃtatam tatam .. 7.1,31.77..
महामायावसाना द्यौर्वाय्वाद्यैर्भुवनाधिपैः ॥ अनाश्रितान्तैरध्वान्तर्वर्तिभिस्समधिष्ठिताः ॥ ७.१,३१.७८॥
महामाया-अवसाना द्यौः वायु-आद्यैः भुवन-अधिपैः ॥ अनाश्रित-अन्तैः अध्व-अन्तर्वर्तिभिः समधिष्ठिताः ॥ ७।१,३१।७८॥
mahāmāyā-avasānā dyauḥ vāyu-ādyaiḥ bhuvana-adhipaiḥ .. anāśrita-antaiḥ adhva-antarvartibhiḥ samadhiṣṭhitāḥ .. 7.1,31.78..
ते हि साक्षाद्दिविषदस्त्वन्तरिक्षसदस्तथा ॥ पृथिवीपद इत्येवं देवा देवव्रतैः स्तुता ॥ ७.१,३१.७९॥
ते हि साक्षात् दिविषदः तु अन्तरिक्ष-सदः तथा ॥ पृथिवी-पदः इति एवम् देवाः देव-व्रतैः स्तुता ॥ ७।१,३१।७९॥
te hi sākṣāt diviṣadaḥ tu antarikṣa-sadaḥ tathā .. pṛthivī-padaḥ iti evam devāḥ deva-vrataiḥ stutā .. 7.1,31.79..
एवन्त्रिभिर्मलैरामैः पक्वैरेव पृथक्पृथक् ॥ निदानभूतैस्संसाररोगः पुंसां प्रवर्तते ॥ ७.१,३१.८०॥
एवम् त्रिभिः मलैः आमैः पक्वैः एव पृथक् पृथक् ॥ निदान-भूतैः संसार-रोगः पुंसाम् प्रवर्तते ॥ ७।१,३१।८०॥
evam tribhiḥ malaiḥ āmaiḥ pakvaiḥ eva pṛthak pṛthak .. nidāna-bhūtaiḥ saṃsāra-rogaḥ puṃsām pravartate .. 7.1,31.80..
अस्य रोगस्य भैषज्यं ज्ञानमेव न चापरम् ॥ भिषगाज्ञापकः शम्भुश्शिवः परमकारणम् ॥ ७.१,३१.८१॥
अस्य रोगस्य भैषज्यम् ज्ञानम् एव न च अपरम् ॥ भिषज् आज्ञापकः शम्भुः शिवः परम-कारणम् ॥ ७।१,३१।८१॥
asya rogasya bhaiṣajyam jñānam eva na ca aparam .. bhiṣaj ājñāpakaḥ śambhuḥ śivaḥ parama-kāraṇam .. 7.1,31.81..
अदुःखेना ऽपि शक्तो ऽसौ पशून्मोचयितुं शिवः ॥ कथं दुःखं करोतीति नात्र कार्या विचारणा ॥ ७.१,३१.८२॥
अदुःखेन अपि शक्तः असौ पशून् मोचयितुम् शिवः ॥ कथम् दुःखम् करोति इति न अत्र कार्या विचारणा ॥ ७।१,३१।८२॥
aduḥkhena api śaktaḥ asau paśūn mocayitum śivaḥ .. katham duḥkham karoti iti na atra kāryā vicāraṇā .. 7.1,31.82..
दुःखमेव हि सर्वो ऽपि संसार इति निश्चितम् ॥ कथं दुःखमदुःखं स्यात्स्वभावो ह्यविपर्ययः ॥ ७.१,३१.८३॥
दुःखम् एव हि सर्वः अपि संसारः इति निश्चितम् ॥ कथम् दुःखम् अदुःखम् स्यात् स्वभावः हि अविपर्ययः ॥ ७।१,३१।८३॥
duḥkham eva hi sarvaḥ api saṃsāraḥ iti niścitam .. katham duḥkham aduḥkham syāt svabhāvaḥ hi aviparyayaḥ .. 7.1,31.83..
न हि रोगी ह्यरोगी स्याद्भिषग्भैषज्यकारणात् ॥ रोगार्तं तु भिषग्रोगाद्भैषजैस्सुखमुद्धरेत् ॥ ७.१,३१.८४॥
न हि रोगी हि अरोगी स्यात् भिषज् भैषज्य-कारणात् ॥ रोग-आर्तम् तु भिषज् रोगात् भैषजैः सुखम् उद्धरेत् ॥ ७।१,३१।८४॥
na hi rogī hi arogī syāt bhiṣaj bhaiṣajya-kāraṇāt .. roga-ārtam tu bhiṣaj rogāt bhaiṣajaiḥ sukham uddharet .. 7.1,31.84..
एवं स्वभावमलिनान्स्वभावाद्दुःखिनः पशून् ॥ स्वाज्ञौषधविधानेन दुःखान्मोचयते शिवः ॥ ७.१,३१.८५॥
एवम् स्वभाव-मलिनान् स्वभावात् दुःखिनः पशून् ॥ स्व-अज्ञ-औषध-विधानेन दुःखात् मोचयते शिवः ॥ ७।१,३१।८५॥
evam svabhāva-malinān svabhāvāt duḥkhinaḥ paśūn .. sva-ajña-auṣadha-vidhānena duḥkhāt mocayate śivaḥ .. 7.1,31.85..
न भिषक्कारणं रोगे शिवः संसारकारणम् ॥ इत्येतदपि वैषम्यं न दोषायास्य कल्पते ॥ ७.१,३१.८६॥
न भिषज्-कारणम् रोगे शिवः संसार-कारणम् ॥ इति एतत् अपि वैषम्यम् न दोषाय अस्य कल्पते ॥ ७।१,३१।८६॥
na bhiṣaj-kāraṇam roge śivaḥ saṃsāra-kāraṇam .. iti etat api vaiṣamyam na doṣāya asya kalpate .. 7.1,31.86..
दुःखे स्वभावसंसिद्धे कथन्तत्कारणं शिवः ॥ स्वाभाविको मलः पुंसां स हि संसारयत्यमून् ॥ ७.१,३१.८७॥
दुःखे स्वभाव-संसिद्धे कथम् तद्-कारणम् शिवः ॥ स्वाभाविकः मलः पुंसाम् स हि संसारयति अमून् ॥ ७।१,३१।८७॥
duḥkhe svabhāva-saṃsiddhe katham tad-kāraṇam śivaḥ .. svābhāvikaḥ malaḥ puṃsām sa hi saṃsārayati amūn .. 7.1,31.87..
संसारकारणं यत्तु मलं मायाद्यचेतनम् ॥ तत्स्वयं न प्रवर्तेत शिवसान्निध्यमन्तरा ॥ ७.१,३१.८८॥
संसार-कारणम् यत् तु मलम् माया-आदि-अचेतनम् ॥ तत् स्वयम् न प्रवर्तेत शिव-सान्निध्यम् अन्तरा ॥ ७।१,३१।८८॥
saṃsāra-kāraṇam yat tu malam māyā-ādi-acetanam .. tat svayam na pravarteta śiva-sānnidhyam antarā .. 7.1,31.88..
यथा मणिरयस्कांतस्सान्निध्यादुपकारकः ॥ अयसश्चलतस्तद्वच्छिवो ऽप्यस्येति सूरयः ॥ ७.१,३१.८९॥
यथा मणिः अयस्कांतः सान्निध्यात् उपकारकः ॥ अयसः चलतः तद्वत् शिवः अपि अस्य इति सूरयः ॥ ७।१,३१।८९॥
yathā maṇiḥ ayaskāṃtaḥ sānnidhyāt upakārakaḥ .. ayasaḥ calataḥ tadvat śivaḥ api asya iti sūrayaḥ .. 7.1,31.89..
न निवर्तयितुं शक्यं सान्निध्यं सदकारणम् ॥ अधिष्ठाता ततो नित्यमज्ञातो जगतश्शिवः ॥ ७.१,३१.९०॥
न निवर्तयितुम् शक्यम् सान्निध्यम् सत् अकारणम् ॥ अधिष्ठाता ततस् नित्यम् अज्ञातः जगतः शिवः ॥ ७।१,३१।९०॥
na nivartayitum śakyam sānnidhyam sat akāraṇam .. adhiṣṭhātā tatas nityam ajñātaḥ jagataḥ śivaḥ .. 7.1,31.90..
न शिवेन विना किंचित्प्रवृत्तमिह विद्यते ॥ तत्प्रेरितमिदं सर्वं तथापि न स मुह्यति ॥ ७.१,३१.९१॥
न शिवेन विना किंचिद् प्रवृत्तम् इह विद्यते ॥ तद्-प्रेरितम् इदम् सर्वम् तथा अपि न स मुह्यति ॥ ७।१,३१।९१॥
na śivena vinā kiṃcid pravṛttam iha vidyate .. tad-preritam idam sarvam tathā api na sa muhyati .. 7.1,31.91..
शक्तिराज्ञात्मिका तस्य नियन्त्री विश्वतोमुखी ॥ तया ततमिदं शश्वत्तथापि स न दुष्यति ॥ ७.१,३१.९२॥
शक्तिः राज्ञा-आत्मिका तस्य नियन्त्री विश्वतोमुखी ॥ तया ततम् इदम् शश्वत् तथा अपि स न दुष्यति ॥ ७।१,३१।९२॥
śaktiḥ rājñā-ātmikā tasya niyantrī viśvatomukhī .. tayā tatam idam śaśvat tathā api sa na duṣyati .. 7.1,31.92..
अनिदं प्रथमं सर्वमीशितव्यं स ईश्वरः ॥ ईशनाच्च तदीयाज्ञा तथापि स न दुष्यति ॥ ७.१,३१.९३॥
अन् इदम् प्रथमम् सर्वम् ईशितव्यम् सः ईश्वरः ॥ ईशनात् च तदीय-आज्ञा तथा अपि स न दुष्यति ॥ ७।१,३१।९३॥
an idam prathamam sarvam īśitavyam saḥ īśvaraḥ .. īśanāt ca tadīya-ājñā tathā api sa na duṣyati .. 7.1,31.93..
यो ऽन्यथा मन्यते मोहात्स विनष्यति दुर्मतिः ॥ तच्छक्तिवैभवादेव तथापि स न दुष्यति ॥ ७.१,३१.९४॥
यः अन्यथा मन्यते मोहात् स विनष्यति दुर्मतिः ॥ तद्-शक्ति-वैभवात् एव तथा अपि स न दुष्यति ॥ ७।१,३१।९४॥
yaḥ anyathā manyate mohāt sa vinaṣyati durmatiḥ .. tad-śakti-vaibhavāt eva tathā api sa na duṣyati .. 7.1,31.94..
एतस्मिन्नंतरे व्योम्नः श्रुताः वागरीरिणी ॥ सत्यमोममृतं सौम्यमित्याविरभवत्स्फुटम् ॥ ७.१,३१.९५॥
एतस्मिन् अन्तरे व्योम्नः श्रुताः वागरीरिणी ॥ सत्यम् ओम् अमृतम् सौम्यम् इति आविरभवत् स्फुटम् ॥ ७।१,३१।९५॥
etasmin antare vyomnaḥ śrutāḥ vāgarīriṇī .. satyam om amṛtam saumyam iti āvirabhavat sphuṭam .. 7.1,31.95..
ततो हृष्टतराः सर्वे विनष्टाशेषसंशयाः ॥ मुनयो विस्मयाविष्टाः प्रेणेमुः पवनं प्रभुम् ॥ ७.१,३१.९६॥
ततस् हृष्टतराः सर्वे विनष्ट-अशेष-संशयाः ॥ मुनयः विस्मय-आविष्टाः प्रेणेमुः पवनम् प्रभुम् ॥ ७।१,३१।९६॥
tatas hṛṣṭatarāḥ sarve vinaṣṭa-aśeṣa-saṃśayāḥ .. munayaḥ vismaya-āviṣṭāḥ preṇemuḥ pavanam prabhum .. 7.1,31.96..
तथा विगतसन्देहान्कृत्वापि पवनो मुनीन् ॥ नैते प्रतिष्ठितज्ञाना इति मत्वैवमब्रवीत् ॥ ७.१,३१.९७॥
तथा विगत-सन्देहान् कृत्वा अपि पवनः मुनीन् ॥ न एते प्रतिष्ठित-ज्ञानाः इति मत्वा एवम् अब्रवीत् ॥ ७।१,३१।९७॥
tathā vigata-sandehān kṛtvā api pavanaḥ munīn .. na ete pratiṣṭhita-jñānāḥ iti matvā evam abravīt .. 7.1,31.97..
वायुरुवाच्व॥
परोक्षमपरोक्षं च द्विविधं ज्ञानमिष्यते ॥ परोक्षमस्थिरं प्राहुरपरोक्षं तु सुस्थिरम् ॥ ७.१,३१.९८॥
परोक्षम् अपरोक्षम् च द्विविधम् ज्ञानम् इष्यते ॥ परोक्षम् अस्थिरम् प्राहुः अपरोक्षम् तु सु स्थिरम् ॥ ७।१,३१।९८॥
parokṣam aparokṣam ca dvividham jñānam iṣyate .. parokṣam asthiram prāhuḥ aparokṣam tu su sthiram .. 7.1,31.98..
हेतूपदेशगम्यं यत्तत्परोक्षं प्रचक्षते ॥ अपरोक्षं पुनः श्रेष्ठादनुष्ठानाद्भविष्यति ॥ ७.१,३१.९९॥
हेतु-उपदेश-गम्यम् यत् तत् परोक्षम् प्रचक्षते ॥ अपरोक्षम् पुनर् श्रेष्ठात् अनुष्ठानात् भविष्यति ॥ ७।१,३१।९९॥
hetu-upadeśa-gamyam yat tat parokṣam pracakṣate .. aparokṣam punar śreṣṭhāt anuṣṭhānāt bhaviṣyati .. 7.1,31.99..
नापरोक्षादृते मोक्ष इति कृत्वा विनिश्चयम् ॥ श्रेष्ठानुष्ठानसिद्ध्यर्थं प्रयतध्वमतन्द्रिताः ॥ ७.१,३१.१००॥
न अपरोक्षात् ऋते मोक्षः इति कृत्वा विनिश्चयम् ॥ श्रेष्ठ-अनुष्ठान-सिद्धि-अर्थम् प्रयतध्वम् अतन्द्रिताः ॥ ७।१,३१।१००॥
na aparokṣāt ṛte mokṣaḥ iti kṛtvā viniścayam .. śreṣṭha-anuṣṭhāna-siddhi-artham prayatadhvam atandritāḥ .. 7.1,31.100..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे ज्ञानोपदेशो नामैकत्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे ज्ञानोपदेशः नाम एकत्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe jñānopadeśaḥ nāma ekatriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In