| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
किं तच्छ्रेष्टमनुष्ठानं मोक्षो येनपरोक्षितः ॥ तत्तस्य साधनं चाद्य वक्तुमर्हसि मारुत ॥ ७.१,३२.१॥
किम् तत् श्रेष्टम् अनुष्ठानम् मोक्षः येन परोक्षितः ॥ तत् तस्य साधनम् च अद्य वक्तुम् अर्हसि मारुत ॥ ७।१,३२।१॥
kim tat śreṣṭam anuṣṭhānam mokṣaḥ yena parokṣitaḥ .. tat tasya sādhanam ca adya vaktum arhasi māruta .. 7.1,32.1..
वायुरुवाच॥
शैवो हि परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ यत्रापरोक्षो लक्ष्येत साक्षान्मोक्षप्रदः शिवः ॥ ७.१,३२.२॥
शैवः हि परमः धर्मः श्रेष्ठ-अनुष्ठान-शब्दितः ॥ यत्र अपरोक्षः लक्ष्येत साक्षात् मोक्ष-प्रदः शिवः ॥ ७।१,३२।२॥
śaivaḥ hi paramaḥ dharmaḥ śreṣṭha-anuṣṭhāna-śabditaḥ .. yatra aparokṣaḥ lakṣyeta sākṣāt mokṣa-pradaḥ śivaḥ .. 7.1,32.2..
स तु पञ्चविधो ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥ क्रियातपोजपध्यानज्ञानात्मभिरनुत्तरैः ॥ ७.१,३२.३॥
स तु पञ्चविधः ज्ञेयः पञ्चभिः पर्वभिः क्रमात् ॥ क्रिया-तपः-जप-ध्यान-ज्ञान-आत्मभिः अनुत्तरैः ॥ ७।१,३२।३॥
sa tu pañcavidhaḥ jñeyaḥ pañcabhiḥ parvabhiḥ kramāt .. kriyā-tapaḥ-japa-dhyāna-jñāna-ātmabhiḥ anuttaraiḥ .. 7.1,32.3..
तैरेव सोत्तरैस्सिद्धो धर्मस्तु परमो मतः ॥ परोक्षमपरोक्षं च ज्ञानं यत्र च मोक्षदम् ॥ ७.१,३२.४॥
तैः एव सोत्तरैः सिद्धः धर्मः तु परमः मतः ॥ परोक्षम् अपरोक्षम् च ज्ञानम् यत्र च मोक्ष-दम् ॥ ७।१,३२।४॥
taiḥ eva sottaraiḥ siddhaḥ dharmaḥ tu paramaḥ mataḥ .. parokṣam aparokṣam ca jñānam yatra ca mokṣa-dam .. 7.1,32.4..
परमो ऽपरमश्चोभौ धर्मौ हि श्रुतिचोदितौ ॥ धर्मशब्दाभिधेयेर्थे प्रमाणं श्रुतिरेव नः ॥ ७.१,३२.५॥
परमः अपरमः च उभौ धर्मौ हि श्रुति-चोदितौ ॥ धर्म-शब्द-अभिधेय-इर्थे प्रमाणम् श्रुतिः एव नः ॥ ७।१,३२।५॥
paramaḥ aparamaḥ ca ubhau dharmau hi śruti-coditau .. dharma-śabda-abhidheya-irthe pramāṇam śrutiḥ eva naḥ .. 7.1,32.5..
परमो योगपर्यन्तो धर्मः श्रुतिशिरोगतः ॥ धर्मस्त्वपरमस्तद्वदधः श्रुतिमुखोत्थितः ॥ ७.१,३२.६॥
परमः योग-पर्यन्तः धर्मः श्रुतिशिरः-गतः ॥ धर्मः तु अपरमः तद्वत् अधस् श्रुति-मुख-उत्थितः ॥ ७।१,३२।६॥
paramaḥ yoga-paryantaḥ dharmaḥ śrutiśiraḥ-gataḥ .. dharmaḥ tu aparamaḥ tadvat adhas śruti-mukha-utthitaḥ .. 7.1,32.6..
अपश्वात्माधिकारत्वाद्यो धरमः परमो मतः ॥ साधारणस्ततो ऽन्यस्तु सर्वेषामधिकारतः ॥ ७.१,३२.७॥
अ पशु-आत्म-अधिकार-त्वात् यः धरमः परमः मतः ॥ साधारणः ततस् अन्यः तु सर्वेषाम् अधिकारतः ॥ ७।१,३२।७॥
a paśu-ātma-adhikāra-tvāt yaḥ dharamaḥ paramaḥ mataḥ .. sādhāraṇaḥ tatas anyaḥ tu sarveṣām adhikārataḥ .. 7.1,32.7..
स चायं परमो धर्मः परधर्मस्य साधनम् ॥ धर्मशास्त्रादिभिस्सम्यक्सांग एवोपबृंहितः ॥ ७.१,३२.८॥
स च अयम् परमः धर्मः पर-धर्मस्य साधनम् ॥ धर्म-शास्त्र-आदिभिः सम्यक् सांगः एव उपबृंहितः ॥ ७।१,३२।८॥
sa ca ayam paramaḥ dharmaḥ para-dharmasya sādhanam .. dharma-śāstra-ādibhiḥ samyak sāṃgaḥ eva upabṛṃhitaḥ .. 7.1,32.8..
शैवो यः परमो धर्मः श्रेष्ठानुष्ठानशब्दितः ॥ इतिहासपुराणाभ्यां कथंचिदुपबृंहितः ॥ ७.१,३२.९॥
शैवः यः परमः धर्मः श्रेष्ठ-अनुष्ठान-शब्दितः ॥ इतिहास-पुराणाभ्याम् कथंचिद् उपबृंहितः ॥ ७।१,३२।९॥
śaivaḥ yaḥ paramaḥ dharmaḥ śreṣṭha-anuṣṭhāna-śabditaḥ .. itihāsa-purāṇābhyām kathaṃcid upabṛṃhitaḥ .. 7.1,32.9..
शैवागमैस्तु संपन्नः सहांगोपांविस्तरः ॥ तत्संस्काराधिकारैश्च सम्यगेवोपबृंहितः ॥ ७.१,३२.१०॥
शैव-आगमैः तु संपन्नः ॥ तद्-संस्कार-अधिकारैः च सम्यक् एव उपबृंहितः ॥ ७।१,३२।१०॥
śaiva-āgamaiḥ tu saṃpannaḥ .. tad-saṃskāra-adhikāraiḥ ca samyak eva upabṛṃhitaḥ .. 7.1,32.10..
शैवागमो हि द्विविधः श्रौतो ऽश्रौतश्च संस्कृतः ॥ श्रुतिसारमयः श्रौतस्स्वतंत्र इतरो मतः ॥ ७.१,३२.११॥
शैव-आगमः हि द्विविधः श्रौतः अश्रौतः च संस्कृतः ॥ श्रुति-सार-मयः श्रौतः स्वतंत्रः इतरः मतः ॥ ७।१,३२।११॥
śaiva-āgamaḥ hi dvividhaḥ śrautaḥ aśrautaḥ ca saṃskṛtaḥ .. śruti-sāra-mayaḥ śrautaḥ svataṃtraḥ itaraḥ mataḥ .. 7.1,32.11..
स्वतंत्रो दशधा पूर्वं तथाष्टादशधा पुनः ॥ कामिकादिसमाख्याभिस्सिद्धः सिद्धान्तसंज्ञितः ॥ ७.१,३२.१२॥
स्वतंत्रः दशधा पूर्वम् तथा अष्टादशधा पुनर् ॥ कामिका-आदि-समाख्याभिः सिद्धः सिद्धान्त-संज्ञितः ॥ ७।१,३२।१२॥
svataṃtraḥ daśadhā pūrvam tathā aṣṭādaśadhā punar .. kāmikā-ādi-samākhyābhiḥ siddhaḥ siddhānta-saṃjñitaḥ .. 7.1,32.12..
श्रुतिसारमयो यस्तु शतकोटिप्रविस्तरः ॥ परं पाशुपतं यत्र व्रतं ज्ञानं च कथ्यते ॥ ७.१,३२.१३॥
श्रुति-सार-मयः यः तु शत-कोटि-प्रविस्तरः ॥ परम् पाशुपतम् यत्र व्रतम् ज्ञानम् च कथ्यते ॥ ७।१,३२।१३॥
śruti-sāra-mayaḥ yaḥ tu śata-koṭi-pravistaraḥ .. param pāśupatam yatra vratam jñānam ca kathyate .. 7.1,32.13..
युगावर्तेषु शिष्येत योगाचार्यस्वरूपिणा ॥ तत्रतत्रावतीर्णेन शिवेनैव प्रवर्त्यते ॥ ७.१,३२.१४॥
युग-आवर्तेषु शिष्येत योग-आचार्य-स्वरूपिणा ॥ तत्र तत्र अवतीर्णेन शिवेन एव प्रवर्त्यते ॥ ७।१,३२।१४॥
yuga-āvarteṣu śiṣyeta yoga-ācārya-svarūpiṇā .. tatra tatra avatīrṇena śivena eva pravartyate .. 7.1,32.14..
संक्षिप्यास्य प्रवक्तारश्चत्वारः परमर्षय ॥ रुरुर्दधीचो ऽगस्त्यश्च उपमन्युर्महायशाः ॥ ७.१,३२.१५॥
संक्षिप्य अस्य प्रवक्तारः चत्वारः परम-ऋषय ॥ रुरुः दधीचः अगस्त्यः च उपमन्युः महा-यशाः ॥ ७।१,३२।१५॥
saṃkṣipya asya pravaktāraḥ catvāraḥ parama-ṛṣaya .. ruruḥ dadhīcaḥ agastyaḥ ca upamanyuḥ mahā-yaśāḥ .. 7.1,32.15..
ते च पाशुपता ज्ञेयास्संहितानां प्रवर्तकाः ॥ तत्संततीया गुरवः शतशो ऽथ सहस्रशः ॥ ७.१,३२.१६॥
ते च पाशुपताः ज्ञेयाः संहितानाम् प्रवर्तकाः ॥ तद्-संततीयाः गुरवः शतशस् अथ सहस्रशस् ॥ ७।१,३२।१६॥
te ca pāśupatāḥ jñeyāḥ saṃhitānām pravartakāḥ .. tad-saṃtatīyāḥ guravaḥ śataśas atha sahasraśas .. 7.1,32.16..
तत्रोक्तः परमो धर्मश्चर्याद्यात्मा चतुर्विधः ॥ तेषु पाशुपतो योगः शिवं प्रत्यक्षयेद्दृढम् ॥ ७.१,३२.१७॥
तत्र उक्तः परमः धर्मः चर्या-आदि-आत्मा चतुर्विधः ॥ तेषु पाशुपतः योगः शिवम् प्रत्यक्षयेत् दृढम् ॥ ७।१,३२।१७॥
tatra uktaḥ paramaḥ dharmaḥ caryā-ādi-ātmā caturvidhaḥ .. teṣu pāśupataḥ yogaḥ śivam pratyakṣayet dṛḍham .. 7.1,32.17..
तस्माच्छ्रेष्ठमनुष्ठानं योगः पाशुपतो मतः ॥ तत्राप्युपायको युक्तो ब्रह्मणा स तु कथ्यते ॥ ७.१,३२.१८॥
तस्मात् श्रेष्ठम् अनुष्ठानम् योगः पाशुपतः मतः ॥ तत्र अपि उपायकः युक्तः ब्रह्मणा स तु कथ्यते ॥ ७।१,३२।१८॥
tasmāt śreṣṭham anuṣṭhānam yogaḥ pāśupataḥ mataḥ .. tatra api upāyakaḥ yuktaḥ brahmaṇā sa tu kathyate .. 7.1,32.18..
नामाष्टकमयो योगश्शिवेन परिकल्पितः ॥ तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ ७.१,३२.१९॥
नाम-अष्टक-मयः योगः शिवेन परिकल्पितः ॥ तेन योगेन सहसा शैवी प्रज्ञा प्रजायते ॥ ७।१,३२।१९॥
nāma-aṣṭaka-mayaḥ yogaḥ śivena parikalpitaḥ .. tena yogena sahasā śaivī prajñā prajāyate .. 7.1,32.19..
प्रज्ञया परमं ज्ञानमचिराल्लभते स्थिरम् ॥ प्रसीदति शिवस्तस्य यस्य ज्ञानं प्रतिष्ठितम् ॥ ७.१,३२.२०॥
प्रज्ञया परमम् ज्ञानम् अचिरात् लभते स्थिरम् ॥ प्रसीदति शिवः तस्य यस्य ज्ञानम् प्रतिष्ठितम् ॥ ७।१,३२।२०॥
prajñayā paramam jñānam acirāt labhate sthiram .. prasīdati śivaḥ tasya yasya jñānam pratiṣṭhitam .. 7.1,32.20..
प्रसादात्परमो योगो यः शिवं चापरोक्षयेत् ॥ शिवापरोक्षात्संसारकारणेन वियुज्यते ॥ ७.१,३२.२१॥
प्रसादात् परमः योगः यः शिवम् च अपरोक्षयेत् ॥ शिव-अपरोक्षात् संसार-कारणेन वियुज्यते ॥ ७।१,३२।२१॥
prasādāt paramaḥ yogaḥ yaḥ śivam ca aparokṣayet .. śiva-aparokṣāt saṃsāra-kāraṇena viyujyate .. 7.1,32.21..
ततः स्यान्मुक्तसंसारो मुक्तः शिवसमो भवेत् ॥ ब्रह्मप्रोक्त इत्युपायः स एव पृथगुच्यते ॥ ७.१,३२.२२॥
ततस् स्यात् मुक्त-संसारः मुक्तः शिव-समः भवेत् ॥ ब्रह्म-प्रोक्तः इति उपायः सः एव पृथक् उच्यते ॥ ७।१,३२।२२॥
tatas syāt mukta-saṃsāraḥ muktaḥ śiva-samaḥ bhavet .. brahma-proktaḥ iti upāyaḥ saḥ eva pṛthak ucyate .. 7.1,32.22..
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ संसारवैद्यः सर्वज्ञः परमात्मेति मुख्यतः ॥ ७.१,३२.२३॥
शिवः महेश्वरः च एव रुद्रः विष्णुः पितामहः ॥ संसार-वैद्यः सर्वज्ञः परमात्मा इति मुख्यतस् ॥ ७।१,३२।२३॥
śivaḥ maheśvaraḥ ca eva rudraḥ viṣṇuḥ pitāmahaḥ .. saṃsāra-vaidyaḥ sarvajñaḥ paramātmā iti mukhyatas .. 7.1,32.23..
नामाष्टकमिदं मुख्यं शिवस्य प्रतिपादकम् ॥ आद्यन्तु पञ्चकं ज्ञेयं शान्त्यतीताद्यनुक्रमात् ॥ ७.१,३२.२४॥
नाम-अष्टकम् इदम् मुख्यम् शिवस्य प्रतिपादकम् ॥ आदि-अन्तु पञ्चकम् ज्ञेयम् शान्ति-अतीत-आदि-अनुक्रमात् ॥ ७।१,३२।२४॥
nāma-aṣṭakam idam mukhyam śivasya pratipādakam .. ādi-antu pañcakam jñeyam śānti-atīta-ādi-anukramāt .. 7.1,32.24..
संज्ञा सदाशिवादीनां पञ्चोपाधिपरिग्रहात् ॥ उपाधिविनिवृत्तौ तु यथास्वं विनिवर्तते ॥ ७.१,३२.२५॥
संज्ञा सदाशिव-आदीनाम् पञ्च-उपाधि-परिग्रहात् ॥ उपाधि-विनिवृत्तौ तु यथास्वम् विनिवर्तते ॥ ७।१,३२।२५॥
saṃjñā sadāśiva-ādīnām pañca-upādhi-parigrahāt .. upādhi-vinivṛttau tu yathāsvam vinivartate .. 7.1,32.25..
पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः ॥ पदानां प्रतिकृत्तौ तु मुच्यन्ते पदिनो यतः ॥ ७.१,३२.२६॥
पदम् एव हि तत् नित्यम् अनित्याः पदिनः स्मृताः ॥ पदानाम् प्रतिकृत्तौ तु मुच्यन्ते पदिनः यतस् ॥ ७।१,३२।२६॥
padam eva hi tat nityam anityāḥ padinaḥ smṛtāḥ .. padānām pratikṛttau tu mucyante padinaḥ yatas .. 7.1,32.26..
परिवृत्त्यन्तरे भूयस्तत्पदप्राप्तिरुच्यते ॥ आत्मान्तराभिधानं स्याद्यदाद्यं नाम पञ्चकम् ॥ ७.१,३२.२७॥
परिवृत्ति-अन्तरे भूयस् तद्-पद-प्राप्तिः उच्यते ॥ आत्म-अन्तर-अभिधानम् स्यात् यत् आद्यम् नाम पञ्चकम् ॥ ७।१,३२।२७॥
parivṛtti-antare bhūyas tad-pada-prāptiḥ ucyate .. ātma-antara-abhidhānam syāt yat ādyam nāma pañcakam .. 7.1,32.27..
अन्यत्तु त्रितयं नाम्नामुपादानादियोगतः ॥ त्रिविधोपाधिवचनाच्छिव एवानुवर्तते ॥ ७.१,३२.२८॥
अन्यत् तु त्रितयम् नाम्नाम् उपादान-आदि-योगतः ॥ त्रिविध-उपाधि-वचनात् शिवः एव अनुवर्तते ॥ ७।१,३२।२८॥
anyat tu tritayam nāmnām upādāna-ādi-yogataḥ .. trividha-upādhi-vacanāt śivaḥ eva anuvartate .. 7.1,32.28..
अनादिमलसंश्लेषः प्रागभावात्स्वभावतः ॥ अत्यंतं परिशुद्धात्मेत्यतो ऽयं शिव उच्यते ॥ ७.१,३२.२९॥
अनादि-मल-संश्लेषः प्रागभावात् स्वभावतः ॥ अत्यंतम् परिशुद्ध-आत्मा इति अतस् अयम् शिवः उच्यते ॥ ७।१,३२।२९॥
anādi-mala-saṃśleṣaḥ prāgabhāvāt svabhāvataḥ .. atyaṃtam pariśuddha-ātmā iti atas ayam śivaḥ ucyate .. 7.1,32.29..
अथवाशेषकल्याणगुणैकधन ईश्वरः ॥ शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवादिभिः ॥ ७.१,३२.३०॥
अथवा अशेष-कल्याण-गुण-एक-धनः ईश्वरः ॥ शिवः इति उच्यते सद्भिः शिव-तत्त्व-अर्थ-वादिभिः ॥ ७।१,३२।३०॥
athavā aśeṣa-kalyāṇa-guṇa-eka-dhanaḥ īśvaraḥ .. śivaḥ iti ucyate sadbhiḥ śiva-tattva-artha-vādibhiḥ .. 7.1,32.30..
त्रयोविंशतितत्त्वेभ्यः प्रकृतिर्हि परा मता ॥ प्रकृतेस्तु परं प्राहुः पुरुषं पञ्चविंशकम् ॥ ७.१,३२.३१॥
त्रयोविंशति-तत्त्वेभ्यः प्रकृतिः हि परा मता ॥ प्रकृतेः तु परम् प्राहुः पुरुषम् पञ्चविंशकम् ॥ ७।१,३२।३१॥
trayoviṃśati-tattvebhyaḥ prakṛtiḥ hi parā matā .. prakṛteḥ tu param prāhuḥ puruṣam pañcaviṃśakam .. 7.1,32.31..
यं वेदादौ स्वरं प्राहुर्वाच्यवाचकभावतः ॥ वेदैकवेद्ययाथात्म्याद्वेदान्ते च प्रतिष्ठितः ॥ ७.१,३२.३२॥
यम् वेद-आदौ स्वरम् प्राहुः वाच्य-वाचक-भावतः ॥ वेद-एक-वेद्य-याथात्म्यात् वेदान्ते च प्रतिष्ठितः ॥ ७।१,३२।३२॥
yam veda-ādau svaram prāhuḥ vācya-vācaka-bhāvataḥ .. veda-eka-vedya-yāthātmyāt vedānte ca pratiṣṭhitaḥ .. 7.1,32.32..
तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ तदधीनप्रवृत्तित्वात्प्रकृतेः पुरुषस्य च ॥ ७.१,३२.३३॥
तस्य प्रकृति-लीनस्य यः परः स महेश्वरः ॥ तद्-अधीन-प्रवृत्ति-त्वात् प्रकृतेः पुरुषस्य च ॥ ७।१,३२।३३॥
tasya prakṛti-līnasya yaḥ paraḥ sa maheśvaraḥ .. tad-adhīna-pravṛtti-tvāt prakṛteḥ puruṣasya ca .. 7.1,32.33..
अथवा त्रिगुणं तत्त्वमुपेयमिदमव्ययम् ॥ मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,३२.३४॥
अथवा त्रिगुणम् तत्त्वम् उपेयम् इदम् अव्ययम् ॥ मायाम् तु प्रकृतिम् विद्यात् मायिनम् तु महेश्वरम् ॥ ७।१,३२।३४॥
athavā triguṇam tattvam upeyam idam avyayam .. māyām tu prakṛtim vidyāt māyinam tu maheśvaram .. 7.1,32.34..
मायाविक्षोभको ऽनंतो महेश्वरसमन्वयात् ॥ कालात्मा परमात्मादिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ ७.१,३२.३५॥
माया-विक्षोभकः अनंतः महेश्वर-समन्वयात् ॥ काल-आत्मा परमात्म-आदिः स्थूलः सूक्ष्मः प्रकीर्तितः ॥ ७।१,३२।३५॥
māyā-vikṣobhakaḥ anaṃtaḥ maheśvara-samanvayāt .. kāla-ātmā paramātma-ādiḥ sthūlaḥ sūkṣmaḥ prakīrtitaḥ .. 7.1,32.35..
रुद्दुःखं दुःखहेतुर्वा तद्रावयति नः प्रभुः ॥ रुद्र इत्युच्यते सद्भिः शिवः परमकारणम् ॥ ७.१,३२.३६॥
रुद्-दुःखम् दुःख-हेतुः वा तत् रावयति नः प्रभुः ॥ रुद्रः इति उच्यते सद्भिः शिवः परम-कारणम् ॥ ७।१,३२।३६॥
rud-duḥkham duḥkha-hetuḥ vā tat rāvayati naḥ prabhuḥ .. rudraḥ iti ucyate sadbhiḥ śivaḥ parama-kāraṇam .. 7.1,32.36..
तत्त्वादिभूतपर्यन्तं शरीरादिष्वतन्द्रितः ॥ व्याप्याधितिष्ठति शिवस्ततो रुद्र इतस्ततः ॥ ७.१,३२.३७॥
तत्त्व-आदि-भूत-पर्यन्तम् शरीर-आदिषु अतन्द्रितः ॥ व्याप्य अधितिष्ठति शिवः ततस् रुद्रः इतस् ततस् ॥ ७।१,३२।३७॥
tattva-ādi-bhūta-paryantam śarīra-ādiṣu atandritaḥ .. vyāpya adhitiṣṭhati śivaḥ tatas rudraḥ itas tatas .. 7.1,32.37..
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ पितृभावेन सर्वेषां पितामह उदीरितः ॥ ७.१,३२.३८॥
जगतः पितृ-भूतानाम् शिवः मूर्ति-आत्मनाम् अपि ॥ पितृ-भावेन सर्वेषाम् पितामहः उदीरितः ॥ ७।१,३२।३८॥
jagataḥ pitṛ-bhūtānām śivaḥ mūrti-ātmanām api .. pitṛ-bhāvena sarveṣām pitāmahaḥ udīritaḥ .. 7.1,32.38..
निदानज्ञो यथा वैद्यो रोगस्य विनिवर्तकः ॥ उपायैर्भेषजैस्तद्वल्लयभोगाधिकारतः ॥ ७.१,३२.३९॥
निदान-ज्ञः यथा वैद्यः रोगस्य विनिवर्तकः ॥ उपायैः भेषजैः तद्वत् लय-भोग-अधिकारतः ॥ ७।१,३२।३९॥
nidāna-jñaḥ yathā vaidyaḥ rogasya vinivartakaḥ .. upāyaiḥ bheṣajaiḥ tadvat laya-bhoga-adhikārataḥ .. 7.1,32.39..
संसारस्येश्वरो नित्यं समूलस्य निवर्तकः ॥ संसारवैद्य इत्युक्तः सर्वतत्त्वार्थवेदिभिः ॥ ७.१,३२.४०॥
संसारस्य ईश्वरः नित्यम् स मूलस्य निवर्तकः ॥ संसारवैद्यः इति उक्तः सर्व-तत्त्व-अर्थ-वेदिभिः ॥ ७।१,३२।४०॥
saṃsārasya īśvaraḥ nityam sa mūlasya nivartakaḥ .. saṃsāravaidyaḥ iti uktaḥ sarva-tattva-artha-vedibhiḥ .. 7.1,32.40..
दशार्थज्ञानसिद्ध्यर्थमिन्द्रियेष्वेषु सत्स्वपि ॥ त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ ७.१,३२.४१॥
दशार्थ-ज्ञान-सिद्धि-अर्थम् इन्द्रियेषु एषु सत्सु अपि ॥ त्रि-काल-भाविनः भावान् स्थूलान् सूक्ष्मान् अशेषतस् ॥ ७।१,३२।४१॥
daśārtha-jñāna-siddhi-artham indriyeṣu eṣu satsu api .. tri-kāla-bhāvinaḥ bhāvān sthūlān sūkṣmān aśeṣatas .. 7.1,32.41..
अणवो नैव जानन्ति माययैव मलावृताः ॥ असत्स्वपि च सर्वेषु सर्वार्थज्ञानहेतुषु ॥ ७.१,३२.४२॥
अणवः ना एव जानन्ति मायया एव मल-आवृताः ॥ असत्सु अपि च सर्वेषु सर्व-अर्थ-ज्ञान-हेतुषु ॥ ७।१,३२।४२॥
aṇavaḥ nā eva jānanti māyayā eva mala-āvṛtāḥ .. asatsu api ca sarveṣu sarva-artha-jñāna-hetuṣu .. 7.1,32.42..
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ ७.१,३२.४३॥
यत् यथा अवस्थितम् वस्तु तत् तथा एव सदाशिवः ॥ अयत्नेन एव जानाति तस्मात् सर्वज्ञः उच्यते ॥ ७।१,३२।४३॥
yat yathā avasthitam vastu tat tathā eva sadāśivaḥ .. ayatnena eva jānāti tasmāt sarvajñaḥ ucyate .. 7.1,32.43..
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात् ॥ स्वस्मात्परात्मविरहात्परमात्मा शिवः स्वयम् ॥ ७.१,३२.४४॥
सर्वात्मा परमैः एभिः गुणैः नित्य-समन्वयात् ॥ स्वस्मात् परात्म-विरहात् परमात्मा शिवः स्वयम् ॥ ७।१,३२।४४॥
sarvātmā paramaiḥ ebhiḥ guṇaiḥ nitya-samanvayāt .. svasmāt parātma-virahāt paramātmā śivaḥ svayam .. 7.1,32.44..
नामाष्टकमिदं चैव लब्ध्वाचार्यप्रसादतः ॥ निवृत्त्यादिकलाग्रन्थिं शिवाद्यैः पञ्चनामभिः ॥ ७.१,३२.४५॥
नाम-अष्टकम् इदम् च एव लब्ध्वा आचार्य-प्रसादतः ॥ निवृत्त्य आदि-कला-ग्रन्थिम् शिव-आद्यैः पञ्च-नामभिः ॥ ७।१,३२।४५॥
nāma-aṣṭakam idam ca eva labdhvā ācārya-prasādataḥ .. nivṛttya ādi-kalā-granthim śiva-ādyaiḥ pañca-nāmabhiḥ .. 7.1,32.45..
यथास्वं क्रमशश्छित्वा शोधयित्वा यथागुणम् ॥ गुणितैरेव सोद्धातैरनिरुद्धैरथापि वा ॥ ७.१,३२.४६॥
यथास्वम् क्रमशस् छित्वा शोधयित्वा यथागुणम् ॥ गुणितैः एव स उद्धातैः अनिरुद्धैः अथ अपि वा ॥ ७।१,३२।४६॥
yathāsvam kramaśas chitvā śodhayitvā yathāguṇam .. guṇitaiḥ eva sa uddhātaiḥ aniruddhaiḥ atha api vā .. 7.1,32.46..
हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रसमन्विताम् ॥ छित्त्वा पर्यष्टकाकारं स्वात्मानं च सुषुम्णया ॥ ७.१,३२.४७॥
हृद्-कण्ठ-तालु-भ्रू-मध्य-ब्रह्मरन्ध्र-समन्विताम् ॥ छित्त्वा पर्यष्टक-आकारम् स्व-आत्मानम् च सुषुम्णया ॥ ७।१,३२।४७॥
hṛd-kaṇṭha-tālu-bhrū-madhya-brahmarandhra-samanvitām .. chittvā paryaṣṭaka-ākāram sva-ātmānam ca suṣumṇayā .. 7.1,32.47..
द्वादशांतःस्थितस्येन्दोर्नीत्वोपरि शिवौजसि ॥ संहृत्यं वदनं पश्चाद्यथासंस्करणं लयात् ॥ ७.१,३२.४८॥
द्वादशांतर् स्थितस्य इन्दोः नीत्वा उपरि शिव-ओजसि ॥ संहृत्यम् वदनम् पश्चात् यथा संस्करणम् लयात् ॥ ७।१,३२।४८॥
dvādaśāṃtar sthitasya indoḥ nītvā upari śiva-ojasi .. saṃhṛtyam vadanam paścāt yathā saṃskaraṇam layāt .. 7.1,32.48..
शाक्तेनामृतवर्षेण संसिक्तायां तनौ पुनः ॥ अवतार्य स्वमात्मानममृतात्माकृतिं हृदि ॥ ७.१,३२.४९॥
शाक्तेन अमृत-वर्षेण संसिक्तायाम् तनौ पुनर् ॥ अवतार्य स्वम् आत्मानम् अमृत-आत्म-आकृतिम् हृदि ॥ ७।१,३२।४९॥
śāktena amṛta-varṣeṇa saṃsiktāyām tanau punar .. avatārya svam ātmānam amṛta-ātma-ākṛtim hṛdi .. 7.1,32.49..
द्वादशांतःस्थितस्येन्दोः परस्ताच्छ्वेतपंकजे ॥ समासीनं महादेवं शंकरम्भक्तवत्सलम् ॥ ७.१,३२.५०॥
द्वादशा-अंतर् स्थितस्य इन्दोः परस्तात् श्वेत-पंकजे ॥ समासीनम् महादेवम् शंकरम् भक्त-वत्सलम् ॥ ७।१,३२।५०॥
dvādaśā-aṃtar sthitasya indoḥ parastāt śveta-paṃkaje .. samāsīnam mahādevam śaṃkaram bhakta-vatsalam .. 7.1,32.50..
अर्धनारीश्वरं देवं निर्मलं मधुराकृतिम् ॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.१,३२.५१॥
अर्धनारीश्वरम् देवम् निर्मलम् मधुर-आकृतिम् ॥ शुद्ध-स्फटिक-संकाशम् प्रसन्नम् शीतल-द्युतिम् ॥ ७।१,३२।५१॥
ardhanārīśvaram devam nirmalam madhura-ākṛtim .. śuddha-sphaṭika-saṃkāśam prasannam śītala-dyutim .. 7.1,32.51..
ध्यात्वा हि मानसे देवं स्वस्थचित्तो ऽथ मानवः ॥ शिवनामाष्टकेनैव भावपुष्पैस्समर्चयेत् ॥ ७.१,३२.५२॥
ध्यात्वा हि मानसे देवम् स्वस्थ-चित्तः अथ मानवः ॥ शिव-नाम-अष्टकेन एव भाव-पुष्पैः समर्चयेत् ॥ ७।१,३२।५२॥
dhyātvā hi mānase devam svastha-cittaḥ atha mānavaḥ .. śiva-nāma-aṣṭakena eva bhāva-puṣpaiḥ samarcayet .. 7.1,32.52..
अभ्यर्चनान्ते तु पुनः प्राणानायम्य मानवः ॥ सम्यक्चित्तं समाधाय शार्वं नामाष्टकं जपेत् ॥ ७.१,३२.५३॥
अभ्यर्चन-अन्ते तु पुनर् प्राणान् आयम्य मानवः ॥ सम्यक् चित्तम् समाधाय शार्वम् नाम अष्टकम् जपेत् ॥ ७।१,३२।५३॥
abhyarcana-ante tu punar prāṇān āyamya mānavaḥ .. samyak cittam samādhāya śārvam nāma aṣṭakam japet .. 7.1,32.53..
नाभौ चाष्टाहुतीर्हुत्वा पूर्णाहुत्या नमस्ततः ॥ अष्टपुष्पप्रदानेन कृत्वाभ्यर्चनमंतिमम् ॥ ७.१,३२.५४॥
नाभौ च अष्ट-आहुतीः हुत्वा पूर्णाहुत्याः नमः ततस् ॥ अष्ट-पुष्प-प्रदानेन कृत्वा अभ्यर्चनम् अंतिमम् ॥ ७।१,३२।५४॥
nābhau ca aṣṭa-āhutīḥ hutvā pūrṇāhutyāḥ namaḥ tatas .. aṣṭa-puṣpa-pradānena kṛtvā abhyarcanam aṃtimam .. 7.1,32.54..
निवेदयेत्स्वमात्मानं चुलुकोदकवर्त्मना ॥ एवं कृत्वा चिरादेव ज्ञानं पाशुपतं शुभम् ॥ ७.१,३२.५५॥
निवेदयेत् स्वम् आत्मानम् चुलुक-उदक-वर्त्मना ॥ एवम् कृत्वा चिरात् एव ज्ञानम् पाशुपतम् शुभम् ॥ ७।१,३२।५५॥
nivedayet svam ātmānam culuka-udaka-vartmanā .. evam kṛtvā cirāt eva jñānam pāśupatam śubham .. 7.1,32.55..
लभते तत्प्रतिष्ठां च वृत्तं चानुत्तमं तथा ॥ योगं च परमं लब्ध्वा मुच्यते नात्र संशयः ॥ ७.१,३२.५६॥
लभते तद्-प्रतिष्ठाम् च वृत्तम् च अनुत्तमम् तथा ॥ योगम् च परमम् लब्ध्वा मुच्यते न अत्र संशयः ॥ ७।१,३२।५६॥
labhate tad-pratiṣṭhām ca vṛttam ca anuttamam tathā .. yogam ca paramam labdhvā mucyate na atra saṃśayaḥ .. 7.1,32.56..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे श्रेष्ठानुष्ठानवर्णनं नाम द्वात्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे श्रेष्ठानुष्ठानवर्णनम् नाम द्वात्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe śreṣṭhānuṣṭhānavarṇanam nāma dvātriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In