| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ॥ ब्रह्मादयो ऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ ७.१,३३.१॥
भगवन् श्रोतुम् इच्छामः व्रतम् पाशुपतम् परम् ॥ ब्रह्म-आदयः अपि यत् कृत्वा सर्वे पाशुपताः स्मृताः ॥ ७।१,३३।१॥
bhagavan śrotum icchāmaḥ vratam pāśupatam param .. brahma-ādayaḥ api yat kṛtvā sarve pāśupatāḥ smṛtāḥ .. 7.1,33.1..
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ॥ व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ ७.१,३३.२॥
रहस्यम् वः प्रवक्ष्यामि सर्व-पाप-निकृन्तनम् ॥ व्रतम् पाशुपतम् श्रौतम् अथर्वशिरसि श्रुतम् ॥ ७।१,३३।२॥
rahasyam vaḥ pravakṣyāmi sarva-pāpa-nikṛntanam .. vratam pāśupatam śrautam atharvaśirasi śrutam .. 7.1,33.2..
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ॥ क्षेत्रारामाद्यरण्यं वा प्रशस्तश्शुभलक्षणः ॥ ७.१,३३.३॥
कालः चैत्री पौर्णमासी देशः शिव-परिग्रहः ॥ क्षेत्र-आराम-आदि-अरण्यम् वा प्रशस्तः शुभ-लक्षणः ॥ ७।१,३३।३॥
kālaḥ caitrī paurṇamāsī deśaḥ śiva-parigrahaḥ .. kṣetra-ārāma-ādi-araṇyam vā praśastaḥ śubha-lakṣaṇaḥ .. 7.1,33.3..
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ॥ अनुज्ञाप्य स्वमाचार्यं संपूज्य प्रणिपत्य च ॥ ७.१,३३.४॥
तत्र पूर्वम् त्रयोदश्याम् सु स्नातः सु कृत-आह्निकः ॥ अनुज्ञाप्य स्वम् आचार्यम् संपूज्य प्रणिपत्य च ॥ ७।१,३३।४॥
tatra pūrvam trayodaśyām su snātaḥ su kṛta-āhnikaḥ .. anujñāpya svam ācāryam saṃpūjya praṇipatya ca .. 7.1,33.4..
पूजां वैशेषिकीं कृत्वा शुक्लांबरधरः स्वयम् ॥ शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ७.१,३३.५॥
पूजाम् वैशेषिकीम् कृत्वा शुक्ल-अंबर-धरः स्वयम् ॥ शुक्ल-यज्ञ-उपवीती च शुक्ल-माल्य-अनुलेपनः ॥ ७।१,३३।५॥
pūjām vaiśeṣikīm kṛtvā śukla-aṃbara-dharaḥ svayam .. śukla-yajña-upavītī ca śukla-mālya-anulepanaḥ .. 7.1,33.5..
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ॥ प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥ ७.१,३३.६॥
दर्भासने समासीनः दर्भ-मुष्टिम् प्रगृह्य च ॥ प्राणायाम-त्रयम् कृत्वा प्राच्-मुखः वा अपि उदक्-मुखः ॥ ७।१,३३।६॥
darbhāsane samāsīnaḥ darbha-muṣṭim pragṛhya ca .. prāṇāyāma-trayam kṛtvā prāc-mukhaḥ vā api udak-mukhaḥ .. 7.1,33.6..
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ व्रतमेतत्करोमीति भवेत्संकल्प्य दीक्षितः ॥ ७.१,३३.६॥
ध्यात्वा देवम् च देवीम् च तद्-विज्ञापन-वर्त्मना ॥ व्रतम् एतत् करोमि इति भवेत् संकल्प्य दीक्षितः ॥ ७।१,३३।६॥
dhyātvā devam ca devīm ca tad-vijñāpana-vartmanā .. vratam etat karomi iti bhavet saṃkalpya dīkṣitaḥ .. 7.1,33.6..
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ॥ ७.१,३३.७॥
यावत् शरीरपातम् वा द्वादश-अब्दम् अथ अपि वा ॥ तद्-अर्धम् वा तद्-अर्धम् वा मास-द्वादशकम् तु वा ॥ ७।१,३३।७॥
yāvat śarīrapātam vā dvādaśa-abdam atha api vā .. tad-ardham vā tad-ardham vā māsa-dvādaśakam tu vā .. 7.1,33.7..
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ दिनद्वादशकं वा ऽथ दिनषट्कमथापि वा ॥ ७.१,३३.८॥
तद्-अर्धम् वा तद्-अर्धम् वा मासम् एकम् अथ अपि वा ॥ दिन-द्वादशकम् वा अथ दिन-षट्कम् अथ अपि वा ॥ ७।१,३३।८॥
tad-ardham vā tad-ardham vā māsam ekam atha api vā .. dina-dvādaśakam vā atha dina-ṣaṭkam atha api vā .. 7.1,33.8..
तदर्धं दिनमेकं वा व्रतसंकल्पनावधि ॥ अग्निमाधाय विधिवद्विरजाहोमकारणात् ॥ ७.१,३३.९॥
तद्-अर्धम् दिनम् एकम् वा व्रत-संकल्पना-अवधि ॥ अग्निम् आधाय विधिवत् विरजा-होम-कारणात् ॥ ७।१,३३।९॥
tad-ardham dinam ekam vā vrata-saṃkalpanā-avadhi .. agnim ādhāya vidhivat virajā-homa-kāraṇāt .. 7.1,33.9..
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ॥ ७.१,३३.१०॥
हुत्वा आज्येन समिद्भिः च चरुणा च यथाक्रमम् ॥ पूर्णाम् आपूर्य ताम् भूयस् तत्त्वानाम् शुद्धिम् उद्दिशन् ॥ ७।१,३३।१०॥
hutvā ājyena samidbhiḥ ca caruṇā ca yathākramam .. pūrṇām āpūrya tām bhūyas tattvānām śuddhim uddiśan .. 7.1,33.10..
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ तत्त्वान्येतानि मद्देहे शुद्ध्यंताम् त्यनुस्मरन् ॥ ७.१,३३.११॥
जुहुयात् मूलमन्त्रेण तैः एव समिध्-आदिभिः ॥ तत्त्वानि एतानि मद्-देहे ॥ ७।१,३३।११॥
juhuyāt mūlamantreṇa taiḥ eva samidh-ādibhiḥ .. tattvāni etāni mad-dehe .. 7.1,33.11..
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ॥ ७.१,३३.१२॥
पञ्चभूतानि तन्मात्राः पञ्च-कर्म-इन्द्रियाणि च ॥ ज्ञान-कर्म-विभेदेन पञ्चकर्म-विभागशः ॥ ७।१,३३।१२॥
pañcabhūtāni tanmātrāḥ pañca-karma-indriyāṇi ca .. jñāna-karma-vibhedena pañcakarma-vibhāgaśaḥ .. 7.1,33.12..
त्वगादिधातवस्सप्त पञ्च प्राणादिवायवः ॥ मनोबुद्धिरहं ख्यातिर्गुणाः प्रकृतिपूरुषौ ॥ ७.१,३३.१३॥
त्वक्-आदि-धातवः सप्त पञ्च प्राण-आदि-वायवः ॥ मनः-बुद्धिः अहम् ख्यातिः गुणाः प्रकृति-पूरुषौ ॥ ७।१,३३।१३॥
tvak-ādi-dhātavaḥ sapta pañca prāṇa-ādi-vāyavaḥ .. manaḥ-buddhiḥ aham khyātiḥ guṇāḥ prakṛti-pūruṣau .. 7.1,33.13..
रागो विद्याकले चैव नियतिः काल एव च ॥ माया च शुद्धिविद्या च महेश्वरसदाशिवौ ॥ ७.१,३३.१४॥
रागः विद्याकले च एव नियतिः कालः एव च ॥ माया च शुद्धि-विद्या च महेश्वर-सदाशिवौ ॥ ७।१,३३।१४॥
rāgaḥ vidyākale ca eva niyatiḥ kālaḥ eva ca .. māyā ca śuddhi-vidyā ca maheśvara-sadāśivau .. 7.1,33.14..
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ॥ ७.१,३३.१५॥
शक्तिः च शिवतत्त्वम् च तत्त्वानि क्रमशस् विदुः ॥ मन्त्रैः तु विरजैः हुत्वा होता असौ विरजाः भवेत् ॥ ७।१,३३।१५॥
śaktiḥ ca śivatattvam ca tattvāni kramaśas viduḥ .. mantraiḥ tu virajaiḥ hutvā hotā asau virajāḥ bhavet .. 7.1,33.15..
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ अथ गोमयमादाय पिण्डीकृत्याभिमंत्र्य च ॥ ७.१,३३.१६॥
शिव-अनुग्रहम् आसाद्य ज्ञानवान् स हि जायते ॥ अथ गोमयम् आदाय पिण्डीकृत्य अभिमंत्र्य च ॥ ७।१,३३।१६॥
śiva-anugraham āsādya jñānavān sa hi jāyate .. atha gomayam ādāya piṇḍīkṛtya abhimaṃtrya ca .. 7.1,33.16..
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ॥ ७.१,३३.१७॥
विन्यस्य अग्नौ च सम्प्रोक्ष्य दिने तस्मिन् हविषि अभुज् ॥ प्रभाते तु चतुर्दश्याम् कृत्वा सर्वम् पुरा उदितम् ॥ ७।१,३३।१७॥
vinyasya agnau ca samprokṣya dine tasmin haviṣi abhuj .. prabhāte tu caturdaśyām kṛtvā sarvam purā uditam .. 7.1,33.17..
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ प्रातः पर्वणि चाप्येवं कृत्वा होमा वसानतः ॥ ७.१,३३.१८॥
दिने तस्मिन् निराहारः कालम् शेषम् समापयेत् ॥ प्रातर् पर्वणि च अपि एवम् कृत्वा होमाः वसानतः ॥ ७।१,३३।१८॥
dine tasmin nirāhāraḥ kālam śeṣam samāpayet .. prātar parvaṇi ca api evam kṛtvā homāḥ vasānataḥ .. 7.1,33.18..
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ ततश्च जटिलो मुण्डी शिखैकजट एव वा ॥ ७.१,३३.१९॥
उपसंहृत्य रुद्र-अग्निम् गृह्णीयात् भस्म यत्नतः ॥ ततस् च जटिलः मुण्डी शिखा-एक-जटः एव वा ॥ ७।१,३३।१९॥
upasaṃhṛtya rudra-agnim gṛhṇīyāt bhasma yatnataḥ .. tatas ca jaṭilaḥ muṇḍī śikhā-eka-jaṭaḥ eva vā .. 7.1,33.19..
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ अपि काषायवसनश्चर्मचीराम्बरो ऽथ वा ॥ ७.१,३३.२०॥
भूत्वा स्नात्वा ततस् वीत-लज्जः चेद् स्यात् दिगम्बरः ॥ अपि काषाय-वसनः चर्म-चीर-अम्बरः अथ वा ॥ ७।१,३३।२०॥
bhūtvā snātvā tatas vīta-lajjaḥ ced syāt digambaraḥ .. api kāṣāya-vasanaḥ carma-cīra-ambaraḥ atha vā .. 7.1,33.20..
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ॥ ७.१,३३.२१॥
एक-अम्बरः वल्कली वा भवेत् दण्डी च मेखली ॥ प्रक्षाल्य चरणौ पश्चात् द्विस् आचम्य आत्मनः तनुम् ॥ ७।१,३३।२१॥
eka-ambaraḥ valkalī vā bhavet daṇḍī ca mekhalī .. prakṣālya caraṇau paścāt dvis ācamya ātmanaḥ tanum .. 7.1,33.21..
संकुलीकृत्य तद्भस्म विरजानलसंभवम् ॥ अग्निरित्यादिभिर्मंत्रैः षड्भिराथर्वणैः क्रमात् ॥ ७.१,३३.२२॥
संकुलीकृत्य तत् भस्म विरज-अनल-संभवम् ॥ अग्निः इत्यादिभिः मंत्रैः षड्भिः आथर्वणैः क्रमात् ॥ ७।१,३३।२२॥
saṃkulīkṛtya tat bhasma viraja-anala-saṃbhavam .. agniḥ ityādibhiḥ maṃtraiḥ ṣaḍbhiḥ ātharvaṇaiḥ kramāt .. 7.1,33.22..
विभृज्यांगानि मूर्धादिचरणांतानि तैस्स्पृशेत् ॥ ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ॥ ७.१,३३.२३॥
विभृज्य अंगानि मूर्ध-आदि-चरण-अंतानि तैः स्पृशेत् ॥ ततस् तेन क्रमेण एव समुद्धृत्य च भस्मना ॥ ७।१,३३।२३॥
vibhṛjya aṃgāni mūrdha-ādi-caraṇa-aṃtāni taiḥ spṛśet .. tatas tena krameṇa eva samuddhṛtya ca bhasmanā .. 7.1,33.23..
सर्वांगोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ॥ ७.१,३३.२४॥
सर्व-अंग-उद्धूलनम् कुर्यात् प्रणवेन शिवेन वा ॥ ततस् त्रिपुण्ड्रम् रचयेत् त्रियायुष-समाह्वयम् ॥ ७।१,३३।२४॥
sarva-aṃga-uddhūlanam kuryāt praṇavena śivena vā .. tatas tripuṇḍram racayet triyāyuṣa-samāhvayam .. 7.1,33.24..
शिवभावं समागम्य शिवयोगमथाचरेत् ॥ कुर्यात्स्त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ॥ ७.१,३३.२५॥
शिव-भावम् समागम्य शिव-योगम् अथ आचरेत् ॥ कुर्यात् स्त्रि-सन्ध्यम् अपि एवम् एतत् पाशुपतम् व्रतम् ॥ ७।१,३३।२५॥
śiva-bhāvam samāgamya śiva-yogam atha ācaret .. kuryāt stri-sandhyam api evam etat pāśupatam vratam .. 7.1,33.25..
भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ॥ ७.१,३३.२६॥
भुक्ति-मुक्ति-प्रदम् च एतत् पशुत्वम् विनिवर्तयेत् ॥ तद्-पशु-त्वम् परित्यज्य कृत्वा पाशुपतम् व्रतम् ॥ ७।१,३३।२६॥
bhukti-mukti-pradam ca etat paśutvam vinivartayet .. tad-paśu-tvam parityajya kṛtvā pāśupatam vratam .. 7.1,33.26..
पूजनीयो महादेवो लिंगमूर्तिस्सनातनः ॥ पद्ममष्टदलं हैमं नवरत्नैरलंकृतम् ॥ ७.१,३३.२७॥
पूजनीयः महादेवः लिंग-मूर्तिः सनातनः ॥ पद्मम् अष्ट-दलम् हैमम् नव-रत्नैः अलंकृतम् ॥ ७।१,३३।२७॥
pūjanīyaḥ mahādevaḥ liṃga-mūrtiḥ sanātanaḥ .. padmam aṣṭa-dalam haimam nava-ratnaiḥ alaṃkṛtam .. 7.1,33.27..
कर्णिकाकेशरोपेतमासनं परिकल्पयेत् ॥ विभवे तदभावे तु रक्तं सितमथापि वा ॥ ७.१,३३.२८॥
कर्णिका-केशर-उपेतम् आसनम् परिकल्पयेत् ॥ विभवे तद्-अभावे तु रक्तम् सितम् अथ अपि वा ॥ ७।१,३३।२८॥
karṇikā-keśara-upetam āsanam parikalpayet .. vibhave tad-abhāve tu raktam sitam atha api vā .. 7.1,33.28..
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥ तत्पद्मकर्णिकामध्ये कृत्वा लिंगं कनीयसम् ॥ ७.१,३३.२९॥
पद्मम् तस्य अपि अभावे तु केवलम् भावना-मयम् ॥ तद्-पद्म-कर्णिका-मध्ये कृत्वा लिंगम् कनीयसम् ॥ ७।१,३३।२९॥
padmam tasya api abhāve tu kevalam bhāvanā-mayam .. tad-padma-karṇikā-madhye kṛtvā liṃgam kanīyasam .. 7.1,33.29..
स्फाटिकं पीठिकोपेतं पूजयेद्विधिवत्क्रमात् ॥ प्रतिष्ठाप्य विधानेन तल्लिंगं कृतशोधनम् ॥ ७.१,३३.३०॥
स्फाटिकम् पीठिका-उपेतम् पूजयेत् विधिवत् क्रमात् ॥ प्रतिष्ठाप्य विधानेन तद्-लिंगम् कृत-शोधनम् ॥ ७।१,३३।३०॥
sphāṭikam pīṭhikā-upetam pūjayet vidhivat kramāt .. pratiṣṭhāpya vidhānena tad-liṃgam kṛta-śodhanam .. 7.1,33.30..
परिकल्प्यासनं मूर्तिं पञ्चवक्त्रप्रकारतः ॥ पञ्चगव्यादिभिः पूर्णैर्यथाविभवसंभृतैः ॥ ७.१,३३.३१॥
परिकल्प्य आसनम् मूर्तिम् पञ्चवक्त्र-प्रकारतः ॥ पञ्चगव्य-आदिभिः पूर्णैः यथा विभव-संभृतैः ॥ ७।१,३३।३१॥
parikalpya āsanam mūrtim pañcavaktra-prakārataḥ .. pañcagavya-ādibhiḥ pūrṇaiḥ yathā vibhava-saṃbhṛtaiḥ .. 7.1,33.31..
स्नापयेत्कलशैः पूर्णैरष्टापदसमुद्भवैः ॥ गंधद्रव्यैस्सकर्पूरैश्चन्दनाद्यैस्सकुंकुमैः ॥ ७.१,३३.३२॥
स्नापयेत् कलशैः पूर्णैः अष्टापद-समुद्भवैः ॥ गंध-द्रव्यैः स कर्पूरैः चन्दन-आद्यैः स कुंकुमैः ॥ ७।१,३३।३२॥
snāpayet kalaśaiḥ pūrṇaiḥ aṣṭāpada-samudbhavaiḥ .. gaṃdha-dravyaiḥ sa karpūraiḥ candana-ādyaiḥ sa kuṃkumaiḥ .. 7.1,33.32..
सवेदिकं समालिप्य लिंगं भूषणभूषितम् ॥ बिल्वपत्रैश्च पद्मैश्च रक्तैः श्वेतैस्तथोत्पलैः ॥ ७.१,३३.३३॥
स वेदिकम् समालिप्य लिंगम् भूषण-भूषितम् ॥ बिल्व-पत्रैः च पद्मैः च रक्तैः श्वेतैः तथा उत्पलैः ॥ ७।१,३३।३३॥
sa vedikam samālipya liṃgam bhūṣaṇa-bhūṣitam .. bilva-patraiḥ ca padmaiḥ ca raktaiḥ śvetaiḥ tathā utpalaiḥ .. 7.1,33.33..
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैस्सुगंधिभिः ॥ पुण्यैः प्रशस्तैः पत्रैश्च चित्रैर्दूर्वाक्षतादिभिः ॥ ७.१,३३.३४॥
नीलोत्पलैः तथा अन्यैः च पुष्पैः तैः तैः सुगंधिभिः ॥ पुण्यैः प्रशस्तैः पत्रैः च चित्रैः दूर्वा-अक्षत-आदिभिः ॥ ७।१,३३।३४॥
nīlotpalaiḥ tathā anyaiḥ ca puṣpaiḥ taiḥ taiḥ sugaṃdhibhiḥ .. puṇyaiḥ praśastaiḥ patraiḥ ca citraiḥ dūrvā-akṣata-ādibhiḥ .. 7.1,33.34..
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥ धूपं दीपं तथा चापि नैवेद्यं च समादिशेत् ॥ ७.१,३३.३५॥
समभ्यर्च्य यथालाभम् महा-पूजा-विधानतः ॥ धूपम् दीपम् तथा च अपि नैवेद्यम् च समादिशेत् ॥ ७।१,३३।३५॥
samabhyarcya yathālābham mahā-pūjā-vidhānataḥ .. dhūpam dīpam tathā ca api naivedyam ca samādiśet .. 7.1,33.35..
निवेदयित्वा विभवे कल्याणं च समाचरेत् ॥ इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ॥ ७.१,३३.३६॥
निवेदयित्वा विभवे कल्याणम् च समाचरेत् ॥ इष्टानि च विशिष्टानि न्यायेन उपार्जितानि च ॥ ७।१,३३।३६॥
nivedayitvā vibhave kalyāṇam ca samācaret .. iṣṭāni ca viśiṣṭāni nyāyena upārjitāni ca .. 7.1,33.36..
सर्वद्रव्याणि देयानि व्रते तस्मिन्विशेषतः ॥ श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ॥ ७.१,३३.३७॥
सर्व-द्रव्याणि देयानि व्रते तस्मिन् विशेषतः ॥ श्रीपत्र-उत्पल-पद्मानाम् संख्या साहस्रिकी मता ॥ ७।१,३३।३७॥
sarva-dravyāṇi deyāni vrate tasmin viśeṣataḥ .. śrīpatra-utpala-padmānām saṃkhyā sāhasrikī matā .. 7.1,33.37..
प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥ तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ॥ ७.१,३३.३८॥
प्रत्येकम् अपरा संख्या शतम् अष्ट-उत्तरम् द्विजाः ॥ तत्र अपि च विशेषेण न त्यजेत् बिल्व-पत्रकम् ॥ ७।१,३३।३८॥
pratyekam aparā saṃkhyā śatam aṣṭa-uttaram dvijāḥ .. tatra api ca viśeṣeṇa na tyajet bilva-patrakam .. 7.1,33.38..
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥ नीलोत्पलादिष्वप्येतत्समानं बिल्बपत्रकैः ॥ ७.१,३३.३९॥
हैमम् एकम् परम् प्राहुः पद्मम् पद्म-सहस्रकात् ॥ नीलोत्पल-आदिषु अपि एतत् समानम् बिल्ब-पत्रकैः ॥ ७।१,३३।३९॥
haimam ekam param prāhuḥ padmam padma-sahasrakāt .. nīlotpala-ādiṣu api etat samānam bilba-patrakaiḥ .. 7.1,33.39..
पुष्पान्तरे न नियमो यथालाभं निवेदयेत् ॥ अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ॥ ७.१,३३.४०॥
पुष्प-अन्तरे न नियमः यथालाभम् निवेदयेत् ॥ अष्टाङ्गम् अर्घ्यम् उत्कृष्टम् धूप-आलेपौ विशेषतः ॥ ७।१,३३।४०॥
puṣpa-antare na niyamaḥ yathālābham nivedayet .. aṣṭāṅgam arghyam utkṛṣṭam dhūpa-ālepau viśeṣataḥ .. 7.1,33.40..
चन्दनं वामदेवाख्ये हरितालं च पौरुषे ॥ ईशाने भसितं केचिदालेपनमितीदृशाम् ॥ ७.१,३३.४१॥
चन्दनम् वामदेव-आख्ये हरितालम् च पौरुषे ॥ ईशाने भसितम् केचिद् आलेपनम् इति ईदृशाम् ॥ ७।१,३३।४१॥
candanam vāmadeva-ākhye haritālam ca pauruṣe .. īśāne bhasitam kecid ālepanam iti īdṛśām .. 7.1,33.41..
न धूपमिति मन्यन्ते धूपान्तरविधानतः ॥ सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥ ७.१,३३.४२॥
न धूपम् इति मन्यन्ते धूप-अन्तर-विधानतः ॥ सित-अगुरुम् अघोर-आख्ये मुखे कृष्ण-अगुरुम् पुनर् ॥ ७।१,३३।४२॥
na dhūpam iti manyante dhūpa-antara-vidhānataḥ .. sita-agurum aghora-ākhye mukhe kṛṣṇa-agurum punar .. 7.1,33.42..
पौरुषे गुग्गुलं सव्ये सौम्ये सौगंधिकं मुखे ॥ ईशाने ऽपि ह्युशीरादि देयाद्धूपं विशेषतः ॥ ७.१,३३.४३॥
पौरुषे गुग्गुलम् सव्ये सौम्ये सौगंधिकम् मुखे ॥ ईशाने अपि हि उशीर-आदि देयात् धूपम् विशेषतः ॥ ७।१,३३।४३॥
pauruṣe guggulam savye saumye saugaṃdhikam mukhe .. īśāne api hi uśīra-ādi deyāt dhūpam viśeṣataḥ .. 7.1,33.43..
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ॥ चंदनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥ ७.१,३३.४४॥
शर्करा-मधु-कर्पूर-कपिला-घृत-संयुतम् ॥ चंदन-अगुरु-काष्ठ-आद्यम् सामान्यम् संप्रचक्षते ॥ ७।१,३३।४४॥
śarkarā-madhu-karpūra-kapilā-ghṛta-saṃyutam .. caṃdana-aguru-kāṣṭha-ādyam sāmānyam saṃpracakṣate .. 7.1,33.44..
कर्पूरवर्तिराज्याढ्या देया दीपावलिस्ततः ॥ अर्घ्यमाचमनं देयं प्रतिवक्त्रमतः परम् ॥ ७.१,३३.४५॥
कर्पूर-वर्ति-राज्य-आढ्या देया दीप-आवलिः ततस् ॥ अर्घ्यम् आचमनम् देयम् प्रतिवक्त्रम् अतस् परम् ॥ ७।१,३३।४५॥
karpūra-varti-rājya-āḍhyā deyā dīpa-āvaliḥ tatas .. arghyam ācamanam deyam prativaktram atas param .. 7.1,33.45..
प्रथमावरणे पूज्यो क्रमाद्धेरम्बषण्मुखौ ॥ ब्रह्मांगानि ततश्चैव प्रथमावरणेर्चिते ॥ ७.१,३३.४६॥
प्रथम-आवरणे पूज्यः क्रमात् हेरम्ब-षण्मुखौ ॥ ब्रह्म-अंगानि ततस् च एव प्रथम-आवरण-ईर्चिते ॥ ७।१,३३।४६॥
prathama-āvaraṇe pūjyaḥ kramāt heramba-ṣaṇmukhau .. brahma-aṃgāni tatas ca eva prathama-āvaraṇa-īrcite .. 7.1,33.46..
द्वितीयावरणे पूज्या विघ्नेशाश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्या भवाद्या अष्टमूर्तयः ॥ ७.१,३३.४७॥
द्वितीय-आवरणे पूज्याः विघ्न-ईशाः चक्रवर्तिनः ॥ तृतीय-आवरणे पूज्याः भव-आद्याः अष्टमूर्तयः ॥ ७।१,३३।४७॥
dvitīya-āvaraṇe pūjyāḥ vighna-īśāḥ cakravartinaḥ .. tṛtīya-āvaraṇe pūjyāḥ bhava-ādyāḥ aṣṭamūrtayaḥ .. 7.1,33.47..
महादेवादयस्तत्र तथैकादशमूर्तयः ॥ चतुर्थावरणे पूज्याः सर्व एव गणेश्वराः ॥ ७.१,३३.४८॥
महादेव-आदयः तत्र तथा एकादश-मूर्तयः ॥ चतुर्थ-आवरणे पूज्याः सर्वे एव गणेश्वराः ॥ ७।१,३३।४८॥
mahādeva-ādayaḥ tatra tathā ekādaśa-mūrtayaḥ .. caturtha-āvaraṇe pūjyāḥ sarve eva gaṇeśvarāḥ .. 7.1,33.48..
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ॥ दशदिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥ ७.१,३३.४९॥
बहिस् एव तु पद्मस्य पञ्चम-आवरणे क्रमात् ॥ दश-दिक्पतयः पूज्याः स अस्त्राः स अनुचराः तथा ॥ ७।१,३३।४९॥
bahis eva tu padmasya pañcama-āvaraṇe kramāt .. daśa-dikpatayaḥ pūjyāḥ sa astrāḥ sa anucarāḥ tathā .. 7.1,33.49..
ब्रह्मणो मानसाः पुत्राः सर्वे ऽपि ज्योतिषां गणाः ॥ सर्वा देव्यश्च देवाश्च सर्वे सर्वे च खेचराः ॥ ७.१,३३.५०॥
ब्रह्मणः मानसाः पुत्राः सर्वे अपि ज्योतिषाम् गणाः ॥ सर्वाः देव्यः च देवाः च सर्वे सर्वे च खेचराः ॥ ७।१,३३।५०॥
brahmaṇaḥ mānasāḥ putrāḥ sarve api jyotiṣām gaṇāḥ .. sarvāḥ devyaḥ ca devāḥ ca sarve sarve ca khecarāḥ .. 7.1,33.50..
पातालवासिनश्चान्ये सर्वे मुनिगणा अपि ॥ योगिनो हि सखास्सर्वे पतंगा मातरस्तथा ॥ ७.१,३३.५१॥
पाताल-वासिनः च अन्ये सर्वे मुनि-गणाः अपि ॥ योगिनः हि सखाः सर्वे पतंगाः मातरः तथा ॥ ७।१,३३।५१॥
pātāla-vāsinaḥ ca anye sarve muni-gaṇāḥ api .. yoginaḥ hi sakhāḥ sarve pataṃgāḥ mātaraḥ tathā .. 7.1,33.51..
क्षेत्रपालाश्च सगणाः सर्वं चैतच्चराचरम् ॥ पूजनीयं शिवप्रीत्या मत्त्वा शंभुविभूतिमत् ॥ ७.१,३३.५२॥
क्षेत्रपालाः च स गणाः सर्वम् च एतत् चराचरम् ॥ पूजनीयम् शिव-प्रीत्या शंभु-विभूतिमत् ॥ ७।१,३३।५२॥
kṣetrapālāḥ ca sa gaṇāḥ sarvam ca etat carācaram .. pūjanīyam śiva-prītyā śaṃbhu-vibhūtimat .. 7.1,33.52..
अथावरणपूजांते संपूज्य परमेश्वरम् ॥ साज्यं सव्यं जनं हृद्यं हविर्भक्त्या निवेदयेत् ॥ ७.१,३३.५३॥
अथ आवरण-पूजा-अन्ते संपूज्य परमेश्वरम् ॥ स आज्यम् सव्यम् जनम् हृद्यम् हविः-भक्त्या निवेदयेत् ॥ ७।१,३३।५३॥
atha āvaraṇa-pūjā-ante saṃpūjya parameśvaram .. sa ājyam savyam janam hṛdyam haviḥ-bhaktyā nivedayet .. 7.1,33.53..
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥ अलंकृत्य च भूयो ऽपि नानापुष्पविभूषणैः ॥ ७.१,३३.५४॥
मुख-वास-आदिकम् दत्त्वा ताम्बूलम् स उपदंशकम् ॥ अलंकृत्य च भूयस् अपि नाना पुष्प-विभूषणैः ॥ ७।१,३३।५४॥
mukha-vāsa-ādikam dattvā tāmbūlam sa upadaṃśakam .. alaṃkṛtya ca bhūyas api nānā puṣpa-vibhūṣaṇaiḥ .. 7.1,33.54..
नीराजनांते विस्तीर्य पूजाशेषं समापयेत् ॥ चषकं सोपकारं च शयनं च समर्पयेत् ॥ ७.१,३३.५५॥
नीराजन-अंते विस्तीर्य पूजा-शेषम् समापयेत् ॥ चषकम् स उपकारम् च शयनम् च समर्पयेत् ॥ ७।१,३३।५५॥
nīrājana-aṃte vistīrya pūjā-śeṣam samāpayet .. caṣakam sa upakāram ca śayanam ca samarpayet .. 7.1,33.55..
चन्द्रसंकाशहारं च शयनीयं समर्पयेत् ॥ आद्यं नृपोचितं हृद्यं तत्सर्वमनुरूपतः ॥ ७.१,३३.५६॥
चन्द्र-संकाश-हारम् च शयनीयम् समर्पयेत् ॥ आद्यम् नृप-उचितम् हृद्यम् तत् सर्वम् अनुरूपतः ॥ ७।१,३३।५६॥
candra-saṃkāśa-hāram ca śayanīyam samarpayet .. ādyam nṛpa-ucitam hṛdyam tat sarvam anurūpataḥ .. 7.1,33.56..
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥ स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥ ७.१,३३.५७॥
कृत्वा च कारयित्वा च हित्वा च प्रतिपूजनम् ॥ स्तोत्रम् व्यपोहनम् जप्त्वा विद्याम् पञ्चाक्षरीम् जपेत् ॥ ७।१,३३।५७॥
kṛtvā ca kārayitvā ca hitvā ca pratipūjanam .. stotram vyapohanam japtvā vidyām pañcākṣarīm japet .. 7.1,33.57..
प्रदक्षिणां प्रणामं च कृत्वात्मानं समर्पयेत् ॥ ततः पुरस्ताद्देवस्य गुरुविप्रौ च पूजयेत् ॥ ७.१,३३.५८॥
प्रदक्षिणाम् प्रणामम् च कृत्वा आत्मानम् समर्पयेत् ॥ ततस् पुरस्तात् देवस्य गुरु-विप्रौ च पूजयेत् ॥ ७।१,३३।५८॥
pradakṣiṇām praṇāmam ca kṛtvā ātmānam samarpayet .. tatas purastāt devasya guru-viprau ca pūjayet .. 7.1,33.58..
दत्त्वार्घ्यमष्टौ पुष्पाणि देवमुद्वास्य लिंगतः ॥ अग्नेश्चाग्निं सुसंयम्य ह्युद्वास्य च तमप्युत ॥ ७.१,३३.५९॥
दत्त्वा अर्घ्यम् अष्टौ पुष्पाणि देवम् उद्वास्य लिंगतः ॥ अग्नेः च अग्निम् सु संयम्य हि उद्वास्य च तम् अपि उत ॥ ७।१,३३।५९॥
dattvā arghyam aṣṭau puṣpāṇi devam udvāsya liṃgataḥ .. agneḥ ca agnim su saṃyamya hi udvāsya ca tam api uta .. 7.1,33.59..
प्रत्यहं च जनस्त्वेवं कुर्यात्सेवां पुरोदिताम् ॥ ततस्तत्साम्बुजं लिंगं सर्वोपकरणान्वितम् ॥ ७.१,३३.६०॥
प्रत्यहम् च जनः तु एवम् कुर्यात् सेवाम् पुरा उदिताम् ॥ ततस् तत् स अम्बुजम् लिंगम् सर्व-उपकरण-अन्वितम् ॥ ७।१,३३।६०॥
pratyaham ca janaḥ tu evam kuryāt sevām purā uditām .. tatas tat sa ambujam liṃgam sarva-upakaraṇa-anvitam .. 7.1,33.60..
समर्पयेत्स्वगुरवे स्थापयेद्वा शिवालये ॥ संपूज्य च गुरून्विप्रान्व्रतिनश्च विशेषतः ॥ ७.१,३३.६१॥
समर्पयेत् स्व-गुरवे स्थापयेत् वा शिव-आलये ॥ संपूज्य च गुरून् विप्रान् व्रतिनः च विशेषतः ॥ ७।१,३३।६१॥
samarpayet sva-gurave sthāpayet vā śiva-ālaye .. saṃpūjya ca gurūn viprān vratinaḥ ca viśeṣataḥ .. 7.1,33.61..
भक्तान्द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ॥ स्वयं चानशने शक्तः फलमूलाशने ऽथ वा ॥ ७.१,३३.६२॥
भक्तान् द्विजान् च शक्तः चेद् दीन-अनाथान् च तोषयेत् ॥ स्वयम् च अनशने शक्तः फल-मूल-अशने अथ वा ॥ ७।१,३३।६२॥
bhaktān dvijān ca śaktaḥ ced dīna-anāthān ca toṣayet .. svayam ca anaśane śaktaḥ phala-mūla-aśane atha vā .. 7.1,33.62..
पयोव्रतो वा भिक्षाशी भवेदेकाशनस्तथा ॥ नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥ ७.१,३३.६३॥
पयः-व्रतः वा भिक्षा-आशी भवेत् एक-अशनः तथा ॥ नक्तम् युक्त-अशनः नित्यम् भू-शय्या-निरतः शुचिः ॥ ७।१,३३।६३॥
payaḥ-vrataḥ vā bhikṣā-āśī bhavet eka-aśanaḥ tathā .. naktam yukta-aśanaḥ nityam bhū-śayyā-nirataḥ śuciḥ .. 7.1,33.63..
भस्मशायी तृणेशायी चीराजिनधृतो ऽथवा ॥ ब्रह्मचर्यव्रतो नित्यं व्रतमेतत्समाचरेत् ॥ ७.१,३३.६४॥
भस्म-शायी तृणेशायी चीर-अजिन-धृतः अथवा ॥ ब्रह्मचर्य-व्रतः नित्यम् व्रतम् एतत् समाचरेत् ॥ ७।१,३३।६४॥
bhasma-śāyī tṛṇeśāyī cīra-ajina-dhṛtaḥ athavā .. brahmacarya-vrataḥ nityam vratam etat samācaret .. 7.1,33.64..
अर्कवारे तथार्द्रायां पञ्चदश्यां च पक्षयोः ॥ अष्टम्यां च चतुर्दश्यां शक्तस्तूपवसेदपि ॥ ७.१,३३.६५॥
अर्कवारे तथा आर्द्रायाम् पञ्चदश्याम् च पक्षयोः ॥ अष्टम्याम् च चतुर्दश्याम् शक्तः तु उपवसेत् अपि ॥ ७।१,३३।६५॥
arkavāre tathā ārdrāyām pañcadaśyām ca pakṣayoḥ .. aṣṭamyām ca caturdaśyām śaktaḥ tu upavaset api .. 7.1,33.65..
पाखण्डिपतितोदक्यास्सूतकान्त्यजपूर्वकान् ॥ वर्जयेत्सर्वयत्नेन मनसा कर्मणा गिरा ॥ ७.१,३३.६६॥
पाखण्डि-पतित-उदक्याः सूतकान्त्यज-पूर्वकान् ॥ वर्जयेत् सर्व-यत्नेन मनसा कर्मणा गिरा ॥ ७।१,३३।६६॥
pākhaṇḍi-patita-udakyāḥ sūtakāntyaja-pūrvakān .. varjayet sarva-yatnena manasā karmaṇā girā .. 7.1,33.66..
क्षमदानदयासत्याहिंसाशीलः सदा भवेत् ॥ संतुष्टश्च प्रशान्तश्च जपध्यानरतस्तथा ॥ ७.१,३३.६७॥
क्षम-दान-दया-सत्य-अहिंसा-शीलः सदा भवेत् ॥ संतुष्टः च प्रशान्तः च जप-ध्यान-रतः तथा ॥ ७।१,३३।६७॥
kṣama-dāna-dayā-satya-ahiṃsā-śīlaḥ sadā bhavet .. saṃtuṣṭaḥ ca praśāntaḥ ca japa-dhyāna-rataḥ tathā .. 7.1,33.67..
कुर्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ॥ पूजां वैशेषिकीं चैव मनसा वचसा गिरा ॥ ७.१,३३.६८॥
कुर्यात् त्रिषवण-स्नानम् भस्म-स्नानम् अथ अपि वा ॥ पूजाम् वैशेषिकीम् च एव मनसा वचसा गिरा ॥ ७।१,३३।६८॥
kuryāt triṣavaṇa-snānam bhasma-snānam atha api vā .. pūjām vaiśeṣikīm ca eva manasā vacasā girā .. 7.1,33.68..
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ॥ प्रमादात्तु तथाचारे निरूप्य गुरुलाघवे ॥ ७.१,३३.६९॥
बहुना अत्र किम् उक्तेन ना आचरेत् अशिवम् व्रती ॥ प्रमादात् तु तथा आचारे निरूप्य गुरुलाघवे ॥ ७।१,३३।६९॥
bahunā atra kim uktena nā ācaret aśivam vratī .. pramādāt tu tathā ācāre nirūpya gurulāghave .. 7.1,33.69..
उचितां निष्कृतिं कुर्यात्पूजाहोमजपादिभिः ॥ आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥ ७.१,३३.७०॥
उचिताम् निष्कृतिम् कुर्यात् पूजा-होम-जप-आदिभिः ॥ आ समाप्तेः व्रतस्य एवम् आचरेत् न प्रमादतः ॥ ७।१,३३।७०॥
ucitām niṣkṛtim kuryāt pūjā-homa-japa-ādibhiḥ .. ā samāpteḥ vratasya evam ācaret na pramādataḥ .. 7.1,33.70..
गोदानं च वृषोत्सर्गं कुर्यात्पूजां च संपदा ॥ भक्तश्च शिवप्रीत्यर्थं सर्वकामविवर्जितः ॥ ७.१,३३.७१॥
गोदानम् च वृषोत्सर्गम् कुर्यात् पूजाम् च संपदा ॥ भक्तः च शिव-प्रीति-अर्थम् सर्व-काम-विवर्जितः ॥ ७।१,३३।७१॥
godānam ca vṛṣotsargam kuryāt pūjām ca saṃpadā .. bhaktaḥ ca śiva-prīti-artham sarva-kāma-vivarjitaḥ .. 7.1,33.71..
सामान्यमेतत्कथितं व्रतस्यास्य समासतः ॥ प्रतिमासं विशेषं च प्रवदामि यथाश्रुतम् ॥ ७.१,३३.७२॥
सामान्यम् एतत् कथितम् व्रतस्य अस्य समासतस् ॥ प्रतिमासम् विशेषम् च प्रवदामि यथाश्रुतम् ॥ ७।१,३३।७२॥
sāmānyam etat kathitam vratasya asya samāsatas .. pratimāsam viśeṣam ca pravadāmi yathāśrutam .. 7.1,33.72..
वैशाखे वज्रलिंगं तु ज्येष्ठे मारकतं शुभम् ॥ आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्मितम् ॥ ७.१,३३.७३॥
वैशाखे वज्रलिंगम् तु ज्येष्ठे मारकतम् शुभम् ॥ आषाढे मौक्तिकम् विद्यात् श्रावणे नील-निर्मितम् ॥ ७।१,३३।७३॥
vaiśākhe vajraliṃgam tu jyeṣṭhe mārakatam śubham .. āṣāḍhe mauktikam vidyāt śrāvaṇe nīla-nirmitam .. 7.1,33.73..
मासे भाद्रपदे चैव पद्मरागमयं परम् ॥ आश्विने मासि विद्याद्वै लिंगं गोमेदकं वरम् ॥ ७.१,३३.७४॥
मासे भाद्रपदे च एव पद्मराग-मयम् परम् ॥ आश्विने मासि विद्यात् वै लिंगम् गोमेदकम् वरम् ॥ ७।१,३३।७४॥
māse bhādrapade ca eva padmarāga-mayam param .. āśvine māsi vidyāt vai liṃgam gomedakam varam .. 7.1,33.74..
कार्तिक्यां वैद्रुमं लिंगं वैदूर्यं मार्गशीर्षके ॥ पुष्परागमयं पौषे माघे द्युमणिजन्तथा ॥ ७.१,३३.७५॥
कार्तिक्याम् वैद्रुमम् लिंगम् वैदूर्यम् मार्गशीर्षके ॥ पुष्पराग-मयम् पौषे माघे द्युमणि-जन् तथा ॥ ७।१,३३।७५॥
kārtikyām vaidrumam liṃgam vaidūryam mārgaśīrṣake .. puṣparāga-mayam pauṣe māghe dyumaṇi-jan tathā .. 7.1,33.75..
फाल्गुणे चन्द्रकान्तोत्थं चैत्रे तद्व्यत्ययो ऽथवा ॥ सर्वमासेषु रत्नानामलाभे हैममेव वा ॥ ७.१,३३.७६॥
॥ सर्व-मासेषु रत्नानाम् अलाभे हैमम् एव वा ॥ ७।१,३३।७६॥
.. sarva-māseṣu ratnānām alābhe haimam eva vā .. 7.1,33.76..
हैमाभावे राजतं वा ताम्रजं शैलजन्तथा ॥ मृन्मयं वा यथालाभं जातुषं चान्यदेव वा ॥ ७.१,३३.७७॥
हैम-अभावे राजतम् वा ताम्र-जम् शैलजम् तथा ॥ मृद्-मयम् वा यथालाभम् जातुषम् च अन्यत् एव वा ॥ ७।१,३३।७७॥
haima-abhāve rājatam vā tāmra-jam śailajam tathā .. mṛd-mayam vā yathālābham jātuṣam ca anyat eva vā .. 7.1,33.77..
सर्वगंधमयं वाथ लिंगं कुर्याद्यथारुचि ॥ व्रतावसानसमये समाचरितनित्यकः ॥ ७.१,३३.७८॥
सर्व-गंध-मयम् वा अथ लिंगम् कुर्यात् यथारुचि ॥ व्रत-अवसान-समये समाचरित-नित्यकः ॥ ७।१,३३।७८॥
sarva-gaṃdha-mayam vā atha liṃgam kuryāt yathāruci .. vrata-avasāna-samaye samācarita-nityakaḥ .. 7.1,33.78..
कृत्वा वैशेषिकीं पूजां हुत्वा चैव यथा पुरा ॥ संपूज्य च तथाचार्यं व्रतिनश्च विशेषतः ॥ ७.१,३३.७९॥
कृत्वा वैशेषिकीम् पूजाम् हुत्वा च एव यथा पुरा ॥ संपूज्य च तथा आचार्यम् व्रतिनः च विशेषतः ॥ ७।१,३३।७९॥
kṛtvā vaiśeṣikīm pūjām hutvā ca eva yathā purā .. saṃpūjya ca tathā ācāryam vratinaḥ ca viśeṣataḥ .. 7.1,33.79..
देशिकेनाप्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥ दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ॥ ७.१,३३.८०॥
देशिकेन अपि अनुज्ञातः प्राच्-मुखः वा अपि उदक्-मुखः ॥ दर्भ-आसनः दर्भ-पाणिः प्राण-अपानौ नियम्य च ॥ ७।१,३३।८०॥
deśikena api anujñātaḥ prāc-mukhaḥ vā api udak-mukhaḥ .. darbha-āsanaḥ darbha-pāṇiḥ prāṇa-apānau niyamya ca .. 7.1,33.80..
जपित्वा शक्तितो मूलं ध्यात्वा साम्बं त्रियम्बकम् ॥ अनुज्ञाप्य यथापूर्वं नमस्कृत्य कृताञ्जलिः ॥ ७.१,३३.८१॥
जपित्वा शक्तितः मूलम् ध्यात्वा स अम्बम् त्रियम्बकम् ॥ अनुज्ञाप्य यथापूर्वम् नमस्कृत्य कृताञ्जलिः ॥ ७।१,३३।८१॥
japitvā śaktitaḥ mūlam dhyātvā sa ambam triyambakam .. anujñāpya yathāpūrvam namaskṛtya kṛtāñjaliḥ .. 7.1,33.81..
समुत्सृजामि भगवन्व्रतमेतत्त्वदाज्ञया ॥ इत्युक्त्वा लिंगमूलस्थान्दर्भानुत्तरतस्त्यजेत् ॥ ७.१,३३.८२॥
समुत्सृजामि भगवन् व्रतम् एतत् त्वद्-आज्ञया ॥ इति उक्त्वा लिंग-मूल-स्थान् दर्भान् उत्तरतस् त्यजेत् ॥ ७।१,३३।८२॥
samutsṛjāmi bhagavan vratam etat tvad-ājñayā .. iti uktvā liṃga-mūla-sthān darbhān uttaratas tyajet .. 7.1,33.82..
ततो दण्डजटाचीरमेखला अपि चोत्सृजेत् ॥ पुनराचम्य विधिवत्पञ्चाक्षरमुदीरयेत् ॥ ७.१,३३.८३॥
ततस् दण्ड-जटा-चीर-मेखलाः अपि च उत्सृजेत् ॥ पुनर् आचम्य विधिवत् पञ्चाक्षरम् उदीरयेत् ॥ ७।१,३३।८३॥
tatas daṇḍa-jaṭā-cīra-mekhalāḥ api ca utsṛjet .. punar ācamya vidhivat pañcākṣaram udīrayet .. 7.1,33.83..
यः कृत्वात्यंतिकीं दीक्षामादेहान्तमनाकुलः ॥ व्रतमेतत्प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ७.१,३३.८४॥
यः कृत्वा आत्यंतिकीम् दीक्षाम् आ देहान्तम् अन् आकुलः ॥ व्रतम् एतत् प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ॥ ७।१,३३।८४॥
yaḥ kṛtvā ātyaṃtikīm dīkṣām ā dehāntam an ākulaḥ .. vratam etat prakurvīta sa tu vai naiṣṭhikaḥ smṛtaḥ .. 7.1,33.84..
सो ऽत्याश्रमी च विज्ञेयो महापाशुपतस्तथा ॥ स एव तपतां श्रेष्ठ स एव च महाव्रती ॥ ७.१,३३.८५॥
सः अति आश्रमी च विज्ञेयः महापाशुपतः तथा ॥ सः एव तपताम् श्रेष्ठ सः एव च महाव्रती ॥ ७।१,३३।८५॥
saḥ ati āśramī ca vijñeyaḥ mahāpāśupataḥ tathā .. saḥ eva tapatām śreṣṭha saḥ eva ca mahāvratī .. 7.1,33.85..
न तेन सदृशः कश्चित्कृतकृत्यो मुमुक्षुषु ॥ यो यतिर्नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ॥ ७.१,३३.८६॥
न तेन सदृशः कश्चिद् कृतकृत्यः मुमुक्षुषु ॥ यः यतिः नैष्ठिकः जातः तम् आहुः नैष्ठिक-उत्तमम् ॥ ७।१,३३।८६॥
na tena sadṛśaḥ kaścid kṛtakṛtyaḥ mumukṣuṣu .. yaḥ yatiḥ naiṣṭhikaḥ jātaḥ tam āhuḥ naiṣṭhika-uttamam .. 7.1,33.86..
यो ऽन्वहं द्वादशाहं वा व्रतमेतत्समाचरेत् ॥ सो ऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ॥ ७.१,३३.८७॥
यः अन्वहम् द्वादश-अहम् वा व्रतम् एतत् समाचरेत् ॥ सः अपि नैष्ठिक-तुल्यः स्यात् तीव्र-व्रत-समन्वयात् ॥ ७।१,३३।८७॥
yaḥ anvaham dvādaśa-aham vā vratam etat samācaret .. saḥ api naiṣṭhika-tulyaḥ syāt tīvra-vrata-samanvayāt .. 7.1,33.87..
घृताक्तो यश्चरेदेतद्व्रतं व्रतपरायणः ॥ द्वित्रैकदिवसं वापि स च कश्चन नैष्ठिकः ॥ ७.१,३३.८८॥
घृत-अक्तः यः चरेत् एतत् व्रतम् व्रत-परायणः ॥ द्वित्र-एक-दिवसम् वा अपि स च कश्चन नैष्ठिकः ॥ ७।१,३३।८८॥
ghṛta-aktaḥ yaḥ caret etat vratam vrata-parāyaṇaḥ .. dvitra-eka-divasam vā api sa ca kaścana naiṣṭhikaḥ .. 7.1,33.88..
कृत्यमित्येव निष्कामो यश्चरेद्व्रतमुत्तमम् ॥ शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ॥ ७.१,३३.८९॥
कृत्यम् इति एव निष्कामः यः चरेत् व्रतम् उत्तमम् ॥ शिव-अर्पित-आत्मा सततम् न तेन सदृशः क्वचिद् ॥ ७।१,३३।८९॥
kṛtyam iti eva niṣkāmaḥ yaḥ caret vratam uttamam .. śiva-arpita-ātmā satatam na tena sadṛśaḥ kvacid .. 7.1,33.89..
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ॥ पापैस्सुदारुणैस्सद्यो मुच्यते नात्र संशयः ॥ ७.१,३३.९०॥
भस्म-छन्नः द्विजः विद्वान् महापातक-संभवैः ॥ पापैः सु दारुणैः सद्यस् मुच्यते न अत्र संशयः ॥ ७।१,३३।९०॥
bhasma-channaḥ dvijaḥ vidvān mahāpātaka-saṃbhavaiḥ .. pāpaiḥ su dāruṇaiḥ sadyas mucyate na atra saṃśayaḥ .. 7.1,33.90..
रुद्राग्निर्यत्परं वीर्यन्तद्भस्म परिकीर्तितम् ॥ तस्मात्सर्वेषु कालेषु वीर्यवान्भस्मसंयुतः ॥ ७.१,३३.९१॥
रुद्र-अग्निः यत् परम् वीर्यम् तत् भस्म परिकीर्तितम् ॥ तस्मात् सर्वेषु कालेषु वीर्यवान् भस्म-संयुतः ॥ ७।१,३३।९१॥
rudra-agniḥ yat param vīryam tat bhasma parikīrtitam .. tasmāt sarveṣu kāleṣu vīryavān bhasma-saṃyutaḥ .. 7.1,33.91..
भस्मनिष्ठस्य नश्यन्ति देषा भस्माग्निसंगमात् ॥ भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ॥ ७.१,३३.९२॥
भस्म-निष्ठस्य नश्यन्ति भस्म-अग्नि-संगमात् ॥ भस्म-स्नान-विशुद्ध-आत्मा भस्म-निष्ठः इति स्मृतः ॥ ७।१,३३।९२॥
bhasma-niṣṭhasya naśyanti bhasma-agni-saṃgamāt .. bhasma-snāna-viśuddha-ātmā bhasma-niṣṭhaḥ iti smṛtaḥ .. 7.1,33.92..
भस्मना दिग्धसर्वांगो भस्मदीप्तत्रिपुंड्रकः ॥ भस्मस्नायी च पुरुषो भस्मनिष्ठ इति स्मृतः ॥ ७.१,३३.९३॥
भस्मना दिग्ध-सर्व-अंगः भस्म-दीप्त-त्रिपुंड्रकः ॥ भस्म-स्नायी च पुरुषः भस्म-निष्ठः इति स्मृतः ॥ ७।१,३३।९३॥
bhasmanā digdha-sarva-aṃgaḥ bhasma-dīpta-tripuṃḍrakaḥ .. bhasma-snāyī ca puruṣaḥ bhasma-niṣṭhaḥ iti smṛtaḥ .. 7.1,33.93..
भूतप्रेतपिशासाश्च रोगाश्चातीव दुस्सहाः ॥ भस्मनिष्ठस्य सान्निध्याद्विद्रवंति न संशयः ॥ ७.१,३३.९४॥
भूत-प्रेत-पिशासाः च रोगाः च अतीव दुस्सहाः ॥ भस्म-निष्ठस्य सान्निध्यात् विद्रवंति न संशयः ॥ ७।१,३३।९४॥
bhūta-preta-piśāsāḥ ca rogāḥ ca atīva dussahāḥ .. bhasma-niṣṭhasya sānnidhyāt vidravaṃti na saṃśayaḥ .. 7.1,33.94..
भासनाद्भासितं प्रोक्तं भस्म कल्मषभक्षणात् ॥ भूतिभूतिकरी चैव रक्षा रक्षाकरी परम् ॥ ७.१,३३.९५॥
भासनात् भासितम् प्रोक्तम् भस्म कल्मष-भक्षणात् ॥ भूति-भूति-करी च एव रक्षा रक्षा-करी परम् ॥ ७।१,३३।९५॥
bhāsanāt bhāsitam proktam bhasma kalmaṣa-bhakṣaṇāt .. bhūti-bhūti-karī ca eva rakṣā rakṣā-karī param .. 7.1,33.95..
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ॥ व्रती च भस्मना स्नातस्स्वयं देवो महेश्वरः ॥ ७.१,३३.९६॥
किम् अन्यत् इह वक्तव्यम् भस्म-माहात्म्य-कारणम् ॥ व्रती च भस्मना स्नातः स्वयम् देवः महेश्वरः ॥ ७।१,३३।९६॥
kim anyat iha vaktavyam bhasma-māhātmya-kāraṇam .. vratī ca bhasmanā snātaḥ svayam devaḥ maheśvaraḥ .. 7.1,33.96..
परमास्त्रं च शैवानां भस्मैतत्पारमेश्वरम् ॥ धौम्याग्रजस्य तपसि व्यापदो यन्निवारिताः ॥ ७.१,३३.९७॥
परम-अस्त्रम् च शैवानाम् भस्म एतत् पारमेश्वरम् ॥ धौम्य-अग्रजस्य तपसि व्यापदः यत् निवारिताः ॥ ७।१,३३।९७॥
parama-astram ca śaivānām bhasma etat pārameśvaram .. dhaumya-agrajasya tapasi vyāpadaḥ yat nivāritāḥ .. 7.1,33.97..
तस्मात्सर्वप्रयत्नेन कृत्वा पाशुपतव्रतम् ॥ धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥ ७.१,३३.९८॥
तस्मात् सर्व-प्रयत्नेन कृत्वा पाशुपत-व्रतम् ॥ धनवत् भस्म संगृह्य भस्म-स्नान-रतः भवेत् ॥ ७।१,३३।९८॥
tasmāt sarva-prayatnena kṛtvā pāśupata-vratam .. dhanavat bhasma saṃgṛhya bhasma-snāna-rataḥ bhavet .. 7.1,33.98..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं नाम त्रयस्त्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे पशुपतिव्रतविधानवर्णनम् नाम त्रयस्त्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe paśupativratavidhānavarṇanam nāma trayastriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In