| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ॥ तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ ७.१,३४.१॥
धौम्य-अग्रजेन शिशुना क्षीर-अर्थम् हि तपः कृतम् ॥ तस्मात् क्षीरार्णवः दत्तः तस्मै देवेन शूलिना ॥ ७।१,३४।१॥
dhaumya-agrajena śiśunā kṣīra-artham hi tapaḥ kṛtam .. tasmāt kṣīrārṇavaḥ dattaḥ tasmai devena śūlinā .. 7.1,34.1..
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥ कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ ७.१,३४.२॥
स कथम् शिशुकः लेभे शिव-शास्त्र-प्रवक्तृ-ताम् ॥ कथम् वा शिव-सद्भावम् ज्ञात्वा तपसि निष्ठितः ॥ ७।१,३४।२॥
sa katham śiśukaḥ lebhe śiva-śāstra-pravaktṛ-tām .. katham vā śiva-sadbhāvam jñātvā tapasi niṣṭhitaḥ .. 7.1,34.2..
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥ रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ७.१,३४.३॥
कथम् च लब्ध-विज्ञानः तपः-चरण-पर्वणि ॥ रुद्र-अग्नेः यत् परम् वीर्यम् लभे भस्म स्व-रक्षकम् ॥ ७।१,३४।३॥
katham ca labdha-vijñānaḥ tapaḥ-caraṇa-parvaṇi .. rudra-agneḥ yat param vīryam labhe bhasma sva-rakṣakam .. 7.1,34.3..
वायुरुवाच॥
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥ मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ७.१,३४.४॥
न हि एष शिशुकः कश्चिद् प्राकृतः कृतवान् तपः ॥ मुनि-वर्यस्य तनयः व्याघ्रपादस्य धीमतः ॥ ७।१,३४।४॥
na hi eṣa śiśukaḥ kaścid prākṛtaḥ kṛtavān tapaḥ .. muni-varyasya tanayaḥ vyāghrapādasya dhīmataḥ .. 7.1,34.4..
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥ स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ७.१,३४.५॥
जन्म-अन्तरेण संसिद्धः केन अपि खलु हेतुना ॥ स्व-पद-प्रच्युतः दिष्ट्या प्राप्तः मुनि-कुमार-ताम् ॥ ७।१,३४।५॥
janma-antareṇa saṃsiddhaḥ kena api khalu hetunā .. sva-pada-pracyutaḥ diṣṭyā prāptaḥ muni-kumāra-tām .. 7.1,34.5..
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ॥ दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ७.१,३४.६॥
महादेव-प्रसादस्य भाग्य-आपन्नस्य भाविनः ॥ दुग्ध-अभिलाष-प्रभव-द्वार-ताम् अगमत् तपः ॥ ७।१,३४।६॥
mahādeva-prasādasya bhāgya-āpannasya bhāvinaḥ .. dugdha-abhilāṣa-prabhava-dvāra-tām agamat tapaḥ .. 7.1,34.6..
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ॥ सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम् ॥ ७.१,३४.७॥
अतस् सर्व-गण-ईश-त्वम् कुमार-त्वम् च शाश्वतम् ॥ सह दुग्ध-अब्धिना तस्मै प्रददौ शंकरः स्वयम् ॥ ७।१,३४।७॥
atas sarva-gaṇa-īśa-tvam kumāra-tvam ca śāśvatam .. saha dugdha-abdhinā tasmai pradadau śaṃkaraḥ svayam .. 7.1,34.7..
तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् ॥ कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ७.१,३४.८॥
तस्य ज्ञान-आगम-उप्यस्य प्रसादात् एव शांकरात् ॥ कौमारम् हि परम् साक्षात् ज्ञानम् शक्ति-मयम् विदुः ॥ ७।१,३४।८॥
tasya jñāna-āgama-upyasya prasādāt eva śāṃkarāt .. kaumāram hi param sākṣāt jñānam śakti-mayam viduḥ .. 7.1,34.8..
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ॥ कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः ॥ ७.१,३४.९॥
शिव-शास्त्र-प्रवक्तृ-त्वम् अपि तस्य हि तत् कृतम् ॥ कुमारः मुनितः लब्ध-ज्ञान-अब्धिः इव नन्दनः ॥ ७।१,३४।९॥
śiva-śāstra-pravaktṛ-tvam api tasya hi tat kṛtam .. kumāraḥ munitaḥ labdha-jñāna-abdhiḥ iva nandanaḥ .. 7.1,34.9..
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ॥ स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ ७.१,३४.१०॥
दृष्टम् तु कारणम् तस्य शिव-ज्ञान-समन्वये ॥ स्व-मातृ-वचनम् साक्षात् शोक-जम् क्षीर-कारणात् ॥ ७।१,३४।१०॥
dṛṣṭam tu kāraṇam tasya śiva-jñāna-samanvaye .. sva-mātṛ-vacanam sākṣāt śoka-jam kṣīra-kāraṇāt .. 7.1,34.10..
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ॥ ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम् ॥ ७.१,३४.११॥
कदाचिद् क्षीरम् अति अल्पम् पीतवान् मातुल-आश्रमे ॥ ईर्षयया मातुल-सुतम् संतृप्त-क्षीरम् उत्तमम् ॥ ७।१,३४।११॥
kadācid kṣīram ati alpam pītavān mātula-āśrame .. īrṣayayā mātula-sutam saṃtṛpta-kṣīram uttamam .. 7.1,34.11..
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ॥ उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ ७.१,३४.१२॥
पीत्वा स्थितम् यथाकामम् दृष्ट्वा वै मातुल-आत्मजम् ॥ उपमन्युः व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ ७।१,३४।१२॥
pītvā sthitam yathākāmam dṛṣṭvā vai mātula-ātmajam .. upamanyuḥ vyāghrapādiḥ prītyā provāca mātaram .. 7.1,34.12..
उपमन्युरुवाच॥
मातर्मातर्महाभागे मम देहि तपस्विनि ॥ गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ ७.१,३४.१३॥
मातर् मातर् महाभागे मम देहि तपस्विनि ॥ गव्यम् क्षीरम् अति स्वादु न अल्पम् उष्णम् पिबामि अहम् ॥ ७।१,३४।१३॥
mātar mātar mahābhāge mama dehi tapasvini .. gavyam kṣīram ati svādu na alpam uṣṇam pibāmi aham .. 7.1,34.13..
वायुरुवाच॥
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ॥ व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ ७.१,३४.१४॥
तत् श्रुत्वा पुत्र-वचनम् तद्-माता च तपस्विनी ॥ व्याघ्रपादस्य महिषी दुःखम् आपत् तदा च सा ॥ ७।१,३४।१४॥
tat śrutvā putra-vacanam tad-mātā ca tapasvinī .. vyāghrapādasya mahiṣī duḥkham āpat tadā ca sā .. 7.1,34.14..
उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् ॥ दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ ७.१,३४.१५॥
उपलाल्य अथ सु प्रीत्या पुत्रम् आलिंग्य स आदरम् ॥ दुःखिता विललाप अथ स्मृत्वा नैर्धन्यम् आत्मनः ॥ ७।१,३४।१५॥
upalālya atha su prītyā putram āliṃgya sa ādaram .. duḥkhitā vilalāpa atha smṛtvā nairdhanyam ātmanaḥ .. 7.1,34.15..
स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ॥ देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ ७.१,३४.१६॥
स्मृत्वा अ स्मृत्वा पुनर् क्षीरम् उपमन्युः स बालकः ॥ देहि देहि इति ताम् आह रुद्रन् भूयस् महा-द्युतिः ॥ ७।१,३४।१६॥
smṛtvā a smṛtvā punar kṣīram upamanyuḥ sa bālakaḥ .. dehi dehi iti tām āha rudran bhūyas mahā-dyutiḥ .. 7.1,34.16..
तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ॥ शान्तये तद्धठस्याथ शुभोपायमरीरचत् ॥ ७.१,३४.१७॥
तत् हठम् सा परिज्ञाय द्विज-पत्नी तपस्विनी ॥ शान्तये तद्-हठस्य अथ शुभ-उपायम् अरीरचत् ॥ ७।१,३४।१७॥
tat haṭham sā parijñāya dvija-patnī tapasvinī .. śāntaye tad-haṭhasya atha śubha-upāyam arīracat .. 7.1,34.17..
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ॥ बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ ७.१,३४.१८॥
उञ्छ-वृत्त्या अर्जितान् बीजान् स्वयम् दृष्ट्वा च सा तदा ॥ बीज-पिष्टम् अथ आलोड्य तोयेन कल-भाषिणी ॥ ७।१,३४।१८॥
uñcha-vṛttyā arjitān bījān svayam dṛṣṭvā ca sā tadā .. bīja-piṣṭam atha āloḍya toyena kala-bhāṣiṇī .. 7.1,34.18..
एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ॥ आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ ७.१,३४.१९॥
एहि एहि मम पुत्र इति साम-पूर्वम् ततस् सुतम् ॥ आलिंग्य आदाय दुःख-आर्ता प्रददौ कृत्रिमम् पयः ॥ ७।१,३४।१९॥
ehi ehi mama putra iti sāma-pūrvam tatas sutam .. āliṃgya ādāya duḥkha-ārtā pradadau kṛtrimam payaḥ .. 7.1,34.19..
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ॥ नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ ७.१,३४.२०॥
पीत्वा च कृत्रिमम् क्षीरम् मात्राम् दत्तम् स बालकः ॥ न एतत् क्षीरम् इति प्राह मातरम् च अति विह्वलः ॥ ७।१,३४।२०॥
pītvā ca kṛtrimam kṣīram mātrām dattam sa bālakaḥ .. na etat kṣīram iti prāha mātaram ca ati vihvalaḥ .. 7.1,34.20..
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥ समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ ७.१,३४.२१॥
दुःखिता सा तदा प्राह संप्रेक्ष्य आघ्राय मूर्धनि ॥ समार्ज्य पुत्रस्य कराभ्याम् कमलायते ॥ ७।१,३४।२१॥
duḥkhitā sā tadā prāha saṃprekṣya āghrāya mūrdhani .. samārjya putrasya karābhyām kamalāyate .. 7.1,34.21..
जनन्युवाच॥
तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥ भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ ७.१,३४.२२॥
तटिनीः रत्न-पूर्णाः ताः स्वर्ग-पाताल-गोचराः ॥ भाग्य-हीनाः न पश्यन्ति भक्ति-हीनाः च ये शिवे ॥ ७।१,३४।२२॥
taṭinīḥ ratna-pūrṇāḥ tāḥ svarga-pātāla-gocarāḥ .. bhāgya-hīnāḥ na paśyanti bhakti-hīnāḥ ca ye śive .. 7.1,34.22..
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥ न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ ७.१,३४.२३॥
राज्यम् स्वर्गम् च मोक्षम् च भोजनम् क्षीर-संभवम् ॥ न लभन्ते प्रियाणि एषाम् न तुष्यति यदा शिवः ॥ ७।१,३४।२३॥
rājyam svargam ca mokṣam ca bhojanam kṣīra-saṃbhavam .. na labhante priyāṇi eṣām na tuṣyati yadā śivaḥ .. 7.1,34.23..
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥ अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ ७.१,३४.२४॥
भव-प्रसाद-जम् सर्वम् न अन्यत् देव-प्रसाद-जम् ॥ अन्य-देवेषु निरताः दुःख-आर्ताः विभ्रमन्ति च ॥ ७।१,३४।२४॥
bhava-prasāda-jam sarvam na anyat deva-prasāda-jam .. anya-deveṣu niratāḥ duḥkha-ārtāḥ vibhramanti ca .. 7.1,34.24..
क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥ क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ ७.१,३४.२५॥
क्षीरम् तत्र कुतस् अस्माकम् वने निवसताम् सदा ॥ क्व दुग्ध-साधनम् वत्स क्व वयम् वन-वासिनः ॥ ७।१,३४।२५॥
kṣīram tatra kutas asmākam vane nivasatām sadā .. kva dugdha-sādhanam vatsa kva vayam vana-vāsinaḥ .. 7.1,34.25..
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ॥ मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा ॥ ७.१,३४.२६॥
कृत्स्न-अभावेन दारिद्र्यात् मया ते भाग्य-हीनया ॥ मिथ्यादुग्धम् इदम् दत्तम् पिष्टम् आलोड्य वारिणा ॥ ७।१,३४।२६॥
kṛtsna-abhāvena dāridryāt mayā te bhāgya-hīnayā .. mithyādugdham idam dattam piṣṭam āloḍya vāriṇā .. 7.1,34.26..
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ॥ ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ ७.१,३४.२७॥
त्वम् मातुल-गृहे सु अल्पम् पीत्वा स्वादु पयः शृतम् ॥ ज्ञात्वा स्वादु त्वया पीतम् तद्-जातीयम् अनुस्मरन् ॥ ७।१,३४।२७॥
tvam mātula-gṛhe su alpam pītvā svādu payaḥ śṛtam .. jñātvā svādu tvayā pītam tad-jātīyam anusmaran .. 7.1,34.27..
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ॥ प्रसादेन विना शंभो पयस्तव न विद्यते ॥ ७.१,३४.२८॥
दत्तम् न पयः इति उक्त्वा रुदन् दुःखीकरोषि माम् ॥ प्रसादेन विना शंभो पयः तव न विद्यते ॥ ७।१,३४।२८॥
dattam na payaḥ iti uktvā rudan duḥkhīkaroṣi mām .. prasādena vinā śaṃbho payaḥ tava na vidyate .. 7.1,34.28..
पादपंकजयोस्तस्य साम्बस्य सगणस्य च ॥ भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥ ७.१,३४.२९॥
पाद-पंकजयोः तस्य स अम्बस्य स गणस्य च ॥ भक्त्या समर्पितम् यत् तत् कारणम् सर्व-सम्पदाम् ॥ ७।१,३४।२९॥
pāda-paṃkajayoḥ tasya sa ambasya sa gaṇasya ca .. bhaktyā samarpitam yat tat kāraṇam sarva-sampadām .. 7.1,34.29..
अधुना वसुदोस्माभिर्महादेवो न पूजितः ॥ सकामानां यथाकामं यथोक्तफलदायकः ॥ ७.१,३४.३०॥
अधुना वसुदः स्माभिः महादेवः न पूजितः ॥ ॥ ७।१,३४।३०॥
adhunā vasudaḥ smābhiḥ mahādevaḥ na pūjitaḥ .. .. 7.1,34.30..
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ॥ अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः ॥ ७.१,३४.३१॥
धनानि उद्दिश्य न अस्माभिः इतस् प्राक् अर्चितः शिवः ॥ अतस् दरिद्राः संजाताः वयम् तस्मात् न ते पयः ॥ ७।१,३४।३१॥
dhanāni uddiśya na asmābhiḥ itas prāk arcitaḥ śivaḥ .. atas daridrāḥ saṃjātāḥ vayam tasmāt na te payaḥ .. 7.1,34.31..
पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ॥ तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम् ॥ ७.१,३४.३२॥
पूर्व-जन्मनि यत् दत्तम् शिवम् उद्दिश्य वै सुतः ॥ तत् एव लभ्यते न अन्यत् विष्णुम् उद्दिश्य वा प्रभुम् ॥ ७।१,३४।३२॥
pūrva-janmani yat dattam śivam uddiśya vai sutaḥ .. tat eva labhyate na anyat viṣṇum uddiśya vā prabhum .. 7.1,34.32..
वायुरुवाच॥
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ॥ बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत् ॥ ७.१,३४.३३॥
इति मातृ-वचः श्रुत्वा तथ्यम् शोक-आदि-सूचकम् ॥ बालः अपि अनुतपन् अन्तर् प्रगल्भम् इदम् अब्रवीत् ॥ ७।१,३४।३३॥
iti mātṛ-vacaḥ śrutvā tathyam śoka-ādi-sūcakam .. bālaḥ api anutapan antar pragalbham idam abravīt .. 7.1,34.33..
उपमन्युरुवाच॥
शोकेनालमितो मातः सांबो यद्यस्ति शंकरः ॥ त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥ ७.१,३४.३४॥
शोकेन अलम् इतस् मातर् स अंबः यदी अस्ति शंकरः ॥ त्यज शोकम् महाभागे सर्वम् भद्रम् भविष्यति ॥ ७।१,३४।३४॥
śokena alam itas mātar sa aṃbaḥ yadī asti śaṃkaraḥ .. tyaja śokam mahābhāge sarvam bhadram bhaviṣyati .. 7.1,34.34..
शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ॥ चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥ ७.१,३४.३५॥
शृणु मातर् वचः मेद्य महादेवः अस्ति चेद् क्वचिद् ॥ चिरात् वा हि अचिरात् वा अपि क्षीरोदम् साधयामि अहम् ॥ ७।१,३४।३५॥
śṛṇu mātar vacaḥ medya mahādevaḥ asti ced kvacid .. cirāt vā hi acirāt vā api kṣīrodam sādhayāmi aham .. 7.1,34.35..
वायुरुवाच॥
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ॥ प्रत्युवाच तदा माता सुप्रसन्ना मनस्विनी ॥ ७.१,३४.३६॥
इति श्रुत्वा वचः तस्य बालकस्य महामतेः ॥ प्रत्युवाच तदा माता सु प्रसन्ना मनस्विनी ॥ ७।१,३४।३६॥
iti śrutvā vacaḥ tasya bālakasya mahāmateḥ .. pratyuvāca tadā mātā su prasannā manasvinī .. 7.1,34.36..
मातोवाच॥
शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् ॥ विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम् ॥ ७.१,३४.३७॥
शुभम् विचारितम् तात त्वया मद्-प्रीति-वर्धनम् ॥ विलंबम् मा कथाः त्वम् हि भज स अंबम् सदाशिवम् ॥ ७।१,३४।३७॥
śubham vicāritam tāta tvayā mad-prīti-vardhanam .. vilaṃbam mā kathāḥ tvam hi bhaja sa aṃbam sadāśivam .. 7.1,34.37..
सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ॥ तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः ॥ ७.१,३४.३८॥
सर्वस्मात् अधिकः अस्ति एव शिवः परम-कारणम् ॥ तत् कृतम् हि जगत् सर्वम् ब्रह्म-आद्याः तस्य किंकराः ॥ ७।१,३४।३८॥
sarvasmāt adhikaḥ asti eva śivaḥ parama-kāraṇam .. tat kṛtam hi jagat sarvam brahma-ādyāḥ tasya kiṃkarāḥ .. 7.1,34.38..
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ॥ तं विनान्यं न जानीमश्शंकरं लोकशंकरम् ॥ ७.१,३४.३९॥
तद्-प्रसाद-कृत-ऐश्वर्याः दासाः तस्य वयम् प्रभोः ॥ तम् विना अन्यम् न जानीमः शंकरम् लोक-शंकरम् ॥ ७।१,३४।३९॥
tad-prasāda-kṛta-aiśvaryāḥ dāsāḥ tasya vayam prabhoḥ .. tam vinā anyam na jānīmaḥ śaṃkaram loka-śaṃkaram .. 7.1,34.39..
अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ॥ तमेव सांबं सगणं भज भावपुरस्सरम् ॥ ७.१,३४.४०॥
अन्यान् देवान् परित्यज्य कर्मणा मनसा गिरा ॥ तम् एव स अंबम् स गणम् भज भाव-पुरस्सरम् ॥ ७।१,३४।४०॥
anyān devān parityajya karmaṇā manasā girā .. tam eva sa aṃbam sa gaṇam bhaja bhāva-purassaram .. 7.1,34.40..
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥ साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥ ७.१,३४.४१॥
तस्य देव-अधिदेवस्य शिवस्य वर-दायिनः ॥ साक्षात् नमः शिवाय इति मंत्रः अयम् वाचकः स्मृतः ॥ ७।१,३४।४१॥
tasya deva-adhidevasya śivasya vara-dāyinaḥ .. sākṣāt namaḥ śivāya iti maṃtraḥ ayam vācakaḥ smṛtaḥ .. 7.1,34.41..
सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥ तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥ ७.१,३४.४२॥
सप्त-कोटि-महा-मंत्राः सर्वे स प्रणवाः परे ॥ तस्मिन् एव विलीयंते पुनर् तस्मात् विनिर्गताः ॥ ७।१,३४।४२॥
sapta-koṭi-mahā-maṃtrāḥ sarve sa praṇavāḥ pare .. tasmin eva vilīyaṃte punar tasmāt vinirgatāḥ .. 7.1,34.42..
सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥ सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥ ७.१,३४.४३॥
स प्रसादाः च ते मंत्राः स्व-अधिकार-आदि-अपेक्षया ॥ सर्व-अधिकारः तु एकः अयम् मंत्रः एव ईश्वर-आज्ञया ॥ ७।१,३४।४३॥
sa prasādāḥ ca te maṃtrāḥ sva-adhikāra-ādi-apekṣayā .. sarva-adhikāraḥ tu ekaḥ ayam maṃtraḥ eva īśvara-ājñayā .. 7.1,34.43..
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥ क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥ ७.१,३४.४४॥
यथा निकृष्टान् उत्कृष्टान् सर्वान् अपि आत्मनः शिवः ॥ क्षमते रक्षितुम् तद्वत् मंत्रः अयम् अपि सर्वदा ॥ ७।१,३४।४४॥
yathā nikṛṣṭān utkṛṣṭān sarvān api ātmanaḥ śivaḥ .. kṣamate rakṣitum tadvat maṃtraḥ ayam api sarvadā .. 7.1,34.44..
प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥ सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥ ७.१,३४.४५॥
प्रबलः च तथा हि एष मंत्रः मन्त्र-अन्तरात् अपि ॥ सर्व-रक्षा-क्षमः अपि एष न अपरः कश्चिद् इष्यते ॥ ७।१,३४।४५॥
prabalaḥ ca tathā hi eṣa maṃtraḥ mantra-antarāt api .. sarva-rakṣā-kṣamaḥ api eṣa na aparaḥ kaścid iṣyate .. 7.1,34.45..
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ॥ तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम् ॥ ७.१,३४.४६॥
तस्मात् मन्त्र-अन्तरान् त्यक्त्वा पञ्चाक्षर-परः भव ॥ तस्मिन् जिह्वा-अंतर-गते न किंचिद् इह दुर्लभम् ॥ ७।१,३४।४६॥
tasmāt mantra-antarān tyaktvā pañcākṣara-paraḥ bhava .. tasmin jihvā-aṃtara-gate na kiṃcid iha durlabham .. 7.1,34.46..
अघोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ॥ तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥ ७.१,३४.४७॥
अघोर-अस्त्रम् च शैवानाम् रक्षा-हेतुः अनुत्तमम् ॥ तत् च तद्-प्रभवम् मत्वा तद्-परः भव ना अन्यथा ॥ ७।१,३४।४७॥
aghora-astram ca śaivānām rakṣā-hetuḥ anuttamam .. tat ca tad-prabhavam matvā tad-paraḥ bhava nā anyathā .. 7.1,34.47..
भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ॥ विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥ ७.१,३४.४८॥
मया लब्धम् पितुः एव तव उत्तमम् ॥ महा- ॥ ७।१,३४।४८॥
mayā labdham pituḥ eva tava uttamam .. mahā- .. 7.1,34.48..
मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया ॥ अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥ ७.१,३४.४९॥
मंत्रम् च ते मया दत्तम् गृहाण मद्-अनुज्ञया ॥ अनेन एव आशु जप्तेन रक्षा तव भविष्यति ॥ ७।१,३४।४९॥
maṃtram ca te mayā dattam gṛhāṇa mad-anujñayā .. anena eva āśu japtena rakṣā tava bhaviṣyati .. 7.1,34.49..
वायुरुवाच॥
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ॥ विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥ ७.१,३४.५०॥
एवम् मात्रा समादिश्य शिवम् अस्तु इति उदीर्य च ॥ विसृष्टः तद्-वचः मूर्ध्नि कुर्वन् एव तदा मुनिः ॥ ७।१,३४।५०॥
evam mātrā samādiśya śivam astu iti udīrya ca .. visṛṣṭaḥ tad-vacaḥ mūrdhni kurvan eva tadā muniḥ .. 7.1,34.50..
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ॥ तमाह च तदा माता शुभं कुर्वंतु ते सुराः ॥ ७.१,३४.५१॥
ताम् प्रणम्य एवम् उक्त्वा च तपः कर्तुम् प्रचक्रमे ॥ तम् आह च तदा माता शुभम् कुर्वंतु ते सुराः ॥ ७।१,३४।५१॥
tām praṇamya evam uktvā ca tapaḥ kartum pracakrame .. tam āha ca tadā mātā śubham kurvaṃtu te surāḥ .. 7.1,34.51..
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ॥ हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥ ७.१,३४.५२॥
अनुज्ञातः तया तत्र तपः तेपे स दुश्चरम् ॥ हिमवत्-पर्वतम् प्राप्य वायुभक्षः समाहितः ॥ ७।१,३४।५२॥
anujñātaḥ tayā tatra tapaḥ tepe sa duścaram .. himavat-parvatam prāpya vāyubhakṣaḥ samāhitaḥ .. 7.1,34.52..
अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् ॥ तत्रावाह्य महादेवं सांबं सगणमव्ययम् ॥ ७.१,३४.५३॥
अष्ट-इष्टकाभिः प्रसादम् कृत्वा लिंगम् च मृद्-मयम् ॥ तत्र आवाह्य महादेवम् स अंबम् स गणम् अव्ययम् ॥ ७।१,३४।५३॥
aṣṭa-iṣṭakābhiḥ prasādam kṛtvā liṃgam ca mṛd-mayam .. tatra āvāhya mahādevam sa aṃbam sa gaṇam avyayam .. 7.1,34.53..
भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ॥ समभ्यर्च्य चिरं कालं चचार परमं तपः ॥ ७.१,३४.५४॥
भक्त्या पञ्चाक्षरेण एव पुत्रैः पुष्पैः वन-उद्भवैः ॥ समभ्यर्च्य चिरम् कालम् चचार परमम् तपः ॥ ७।१,३४।५४॥
bhaktyā pañcākṣareṇa eva putraiḥ puṣpaiḥ vana-udbhavaiḥ .. samabhyarcya ciram kālam cacāra paramam tapaḥ .. 7.1,34.54..
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ॥ उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥ ७.१,३४.५५॥
ततस् तपः चरत् तम् तम् बालम् एकाकिनम् कृशम् ॥ उपमन्युम् द्विज-वरम् शिव-संसक्त-मानसम् ॥ ७।१,३४।५५॥
tatas tapaḥ carat tam tam bālam ekākinam kṛśam .. upamanyum dvija-varam śiva-saṃsakta-mānasam .. 7.1,34.55..
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥ संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥ ७.१,३४.५६॥
पुरा मरीचिना शप्ताः केचिद् मुनि-पिशाचकाः ॥ संपीड्य राक्षसैः भावैः तपसः विघ्नम् आचरन् ॥ ७।१,३४।५६॥
purā marīcinā śaptāḥ kecid muni-piśācakāḥ .. saṃpīḍya rākṣasaiḥ bhāvaiḥ tapasaḥ vighnam ācaran .. 7.1,34.56..
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥ सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥ ७.१,३४.५७॥
स च तैः पीड्यमानः अपि तपः कुर्वन् कथञ्चन ॥ सदा नमः शिवाय इति क्रोशति स्मार्त-नाद-वत् ॥ ७।१,३४।५७॥
sa ca taiḥ pīḍyamānaḥ api tapaḥ kurvan kathañcana .. sadā namaḥ śivāya iti krośati smārta-nāda-vat .. 7.1,34.57..
तन्नादश्रवणादेव तपसो विघ्नकारिणः ॥ ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥ ७.१,३४.५८॥
तद्-नाद-श्रवणात् एव तपसः विघ्न-कारिणः ॥ ते तम् बालम् समुत्सृज्य मुनयः समुपाचरन् ॥ ७।१,३४।५८॥
tad-nāda-śravaṇāt eva tapasaḥ vighna-kāriṇaḥ .. te tam bālam samutsṛjya munayaḥ samupācaran .. 7.1,34.58..
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥ चराचरं च मुनयः प्रदीपितमभूज्जगत् ॥ ७.१,३४.५९॥
तपसा तस्य विप्रस्य च उपमन्योः महात्मनः ॥ चराचरम् च मुनयः प्रदीपितम् अभूत् जगत् ॥ ७।१,३४।५९॥
tapasā tasya viprasya ca upamanyoḥ mahātmanaḥ .. carācaram ca munayaḥ pradīpitam abhūt jagat .. 7.1,34.59..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे उपमन्युतपोवर्णनम् नाम चतुस्त्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe upamanyutapovarṇanam nāma catustriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In