| |
|

This overlay will guide you through the buttons:

वायुरुवाच॥
अथ सर्वे प्रदीप्तांगा वैकुण्ठं प्रययुर्द्रुतम् ॥ प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ ७.१,३५.१॥
अथ सर्वे प्रदीप्त-अंगाः वैकुण्ठम् प्रययुः द्रुतम् ॥ प्रणम्य आहुः च तत् सर्वम् हरये देव-सत्तमाः ॥ ७।१,३५।१॥
atha sarve pradīpta-aṃgāḥ vaikuṇṭham prayayuḥ drutam .. praṇamya āhuḥ ca tat sarvam haraye deva-sattamāḥ .. 7.1,35.1..
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ॥ किमिदन्त्विति संचिन्त्य ज्ञात्वा तत्कारणं च सः ॥ ७.१,३५.२॥
श्रुत्वा तेषाम् तदा वाक्यम् भगवान् पुरुषोत्तमः ॥ किम् इदन्तु इति संचिन्त्य ज्ञात्वा तद्-कारणम् च सः ॥ ७।१,३५।२॥
śrutvā teṣām tadā vākyam bhagavān puruṣottamaḥ .. kim idantu iti saṃcintya jñātvā tad-kāraṇam ca saḥ .. 7.1,35.2..
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥ दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृतांजलिः ॥ ७.१,३५.३॥
जगाम मन्दरम् तूर्णम् महेश्वर-दिदृक्षया ॥ दृष्ट्वा देवम् प्रणम्य एवम् प्रोवाच सु कृत-अंजलिः ॥ ७।१,३५।३॥
jagāma mandaram tūrṇam maheśvara-didṛkṣayā .. dṛṣṭvā devam praṇamya evam provāca su kṛta-aṃjaliḥ .. 7.1,35.3..
विष्णुरुवाच॥
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥ क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ७.१,३५.४॥
भगवन् ब्राह्मणः कश्चिद् उपमन्युः इति श्रुतः ॥ क्षीर-अर्थम् अदहत् सर्वम् तपसा तत् निवारय ॥ ७।१,३५।४॥
bhagavan brāhmaṇaḥ kaścid upamanyuḥ iti śrutaḥ .. kṣīra-artham adahat sarvam tapasā tat nivāraya .. 7.1,35.4..
वायुरुवाच॥
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ॥ शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ७.१,३५.५॥
इति श्रुत्वा वचः विष्णोः प्राह देवः महेश्वरः ॥ शिशुम् निवारयिष्यामि तत् त्वम् गच्छ स्वम् आश्रमम् ॥ ७।१,३५।५॥
iti śrutvā vacaḥ viṣṇoḥ prāha devaḥ maheśvaraḥ .. śiśum nivārayiṣyāmi tat tvam gaccha svam āśramam .. 7.1,35.5..
तच्छ्रुत्वा शंभुवचनं स विष्णुर्देववल्लभः ॥ जगामाश्वास्य तान्सर्वान्स्वलोकममरादिकान् ॥ ७.१,३५.६॥
तत् श्रुत्वा शंभु-वचनम् स विष्णुः देव-वल्लभः ॥ जगाम आश्वास्य तान् सर्वान् स्व-लोकम् अमर-आदिकान् ॥ ७।१,३५।६॥
tat śrutvā śaṃbhu-vacanam sa viṣṇuḥ deva-vallabhaḥ .. jagāma āśvāsya tān sarvān sva-lokam amara-ādikān .. 7.1,35.6..
एतस्मिन्नंतरे देवः पिनाकी परमेश्वरः ॥ शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ७.१,३५.७॥
एतस्मिन् अन्तरे देवः पिनाकी परमेश्वरः ॥ शक्रस्य रूपम् आस्थाय गन्तुम् चक्रे मतिम् ततस् ॥ ७।१,३५।७॥
etasmin antare devaḥ pinākī parameśvaraḥ .. śakrasya rūpam āsthāya gantum cakre matim tatas .. 7.1,35.7..
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ॥ सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥ ७.१,३५.८॥
अथ जगाम मुनेः तु तपः-वनम् गज-वरेण सितेन सदाशिवः ॥ सह सुर-असुर-सिद्ध-महा-उरगैः अमरराज-तनुम् स्वयम् आस्थितः ॥ ७।१,३५।८॥
atha jagāma muneḥ tu tapaḥ-vanam gaja-vareṇa sitena sadāśivaḥ .. saha sura-asura-siddha-mahā-uragaiḥ amararāja-tanum svayam āsthitaḥ .. 7.1,35.8..
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ॥ दधार शच्या सहितं सुरेंद्रं करेण वामेन शितातपत्रम् ॥ ७.१,३५.९॥
स वारणः चारु तदा विभुम् तम् निवीज्य वाल-व्यजनेन दिव्यम् ॥ दधार शच्या सहितम् सुर-इन्द्रम् करेण वामेन शित-आतपत्रम् ॥ ७।१,३५।९॥
sa vāraṇaḥ cāru tadā vibhum tam nivījya vāla-vyajanena divyam .. dadhāra śacyā sahitam sura-indram kareṇa vāmena śita-ātapatram .. 7.1,35.9..
रराज भगवान्सोमः शक्ररूपी सदाशिवः ॥ तेनातपत्रेण यथा चन्द्रबिंबेन मन्दरः ॥ ७.१,३५.१०॥
रराज भगवान् सोमः शक्र-रूपी सदाशिवः ॥ तेन आतपत्रेण यथा चन्द्र-बिंबेन मन्दरः ॥ ७।१,३५।१०॥
rarāja bhagavān somaḥ śakra-rūpī sadāśivaḥ .. tena ātapatreṇa yathā candra-biṃbena mandaraḥ .. 7.1,35.10..
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ॥ जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ७.१,३५.११॥
आस्थाय एवम् हि शक्रस्य स्व-रूपम् परमेश्वरः ॥ जगाम अनुग्रहम् कर्तुम् उपमन्योः तदा आश्रमम् ॥ ७।१,३५।११॥
āsthāya evam hi śakrasya sva-rūpam parameśvaraḥ .. jagāma anugraham kartum upamanyoḥ tadā āśramam .. 7.1,35.11..
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ॥ प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ ७.१,३५.१२॥
तम् दृष्ट्वा परमेशानम् शक्र-रूप-धरम् शिवम् ॥ प्रणम्य शिरसा प्राह महा-मुनि-वरः स्वयम् ॥ ७।१,३५।१२॥
tam dṛṣṭvā parameśānam śakra-rūpa-dharam śivam .. praṇamya śirasā prāha mahā-muni-varaḥ svayam .. 7.1,35.12..
उपमन्युरुवाच॥
पावितश्चाश्रमस्सो ऽयं मम देवेश्वर स्वयम् ॥ प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ ७.१,३५.१३॥
पावितः च आश्रमः सः अयम् मम देवेश्वर स्वयम् ॥ प्राप्तः यत् त्वम् जगन्नाथ भगवन् देव-सत्तम ॥ ७।१,३५।१३॥
pāvitaḥ ca āśramaḥ saḥ ayam mama deveśvara svayam .. prāptaḥ yat tvam jagannātha bhagavan deva-sattama .. 7.1,35.13..
वायुरुवाच॥
एवमुक्त्वा स्थितं प्रेक्ष्य कृतांजलिपुटं द्विजम् ॥ प्राह गंभीरया वाचा शक्ररूपधरो हरः ॥ ७.१,३५.१४॥
एवम् उक्त्वा स्थितम् प्रेक्ष्य कृत-अंजलि-पुटम् द्विजम् ॥ प्राह गंभीरया वाचा शक्र-रूप-धरः हरः ॥ ७।१,३५।१४॥
evam uktvā sthitam prekṣya kṛta-aṃjali-puṭam dvijam .. prāha gaṃbhīrayā vācā śakra-rūpa-dharaḥ haraḥ .. 7.1,35.14..
शक्र उवाच॥
तुष्टो ऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ॥ ददामि चेप्सितान्सर्वान्धौम्याग्रज महामुने ॥ ७.१,३५.१५॥
तुष्टः अस्मि ते वरम् ब्रूहि तपसा अनेन सुव्रत ॥ ददामि च ईप्सितान् सर्वान् धौम्य-अग्रज महा-मुने ॥ ७।१,३५।१५॥
tuṣṭaḥ asmi te varam brūhi tapasā anena suvrata .. dadāmi ca īpsitān sarvān dhaumya-agraja mahā-mune .. 7.1,35.15..
वायुरुवाच॥
एवमुक्तस्तदा तेन शक्रेण मुनिपुंगवः ॥ वारयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ ७.१,३५.१६॥
एवम् उक्तः तदा तेन शक्रेण मुनि-पुंगवः ॥ वारयामि शिवे भक्तिम् इति उवाच कृताञ्जलिः ॥ ७।१,३५।१६॥
evam uktaḥ tadā tena śakreṇa muni-puṃgavaḥ .. vārayāmi śive bhaktim iti uvāca kṛtāñjaliḥ .. 7.1,35.16..
तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ॥ त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ ७.१,३५.१७॥
तत् निशम्य हरिः प्राह माम् न जानासि लेखपम् ॥ त्रैलोक्य-अधिपतिम् शक्रम् सर्व-देव-नमस्कृतम् ॥ ७।१,३५।१७॥
tat niśamya hariḥ prāha mām na jānāsi lekhapam .. trailokya-adhipatim śakram sarva-deva-namaskṛtam .. 7.1,35.17..
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ॥ ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ ७.१,३५.१८॥
मद्-भक्तः भव विप्रर्षे माम् एव अर्चय सर्वदा ॥ ददामि सर्वम् भद्रम् ते त्यज रुद्रम् च निर्गुणम् ॥ ७।१,३५।१८॥
mad-bhaktaḥ bhava viprarṣe mām eva arcaya sarvadā .. dadāmi sarvam bhadram te tyaja rudram ca nirguṇam .. 7.1,35.18..
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ॥ देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ ७.१,३५.१९॥
रुद्रेण निर्गुणेन अपि किम् ते कार्यम् भविष्यति ॥ देव-पङ्क्ति-बहिस् भूतः यः पिशाच-त्वम् आगतः ॥ ७।१,३५।१९॥
rudreṇa nirguṇena api kim te kāryam bhaviṣyati .. deva-paṅkti-bahis bhūtaḥ yaḥ piśāca-tvam āgataḥ .. 7.1,35.19..
वायुरुवाच॥
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ॥ मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ ७.१,३५.२०॥
तत् श्रुत्वा प्राह स मुनिः जपन् पञ्चाक्षरम् मनुम् ॥ मन्यमानः धर्म-विघ्नम् प्राह तम् कर्तुम् आगतम् ॥ ७।१,३५।२०॥
tat śrutvā prāha sa muniḥ japan pañcākṣaram manum .. manyamānaḥ dharma-vighnam prāha tam kartum āgatam .. 7.1,35.20..
उपमन्युरुवाच॥
त्वयैवं कथितं सर्वं भवनिंदारतेन वै ॥ प्रसंगादेव देवस्य निर्गुणत्वं महात्मनः ॥ ७.१,३५.२१॥
त्वया एवम् कथितम् सर्वम् भव-निंदा-रतेन वै ॥ प्रसंगात् एव देवस्य निर्गुण-त्वम् महात्मनः ॥ ७।१,३५।२१॥
tvayā evam kathitam sarvam bhava-niṃdā-ratena vai .. prasaṃgāt eva devasya nirguṇa-tvam mahātmanaḥ .. 7.1,35.21..
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ॥ ब्रह्मविष्णुमहेशानां जनक प्रकृतेः परम् ॥ ७.१,३५.२२॥
त्वम् न जानामि वै रुद्रम् सर्व-देव-ईश्वर-ईश्वरम् ॥ ब्रह्म-विष्णु-महेशानाम् जनक प्रकृतेः परम् ॥ ७।१,३५।२२॥
tvam na jānāmi vai rudram sarva-deva-īśvara-īśvaram .. brahma-viṣṇu-maheśānām janaka prakṛteḥ param .. 7.1,35.22..
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ॥ नित्यमेकमनेकं च वरं तस्माद्वृणोम्यहम् ॥ ७.१,३५.२३॥
सत्-असत्-व्यक्तम् अव्यक्तम् यम् आहुः ब्रह्म-वादिनः ॥ नित्यम् एकम् अनेकम् च वरम् तस्मात् वृणोमि अहम् ॥ ७।१,३५।२३॥
sat-asat-vyaktam avyaktam yam āhuḥ brahma-vādinaḥ .. nityam ekam anekam ca varam tasmāt vṛṇomi aham .. 7.1,35.23..
हेतुवादविनिर्मुक्तं सांख्ययोगार्थदम्परम् ॥ उपासते यं तत्त्वज्ञा वरं तस्माद्वृणोम्यहम् ॥ ७.१,३५.२४॥
हेतुवाद-विनिर्मुक्तम् सांख्य-योग-अर्थ-दम्परम् ॥ उपासते यम् तत्त्व-ज्ञाः वरम् तस्मात् वृणोमि अहम् ॥ ७।१,३५।२४॥
hetuvāda-vinirmuktam sāṃkhya-yoga-artha-damparam .. upāsate yam tattva-jñāḥ varam tasmāt vṛṇomi aham .. 7.1,35.24..
नास्ति शंभोः परं तत्त्वं सर्वकारणकारणात् ॥ ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ ७.१,३५.२५॥
न अस्ति शंभोः परम् तत्त्वम् सर्व-कारण-कारणात् ॥ ब्रह्म-विष्णु-आदि-देवानाम् स्रष्टुः गुण-परात् विभोः ॥ ७।१,३५।२५॥
na asti śaṃbhoḥ param tattvam sarva-kāraṇa-kāraṇāt .. brahma-viṣṇu-ādi-devānām sraṣṭuḥ guṇa-parāt vibhoḥ .. 7.1,35.25..
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ॥ भवांतरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ ७.१,३५.२६॥
बहुना अत्र किम् उक्तेन मया अद्य अनुमितम् महत् ॥ भव-अंतरे कृतम् पापम् श्रुता निन्दा भवस्य चेद् ॥ ७।१,३५।२६॥
bahunā atra kim uktena mayā adya anumitam mahat .. bhava-aṃtare kṛtam pāpam śrutā nindā bhavasya ced .. 7.1,35.26..
श्रुत्वा निंदां भवस्याथ तत्क्षणादेव सन्त्यजेत् ॥ स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ ७.१,३५.२७॥
श्रुत्वा निंदाम् भवस्य अथ तद्-क्षणात् एव सन्त्यजेत् ॥ स्व-देहम् तत् निहत्य आशु शिव-लोकम् स गच्छति ॥ ७।१,३५।२७॥
śrutvā niṃdām bhavasya atha tad-kṣaṇāt eva santyajet .. sva-deham tat nihatya āśu śiva-lokam sa gacchati .. 7.1,35.27..
आस्तां तावन्ममेच्छेयं क्षीरं प्रति सुराधम ॥ निहत्य त्वां शिवास्त्रेण त्यजाम्येतं कलेवरम् ॥ ७.१,३५.२८॥
आस्ताम् तावत् मम इच्छेयम् क्षीरम् प्रति सुरा-अधम ॥ निहत्य त्वाम् शिव-अस्त्रेण त्यजामि एतम् कलेवरम् ॥ ७।१,३५।२८॥
āstām tāvat mama iccheyam kṣīram prati surā-adhama .. nihatya tvām śiva-astreṇa tyajāmi etam kalevaram .. 7.1,35.28..
वायुरुवाच॥
एवमुक्त्वोपमन्युस्तं मर्तुं व्यवसितस्स्वयम् ॥ क्षीरे वाञ्छामपि त्यक्त्वा निहन्तुं शक्रमुद्यतः ॥ ७.१,३५.२९॥
एवम् उक्त्वा उपमन्युः तम् मर्तुम् व्यवसितः स्वयम् ॥ क्षीरे वाञ्छाम् अपि त्यक्त्वा निहन्तुम् शक्रम् उद्यतः ॥ ७।१,३५।२९॥
evam uktvā upamanyuḥ tam martum vyavasitaḥ svayam .. kṣīre vāñchām api tyaktvā nihantum śakram udyataḥ .. 7.1,35.29..
भस्मादाय तदा घोरमघोरास्त्राभिमंत्रितम् ॥ विसृज्य शक्रमुद्दिश्य ननाद स मुनिस्तदा ॥ ७.१,३५.३०॥
भस्म आदाय तदा घोरम् अघोर-अस्त्र-अभिमंत्रितम् ॥ विसृज्य शक्रम् उद्दिश्य ननाद स मुनिः तदा ॥ ७।१,३५।३०॥
bhasma ādāya tadā ghoram aghora-astra-abhimaṃtritam .. visṛjya śakram uddiśya nanāda sa muniḥ tadā .. 7.1,35.30..
स्मृत्वा शंभुपदद्वंद्वं स्वदेहं दुग्धुमुद्यतः ॥ आग्नेयीं धारणां बिभ्रदुपमन्युरवस्थितः ॥ ७.१,३५.३१॥
स्मृत्वा शंभु-पद-द्वंद्वम् स्व-देहम् दुग्धुम् उद्यतः ॥ आग्नेयीम् धारणाम् बिभ्रत् उपमन्युः अवस्थितः ॥ ७।१,३५।३१॥
smṛtvā śaṃbhu-pada-dvaṃdvam sva-deham dugdhum udyataḥ .. āgneyīm dhāraṇām bibhrat upamanyuḥ avasthitaḥ .. 7.1,35.31..
एवं व्यवसिते विप्रे भगवान्भगनेत्रहा ॥ वारयामास सौम्येन धारणां तस्य योगिनः ॥ ७.१,३५.३२॥
एवम् व्यवसिते विप्रे भगवान् भग-नेत्र-हा ॥ वारयामास सौम्येन धारणाम् तस्य योगिनः ॥ ७।१,३५।३२॥
evam vyavasite vipre bhagavān bhaga-netra-hā .. vārayāmāsa saumyena dhāraṇām tasya yoginaḥ .. 7.1,35.32..
तद्विसृष्टमघोरास्त्रं नंदीश्वरनियोगतः ॥ जगृहे मध्यतः क्षिप्तं नन्दी शंकरवल्लभः ॥ ७.१,३५.३३॥
तत् विसृष्टम् अघोर-अस्त्रम् नंदीश्वर-नियोगतः ॥ जगृहे मध्यतस् क्षिप्तम् नन्दी शंकर-वल्लभः ॥ ७।१,३५।३३॥
tat visṛṣṭam aghora-astram naṃdīśvara-niyogataḥ .. jagṛhe madhyatas kṣiptam nandī śaṃkara-vallabhaḥ .. 7.1,35.33..
स्वं रूपमेव भगवानास्थाय परमेश्वरः ॥ दर्शयामास शिप्राय बालेन्दुकृतशेखरम् ॥ ७.१,३५.३४॥
स्वम् रूपम् एव भगवान् आस्थाय परमेश्वरः ॥ दर्शयामास शिप्राय बाल-इन्दु-कृत-शेखरम् ॥ ७।१,३५।३४॥
svam rūpam eva bhagavān āsthāya parameśvaraḥ .. darśayāmāsa śiprāya bāla-indu-kṛta-śekharam .. 7.1,35.34..
क्षीरार्णवसहस्रं च पीयूषार्णवमेव वा ॥ दध्यादेरर्णवांश्चैव घृतोदार्णवमेव च ॥ ७.१,३५.३५॥
क्षीरार्णव-सहस्रम् च पीयूष-अर्णवम् एव वा ॥ दधि-आदेः अर्णवान् च एव घृत-उद-अर्णवम् एव च ॥ ७।१,३५।३५॥
kṣīrārṇava-sahasram ca pīyūṣa-arṇavam eva vā .. dadhi-ādeḥ arṇavān ca eva ghṛta-uda-arṇavam eva ca .. 7.1,35.35..
फलार्णवं च बालस्य भक्ष्य भोज्यार्णवं तथा ॥ अपूपानां गिरिं चैव दर्शयामास स प्रभुः ॥ ७.१,३५.३६॥
फल-अर्णवम् च बालस्य भक्ष्य भोज्य-अर्णवम् तथा ॥ अपूपानाम् गिरिम् च एव दर्शयामास स प्रभुः ॥ ७।१,३५।३६॥
phala-arṇavam ca bālasya bhakṣya bhojya-arṇavam tathā .. apūpānām girim ca eva darśayāmāsa sa prabhuḥ .. 7.1,35.36..
एवं स ददृशे देवो देव्या सार्धं वृषोपरि ॥ गणेश्वरैस्त्रिशूलाद्यैर्दिव्यास्त्रैरपि संवृतः ॥ ७.१,३५.३७॥
एवम् स ददृशे देवः देव्या सार्धम् वृषा उपरि ॥ गणेश्वरैः त्रिशूल-आद्यैः दिव्य-अस्त्रैः अपि संवृतः ॥ ७।१,३५।३७॥
evam sa dadṛśe devaḥ devyā sārdham vṛṣā upari .. gaṇeśvaraiḥ triśūla-ādyaiḥ divya-astraiḥ api saṃvṛtaḥ .. 7.1,35.37..
दिवि दुंदुभयो नेदुः पुष्पवृष्टिः पपात च ॥ विष्णुब्रह्मेन्द्रप्रमुखैर्देवैश्छन्ना दिशो दश ॥ ७.१,३५.३८॥
दिवि दुंदुभयः नेदुः पुष्प-वृष्टिः पपात च ॥ विष्णु-ब्रह्म-इन्द्र-प्रमुखैः देवैः छन्नाः दिशः दश ॥ ७।१,३५।३८॥
divi duṃdubhayaḥ neduḥ puṣpa-vṛṣṭiḥ papāta ca .. viṣṇu-brahma-indra-pramukhaiḥ devaiḥ channāḥ diśaḥ daśa .. 7.1,35.38..
अथोपमन्युरानन्दसमुद्रोर्मिभिरावृतः ॥ पपात दण्डवद्भूमौ भक्तिनम्रेण चेतसा ॥ ७.१,३५.३९॥
अथ उपमन्युः आनन्द-समुद्र-ऊर्मिभिः आवृतः ॥ पपात दण्ड-वत् भूमौ भक्ति-नम्रेण चेतसा ॥ ७।१,३५।३९॥
atha upamanyuḥ ānanda-samudra-ūrmibhiḥ āvṛtaḥ .. papāta daṇḍa-vat bhūmau bhakti-namreṇa cetasā .. 7.1,35.39..
एतस्मिन्समये तत्र सस्मितो भगवान्भवः ॥ एह्येहीति तमाहूय मूर्ध्न्याघ्राय ददौ वरान् ॥ ७.१,३५.४०॥
एतस्मिन् समये तत्र स स्मितः भगवान् भवः ॥ एहि एहि इति तम् आहूय मूर्ध्नि आघ्राय ददौ वरान् ॥ ७।१,३५।४०॥
etasmin samaye tatra sa smitaḥ bhagavān bhavaḥ .. ehi ehi iti tam āhūya mūrdhni āghrāya dadau varān .. 7.1,35.40..
शिव उवाच॥
भक्ष्यभोज्यान्यथाकामं बान्धवैर्भुक्ष्व सर्वदा ॥ सुखी भव सदा दुःखान्निर्मुक्ता भक्तिमान्मम ॥ ७.१,३५.४१॥
भक्ष्य-भोज्यानि यथाकामम् बान्धवैः भुक्ष्व सर्वदा ॥ सुखी भव सदा दुःखात् निर्मुक्ता भक्तिमान् मम ॥ ७।१,३५।४१॥
bhakṣya-bhojyāni yathākāmam bāndhavaiḥ bhukṣva sarvadā .. sukhī bhava sadā duḥkhāt nirmuktā bhaktimān mama .. 7.1,35.41..
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ मया पुत्रीकृतो ह्यद्य दत्तः क्षीरोदकार्णवः ॥ ७.१,३५.४२॥
उपमन्यो महाभाग तव अम्बा एषा हि पार्वती ॥ मया पुत्रीकृतः हि अद्य दत्तः क्षीर-उदक-अर्णवः ॥ ७।१,३५।४२॥
upamanyo mahābhāga tava ambā eṣā hi pārvatī .. mayā putrīkṛtaḥ hi adya dattaḥ kṣīra-udaka-arṇavaḥ .. 7.1,35.42..
मधुनश्चार्णवश्चैव दध्यन्नार्णव एव च ॥ आज्यौदनार्णवश्चैव फलाद्यर्णव एव च ॥ ७.१,३५.४३॥
मधुनः च अर्णवः च एव दधि-अन्न-अर्णवः एव च ॥ आज्य-ओदन-अर्णवः च एव फल-आदि-अर्णवः एव च ॥ ७।१,३५।४३॥
madhunaḥ ca arṇavaḥ ca eva dadhi-anna-arṇavaḥ eva ca .. ājya-odana-arṇavaḥ ca eva phala-ādi-arṇavaḥ eva ca .. 7.1,35.43..
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवस्तथा ॥ एते दत्ता मया ते हि त्वं गृह्णीष्व महामुने ॥ ७.१,३५.४४॥
अपूप-गिरयः च एव भक्ष्य-भोज्य-अर्णवः तथा ॥ एते दत्ताः मया ते हि त्वम् गृह्णीष्व महा-मुने ॥ ७।१,३५।४४॥
apūpa-girayaḥ ca eva bhakṣya-bhojya-arṇavaḥ tathā .. ete dattāḥ mayā te hi tvam gṛhṇīṣva mahā-mune .. 7.1,35.44..
पिता तव महादेवो माता वै जगदम्बिका ॥ अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ॥ ७.१,३५.४५॥
पिता तव महादेवः माता वै जगदम्बिका ॥ अमर-त्वम् मया दत्तम् गाणपत्यम् च शाश्वतम् ॥ ७।१,३५।४५॥
pitā tava mahādevaḥ mātā vai jagadambikā .. amara-tvam mayā dattam gāṇapatyam ca śāśvatam .. 7.1,35.45..
वरान्वरय सुप्रीत्या मनो ऽभिलषितान्परान् ॥ प्रसन्नो ऽहं प्रदास्यामि नात्र कार्या विचारणा ॥ ७.१,३५.४६॥
वरान् वरय सु प्रीत्या मनः अभिलषितान् परान् ॥ प्रसन्नः अहम् प्रदास्यामि न अत्र कार्या विचारणा ॥ ७।१,३५।४६॥
varān varaya su prītyā manaḥ abhilaṣitān parān .. prasannaḥ aham pradāsyāmi na atra kāryā vicāraṇā .. 7.1,35.46..
वायुरुवाच॥
एवमुक्त्वा महादेवः कराभ्यामुपगृह्यतम् ॥ मूर्ध्न्याघ्राय सुतस्ते ऽयमिति देव्यै न्यवेदयत् ॥ ७.१,३५.४७॥
एवम् उक्त्वा महादेवः कराभ्याम् उपगृह्यतम् ॥ मूर्ध्नि आघ्राय सुतः ते अयम् इति देव्यै न्यवेदयत् ॥ ७।१,३५।४७॥
evam uktvā mahādevaḥ karābhyām upagṛhyatam .. mūrdhni āghrāya sutaḥ te ayam iti devyai nyavedayat .. 7.1,35.47..
देवी च गुहवत्प्रीत्या मूर्ध्नि तस्य कराम्बुजम् ॥ विन्यस्य प्रददौ तस्मै कुमारपदमव्ययम् ॥ ७.१,३५.४८॥
देवी च गुह-वत् प्रीत्या मूर्ध्नि तस्य कर-अम्बुजम् ॥ विन्यस्य प्रददौ तस्मै कुमार-पदम् अव्ययम् ॥ ७।१,३५।४८॥
devī ca guha-vat prītyā mūrdhni tasya kara-ambujam .. vinyasya pradadau tasmai kumāra-padam avyayam .. 7.1,35.48..
क्षीराब्धिरपि साकारः क्षीरं स्वादु करे दधत् ॥ उपस्थाय ददौ पिण्डीभूतं क्षीरमनश्वरम् ॥ ७.१,३५.४९॥
क्षीराब्धिः अपि स आकारः क्षीरम् स्वादु करे दधत् ॥ उपस्थाय ददौ पिण्डीभूतम् क्षीरम् अनश्वरम् ॥ ७।१,३५।४९॥
kṣīrābdhiḥ api sa ākāraḥ kṣīram svādu kare dadhat .. upasthāya dadau piṇḍībhūtam kṣīram anaśvaram .. 7.1,35.49..
योगैश्वर्यं सदा तुष्टिं ब्रह्मविद्यामनश्वराम् ॥ समृद्धिं परमान्तस्मै ददौ संतुष्टमानसः ॥ ७.१,३५.५०॥
योग-ऐश्वर्यम् सदा तुष्टिम् ब्रह्म-विद्याम् अनश्वराम् ॥ समृद्धिम् परमान् तस्मै ददौ संतुष्ट-मानसः ॥ ७।१,३५।५०॥
yoga-aiśvaryam sadā tuṣṭim brahma-vidyām anaśvarām .. samṛddhim paramān tasmai dadau saṃtuṣṭa-mānasaḥ .. 7.1,35.50..
अथ शंभुः प्रसन्नात्मा दृष्ट्वा तस्य तपोमहः ॥ पुनर्ददौ वरं दिव्यं मुनये ह्युपमन्यवे ॥ ७.१,३५.५१॥
अथ शंभुः प्रसन्न-आत्मा दृष्ट्वा तस्य तपः-महः ॥ पुनर् ददौ वरम् दिव्यम् मुनये हि उपमन्यवे ॥ ७।१,३५।५१॥
atha śaṃbhuḥ prasanna-ātmā dṛṣṭvā tasya tapaḥ-mahaḥ .. punar dadau varam divyam munaye hi upamanyave .. 7.1,35.51..
व्रतं पाशुपतं ज्ञानं व्रतयोगं च तत्त्वतः ॥ ददौ तस्मै प्रवक्तृत्वपाटवं सुचिरं परम् ॥ ७.१,३५.५२॥
व्रतम् पाशुपतम् ज्ञानम् व्रत-योगम् च तत्त्वतः ॥ ददौ तस्मै प्रवक्तृ-त्व-पाटवम् सु चिरम् परम् ॥ ७।१,३५।५२॥
vratam pāśupatam jñānam vrata-yogam ca tattvataḥ .. dadau tasmai pravaktṛ-tva-pāṭavam su ciram param .. 7.1,35.52..
सो ऽपि लब्ध्वा वरान्दिव्यान्कुमारत्वं च सर्वदा ॥ तस्माच्छिवाच्च तस्याश्च शिवाया मुदितो ऽभवत् ॥ ७.१,३५.५३॥
सः अपि लब्ध्वा वरान् दिव्यान् कुमार-त्वम् च सर्वदा ॥ तस्मात् शिवात् च तस्याः च शिवायाः मुदितः अभवत् ॥ ७।१,३५।५३॥
saḥ api labdhvā varān divyān kumāra-tvam ca sarvadā .. tasmāt śivāt ca tasyāḥ ca śivāyāḥ muditaḥ abhavat .. 7.1,35.53..
ततः प्रसन्नचेतस्कः सुप्रणम्य कृतांजलिः ॥ ययाचे स वरं विप्रो देवदेवान्महेश्वरात् ॥ ७.१,३५.५४॥
ततस् प्रसन्न-चेतस्कः सु प्रणम्य कृतांजलिः ॥ ययाचे स वरम् विप्रः देवदेवात् महेश्वरात् ॥ ७।१,३५।५४॥
tatas prasanna-cetaskaḥ su praṇamya kṛtāṃjaliḥ .. yayāce sa varam vipraḥ devadevāt maheśvarāt .. 7.1,35.54..
उपमन्युरुवाच॥
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ स्वभक्तिन्देहि परमान्दिव्यामव्यभिचारिणीम् ॥ ७.१,३५.५५॥
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ स्व-भक्तिन् देहि परमान् दिव्याम् अव्यभिचारिणीम् ॥ ७।१,३५।५५॥
prasīda devadeveśa prasīda parameśvara .. sva-bhaktin dehi paramān divyām avyabhicāriṇīm .. 7.1,35.55..
श्रद्धान्देहि महादेव द्वसम्बन्धिषु मे सदा ॥ स्वदास्यं परमं स्नेहं सान्निध्यं चैव सर्वदा ॥ ७.१,३५.५६॥
श्रद्धान् देहि महादेव द्वि-सम्बन्धिषु मे सदा ॥ स्व-दास्यम् परमम् स्नेहम् सान्निध्यम् च एव सर्वदा ॥ ७।१,३५।५६॥
śraddhān dehi mahādeva dvi-sambandhiṣu me sadā .. sva-dāsyam paramam sneham sānnidhyam ca eva sarvadā .. 7.1,35.56..
एवमुक्त्वा प्रसन्नात्माहर्षगद्गदया गिरा ॥ सतुष्टाव महादेवमुपमन्युर्द्विजोत्तमः ॥ ७.१,३५.५७॥
एवम् उक्त्वा प्रसन्न-आत्म-आहर्ष-गद्गदया गिरा ॥ स तुष्टाव महादेवम् उपमन्युः द्विजोत्तमः ॥ ७।१,३५।५७॥
evam uktvā prasanna-ātma-āharṣa-gadgadayā girā .. sa tuṣṭāva mahādevam upamanyuḥ dvijottamaḥ .. 7.1,35.57..
उपमन्युरुवाच॥
देवदेव महादेव शरणागतवत्सल ॥ प्रसीद करुणासिंधो साम्ब शंकर सर्वदा ॥ ७.१,३५.५८॥
देवदेव महादेव शरण-आगत-वत्सल ॥ प्रसीद करुणा-सिंधो स अम्ब शंकर सर्वदा ॥ ७।१,३५।५८॥
devadeva mahādeva śaraṇa-āgata-vatsala .. prasīda karuṇā-siṃdho sa amba śaṃkara sarvadā .. 7.1,35.58..
वायुरुवाच॥
एवमुक्तो महादेवः सर्वेषां च वरप्रदः ॥ प्रत्युवाच प्रसन्नात्मोपमन्युं मुनिसत्तमम् ॥ ७.१,३५.५९॥
एवम् उक्तः महादेवः सर्वेषाम् च वर-प्रदः ॥ प्रत्युवाच प्रसन्न-आत्मा उपमन्युम् मुनि-सत्तमम् ॥ ७।१,३५।५९॥
evam uktaḥ mahādevaḥ sarveṣām ca vara-pradaḥ .. pratyuvāca prasanna-ātmā upamanyum muni-sattamam .. 7.1,35.59..
शिव उवाच॥
वत्सोपमन्यो तुष्टो ऽस्मि सर्वं दत्तं मया हि ते ॥ दृढभक्तो ऽसि विप्रर्षे मया विज्ञासितो ह्यसि ॥ ७.१,३५.६०॥
वत्स उपमन्यो तुष्टः अस्मि सर्वम् दत्तम् मया हि ते ॥ दृढ-भक्तः असि विप्रर्षे मया विज्ञासितः हि असि ॥ ७।१,३५।६०॥
vatsa upamanyo tuṣṭaḥ asmi sarvam dattam mayā hi te .. dṛḍha-bhaktaḥ asi viprarṣe mayā vijñāsitaḥ hi asi .. 7.1,35.60..
अजरश्चामरश्चैव भव त्वन्दुःखवर्जितः ॥ यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ ७.१,३५.६१॥
अजरः च अमरः च एव भव त्वन् दुःख-वर्जितः ॥ यशस्वी तेजसा युक्तः दिव्य-ज्ञान-समन्वितः ॥ ७।१,३५।६१॥
ajaraḥ ca amaraḥ ca eva bhava tvan duḥkha-varjitaḥ .. yaśasvī tejasā yuktaḥ divya-jñāna-samanvitaḥ .. 7.1,35.61..
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥ भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती ॥ ७.१,३५.६२॥
अक्षयाः बान्धवाः च एव कुलम् गोत्रम् च ते सदा ॥ भविष्यति द्विजश्रेष्ठ मयि भक्तिः च शाश्वती ॥ ७।१,३५।६२॥
akṣayāḥ bāndhavāḥ ca eva kulam gotram ca te sadā .. bhaviṣyati dvijaśreṣṭha mayi bhaktiḥ ca śāśvatī .. 7.1,35.62..
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ उपकंठं मम त्वं वै सानन्दं विहरिष्यसि ॥ ७.१,३५.६३॥
सान्निध्यम् च आश्रमे नित्यम् करिष्यामि द्विजोत्तम ॥ उप कंठम् मम त्वम् वै स आनन्दम् विहरिष्यसि ॥ ७।१,३५।६३॥
sānnidhyam ca āśrame nityam kariṣyāmi dvijottama .. upa kaṃṭham mama tvam vai sa ānandam vihariṣyasi .. 7.1,35.63..
एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः ॥ ईशानस्स वरान्दत्त्वा तत्रैवान्तर्दधे हरः ॥ ७.१,३५.६४॥
एवम् उक्त्वा स भगवान् सूर्य-कोटि-सम-प्रभः ॥ ईशानः स वरान् दत्त्वा तत्र एव अन्तर्दधे हरः ॥ ७।१,३५।६४॥
evam uktvā sa bhagavān sūrya-koṭi-sama-prabhaḥ .. īśānaḥ sa varān dattvā tatra eva antardadhe haraḥ .. 7.1,35.64..
उपमन्युः प्रसन्नात्मा प्राप्य तस्माद्वराद्वरान् ॥ जगाम जननीस्थानं सुखं प्रापाधिकं च सः ॥ ७.१,३५.६५॥
उपमन्युः प्रसन्न-आत्मा प्राप्य तस्मात् वरात् वरान् ॥ जगाम जननी-स्थानम् सुखम् प्राप अधिकम् च सः ॥ ७।१,३५।६५॥
upamanyuḥ prasanna-ātmā prāpya tasmāt varāt varān .. jagāma jananī-sthānam sukham prāpa adhikam ca saḥ .. 7.1,35.65..
इति श्रीशिवमहापुराणे वैयासिक्यां चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं नाम पञ्चत्रिंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे वैयासिक्याम् चतुर्विंशति-साहस्र्याम् संहितायाम् तद्-अन्तर्गतायाम् सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे उपमन्युचरितवर्णनम् नाम पञ्चत्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe vaiyāsikyām caturviṃśati-sāhasryām saṃhitāyām tad-antargatāyām saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe upamanyucaritavarṇanam nāma pañcatriṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In