| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
तस्मिन्देशे महाभागा मुनयश्शंसितव्रताः ॥ अर्चयंतो महादेवं सत्रमारेभिरे तदा ॥ ७.१,४.१॥
तस्मिन् देशे महाभागाः मुनयः शंसित-व्रताः ॥ अर्चयन्तः महादेवम् सत्रम् आरेभिरे तदा ॥ ७।१,४।१॥
tasmin deśe mahābhāgāḥ munayaḥ śaṃsita-vratāḥ .. arcayantaḥ mahādevam satram ārebhire tadā .. 7.1,4.1..
तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ॥ विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ ७.१,४.२॥
तत् च सत्रम् प्रववृते सर्व-आश्चर्यम् महा-ऋषिणाम् ॥ विश्वम् सिसृक्षमाणानाम् पुरा विश्वसृजाम् इव ॥ ७।१,४।२॥
tat ca satram pravavṛte sarva-āścaryam mahā-ṛṣiṇām .. viśvam sisṛkṣamāṇānām purā viśvasṛjām iva .. 7.1,4.2..
अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ॥ पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ७.१,४.३॥
अथ काले गते सत्रे समाप्ते भूरि-दक्षिणे ॥ पितामह-नियोगेन वायुः तत्र अगमत् स्वयम् ॥ ७।१,४।३॥
atha kāle gate satre samāpte bhūri-dakṣiṇe .. pitāmaha-niyogena vāyuḥ tatra agamat svayam .. 7.1,4.3..
शिष्यस्स्वयंभुवो देवस्सर्वप्रत्यक्षदृग्वशी ॥ आज्ञायां मरुतो यस्य संस्थितास्सप्तसप्तकाः ॥ ७.१,४.४॥
शिष्यः स्वयंभुवः देवः सर्व-प्रत्यक्ष-दृश् वशी ॥ आज्ञायाम् मरुतः यस्य संस्थिताः सप्तसप्तकाः ॥ ७।१,४।४॥
śiṣyaḥ svayaṃbhuvaḥ devaḥ sarva-pratyakṣa-dṛś vaśī .. ājñāyām marutaḥ yasya saṃsthitāḥ saptasaptakāḥ .. 7.1,4.4..
प्रेरयञ्छश्वदंगानि प्राणाद्याभिः स्ववृत्तिभिः ॥ सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ७.१,४.५॥
प्रेरयन् शश्वत् अंगानि प्राण-आद्याभिः स्व-वृत्तिभिः ॥ सर्व-भूत-शरीराणाम् कुरुते यः च धारणम् ॥ ७।१,४।५॥
prerayan śaśvat aṃgāni prāṇa-ādyābhiḥ sva-vṛttibhiḥ .. sarva-bhūta-śarīrāṇām kurute yaḥ ca dhāraṇam .. 7.1,4.5..
अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ॥ तिर्यक्कालादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ७.१,४.६॥
अणिम-आदिभिः अष्टाभिः ऐश्वर्यैः च समन्वितः ॥ तिर्यक्-काल-आदिभिः मेध्यैः भुवनानि बिभर्ति यः ॥ ७।१,४।६॥
aṇima-ādibhiḥ aṣṭābhiḥ aiśvaryaiḥ ca samanvitaḥ .. tiryak-kāla-ādibhiḥ medhyaiḥ bhuvanāni bibharti yaḥ .. 7.1,4.6..
आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ॥ तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिंतकाः ॥ ७.१,४.७॥
आकाश-योनिः द्विगुणः स्पर्श-शब्द-समन्वयात् ॥ तेजसाम् प्रकृतिः च इति यम् आहुः तत्त्व-चिंतकाः ॥ ७।१,४।७॥
ākāśa-yoniḥ dviguṇaḥ sparśa-śabda-samanvayāt .. tejasām prakṛtiḥ ca iti yam āhuḥ tattva-ciṃtakāḥ .. 7.1,4.7..
तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ॥ पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ७.१,४.८॥
तम् आश्रम-गतम् दृष्ट्वा मुनयः दीर्घ-सत्रिणः ॥ पितामह-वचः स्मृत्वा प्रहर्षम् अतुलम् ययुः ॥ ७।१,४।८॥
tam āśrama-gatam dṛṣṭvā munayaḥ dīrgha-satriṇaḥ .. pitāmaha-vacaḥ smṛtvā praharṣam atulam yayuḥ .. 7.1,4.8..
अभ्युत्थाय ततस्सर्वे प्रणम्यांबरसंभवम् ॥ चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ७.१,४.९॥
अभ्युत्थाय ततस् सर्वे प्रणम्य अंबर-संभवम् ॥ चामीकर-मयम् तस्मै विष्टरम् समकल्पयन् ॥ ७।१,४।९॥
abhyutthāya tatas sarve praṇamya aṃbara-saṃbhavam .. cāmīkara-mayam tasmai viṣṭaram samakalpayan .. 7.1,4.9..
सोपि तत्र समासीनो मुनिभिस्सम्यगर्चितः ॥ प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ ७.१,४.१०॥
सः अपि तत्र समासीनः मुनिभिः सम्यक् अर्चितः ॥ प्रतिनंद्य च तान् सर्वान् पप्रच्छ कुशलम् ततस् ॥ ७।१,४।१०॥
saḥ api tatra samāsīnaḥ munibhiḥ samyak arcitaḥ .. pratinaṃdya ca tān sarvān papraccha kuśalam tatas .. 7.1,4.10..
वायुरुवाच॥
अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ॥ कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ७.१,४.११॥
अत्र वः कुशलम् विप्राः कच्चित् वृत्ते महा-क्रतौ ॥ कच्चित् यज्ञ-हनः दैत्याः न बाधेरन् सुरद्विषः ॥ ७।१,४।११॥
atra vaḥ kuśalam viprāḥ kaccit vṛtte mahā-kratau .. kaccit yajña-hanaḥ daityāḥ na bādheran suradviṣaḥ .. 7.1,4.11..
प्रायश्चित्तं दुरिष्टं वा न कच्चित्समजायत ॥ स्तोत्रशस्त्रगृहैर्देवान् पित्ःन् पित्र्यैश्च कर्मभिः ॥ ७.१,४.१२॥
प्रायश्चित्तम् दुरिष्टम् वा न किंचिद् समजायत ॥ स्तोत्र-शस्त्र-गृहैः देवान् पितॄन् पित्र्यैः च कर्मभिः ॥ ७।१,४।१२॥
prāyaścittam duriṣṭam vā na kiṃcid samajāyata .. stotra-śastra-gṛhaiḥ devān pitṝn pitryaiḥ ca karmabhiḥ .. 7.1,4.12..
कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ॥ निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ ७.१,४.१३॥
कच्चित् अभ्यर्च्य युष्माभिः विधिः आसीत् सु अनुष्ठितः ॥ निवृत्ते च महा-सत्रे पश्चात् किम् वः चिकीर्षितम् ॥ ७।१,४।१३॥
kaccit abhyarcya yuṣmābhiḥ vidhiḥ āsīt su anuṣṭhitaḥ .. nivṛtte ca mahā-satre paścāt kim vaḥ cikīrṣitam .. 7.1,4.13..
इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ॥ प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ ७.१,४.१४॥
इति उक्ताः मुनयः सर्वे वायुना शिव-भाविना ॥ प्रहृष्ट-मनसः पूताः प्रत्यूचुः विनय-अन्विताः ॥ ७।१,४।१४॥
iti uktāḥ munayaḥ sarve vāyunā śiva-bhāvinā .. prahṛṣṭa-manasaḥ pūtāḥ pratyūcuḥ vinaya-anvitāḥ .. 7.1,4.14..
मुनय ऊचुः॥
अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ॥ अस्मच्छ्रेयोभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ ७.१,४.१५॥
अद्य नः कुशलम् सर्वम् अद्य साधु भवेत् तपः ॥ अस्मद्-श्रेयः-भिवृद्धि-अर्थम् भवान् अत्र आगतः यतस् ॥ ७।१,४।१५॥
adya naḥ kuśalam sarvam adya sādhu bhavet tapaḥ .. asmad-śreyaḥ-bhivṛddhi-artham bhavān atra āgataḥ yatas .. 7.1,4.15..
शृणु चेदं पुरावृत्तं तमसाक्रांतमानसैः ॥ उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ ७.१,४.१६॥
शृणु च इदम् पुरावृत्तम् तमसा आक्रांत-मानसैः ॥ उपासितः पुरा अस्माभिः विज्ञान-अर्थम् प्रजापतिः ॥ ७।१,४।१६॥
śṛṇu ca idam purāvṛttam tamasā ākrāṃta-mānasaiḥ .. upāsitaḥ purā asmābhiḥ vijñāna-artham prajāpatiḥ .. 7.1,4.16..
सोप्यस्माननुगृह्याह शरण्यश्शरणागतान् ॥ सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ ७.१,४.१७॥
सः उपि अस्मान् अनुगृह्य आह शरण्यः शरण-आगतान् ॥ सर्वस्मात् अधिकः रुद्रः विप्राः परम-कारणम् ॥ ७।१,४।१७॥
saḥ upi asmān anugṛhya āha śaraṇyaḥ śaraṇa-āgatān .. sarvasmāt adhikaḥ rudraḥ viprāḥ parama-kāraṇam .. 7.1,4.17..
तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ॥ भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ ७.१,४.१८॥
तम् अप्रतर्क्यम् याथात्म्यम् भक्तिमान् एव पश्यति ॥ भक्तिः च अस्य प्रसादेन प्रसादात् एव निर्वृतिः ॥ ७।१,४।१८॥
tam apratarkyam yāthātmyam bhaktimān eva paśyati .. bhaktiḥ ca asya prasādena prasādāt eva nirvṛtiḥ .. 7.1,4.18..
तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ॥ यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ ७.१,४.१९॥
तस्मात् अस्य प्रसाद-अर्थम् नैमिषे सत्र-योगतः ॥ यजध्वम् दीर्घ-सत्रेण रुद्रम् परम-कारणम् ॥ ७।१,४।१९॥
tasmāt asya prasāda-artham naimiṣe satra-yogataḥ .. yajadhvam dīrgha-satreṇa rudram parama-kāraṇam .. 7.1,4.19..
तत्प्रसादेन सत्रांते वायुस्तत्रागमिष्यति ॥ तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ ७.१,४.२०॥
तद्-प्रसादेन सत्रांते वायुः तत्र आगमिष्यति ॥ तद्-मुखात् ज्ञान-लाभः वः तत्र श्रेयः भविष्यति ॥ ७।१,४।२०॥
tad-prasādena satrāṃte vāyuḥ tatra āgamiṣyati .. tad-mukhāt jñāna-lābhaḥ vaḥ tatra śreyaḥ bhaviṣyati .. 7.1,4.20..
इत्यादिश्य वयं सर्वे प्रेषिता परमेष्ठिना ॥ अस्मिन्देशे महाभाग तवागमनकांक्षिणः ॥ ७.१,४.२१॥
इति आदिश्य वयम् सर्वे प्रेषिता परमेष्ठिना ॥ अस्मिन् देशे महाभाग तव आगमन-कांक्षिणः ॥ ७।१,४।२१॥
iti ādiśya vayam sarve preṣitā parameṣṭhinā .. asmin deśe mahābhāga tava āgamana-kāṃkṣiṇaḥ .. 7.1,4.21..
दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ॥ अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किंचन ॥ ७.१,४.२२॥
दीर्घ-सत्रम् समासीनाः दिव्य-वर्ष-सहस्रकम् ॥ अतस् तव आगमात् अन्यत् प्रार्थ्यम् नः ना अस्ति किंचन ॥ ७।१,४।२२॥
dīrgha-satram samāsīnāḥ divya-varṣa-sahasrakam .. atas tava āgamāt anyat prārthyam naḥ nā asti kiṃcana .. 7.1,4.22..
इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ॥ वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ ७.१,४.२३॥
इति आकर्ण्य पुरावृत्तम् ऋषीणाम् दीर्घ-सत्रिणाम् ॥ वायुः प्रीत-मनाः भूत्वा तत्र आसीत् मुनि-संवृतः ॥ ७।१,४।२३॥
iti ākarṇya purāvṛttam ṛṣīṇām dīrgha-satriṇām .. vāyuḥ prīta-manāḥ bhūtvā tatra āsīt muni-saṃvṛtaḥ .. 7.1,4.23..
ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ॥ सर्गादि शार्वमैश्वर्यं समासाद वदद्विभुः ॥ ७.१,४.२४॥
ततस् तैः मुनिभिः पृष्टः तेषाम् भाव-विवृद्धये ॥ सर्ग-आदि शार्वम् ऐश्वर्यम् समासाद वदत्-विभुः ॥ ७।१,४।२४॥
tatas taiḥ munibhiḥ pṛṣṭaḥ teṣām bhāva-vivṛddhaye .. sarga-ādi śārvam aiśvaryam samāsāda vadat-vibhuḥ .. 7.1,4.24..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे वायुसमागमो नाम चतुर्थो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे वायुसमागमः नाम चतुर्थः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe vāyusamāgamaḥ nāma caturthaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In