| |
|

This overlay will guide you through the buttons:

सूत उवाच॥
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१॥
तत्र पूर्वम् महाभागाः नैमिष-अरण्य-वासिनः ॥ प्रणिपत्य यथान्यायम् पप्रच्छुः पवनम् प्रभुम् ॥ ७।१,५।१॥
tatra pūrvam mahābhāgāḥ naimiṣa-araṇya-vāsinaḥ .. praṇipatya yathānyāyam papracchuḥ pavanam prabhum .. 7.1,5.1..
नैमिषीया ऊचुः॥
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२॥
भवान् कथम् अनुप्राप्तः ज्ञानम् ईश्वर-गोचरम् ॥ कथम् च शिव-भावः ते ब्रह्मणः अव्यक्त-जन्मनः ॥ ७।१,५।२॥
bhavān katham anuprāptaḥ jñānam īśvara-gocaram .. katham ca śiva-bhāvaḥ te brahmaṇaḥ avyakta-janmanaḥ .. 7.1,5.2..
वायुरुवाच॥
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३॥
एकोनविंशतिः कल्पः विज्ञेयः श्वेतलोहितः ॥ तस्मिन् कल्पे चतुर्वक्त्रः स्रष्टु-कामः अतपत् तपः ॥ ७।१,५।३॥
ekonaviṃśatiḥ kalpaḥ vijñeyaḥ śvetalohitaḥ .. tasmin kalpe caturvaktraḥ sraṣṭu-kāmaḥ atapat tapaḥ .. 7.1,5.3..
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४॥
तपसा तेन तीव्रेण तुष्टः तस्य पिता स्वयम् ॥ दिव्यम् कौमारम् आस्थाय रूपम् रूपवताम् वरः ॥ ७।१,५।४॥
tapasā tena tīvreṇa tuṣṭaḥ tasya pitā svayam .. divyam kaumāram āsthāya rūpam rūpavatām varaḥ .. 7.1,5.4..
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५॥
श्वेतः नाम मुनिः भूत्वा दिव्याम् वाचम् उदीरयन् ॥ दर्शनम् प्रददौ तस्मै देवदेवः महेश्वरः ॥ ७।१,५।५॥
śvetaḥ nāma muniḥ bhūtvā divyām vācam udīrayan .. darśanam pradadau tasmai devadevaḥ maheśvaraḥ .. 7.1,5.5..
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६॥
तम् दृष्ट्वा पितरम् ब्रह्मा ब्रह्मणः अधिपतिम् पतिम् ॥ प्रणम्य परम-ज्ञानम् गायत्र्या सह लब्धवान् ॥ ७।१,५।६॥
tam dṛṣṭvā pitaram brahmā brahmaṇaḥ adhipatim patim .. praṇamya parama-jñānam gāyatryā saha labdhavān .. 7.1,5.6..
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७॥
ततस् स लब्ध-विज्ञानः विश्वकर्मा चतुर्मुखः ॥ असृजत् सर्व-भूतानि स्थावराणि चराणि च ॥ ७।१,५।७॥
tatas sa labdha-vijñānaḥ viśvakarmā caturmukhaḥ .. asṛjat sarva-bhūtāni sthāvarāṇi carāṇi ca .. 7.1,5.7..
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८॥
यतस् श्रुत्वा अमृतम् लब्धम् ब्रह्मणा परमेश्वरात् ॥ ततस् तद्-वदनात् एव मया लब्धम् तपः-बलात् ॥ ७।१,५।८॥
yatas śrutvā amṛtam labdham brahmaṇā parameśvarāt .. tatas tad-vadanāt eva mayā labdham tapaḥ-balāt .. 7.1,5.8..
मुनय ऊचुः॥
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९॥
किम् तत् ज्ञानम् त्वया लब्धम् तथ्यात् तथ्यंतरम् शुभम् ॥ यत्र कृत्वा पराम् निष्ठाम् पुरुषः सुखम् ऋच्छति ॥ ७।१,५।९॥
kim tat jñānam tvayā labdham tathyāt tathyaṃtaram śubham .. yatra kṛtvā parām niṣṭhām puruṣaḥ sukham ṛcchati .. 7.1,5.9..
वायुरुवाच॥
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१०॥
पशु-पाश-पति-ज्ञानम् यत् लब्धम् तु मया पुरा ॥ तत्र निष्ठा परा कार्या पुरुषेण सुख-अर्थिना ॥ ७।१,५।१०॥
paśu-pāśa-pati-jñānam yat labdham tu mayā purā .. tatra niṣṭhā parā kāryā puruṣeṇa sukha-arthinā .. 7.1,5.10..
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११॥
अज्ञान-प्रभवम् दुःखम् ज्ञानेन एव निवर्तते ॥ ज्ञानम् वस्तु-परिच्छेदः वस्तु च द्विविधम् स्मृतम् ॥ ७।१,५।११॥
ajñāna-prabhavam duḥkham jñānena eva nivartate .. jñānam vastu-paricchedaḥ vastu ca dvividham smṛtam .. 7.1,5.11..
अजडं च जडं चैव नियंतृ च तयोरपि ॥ पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२॥
अजडम् च जडम् च एव नियंतृ च तयोः अपि ॥ पशुः पाशः पतिः च इति कथ्यते तत् त्रयम् क्रमात् ॥ ७।१,५।१२॥
ajaḍam ca jaḍam ca eva niyaṃtṛ ca tayoḥ api .. paśuḥ pāśaḥ patiḥ ca iti kathyate tat trayam kramāt .. 7.1,5.12..
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३॥
अक्षरम् च क्षरम् च एव क्षर-अक्षर-परम् तथा ॥ तत् एतत् त्रितयम् भूम्ना कथ्यते तत्त्व-वेदिभिः ॥ ७।१,५।१३॥
akṣaram ca kṣaram ca eva kṣara-akṣara-param tathā .. tat etat tritayam bhūmnā kathyate tattva-vedibhiḥ .. 7.1,5.13..
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४॥
अक्षरम् पशुः इति उक्तः क्षरम् पाशः उदाहृतः ॥ क्षर-अक्षर-परम् यत् तत् पतिः इति अभिधीयते ॥ ७।१,५।१४॥
akṣaram paśuḥ iti uktaḥ kṣaram pāśaḥ udāhṛtaḥ .. kṣara-akṣara-param yat tat patiḥ iti abhidhīyate .. 7.1,5.14..
मुनय ऊचुः॥
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५॥
किम् तत् अक्षरम् इति उक्तम् किम् च क्षरम् उदाहृतम् ॥ तयोः च परमम् किम् वा तत् एतत् ब्रूहि मारुत ॥ ७।१,५।१५॥
kim tat akṣaram iti uktam kim ca kṣaram udāhṛtam .. tayoḥ ca paramam kim vā tat etat brūhi māruta .. 7.1,5.15..
वायुरुवाच॥
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६॥
प्रकृतिः क्षरम् इति उक्तम् पुरुषः अक्षरः उच्यते ॥ तौ इमौ प्रेरयति अन्यः स परा परमेश्वरः ॥ ७।१,५।१६॥
prakṛtiḥ kṣaram iti uktam puruṣaḥ akṣaraḥ ucyate .. tau imau prerayati anyaḥ sa parā parameśvaraḥ .. 7.1,5.16..
मुनय ऊचुः॥
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७॥
का एषा प्रकृतिः इति उक्ता कः एष पुरुषः मतः ॥ अनयोः केन सम्बन्धः कः उयम् प्रेरकः ईश्वरः ॥ ७।१,५।१७॥
kā eṣā prakṛtiḥ iti uktā kaḥ eṣa puruṣaḥ mataḥ .. anayoḥ kena sambandhaḥ kaḥ uyam prerakaḥ īśvaraḥ .. 7.1,5.17..
वायुरुवाच॥
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८॥
माया प्रकृतिः उद्दिष्टा पुरुषः मायया वृतः ॥ संबन्धः मूलकर्मभ्याम् शिवः प्रेरकः ईश्वरः ॥ ७।१,५।१८॥
māyā prakṛtiḥ uddiṣṭā puruṣaḥ māyayā vṛtaḥ .. saṃbandhaḥ mūlakarmabhyām śivaḥ prerakaḥ īśvaraḥ .. 7.1,5.18..
मुनय ऊचुः॥
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९॥
का इयम् माया समा ख्याता किंरूपः मायया वृतः ॥ मूलम् कीदृश् कुतस् वा अस्य किम् शिव-त्वम् कुतस् शिवः ॥ ७।१,५।१९॥
kā iyam māyā samā khyātā kiṃrūpaḥ māyayā vṛtaḥ .. mūlam kīdṛś kutas vā asya kim śiva-tvam kutas śivaḥ .. 7.1,5.19..
वायुरुवाच॥
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२०॥
माया माहेश्वरी शक्तिः चित्-रूपः मायया वृतः ॥ मलः चिच्छादकः नैजः विशुद्धिः शिवता स्वतस् ॥ ७।१,५।२०॥
māyā māheśvarī śaktiḥ cit-rūpaḥ māyayā vṛtaḥ .. malaḥ cicchādakaḥ naijaḥ viśuddhiḥ śivatā svatas .. 7.1,5.20..
मुनय ऊचुः॥
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१॥
आवृणोति कथम् माया व्यापिनम् केन हेतुना ॥ किमर्थम् च आवृतिः पुंसः केन वा विनिवर्तते ॥ ७।१,५।२१॥
āvṛṇoti katham māyā vyāpinam kena hetunā .. kimartham ca āvṛtiḥ puṃsaḥ kena vā vinivartate .. 7.1,5.21..
वायुरुवाच॥
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२॥
आवृतिः व्यपिनः अपि स्यात् व्यापि यस्मात् कला-आदि अपि ॥ हेतुः कर्म एव भोग-अर्थम् निवर्तेत मल-क्षयात् ॥ ७।१,५।२२॥
āvṛtiḥ vyapinaḥ api syāt vyāpi yasmāt kalā-ādi api .. hetuḥ karma eva bhoga-artham nivarteta mala-kṣayāt .. 7.1,5.22..
मुनय ऊचुः॥
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३॥
कला-आदि कथ्यते किम् तत् कर्म वा किम् उदाहृतम् ॥ तत् किमादि किम् अन्तम् वा किम् फलम् वा किमाश्रयम् ॥ ७।१,५।२३॥
kalā-ādi kathyate kim tat karma vā kim udāhṛtam .. tat kimādi kim antam vā kim phalam vā kimāśrayam .. 7.1,5.23..
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४॥
कस्य भोगेन किम् भोग्यम् किम् वा तद्-भोग-साधनम् ॥ मल-क्षयस्य कः हेतुः कीदृश्-क्षीण-मलः पुमान् ॥ ७।१,५।२४॥
kasya bhogena kim bhogyam kim vā tad-bhoga-sādhanam .. mala-kṣayasya kaḥ hetuḥ kīdṛś-kṣīṇa-malaḥ pumān .. 7.1,5.24..
वायुरुवाच॥
कला विद्या च रागश्च कालो नियतिरेव च ॥ कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५॥
कला विद्या च रागः च कालः नियतिः एव च ॥ कला-आदयः समाख्याताः यः भोक्ता पुरुषः भवेत् ॥ ७।१,५।२५॥
kalā vidyā ca rāgaḥ ca kālaḥ niyatiḥ eva ca .. kalā-ādayaḥ samākhyātāḥ yaḥ bhoktā puruṣaḥ bhavet .. 7.1,5.25..
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६॥
पुण्य-पाप-आत्मकम् कर्म सुख-दुःख-फलम् तु यत् ॥ अनादि-मल-भोग-अन्तम् अज्ञान-आत्म-समाश्रयम् ॥ ७।१,५।२६॥
puṇya-pāpa-ātmakam karma sukha-duḥkha-phalam tu yat .. anādi-mala-bhoga-antam ajñāna-ātma-samāśrayam .. 7.1,5.26..
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७॥
भोगः कर्म-विनाशाय भोगम् अव्यक्तम् उच्यते ॥ ॥ ७।१,५।२७॥
bhogaḥ karma-vināśāya bhogam avyaktam ucyate .. .. 7.1,5.27..
भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८॥
भाव-अतिशय-लब्धेन प्रसादेन मल-क्षयः ॥ क्षीणे च आत्म-मले तस्मिन् पुमान् शिव-समः भवेत् ॥ ७।१,५।२८॥
bhāva-atiśaya-labdhena prasādena mala-kṣayaḥ .. kṣīṇe ca ātma-male tasmin pumān śiva-samaḥ bhavet .. 7.1,5.28..
मुनय ऊचुः॥
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९॥
कला-आदि-पञ्चतत्त्वानाम् किम् कर्म पृथक् उच्यते ॥ भोक्ता इति पुरुषः च इति येन आत्मा व्यपदिश्यते ॥ ७।१,५।२९॥
kalā-ādi-pañcatattvānām kim karma pṛthak ucyate .. bhoktā iti puruṣaḥ ca iti yena ātmā vyapadiśyate .. 7.1,5.29..
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३०॥
किमात्मकम् तत् अव्यक्तम् केन आकारेण भुज्यते ॥ किम् तस्य शरणम् भुक्तौ शरीरम् च किम् उच्यते ॥ ७।१,५।३०॥
kimātmakam tat avyaktam kena ākāreṇa bhujyate .. kim tasya śaraṇam bhuktau śarīram ca kim ucyate .. 7.1,5.30..
वायुरुवाच॥
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१॥
॥ कालः अवच्छेदकः तत्र नियतिः तु नियामिका ॥ ७।१,५।३१॥
.. kālaḥ avacchedakaḥ tatra niyatiḥ tu niyāmikā .. 7.1,5.31..
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२॥
अव्यक्तम् कारणम् यत् तत् त्रिगुणम् प्रभव-अप्ययम् ॥ प्रधानम् प्रकृतिः च इति यत् आहुः तत्त्व-चिंतकाः ॥ ७।१,५।३२॥
avyaktam kāraṇam yat tat triguṇam prabhava-apyayam .. pradhānam prakṛtiḥ ca iti yat āhuḥ tattva-ciṃtakāḥ .. 7.1,5.32..
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३॥
कलातः तत् अभिव्यक्तम् अनभिव्यक्त-लक्षणम् ॥ सुख-दुःख-विमोह-आत्मा भुज्यते गुणवान् त्रिधा ॥ ७।१,५।३३॥
kalātaḥ tat abhivyaktam anabhivyakta-lakṣaṇam .. sukha-duḥkha-vimoha-ātmā bhujyate guṇavān tridhā .. 7.1,5.33..
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४॥
सत्त्वम् रजः तमः इति गुणाः प्रकृति-संभवाः ॥ प्रकृतौ सूक्ष्म-रूपेण तिले तैलम् इव स्थिताः ॥ ७।१,५।३४॥
sattvam rajaḥ tamaḥ iti guṇāḥ prakṛti-saṃbhavāḥ .. prakṛtau sūkṣma-rūpeṇa tile tailam iva sthitāḥ .. 7.1,5.34..
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५॥
सुखम् च सुख-हेतुः च समासात् सात्त्विकम् स्मृतम् ॥ राजसम् तद्-विपर्यासात् स्तंभ-मोहौ तु तामसौ ॥ ७।१,५।३५॥
sukham ca sukha-hetuḥ ca samāsāt sāttvikam smṛtam .. rājasam tad-viparyāsāt staṃbha-mohau tu tāmasau .. 7.1,5.35..
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६॥
सात्त्विकी ऊर्ध्व-गतिः प्रोक्ता तामसी स्यात् अधस् गतिः ॥ मध्यमा तु गतिः या सा राजसी परिपठ्यते ॥ ७।१,५।३६॥
sāttvikī ūrdhva-gatiḥ proktā tāmasī syāt adhas gatiḥ .. madhyamā tu gatiḥ yā sā rājasī paripaṭhyate .. 7.1,5.36..
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७॥
तन्मात्र-पञ्चकम् च एव भूत-पञ्चकम् एव च ॥ ज्ञान-इन्द्रियाणि पञ्च-ऐक्यम् पञ्च कर्मेन्द्रियाणि च ॥ ७।१,५।३७॥
tanmātra-pañcakam ca eva bhūta-pañcakam eva ca .. jñāna-indriyāṇi pañca-aikyam pañca karmendriyāṇi ca .. 7.1,5.37..
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८॥
प्रधान-बुद्धि-अहंकार-मनांसि च चतुष्टयम् ॥ समासात् एवम् अव्यक्तम् स विकारम् उदाहृतम् ॥ ७।१,५।३८॥
pradhāna-buddhi-ahaṃkāra-manāṃsi ca catuṣṭayam .. samāsāt evam avyaktam sa vikāram udāhṛtam .. 7.1,5.38..
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९॥
तद्-कारण-दशा-आपन्नम् अव्यक्तम् इति कथ्यते ॥ व्यक्तम् कार्य-दशा-आपन्नम् शरीर-आदि-घट-आदि-वत् ॥ ७।१,५।३९॥
tad-kāraṇa-daśā-āpannam avyaktam iti kathyate .. vyaktam kārya-daśā-āpannam śarīra-ādi-ghaṭa-ādi-vat .. 7.1,5.39..
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४०॥
यथा घट-आदिकम् कार्यम् मृद्-आदेः न अति भिद्यते ॥ शरीर-आदि तथा व्यक्तम् अव्यक्तात् न अति भिद्यते ॥ ७।१,५।४०॥
yathā ghaṭa-ādikam kāryam mṛd-ādeḥ na ati bhidyate .. śarīra-ādi tathā vyaktam avyaktāt na ati bhidyate .. 7.1,5.40..
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१॥
तस्मात् अव्यक्तम् एव ऐक्य-कारणम् करणानि च ॥ शरीरम् च तद्-आधारम् तत् भोग्यम् च अपि न इतरत् ॥ ७।१,५।४१॥
tasmāt avyaktam eva aikya-kāraṇam karaṇāni ca .. śarīram ca tad-ādhāram tat bhogyam ca api na itarat .. 7.1,5.41..
मुनय ऊचुः॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२॥
बुद्धीन्द्रिय-शरीरेभ्यः व्यतिरेकस्य कस्यचिद् ॥ आत्म-शब्द-अभिधेयस्य वस्तुतस् अपि कुतस् स्थितिः ॥ ७।१,५।४२॥
buddhīndriya-śarīrebhyaḥ vyatirekasya kasyacid .. ātma-śabda-abhidheyasya vastutas api kutas sthitiḥ .. 7.1,5.42..
वायुरुवाच॥
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३॥
बुद्धीन्द्रिय-शरीरेभ्यः व्यतिरेकः विभोः ध्रुवम् ॥ अस्ति एव कश्चिद् आत्मा इति हेतुः तत्र सु दुर्गमः ॥ ७।१,५।४३॥
buddhīndriya-śarīrebhyaḥ vyatirekaḥ vibhoḥ dhruvam .. asti eva kaścid ātmā iti hetuḥ tatra su durgamaḥ .. 7.1,5.43..
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४॥
बुद्धीन्द्रिय-शरीराणाम् न आत्मता सद्भिः इष्यते ॥ स्मृतेः अनियत-ज्ञानात् अयावत्-देह-वेदनात् ॥ ७।१,५।४४॥
buddhīndriya-śarīrāṇām na ātmatā sadbhiḥ iṣyate .. smṛteḥ aniyata-jñānāt ayāvat-deha-vedanāt .. 7.1,5.44..
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५॥
अतस् स्मर्ता अनुभूतानाम् अशेष-ज्ञेय-गोचरः ॥ अन्तर्यामी इति वेदेषु वेदांतेषु च गीयते ॥ ७।१,५।४५॥
atas smartā anubhūtānām aśeṣa-jñeya-gocaraḥ .. antaryāmī iti vedeṣu vedāṃteṣu ca gīyate .. 7.1,5.45..
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६॥
सर्वम् तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ तथा अपि क्वापि केन अपि व्यक्तम् एष न दृश्यते ॥ ७।१,५।४६॥
sarvam tatra sa sarvatra vyāpya tiṣṭhati śāśvataḥ .. tathā api kvāpi kena api vyaktam eṣa na dṛśyate .. 7.1,5.46..
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ मनसैव प्रदीप्तेन महानात्मावसीयते ॥ ७.१,५.४७॥
न एव अयम् चक्षुषा ग्राह्यः न अपरैः इन्द्रियैः अपि ॥ मनसा एव प्रदीप्तेन महान् आत्मा अवसीयते ॥ ७।१,५।४७॥
na eva ayam cakṣuṣā grāhyaḥ na aparaiḥ indriyaiḥ api .. manasā eva pradīptena mahān ātmā avasīyate .. 7.1,5.47..
न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८॥
न च स्त्री न पुमान् एष ना एव च अपि नपुंसकः ॥ न एव ऊर्ध्वम् न अपि तिर्यक् न अधस्तात् न कुतश्चन ॥ ७।१,५।४८॥
na ca strī na pumān eṣa nā eva ca api napuṃsakaḥ .. na eva ūrdhvam na api tiryak na adhastāt na kutaścana .. 7.1,5.48..
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९॥
अशरीरम् शरीरेषु चलेषु स्थाणुम् अव्ययम् ॥ सदा पश्यति तम् धीरः नरः प्रत्यवमर्शनात् ॥ ७।१,५।४९॥
aśarīram śarīreṣu caleṣu sthāṇum avyayam .. sadā paśyati tam dhīraḥ naraḥ pratyavamarśanāt .. 7.1,5.49..
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५०॥
किम् अत्र बहुना उक्तेन पुरुषः देहतः पृथक् ॥ अपृथक् ये तु पश्यंति हि असम्यक् तेषु दर्शनम् ॥ ७।१,५।५०॥
kim atra bahunā uktena puruṣaḥ dehataḥ pṛthak .. apṛthak ye tu paśyaṃti hi asamyak teṣu darśanam .. 7.1,5.50..
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१॥
यत् शरीरम् इदम् प्रोक्तम् पुरुषस्य ततस् परम् ॥ अशुद्धम् अवशम् दुःखम् अध्रुवम् न च विद्यते ॥ ७।१,५।५१॥
yat śarīram idam proktam puruṣasya tatas param .. aśuddham avaśam duḥkham adhruvam na ca vidyate .. 7.1,5.51..
विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२॥
विपदाम् वीज-भूतेन पुरुषः तेन संयुतः ॥ सुखी दुःखी च मूढः च भवति स्वेन कर्मणा ॥ ७।१,५।५२॥
vipadām vīja-bhūtena puruṣaḥ tena saṃyutaḥ .. sukhī duḥkhī ca mūḍhaḥ ca bhavati svena karmaṇā .. 7.1,5.52..
अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३॥
अद्भिः आप्लवितम् क्षेत्रम् जनयति अंकुरम् यथा ॥ आज्ञानात् प्लावितम् कर्म देहम् जनयते तथा ॥ ७।१,५।५३॥
adbhiḥ āplavitam kṣetram janayati aṃkuram yathā .. ājñānāt plāvitam karma deham janayate tathā .. 7.1,5.53..
अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४॥
अत्यंतम् असुख-आवासाः स्मृताः च एकान्त-मृत्यवः ॥ अनागताः अतीताः च तनवः अस्य सहस्रशस् ॥ ७।१,५।५४॥
atyaṃtam asukha-āvāsāḥ smṛtāḥ ca ekānta-mṛtyavaḥ .. anāgatāḥ atītāḥ ca tanavaḥ asya sahasraśas .. 7.1,5.54..
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५॥
आगत्य आगत्य शीर्णेषु शरीरेषु शरीरिणः ॥ अत्यन्त-वसतिः क्वापि न केन अपि च लभ्यते ॥ ७।१,५।५५॥
āgatya āgatya śīrṇeṣu śarīreṣu śarīriṇaḥ .. atyanta-vasatiḥ kvāpi na kena api ca labhyate .. 7.1,5.55..
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६॥
छादितः च वियुक्तः च शरीरैः एषु लक्ष्यते ॥ चंद्र-बिंब-वत् आकाशे तरलैः अभ्र-संचयैः ॥ ७।१,५।५६॥
chāditaḥ ca viyuktaḥ ca śarīraiḥ eṣu lakṣyate .. caṃdra-biṃba-vat ākāśe taralaiḥ abhra-saṃcayaiḥ .. 7.1,5.56..
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७॥
अनेक-देह-भेदेन भिन्ना वृत्तिः इह आत्मनः ॥ अष्टापद-परिक्षेपे हि अक्ष-मुद्रा इव लक्ष्यते ॥ ७।१,५।५७॥
aneka-deha-bhedena bhinnā vṛttiḥ iha ātmanaḥ .. aṣṭāpada-parikṣepe hi akṣa-mudrā iva lakṣyate .. 7.1,5.57..
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८॥
न एव अस्य भविता कश्चिद् न असौ भवति कस्यचिद् ॥ पथि संगमः एव अयम् दारैः पुत्रैः च बंधुभिः ॥ ७।१,५।५८॥
na eva asya bhavitā kaścid na asau bhavati kasyacid .. pathi saṃgamaḥ eva ayam dāraiḥ putraiḥ ca baṃdhubhiḥ .. 7.1,5.58..
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९॥
यथा काष्ठम् च काष्ठम् च समेयाताम् महा-उदधौ ॥ समेत्य च व्यपेयाताम् तद्वत् भूत-समागमः ॥ ७।१,५।५९॥
yathā kāṣṭham ca kāṣṭham ca sameyātām mahā-udadhau .. sametya ca vyapeyātām tadvat bhūta-samāgamaḥ .. 7.1,5.59..
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६०॥
स पश्यति शरीरम् तत् शरीरम् तत् न पश्यति ॥ तौ पश्यति परः कश्चिद् तौ उभौ तम् न पश्यतः ॥ ७।१,५।६०॥
sa paśyati śarīram tat śarīram tat na paśyati .. tau paśyati paraḥ kaścid tau ubhau tam na paśyataḥ .. 7.1,5.60..
ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१॥
ब्रह्म-आद्याः स्थावर-अन्तर् च पशवः परिकीर्तिताः ॥ पशूनाम् एव सर्वेषाम् प्रोक्तम् एतत् निदर्शनम् ॥ ७।१,५।६१॥
brahma-ādyāḥ sthāvara-antar ca paśavaḥ parikīrtitāḥ .. paśūnām eva sarveṣām proktam etat nidarśanam .. 7.1,5.61..
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२॥
सः एष बध्यते पाशैः सुख-दुःख-अशनः पशुः ॥ लीला-साधन-भूतः यः ईश्वरस्य इति सूरयः ॥ ७।१,५।६२॥
saḥ eṣa badhyate pāśaiḥ sukha-duḥkha-aśanaḥ paśuḥ .. līlā-sādhana-bhūtaḥ yaḥ īśvarasya iti sūrayaḥ .. 7.1,5.62..
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३॥
अज्ञः जंतुः अनीशः अयम् आत्मनः सुख-दुःखयोः ॥ ईश्वर-प्रेरितः गच्छेत् स्वर्गम् वा श्वभ्रम् एव वा ॥ ७।१,५।६३॥
ajñaḥ jaṃtuḥ anīśaḥ ayam ātmanaḥ sukha-duḥkhayoḥ .. īśvara-preritaḥ gacchet svargam vā śvabhram eva vā .. 7.1,5.63..
सूत उवाच॥
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४॥
इति आकर्ण्य अनिल-वचः मुनयः प्रीत-मानसाः ॥ प्रोचुः प्रणम्य तम् वायुम् शैव-आगम-विचक्षणम् ॥ ७।१,५।६४॥
iti ākarṇya anila-vacaḥ munayaḥ prīta-mānasāḥ .. procuḥ praṇamya tam vāyum śaiva-āgama-vicakṣaṇam .. 7.1,5.64..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे शिवतत्त्वज्ञानवर्णनम् नाम पञ्चमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe śivatattvajñānavarṇanam nāma pañcamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In