| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥ आभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥ ७.१,६.१॥
यः अयम् पशुः इति प्रोक्तः यः च पाशः उदाहृतः ॥ आभ्याम् विलक्षणः कश्चिद् कोयम् अस्ति तयोः पतिः ॥ ७।१,६।१॥
yaḥ ayam paśuḥ iti proktaḥ yaḥ ca pāśaḥ udāhṛtaḥ .. ābhyām vilakṣaṇaḥ kaścid koyam asti tayoḥ patiḥ .. 7.1,6.1..
वायुरुवाच॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥ पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ ७.१,६.२॥
अस्ति कश्चिद् अपर्यंत-रमणीय-गुण-आश्रयः ॥ पतिः विश्वस्य निर्माता पशु-पाश-विमोचनः ॥ ७।१,६।२॥
asti kaścid aparyaṃta-ramaṇīya-guṇa-āśrayaḥ .. patiḥ viśvasya nirmātā paśu-pāśa-vimocanaḥ .. 7.1,6.2..
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥ अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ७.१,६.३॥
अभावे तस्य विश्वस्य सृष्टिः एषा कथम् भवेत् ॥ अचेतन-त्वात् अज्ञानात् अनयोः पशु-पाशयोः ॥ ७।१,६।३॥
abhāve tasya viśvasya sṛṣṭiḥ eṣā katham bhavet .. acetana-tvāt ajñānāt anayoḥ paśu-pāśayoḥ .. 7.1,6.3..
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,६.४॥
प्रधान-परमाणु-आदि यावत् किंचिद् अचेतनम् ॥ तद्-कर्तृकम् स्वयम् दृष्टम् बुद्धिमत् कारणम् विना ॥ ७।१,६।४॥
pradhāna-paramāṇu-ādi yāvat kiṃcid acetanam .. tad-kartṛkam svayam dṛṣṭam buddhimat kāraṇam vinā .. 7.1,6.4..
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ७.१,६.५॥
जगत् च कर्तृ-सापेक्षम् कार्यम् स अवयवम् यतस् ॥ तस्मात् कार्यस्य कर्तृ-त्वम् पत्युः न पशु-पाशयोः ॥ ७।१,६।५॥
jagat ca kartṛ-sāpekṣam kāryam sa avayavam yatas .. tasmāt kāryasya kartṛ-tvam patyuḥ na paśu-pāśayoḥ .. 7.1,6.5..
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥ अयथाकरणज्ञानमंधस्य गमनं यथा ॥ ७.१,६.६॥
पशोः अपि च कर्तृ-त्वम् पत्युः प्रेरण-पूर्वकम् ॥ अयथा करण-ज्ञानम् अंधस्य गमनम् यथा ॥ ७।१,६।६॥
paśoḥ api ca kartṛ-tvam patyuḥ preraṇa-pūrvakam .. ayathā karaṇa-jñānam aṃdhasya gamanam yathā .. 7.1,6.6..
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥ असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७.१,६.७॥
आत्मानम् च पृथक् मत्वा प्रेरितारम् ततस् पृथक् ॥ असौ जुष्टः ततस् तेन हि अमृत-त्वाय कल्पते ॥ ७।१,६।७॥
ātmānam ca pṛthak matvā preritāram tatas pṛthak .. asau juṣṭaḥ tatas tena hi amṛta-tvāya kalpate .. 7.1,6.7..
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥ ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ७.१,६.८॥
पशोः पाशस्य पत्युः च तत्त्वतः अस्ति पदम् परम् ॥ ब्रह्म-विद् तत् विदित्वा एव योनि-मुक्तः भविष्यति ॥ ७।१,६।८॥
paśoḥ pāśasya patyuḥ ca tattvataḥ asti padam param .. brahma-vid tat viditvā eva yoni-muktaḥ bhaviṣyati .. 7.1,6.8..
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥ व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ७.१,६.९॥
संयुक्तम् एतत् द्वितयम् क्षरम् अक्षरम् एव च ॥ व्यक्त-अव्यक्तम् बिभर्ति ईशः विश्वम् विश्व-विमोचकः ॥ ७।१,६।९॥
saṃyuktam etat dvitayam kṣaram akṣaram eva ca .. vyakta-avyaktam bibharti īśaḥ viśvam viśva-vimocakaḥ .. 7.1,6.9..
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥ नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥ ७.१,६.१०॥
भोक्ता भोग्यम् प्रेरयिता मंतव्यम् त्रिविधम् स्मृतम् ॥ न अतस् परम् विजानद्भिः वेदितव्यम् हि किंचनः ॥ ७।१,६।१०॥
bhoktā bhogyam prerayitā maṃtavyam trividham smṛtam .. na atas param vijānadbhiḥ veditavyam hi kiṃcanaḥ .. 7.1,6.10..
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥ यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ७.१,६.११॥
तिलेषु वा यथा तैलम् दध्नि वा सर्पिः अर्पितम् ॥ यथा आपः स्रोतसि व्याप्ताः यथा अरण्याम् हुताशनः ॥ ७।१,६।११॥
tileṣu vā yathā tailam dadhni vā sarpiḥ arpitam .. yathā āpaḥ srotasi vyāptāḥ yathā araṇyām hutāśanaḥ .. 7.1,6.11..
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥ सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥ ७.१,६.१२॥
एवम् एव महात्मानम् आत्मनि आत्म-विलक्षणम् ॥ सत्येन तपसा च एव नित्य-युक्तः अनुपश्यति ॥ ७।१,६।१२॥
evam eva mahātmānam ātmani ātma-vilakṣaṇam .. satyena tapasā ca eva nitya-yuktaḥ anupaśyati .. 7.1,6.12..
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥ सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ ७.१,६.१३॥
यः एकः जालवान् ईशः ईशानीभिः स्व-शक्तिभिः ॥ सर्वान् लोकान् इमान् कृत्वा एकः एव सः ईशते ॥ ७।१,६।१३॥
yaḥ ekaḥ jālavān īśaḥ īśānībhiḥ sva-śaktibhiḥ .. sarvān lokān imān kṛtvā ekaḥ eva saḥ īśate .. 7.1,6.13..
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥ संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥ ७.१,६.१४॥
एकः एव तदा रुद्रः न द्वितीयः अस्ति कश्चन ॥ संसृज्य विश्व-भुवनम् गोप्ता ते संचुकोच यः ॥ ७।१,६।१४॥
ekaḥ eva tadā rudraḥ na dvitīyaḥ asti kaścana .. saṃsṛjya viśva-bhuvanam goptā te saṃcukoca yaḥ .. 7.1,6.14..
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥ तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥ ७.१,६.१५॥
विश्वतस् चक्षुः एव अयम् उत अयम् विश्वतोमुखः ॥ तथा एव विश्वतोबाहु-विश्वतस् पाद-संयुतः ॥ ७।१,६।१५॥
viśvatas cakṣuḥ eva ayam uta ayam viśvatomukhaḥ .. tathā eva viśvatobāhu-viśvatas pāda-saṃyutaḥ .. 7.1,6.15..
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥ स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ ७.१,६.१६॥
द्यावाभूमी च जनयन् देवः एकः महेश्वरः ॥ सः एव सर्व-देवानाम् प्रभवः च उद्भवः तथा ॥ ७।१,६।१६॥
dyāvābhūmī ca janayan devaḥ ekaḥ maheśvaraḥ .. saḥ eva sarva-devānām prabhavaḥ ca udbhavaḥ tathā .. 7.1,6.16..
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥ विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ ७.१,६.१७॥
हिरण्यगर्भम् देवानाम् प्रथमम् जनयेत् अयम् ॥ विश्वस्मात् अधिकः रुद्रः महा-ऋषिः इति हि श्रुतिः ॥ ७।१,६।१७॥
hiraṇyagarbham devānām prathamam janayet ayam .. viśvasmāt adhikaḥ rudraḥ mahā-ṛṣiḥ iti hi śrutiḥ .. 7.1,6.17..
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥ आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ ७.१,६.१८॥
वेद अहम् एतम् पुरुषम् महांतम् अमृतम् ध्रुवम् ॥ आदित्य-वर्णम् तमसः परस्तात् संस्थितम् प्रभुम् ॥ ७।१,६।१८॥
veda aham etam puruṣam mahāṃtam amṛtam dhruvam .. āditya-varṇam tamasaḥ parastāt saṃsthitam prabhum .. 7.1,6.18..
अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥ नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ ७.१,६.१९॥
अस्मात् ना अस्ति परम् किंचिद् अपरम् परमात्मनः ॥ न अणीयः अस्ति न च ज्यायः तेन पूर्णम् इदम् जगत् ॥ ७।१,६।१९॥
asmāt nā asti param kiṃcid aparam paramātmanaḥ .. na aṇīyaḥ asti na ca jyāyaḥ tena pūrṇam idam jagat .. 7.1,6.19..
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ ७.१,६.२०॥
सर्व ॥ सर्वव्यापी च भगवान् तस्मात् सर्व-गतः शिवः ॥ ७।१,६।२०॥
sarva .. sarvavyāpī ca bhagavān tasmāt sarva-gataḥ śivaḥ .. 7.1,6.20..
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ७.१,६.२१॥
सर्वतस् पाणि-पादः अयम् सर्वतस् अक्षि-शिरः-मुखः ॥ सर्वतस् श्रुतिमान् लोके सर्वम् आवृत्य तिष्ठति ॥ ७।१,६।२१॥
sarvatas pāṇi-pādaḥ ayam sarvatas akṣi-śiraḥ-mukhaḥ .. sarvatas śrutimān loke sarvam āvṛtya tiṣṭhati .. 7.1,6.21..
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ ७.१,६.२२॥
सर्व-इन्द्रिय-गुण-आभासः सर्व-इन्द्रिय-विवर्जितः ॥ सर्वस्य प्रभुः ईशानः सर्वस्य शरणम् सुहृद् ॥ ७।१,६।२२॥
sarva-indriya-guṇa-ābhāsaḥ sarva-indriya-vivarjitaḥ .. sarvasya prabhuḥ īśānaḥ sarvasya śaraṇam suhṛd .. 7.1,6.22..
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥ सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ ७.१,६.२३॥
अ चक्षुः अपि यः पश्यति अ कर्णः अपि शृणोति यः ॥ सर्वम् वेत्ति न वेत्ता अस्य तम् आहुः पुरुषम् परम् ॥ ७।१,६।२३॥
a cakṣuḥ api yaḥ paśyati a karṇaḥ api śṛṇoti yaḥ .. sarvam vetti na vettā asya tam āhuḥ puruṣam param .. 7.1,6.23..
अणोरणीयान्महतो महीयानयमव्ययः ॥ गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥ ७.१,६.२४॥
अणोः अणीयान् महतः महीयान् अयम् अव्ययः ॥ गुहायाम् निहितः च अपि जंतोः अस्य महेश्वरः ॥ ७।१,६।२४॥
aṇoḥ aṇīyān mahataḥ mahīyān ayam avyayaḥ .. guhāyām nihitaḥ ca api jaṃtoḥ asya maheśvaraḥ .. 7.1,6.24..
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥ धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ ७.१,६.२५॥
तम् अक्रतुम् क्रतु-प्रायम् महिम-अतिशय-अन्वितम् ॥ धातुः प्रसादात् ईशानम् वीत-शोकः प्रपश्यति ॥ ७।१,६।२५॥
tam akratum kratu-prāyam mahima-atiśaya-anvitam .. dhātuḥ prasādāt īśānam vīta-śokaḥ prapaśyati .. 7.1,6.25..
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥ निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥ ७.१,६.२६॥
वेद अहम् एनम् अजरम् पुराणम् सर्वगम् विभुम् ॥ निरोधम् जन्मनः यस्य वदंति ब्रह्म-वादिनः ॥ ७।१,६।२६॥
veda aham enam ajaram purāṇam sarvagam vibhum .. nirodham janmanaḥ yasya vadaṃti brahma-vādinaḥ .. 7.1,6.26..
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥ विदधाति विचेत्यंते विश्वमादौ महेश्वरः ॥ ७.१,६.२७॥
एकः अपि त्रीन् इमान् लोकान् बहुधा शक्ति-योगतः ॥ विदधाति विश्वम् आदौ महेश्वरः ॥ ७।१,६।२७॥
ekaḥ api trīn imān lokān bahudhā śakti-yogataḥ .. vidadhāti viśvam ādau maheśvaraḥ .. 7.1,6.27..
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥ तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥ ७.१,६.२८॥
विश्वधात्री इति अजा-आख्या च शैवी चित्रा कृतिः परा ॥ ताम् अजाम् लोहिताम् शुक्लाम् कृष्णाम् एकाम् तु अजः प्रजाम् ॥ ७।१,६।२८॥
viśvadhātrī iti ajā-ākhyā ca śaivī citrā kṛtiḥ parā .. tām ajām lohitām śuklām kṛṣṇām ekām tu ajaḥ prajām .. 7.1,6.28..
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥ तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥ ७.१,६.२९॥
जनित्रीम् अनुशेते अन्यः जुषमाणः स्वरूपिणीम् ॥ ताम् एव अजाम् अजः अन्यः तु भक्त-भोगाः जहाति च ॥ ७।१,६।२९॥
janitrīm anuśete anyaḥ juṣamāṇaḥ svarūpiṇīm .. tām eva ajām ajaḥ anyaḥ tu bhakta-bhogāḥ jahāti ca .. 7.1,6.29..
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥ एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥ ७.१,६.३०॥
द्वौ सुपर्णौ च सयुजौ समानम् वृक्षम् आस्थितौ ॥ एकः अत्ति पिप्पलम् स्वादु परः अन् अश्नन् प्रपश्यति ॥ ७।१,६।३०॥
dvau suparṇau ca sayujau samānam vṛkṣam āsthitau .. ekaḥ atti pippalam svādu paraḥ an aśnan prapaśyati .. 7.1,6.30..
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥ जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥ ७.१,६.३१॥
वृक्षे इस्मिन् पुरुषः मग्नः गुह्यमानः च शोचति ॥ जुष्टम् अन्यम् यदा पश्येत् ईशम् परम-कारणम् ॥ ७।१,६।३१॥
vṛkṣe ismin puruṣaḥ magnaḥ guhyamānaḥ ca śocati .. juṣṭam anyam yadā paśyet īśam parama-kāraṇam .. 7.1,6.31..
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥ छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥ ७.१,६.३२॥
तदा अस्य महिमानम् च वीत-शोकः सुखी भवेत् ॥ छंदांसि यज्ञाः ऋतवः यत् भूतम् भव्यम् एव च ॥ ७।१,६।३२॥
tadā asya mahimānam ca vīta-śokaḥ sukhī bhavet .. chaṃdāṃsi yajñāḥ ṛtavaḥ yat bhūtam bhavyam eva ca .. 7.1,6.32..
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥ ७.१,६.३३॥
मायी विश्वम् सृजति अस्मिन् निविष्टः मायया परः ॥ मायाम् तु प्रकृतिम् विद्यात् मायिनम् तु महेश्वरम् ॥ ७।१,६।३३॥
māyī viśvam sṛjati asmin niviṣṭaḥ māyayā paraḥ .. māyām tu prakṛtim vidyāt māyinam tu maheśvaram .. 7.1,6.33..
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥ सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥ ७.१,६.३४॥
तस्याः तु अवयवैः एव व्याप्तम् सर्वम् इदम् जगत् ॥ सूक्ष्म-अति सूक्ष्मम् ईशानम् कललस्य अपि मध्यतस् ॥ ७।१,६।३४॥
tasyāḥ tu avayavaiḥ eva vyāptam sarvam idam jagat .. sūkṣma-ati sūkṣmam īśānam kalalasya api madhyatas .. 7.1,6.34..
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥ शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥ ७.१,६.३५॥
स्रष्टारम् अपि विश्वस्य वेष्टितारम् च तस्य तु ॥ शिवम् एव ईश्वरम् ज्ञात्वा शांतिम् अत्यंतम् ऋच्छति ॥ ७।१,६।३५॥
sraṣṭāram api viśvasya veṣṭitāram ca tasya tu .. śivam eva īśvaram jñātvā śāṃtim atyaṃtam ṛcchati .. 7.1,6.35..
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥ तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥ ७.१,६.३६॥
सः एव कालः गोप्ता च विश्वस्य अधिपतिः प्रभुः ॥ तम् विश्व-अधिपतिम् ज्ञात्वा मृत्यु-पाशात् प्रमुच्यते ॥ ७।१,६।३६॥
saḥ eva kālaḥ goptā ca viśvasya adhipatiḥ prabhuḥ .. tam viśva-adhipatim jñātvā mṛtyu-pāśāt pramucyate .. 7.1,6.36..
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥ सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥ ७.१,६.३७॥
घृतात् परम् मंडम् इव सूक्ष्मम् ज्ञात्वा स्थितम् प्रभुम् ॥ सर्व-भूतेषु गूढम् च सर्व-पापैः प्रमुच्यते ॥ ७।१,६।३७॥
ghṛtāt param maṃḍam iva sūkṣmam jñātvā sthitam prabhum .. sarva-bhūteṣu gūḍham ca sarva-pāpaiḥ pramucyate .. 7.1,6.37..
एष एव परो देवो विश्वकर्मा महेश्वरः ॥ हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥ ७.१,६.३८॥
एषः एव परः देवः विश्वकर्मा महेश्वरः ॥ हृदये संनिविष्टम् तम् ज्ञात्वा एव अमृतम् अश्नुते ॥ ७।१,६।३८॥
eṣaḥ eva paraḥ devaḥ viśvakarmā maheśvaraḥ .. hṛdaye saṃniviṣṭam tam jñātvā eva amṛtam aśnute .. 7.1,6.38..
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥ केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥ ७.१,६.३९॥
यदा समस्तम् न दिवा न रात्रिः न सत् अपि असत् ॥ केवलः शिवः एव एकः यतस् प्रज्ञा पुरातनी ॥ ७।१,६।३९॥
yadā samastam na divā na rātriḥ na sat api asat .. kevalaḥ śivaḥ eva ekaḥ yatas prajñā purātanī .. 7.1,6.39..
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥ न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥ ७.१,६.४०॥
न एनम् ऊर्ध्वम् न तिर्यक् च न मध्यम् पर्यजिग्रहत् ॥ न तस्य प्रतिमा च अस्ति यस्य नाम महत् यशः ॥ ७।१,६।४०॥
na enam ūrdhvam na tiryak ca na madhyam paryajigrahat .. na tasya pratimā ca asti yasya nāma mahat yaśaḥ .. 7.1,6.40..
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥ रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥ ७.१,६.४१॥
अजातम् इमम् एव एके बुद्धाः जन्मनि भीरवः ॥ रुद्रस्य अस्य प्रपद्यन्ते रक्षा-अर्थम् दक्षिणम् सुखम् ॥ ७।१,६।४१॥
ajātam imam eva eke buddhāḥ janmani bhīravaḥ .. rudrasya asya prapadyante rakṣā-artham dakṣiṇam sukham .. 7.1,6.41..
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥ विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥ ७.१,६.४२॥
द्वे अक्षरे ब्रह्म-परे तु अनंते समुदाहृते ॥ विद्या-अविद्ये समाख्याते निहिते यत्र गूढ-वत् ॥ ७।१,६।४२॥
dve akṣare brahma-pare tu anaṃte samudāhṛte .. vidyā-avidye samākhyāte nihite yatra gūḍha-vat .. 7.1,6.42..
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥ ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥ ७.१,६.४३॥
क्षरम् तु अविद्या हि अमृतम् विद्या इति परिगीयते ॥ ते उभे ईशते यः तु सः अन्यः खलु महेश्वरः ॥ ७।१,६।४३॥
kṣaram tu avidyā hi amṛtam vidyā iti parigīyate .. te ubhe īśate yaḥ tu saḥ anyaḥ khalu maheśvaraḥ .. 7.1,6.43..
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥ सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७.१,६.४४॥
एकैकम् बहुधा जालम् विकुर्वन् एक-वत् च यः ॥ सर्व-आधिपत्यम् कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥ ७।१,६।४४॥
ekaikam bahudhā jālam vikurvan eka-vat ca yaḥ .. sarva-ādhipatyam kurute sṛṣṭvā sarvān pratāpavān .. 7.1,6.44..
दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥ यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥ ७.१,६.४५॥
दिशः ऊर्ध्वम् अधस् तिर्यक् भासयन् भ्राजते स्वयम् ॥ यः निःस्वभावात् अपि एकः वरेण्यः तु अधितिष्ठति ॥ ७।१,६।४५॥
diśaḥ ūrdhvam adhas tiryak bhāsayan bhrājate svayam .. yaḥ niḥsvabhāvāt api ekaḥ vareṇyaḥ tu adhitiṣṭhati .. 7.1,6.45..
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥ गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥ ७.१,६.४६॥
स्वभाव-वाचकान् सर्वान् वाच्यान् च परिणामयन् ॥ गुणान् च भोग्य-भोक्तृ-त्वे तत् विश्वम् अधितिष्ठति ॥ ७।१,६।४६॥
svabhāva-vācakān sarvān vācyān ca pariṇāmayan .. guṇān ca bhogya-bhoktṛ-tve tat viśvam adhitiṣṭhati .. 7.1,6.46..
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥ ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥ ७.१,६.४७॥
ते वै गुह्य-उपणिषदि गूढम् ब्रह्म परात्परम् ॥ ब्रह्म-योनिम् जगत् पूर्वम् विदुः देवाः महा-ऋषयः ॥ ७।१,६।४७॥
te vai guhya-upaṇiṣadi gūḍham brahma parātparam .. brahma-yonim jagat pūrvam viduḥ devāḥ mahā-ṛṣayaḥ .. 7.1,6.47..
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥ कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ ७.१,६.४८॥
भाव-ग्राह्यम् अनीह-आख्यम् भाव-अभाव-करम् शिवम् ॥ कला-सर्ग-करम् देवम् ये विदुः ते जहुः तनुम् ॥ ७।१,६।४८॥
bhāva-grāhyam anīha-ākhyam bhāva-abhāva-karam śivam .. kalā-sarga-karam devam ye viduḥ te jahuḥ tanum .. 7.1,6.48..
स्वभावमेके मन्यंते कालमेके विमोहिताः ॥ देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥ ७.१,६.४९॥
स्वभावम् एके मन्यंते कालम् एके विमोहिताः ॥ देवस्य महिमा हि एष येन इदम् भ्राम्यते जगत् ॥ ७।१,६।४९॥
svabhāvam eke manyaṃte kālam eke vimohitāḥ .. devasya mahimā hi eṣa yena idam bhrāmyate jagat .. 7.1,6.49..
येनेदमावृतं नित्यं कालकालात्मना यतः ॥ तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥ ७.१,६.५०॥
येन इदम् आवृतम् नित्यम् काल-काल-आत्मना यतस् ॥ तेन ईरितम् इदम् कर्म भूतैः सह विवर्तते ॥ ७।१,६।५०॥
yena idam āvṛtam nityam kāla-kāla-ātmanā yatas .. tena īritam idam karma bhūtaiḥ saha vivartate .. 7.1,6.50..
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥ तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥ ७.१,६.५१॥
तत् कर्म भूयशस् कृत्वा विनिवृत्य च भूयशस् ॥ तत्त्वस्य सह तत्त्वेन योगम् च अपि समेत्य वै ॥ ७।१,६।५१॥
tat karma bhūyaśas kṛtvā vinivṛtya ca bhūyaśas .. tattvasya saha tattvena yogam ca api sametya vai .. 7.1,6.51..
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥ कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥ ७.१,६.५२॥
अष्टाभिः च त्रिभिः च एवम् द्वाभ्याम् च एकेन वा पुनर् ॥ कालेन आत्म-गुणैः च अपि कृत्स्नम् एव जगत् स्वयम् ॥ ७।१,६।५२॥
aṣṭābhiḥ ca tribhiḥ ca evam dvābhyām ca ekena vā punar .. kālena ātma-guṇaiḥ ca api kṛtsnam eva jagat svayam .. 7.1,6.52..
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥ तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥ ७.१,६.५३॥
गुणैः आरभ्य कर्माणि स्वभाव-आदीनि योजयेत् ॥ तेषाम् अभावे नाशः स्यात् कृतस्य अपि च कर्मणः ॥ ७।१,६।५३॥
guṇaiḥ ārabhya karmāṇi svabhāva-ādīni yojayet .. teṣām abhāve nāśaḥ syāt kṛtasya api ca karmaṇaḥ .. 7.1,6.53..
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥ स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥ ७.१,६.५४॥
कर्म-क्षये पुनर् च अन्यत् ततस् याति स तत्त्वतः ॥ सः एव आदिः स्वयम् योग-निमित्तम् भोक्तृ-भोगयोः ॥ ७।१,६।५४॥
karma-kṣaye punar ca anyat tatas yāti sa tattvataḥ .. saḥ eva ādiḥ svayam yoga-nimittam bhoktṛ-bhogayoḥ .. 7.1,6.54..
परस्त्रिकालादकलस्स एव परमेश्वरः ॥ सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥ ७.१,६.५५॥
परः त्रि-कालात् अकलः सः एव परमेश्वरः ॥ ॥ ७।१,६।५५॥
paraḥ tri-kālāt akalaḥ saḥ eva parameśvaraḥ .. .. 7.1,6.55..
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥ देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥ ७.१,६.५६॥
तम् विश्वरूपम् अभवम् भवम् ईड्यम् प्रजापतिम् ॥ देवदेवम् जगत्-पूज्यम् स्व-चित्त-स्थम् उपास्महे ॥ ७।१,६।५६॥
tam viśvarūpam abhavam bhavam īḍyam prajāpatim .. devadevam jagat-pūjyam sva-citta-stham upāsmahe .. 7.1,6.56..
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥ धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥ ७.१,६.५७॥
काल-आदिभिः परः यस्मात् प्रपञ्चः परिवर्तते ॥ धर्म-आवहम् पाप-नुदम् भोग-ईशम् विश्व-धाम च ॥ ७।१,६।५७॥
kāla-ādibhiḥ paraḥ yasmāt prapañcaḥ parivartate .. dharma-āvaham pāpa-nudam bhoga-īśam viśva-dhāma ca .. 7.1,6.57..
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥ पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥ ७.१,६.५८॥
तम् ईश्वराणाम् परमम् महेश्वरम् तम् देवतानाम् परमम् च दैवतम् ॥ पतिम् पतीनाम् परमम् परस्तात् विदाम देवम् भुवनेश्वर-ईश्वरम् ॥ ७।१,६।५८॥
tam īśvarāṇām paramam maheśvaram tam devatānām paramam ca daivatam .. patim patīnām paramam parastāt vidāma devam bhuvaneśvara-īśvaram .. 7.1,6.58..
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥ न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥ ७.१,६.५९॥
न तस्य विद्येत कार्यम् कारणम् च न विद्यते ॥ न तद्-समः अधिकः च अपि क्वचिद् जगति दृश्यते ॥ ७।१,६।५९॥
na tasya vidyeta kāryam kāraṇam ca na vidyate .. na tad-samaḥ adhikaḥ ca api kvacid jagati dṛśyate .. 7.1,6.59..
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥ ७.१,६.६०॥
परा अस्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥ ज्ञानम् बलम् क्रिया च एव याभ्यः विश्वम् इदम् कृतम् ॥ ७।१,६।६०॥
parā asya vividhā śaktiḥ śrutau svābhāvikī śrutā .. jñānam balam kriyā ca eva yābhyaḥ viśvam idam kṛtam .. 7.1,6.60..
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥ कारणं कारणानां च स तेषामधिपाधिपः ॥ ७.१,६.६१॥
तस्य अस्ति पतिः कश्चिद् ना एव लिंगम् न च ईशिता ॥ कारणम् कारणानाम् च स तेषाम् अधिप-अधिपः ॥ ७।१,६।६१॥
tasya asti patiḥ kaścid nā eva liṃgam na ca īśitā .. kāraṇam kāraṇānām ca sa teṣām adhipa-adhipaḥ .. 7.1,6.61..
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥ न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥ ७.१,६.६२॥
न च अस्य जनिता कश्चिद् न च जन्म कुतश्चन ॥ न जन्म-हेतवः तद्वत् मल-माया-आदि-संज्ञकाः ॥ ७।१,६।६२॥
na ca asya janitā kaścid na ca janma kutaścana .. na janma-hetavaḥ tadvat mala-māyā-ādi-saṃjñakāḥ .. 7.1,6.62..
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥ सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥ ७.१,६.६३॥
सः एकः सर्व-भूतेषु गूढः व्याप्तः च विश्वतस् ॥ सर्व-भूत-अंतरात्मा च धर्म-अध्यक्षः स कथ्यते ॥ ७।१,६।६३॥
saḥ ekaḥ sarva-bhūteṣu gūḍhaḥ vyāptaḥ ca viśvatas .. sarva-bhūta-aṃtarātmā ca dharma-adhyakṣaḥ sa kathyate .. 7.1,6.63..
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥ एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥ ७.१,६.६४॥
सर्व-भूत-अधिवासः च साक्षी चेता च निर्गुणः ॥ एकः वशी निष्क्रियाणाम् बहूनाम् विवश-आत्मनाम् ॥ ७।१,६।६४॥
sarva-bhūta-adhivāsaḥ ca sākṣī cetā ca nirguṇaḥ .. ekaḥ vaśī niṣkriyāṇām bahūnām vivaśa-ātmanām .. 7.1,6.64..
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥ एको बहूनां चाकामः कामानीशः प्रयच्छति ॥ ७.१,६.६५॥
नित्यानाम् अपि असौ नित्यः चेतनानाम् च चेतनः ॥ एकः बहूनाम् च अकामः कामान् ईशः प्रयच्छति ॥ ७।१,६।६५॥
nityānām api asau nityaḥ cetanānām ca cetanaḥ .. ekaḥ bahūnām ca akāmaḥ kāmān īśaḥ prayacchati .. 7.1,6.65..
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥ ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥ ७.१,६.६६॥
सांख्य-योग-अधिगम्यम् यत्कारणम् जगताम् पतिम् ॥ ज्ञात्वा देवम् पशुः पाशैः सर्वैः एव विमुच्यते ॥ ७।१,६।६६॥
sāṃkhya-yoga-adhigamyam yatkāraṇam jagatām patim .. jñātvā devam paśuḥ pāśaiḥ sarvaiḥ eva vimucyate .. 7.1,6.66..
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥ प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥ ७.१,६.६७॥
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī || pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ || 7.1,6.67||
viśvakṛdviśvavitsvātmayonijñaḥ kālakṛdguṇī || pradhānaḥ kṣetrajñapatirguṇeśaḥ pāśamocakaḥ || 7.1,6.67||
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥ यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥ ७.१,६.६८॥
ब्रह्माणम् विदधे पूर्वम् वेदान् च उपादिशत् स्वयम् ॥ यः देवः तम् अहम् बुद्ध्वा स्व-आत्म-बुद्धि-प्रसादतः ॥ ७।१,६।६८॥
brahmāṇam vidadhe pūrvam vedān ca upādiśat svayam .. yaḥ devaḥ tam aham buddhvā sva-ātma-buddhi-prasādataḥ .. 7.1,6.68..
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥ निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥ ७.१,६.६९॥
मुमुक्षुः अस्मात् संसारात् प्रपद्ये शरणम् शिवम् ॥ निष्फलम् निष्क्रियम् शांतम् निरवद्यम् निरंजनम् ॥ ७।१,६।६९॥
mumukṣuḥ asmāt saṃsārāt prapadye śaraṇam śivam .. niṣphalam niṣkriyam śāṃtam niravadyam niraṃjanam .. 7.1,6.69..
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥ यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥ ७.१,६.७०॥
अमृतस्य परम् सेतुम् दग्ध-इंधनम् इव अनिलम् ॥ यदा चर्म-वत् आकाशम् वेष्टयिष्यन्ति मानवाः ॥ ७।१,६।७०॥
amṛtasya param setum dagdha-iṃdhanam iva anilam .. yadā carma-vat ākāśam veṣṭayiṣyanti mānavāḥ .. 7.1,6.70..
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥ तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥ ७.१,६.७१॥
तदा शिवम् अ विज्ञाय दुःखस्य अंतः भविष्यति ॥ तपः-प्रभावात् देवस्य प्रसादात् च महा-ऋषयः ॥ ७।१,६।७१॥
tadā śivam a vijñāya duḥkhasya aṃtaḥ bhaviṣyati .. tapaḥ-prabhāvāt devasya prasādāt ca mahā-ṛṣayaḥ .. 7.1,6.71..
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥ वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥ ७.१,६.७२॥
॥ वेदांते परमम् गुह्यम् पुराकल्प-प्रचोदितम् ॥ ७।१,६।७२॥
.. vedāṃte paramam guhyam purākalpa-pracoditam .. 7.1,6.72..
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥ नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥ ७.१,६.७३॥
ब्रह्मणः वदनात् लब्धम् मया इदम् भाग्य-गौरवात् ॥ न अप्रशांताय दातव्यम् एतत् ज्ञानम् अनुत्तमम् ॥ ७।१,६।७३॥
brahmaṇaḥ vadanāt labdham mayā idam bhāgya-gauravāt .. na apraśāṃtāya dātavyam etat jñānam anuttamam .. 7.1,6.73..
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥ यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥ ७.१,६.७४॥
न पुत्राय आशु-वृत्ताय न अ शिष्याय च सर्वथा ॥ यस्य देवे पराभक्तिः यथा देवे तथा गुरौ ॥ ७।१,६।७४॥
na putrāya āśu-vṛttāya na a śiṣyāya ca sarvathā .. yasya deve parābhaktiḥ yathā deve tathā gurau .. 7.1,6.74..
तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥ अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥ ७.१,६.७५॥
तस्य एते कथिताः अहि-अर्थाः प्रकाशंते महात्मनः ॥ अतस् च संक्षेपम् इदम् शृणुध्वम् शिवः परस्तात् प्रकृतेः च पुंसः ॥ ७।१,६।७५॥
tasya ete kathitāḥ ahi-arthāḥ prakāśaṃte mahātmanaḥ .. atas ca saṃkṣepam idam śṛṇudhvam śivaḥ parastāt prakṛteḥ ca puṃsaḥ .. 7.1,6.75..
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥ ७.१,६.७६॥
स सर्ग-काले च करोति सर्वम् संहार-काले पुनर् आददाति ॥ ७।१,६।७६॥
sa sarga-kāle ca karoti sarvam saṃhāra-kāle punar ādadāti .. 7.1,6.76..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-खण्डे शिवतत्त्ववर्णनम् नाम षष्ठः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-khaṇḍe śivatattvavarṇanam nāma ṣaṣṭhaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In