नाकालतो ऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ॥ नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किंचित् ॥ ७.१,७.२२॥
PADACHEDA
न अकालतः अयम् म्रियते जायते वा न अकालतः पुष्टिम् अग्र्याम् उपैति ॥ न अकालतः सुखितम् दुःखितम् वा न अकालिकम् वस्तु समस्ति किंचिद् ॥ ७।१,७।२२॥
TRANSLITERATION
na akālataḥ ayam mriyate jāyate vā na akālataḥ puṣṭim agryām upaiti .. na akālataḥ sukhitam duḥkhitam vā na akālikam vastu samasti kiṃcid .. 7.1,7.22..