| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
केन मानेन कालेस्मिन्नायुस्संख्या प्रकल्प्यते ॥ संख्यारूपस्य कालस्य कः पुनः परमो ऽवधिः ॥ ७.१,८.१॥
केन मानेन काले अस्मिन् आयुः-संख्या प्रकल्प्यते ॥ संख्या-रूपस्य कालस्य कः पुनर् परमः अवधिः ॥ ७।१,८।१॥
kena mānena kāle asmin āyuḥ-saṃkhyā prakalpyate .. saṃkhyā-rūpasya kālasya kaḥ punar paramaḥ avadhiḥ .. 7.1,8.1..
वायुरुवाच॥
आयुषो ऽत्र निमेषाख्यमाद्यमानं प्रचक्षते ॥ संख्यारूपस्य कालस्य शांत्त्वतीतकलावधि ॥ ७.१,८.२॥
आयुषः अत्र निमेष-आख्यम् आद्यमानम् प्रचक्षते ॥ संख्या-रूपस्य कालस्य ॥ ७।१,८।२॥
āyuṣaḥ atra nimeṣa-ākhyam ādyamānam pracakṣate .. saṃkhyā-rūpasya kālasya .. 7.1,8.2..
अक्षिपक्ष्मपरिक्षेपो निमेषः परिकल्पितः ॥ तादृशानां निमेषाणां काष्ठा दश च पञ्च च ॥ ७.१,८.३॥
अक्षि-पक्ष्म-परिक्षेपः निमेषः परिकल्पितः ॥ तादृशानाम् निमेषाणाम् काष्ठाः दश च पञ्च च ॥ ७।१,८।३॥
akṣi-pakṣma-parikṣepaḥ nimeṣaḥ parikalpitaḥ .. tādṛśānām nimeṣāṇām kāṣṭhāḥ daśa ca pañca ca .. 7.1,8.3..
काष्ठांस्त्रिंशत्कला नाम कलांस्त्रिंशन्मुहूर्तकः ॥ मुहूर्तानामपि त्रिंशदहोरात्रं प्रचक्षते ॥ ७.१,८.४॥
काष्ठान् त्रिंशत्कलाः नाम कलान् त्रिंशत्-मुहूर्तकः ॥ मुहूर्तानाम् अपि त्रिंशत् अहोरात्रम् प्रचक्षते ॥ ७।१,८।४॥
kāṣṭhān triṃśatkalāḥ nāma kalān triṃśat-muhūrtakaḥ .. muhūrtānām api triṃśat ahorātram pracakṣate .. 7.1,8.4..
त्रिंशत्संख्यैरहोरात्रैर्मासः पक्षद्वयात्मकः ॥ ज्ञेयं पित्र्यमहोरात्रं मासः कृष्णसितात्मकः ॥ ७.१,८.५॥
त्रिंशत्-संख्यैः अहोरात्रैः मासः पक्ष-द्वय-आत्मकः ॥ ज्ञेयम् पित्र्यम् अहोरात्रम् मासः कृष्ण-सित-आत्मकः ॥ ७।१,८।५॥
triṃśat-saṃkhyaiḥ ahorātraiḥ māsaḥ pakṣa-dvaya-ātmakaḥ .. jñeyam pitryam ahorātram māsaḥ kṛṣṇa-sita-ātmakaḥ .. 7.1,8.5..
मासैस्तैरयनं षड्भिर्वर्षं द्वे चायनं मतम् ॥ लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः ॥ ७.१,८.७॥
मासैः तैः अयनम् षड्भिः वर्षम् द्वे च अयनम् मतम् ॥ लौकिकेन एव मानेन अब्दः यः मानुषः स्मृतः ॥ ७।१,८।७॥
māsaiḥ taiḥ ayanam ṣaḍbhiḥ varṣam dve ca ayanam matam .. laukikena eva mānena abdaḥ yaḥ mānuṣaḥ smṛtaḥ .. 7.1,8.7..
एतद्दिव्यमहोरात्रमिति शास्त्रस्य निश्चयः ॥ दक्षिणं चायनं रात्रिस्तथोदगयनं दिनम् ॥ ७.१,८.८॥
एतत् दिव्यम् अहोरात्रम् इति शास्त्रस्य निश्चयः ॥ दक्षिणम् च अयनम् रात्रिः तथा उदगयनम् दिनम् ॥ ७।१,८।८॥
etat divyam ahorātram iti śāstrasya niścayaḥ .. dakṣiṇam ca ayanam rātriḥ tathā udagayanam dinam .. 7.1,8.8..
मासस्त्रिंशदहोरात्रैर्दिव्यो मानुषवत्स्मृतः ॥ संवत्सरो ऽपि देवानां मासैर्द्वादशभिस्तथा ॥ ७.१,८.९॥
मासः त्रिंशत्-अहोरात्रैः दिव्यः मानुष-वत् स्मृतः ॥ संवत्सरः अपि देवानाम् मासैः द्वादशभिः तथा ॥ ७।१,८।९॥
māsaḥ triṃśat-ahorātraiḥ divyaḥ mānuṣa-vat smṛtaḥ .. saṃvatsaraḥ api devānām māsaiḥ dvādaśabhiḥ tathā .. 7.1,8.9..
त्रीणि वर्षशतान्येव षष्टिवर्षयुतान्यपि ॥ दिव्यस्संवत्सरो ज्ञेयो मानुषेण प्रकीर्तितः ॥ ७.१,८.१०॥
त्रीणि वर्ष-शतानि एव षष्टि-वर्ष-युतानि अपि ॥ दिव्यः संवत्सरः ज्ञेयः मानुषेण प्रकीर्तितः ॥ ७।१,८।१०॥
trīṇi varṣa-śatāni eva ṣaṣṭi-varṣa-yutāni api .. divyaḥ saṃvatsaraḥ jñeyaḥ mānuṣeṇa prakīrtitaḥ .. 7.1,8.10..
दिव्येनैव प्रमाणेन युगसंख्या प्रवर्तते ॥ चत्वारि भारते वर्षे युगानि कवयो विदुः ॥ ७.१,८.११॥
दिव्येन एव प्रमाणेन युग-संख्या प्रवर्तते ॥ चत्वारि भारते वर्षे युगानि कवयः विदुः ॥ ७।१,८।११॥
divyena eva pramāṇena yuga-saṃkhyā pravartate .. catvāri bhārate varṣe yugāni kavayaḥ viduḥ .. 7.1,8.11..
पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ॥ द्वापरं च कलिश्चैव युगान्येतानि कृत्स्नशः ॥ ७.१,८.१२॥
पूर्वम् कृत-युगम् नाम ततस् त्रेता विधीयते ॥ द्वापरम् च कलिः च एव युगानि एतानि कृत्स्नशस् ॥ ७।१,८।१२॥
pūrvam kṛta-yugam nāma tatas tretā vidhīyate .. dvāparam ca kaliḥ ca eva yugāni etāni kṛtsnaśas .. 7.1,8.12..
चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ तस्य तावच्छतीसंध्या संध्यांशश्च तथाविधः ॥ ७.१,८.१३॥
चत्वारि तु सहस्राणि वर्षाणाम् तत् कृतम् युगम् ॥ तस्य तावच्छती-संध्या संध्या-अंशः च तथाविधः ॥ ७।१,८।१३॥
catvāri tu sahasrāṇi varṣāṇām tat kṛtam yugam .. tasya tāvacchatī-saṃdhyā saṃdhyā-aṃśaḥ ca tathāvidhaḥ .. 7.1,8.13..
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ॥ एकापायेन वर्तंते सहस्राणि शतानि च ॥ ७.१,८.१४॥
इतरेषु स संध्येषु स संध्यांशेषु च त्रिषु ॥ एक-अपायेन वर्तंते सहस्राणि शतानि च ॥ ७।१,८।१४॥
itareṣu sa saṃdhyeṣu sa saṃdhyāṃśeṣu ca triṣu .. eka-apāyena vartaṃte sahasrāṇi śatāni ca .. 7.1,8.14..
एतद्द्वादशसाहस्रं साधिकं च चतुर्युगम् ॥ चतुर्युगसहस्रं यत्संकल्प इति कथ्यते ॥ ७.१,८.१५॥
एतत् द्वादश-साहस्रम् स अधिकम् च चतुर्युगम् ॥ चतुर्-युग-सहस्रम् यत् संकल्पः इति कथ्यते ॥ ७।१,८।१५॥
etat dvādaśa-sāhasram sa adhikam ca caturyugam .. catur-yuga-sahasram yat saṃkalpaḥ iti kathyate .. 7.1,8.15..
चतुर्युगैकसप्तत्या मनोरंतरमुच्यते ॥ कल्पे चतुर्दशैकस्मिन्मनूनां परिवृत्तयः ॥ ७.१,८.१६॥
चतुर्-युग-एकसप्तत्या मनोः अंतरम् उच्यते ॥ कल्पे चतुर्दश एकस्मिन् मनूनाम् परिवृत्तयः ॥ ७।१,८।१६॥
catur-yuga-ekasaptatyā manoḥ aṃtaram ucyate .. kalpe caturdaśa ekasmin manūnām parivṛttayaḥ .. 7.1,8.16..
एतेन क्रमयोगेन कल्पमन्वंतराणि च ॥ सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ॥ ७.१,८.१७॥
एतेन क्रम-योगेन कल्प-मन्वंतराणि च ॥ स प्रजानि व्यतीतानि शतशस् अथ सहस्रशस् ॥ ७।१,८।१७॥
etena krama-yogena kalpa-manvaṃtarāṇi ca .. sa prajāni vyatītāni śataśas atha sahasraśas .. 7.1,8.17..
अज्ञेयत्वाच्च सर्वेषामसंख्येयतया पुनः ॥ शक्यो नैवानुपूर्व्याद्वै तेषां वक्तुं सुविस्तरः ॥ ७.१,८.१८॥
अज्ञेय-त्वात् च सर्वेषाम् असंख्येय-तया पुनर् ॥ शक्यः न एव आनुपूर्व्यात् वै तेषाम् वक्तुम् सु विस्तरः ॥ ७।१,८।१८॥
ajñeya-tvāt ca sarveṣām asaṃkhyeya-tayā punar .. śakyaḥ na eva ānupūrvyāt vai teṣām vaktum su vistaraḥ .. 7.1,8.18..
कल्पो नाम दिवा प्रोक्तो ब्रह्मणो ऽव्यक्तजन्मनः ॥ कल्पानां वै सहस्रं च ब्राह्मं वर्षमिहोच्यते ॥ ७.१,८.१९॥
कल्पः नाम दिवा प्रोक्तः ब्रह्मणः अव्यक्त-जन्मनः ॥ कल्पानाम् वै सहस्रम् च ब्राह्मम् वर्षम् इह उच्यते ॥ ७।१,८।१९॥
kalpaḥ nāma divā proktaḥ brahmaṇaḥ avyakta-janmanaḥ .. kalpānām vai sahasram ca brāhmam varṣam iha ucyate .. 7.1,8.19..
वर्षाणामष्टसाहस्रं यच्च तद्ब्रह्मणो युगम् ॥ सवनं युगसाहस्रं ब्रह्मणः पद्मजन्मनः ॥ ७.१,८.२०॥
वर्षाणाम् अष्ट-साहस्रम् यत् च तत् ब्रह्मणः युगम् ॥ सवनम् युग-साहस्रम् ब्रह्मणः पद्मजन्मनः ॥ ७।१,८।२०॥
varṣāṇām aṣṭa-sāhasram yat ca tat brahmaṇaḥ yugam .. savanam yuga-sāhasram brahmaṇaḥ padmajanmanaḥ .. 7.1,8.20..
सवनानां सहस्रं च त्रिगुणं त्रिवृतं तथा ॥ कल्प्यते सकलः कालो ब्रह्मणः परमेष्ठिनः ॥ ७.१,८.२१॥
सवनानाम् सहस्रम् च त्रिगुणम् त्रिवृतम् तथा ॥ कल्प्यते सकलः कालः ब्रह्मणः परमेष्ठिनः ॥ ७।१,८।२१॥
savanānām sahasram ca triguṇam trivṛtam tathā .. kalpyate sakalaḥ kālaḥ brahmaṇaḥ parameṣṭhinaḥ .. 7.1,8.21..
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ७.१,८.२२॥
तस्य वै दिवसे यांति चतुर्दश पुरंदराः ॥ शतानि मासे चत्वारि विंशत्या सहितानि च ॥ ७।१,८।२२॥
tasya vai divase yāṃti caturdaśa puraṃdarāḥ .. śatāni māse catvāri viṃśatyā sahitāni ca .. 7.1,8.22..
अब्दे पञ्च सहस्राणि चत्वारिंशद्युतानि च ॥ चत्वारिंशत्सहस्राणि पञ्च लक्षाणि चायुषि ॥ ७.१,८.२३॥
अब्दे पञ्च सहस्राणि चत्वारिंशत्-युतानि च ॥ चत्वारिंशत्-सहस्राणि पञ्च लक्षाणि च आयुषि ॥ ७।१,८।२३॥
abde pañca sahasrāṇi catvāriṃśat-yutāni ca .. catvāriṃśat-sahasrāṇi pañca lakṣāṇi ca āyuṣi .. 7.1,8.23..
ब्रह्मा विष्णोर्दिने चैको विष्णू रुद्रदिने तथा ॥ ईश्वरस्य दिने रुद्रस्सदाख्यस्य तथेश्वरः ॥ ७.१,८.२४॥
ब्रह्मा विष्णोः दिने च एकः विष्णुः रुद्र-दिने तथा ॥ ईश्वरस्य दिने रुद्रः सदा आख्यस्य तथा ईश्वरः ॥ ७।१,८।२४॥
brahmā viṣṇoḥ dine ca ekaḥ viṣṇuḥ rudra-dine tathā .. īśvarasya dine rudraḥ sadā ākhyasya tathā īśvaraḥ .. 7.1,8.24..
साक्षाच्छिवस्य तत्संख्यस्तथा सो ऽपि सदाशिवः ॥ चत्वारिंशत्सहस्राणि पञ्चलक्षाणि चायुषि ॥ ७.१,८.२५॥
साक्षात् शिवस्य तद्-संख्यः तथा सः अपि सदाशिवः ॥ चत्वारिंशत्-सहस्राणि पञ्च-लक्षाणि च आयुषि ॥ ७।१,८।२५॥
sākṣāt śivasya tad-saṃkhyaḥ tathā saḥ api sadāśivaḥ .. catvāriṃśat-sahasrāṇi pañca-lakṣāṇi ca āyuṣi .. 7.1,8.25..
तस्मिन्साक्षाच्छिवेनैष कालात्मा सम्प्रवर्तते ॥ *यत्तत्सृष्टेस्समाख्यातं कालान्तरमिह द्विजाः ॥ * ७.१,८.२६*१॥
तस्मिन् साक्षात् शिवेन एष काल-आत्मा सम्प्रवर्तते ॥ यत् तत् सृष्टेः समाख्यातम् काल-अन्तरम् इह द्विजाः ॥ ।१,८।२६॥
tasmin sākṣāt śivena eṣa kāla-ātmā sampravartate .. yat tat sṛṣṭeḥ samākhyātam kāla-antaram iha dvijāḥ .. .1,8.26..
एतत्कालान्तरं ज्ञेयमहर्वै पारमेश्वरम् ॥ *रात्रिश्च तावती ज्ञेया परमेशस्य कृत्स्नशः ॥ * ७.१,८.२६*२॥
एतत् काल-अन्तरम् ज्ञेयम् अहर् वै पारमेश्वरम् ॥ रात्रिः च तावती ज्ञेया परमेशस्य कृत्स्नशस् ॥ ।१,८।२६॥
etat kāla-antaram jñeyam ahar vai pārameśvaram .. rātriḥ ca tāvatī jñeyā parameśasya kṛtsnaśas .. .1,8.26..
अहस्तस्य तु या सृष्टी रात्रिश्च प्रलयः स्मृतः ॥ अहर्न विद्यते तस्य न रात्रिरिति धारयेत् ॥ ७.१,८.२७॥
अहर् तस्य तु या सृष्टी रात्रिः च प्रलयः स्मृतः ॥ अहर् न विद्यते तस्य न रात्रिः इति धारयेत् ॥ ७।१,८।२७॥
ahar tasya tu yā sṛṣṭī rātriḥ ca pralayaḥ smṛtaḥ .. ahar na vidyate tasya na rātriḥ iti dhārayet .. 7.1,8.27..
एषोपचारः क्रियते लोकानां हितकाम्यया ॥ प्रजाः प्रजानां पतयो मूर्तयश्च सुरासुराः ॥ ७.१,८.२८॥
एष उपचारः क्रियते लोकानाम् हित-काम्यया ॥ प्रजाः प्रजानाम् पतयः मूर्तयः च सुर-असुराः ॥ ७।१,८।२८॥
eṣa upacāraḥ kriyate lokānām hita-kāmyayā .. prajāḥ prajānām patayaḥ mūrtayaḥ ca sura-asurāḥ .. 7.1,8.28..
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ॥ तन्मात्राण्यथ भूतादिर्बुद्धिश्च सह दैवतः ॥ ७.१,८.२९॥
इन्द्रियाणि इन्द्रिय-अर्थाः च महाभूतानि पञ्च च ॥ तन्मात्राणि अथ भूतादिः बुद्धिः च सह दैवतः ॥ ७।१,८।२९॥
indriyāṇi indriya-arthāḥ ca mahābhūtāni pañca ca .. tanmātrāṇi atha bhūtādiḥ buddhiḥ ca saha daivataḥ .. 7.1,8.29..
अहस्तिष्ठंति सर्वाणि पारमेशस्य धीमतः ॥ अहरंते प्रलीयन्ते रात्र्यन्ते विश्वसंभवः ॥ ७.१,८.३०॥
अहर् तिष्ठन्ति सर्वाणि पारमेशस्य धीमतः ॥ अहर्-अन्ते प्रलीयन्ते रात्रि-अन्ते विश्व-संभवः ॥ ७।१,८।३०॥
ahar tiṣṭhanti sarvāṇi pārameśasya dhīmataḥ .. ahar-ante pralīyante rātri-ante viśva-saṃbhavaḥ .. 7.1,8.30..
यो विश्वात्मा कर्मकालस्वभावाद्यर्थे शक्तिर्यस्य नोल्लंघनीया ॥ यस्यैवाज्ञाधीनमेतत्समस्तं नमस्तस्मै महते शंकराय ॥ ७.१,८.३१॥
यः विश्वात्मा कर्म-काल-स्वभाव-आदि-अर्थे शक्तिः यस्य न उल्लंघनीया ॥ यस्य एव आज्ञा-अधीनम् एतत् समस्तम् नमः तस्मै महते शंकराय ॥ ७।१,८।३१॥
yaḥ viśvātmā karma-kāla-svabhāva-ādi-arthe śaktiḥ yasya na ullaṃghanīyā .. yasya eva ājñā-adhīnam etat samastam namaḥ tasmai mahate śaṃkarāya .. 7.1,8.31..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे कालप्रभावे त्रिदेवायुर्वर्णनं नामाष्टमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-भागे कालप्रभावे त्रिदेवायुर्वर्णनम् नाम अष्टमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-bhāge kālaprabhāve tridevāyurvarṇanam nāma aṣṭamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In