| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः॥
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१॥
कथम् जगत् इदम् कृत्स्नम् विधाय च निधाय च ॥ आज्ञया परमाम् क्रीडाम् करोति परमेश्वरः ॥ ७।१,९।१॥
katham jagat idam kṛtsnam vidhāya ca nidhāya ca .. ājñayā paramām krīḍām karoti parameśvaraḥ .. 7.1,9.1..
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२॥
किम् तत् प्रथम-संभूतम् केन इदम् अखिलम् ततम् ॥ केन वा पुनर् एव इदम् ग्रस्यते पृथु-कुक्षिणा ॥ ७।१,९।२॥
kim tat prathama-saṃbhūtam kena idam akhilam tatam .. kena vā punar eva idam grasyate pṛthu-kukṣiṇā .. 7.1,9.2..
वायुरुवाच॥
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३॥
शक्तिः प्रथम-सम्भूता शांति-अतीत-पद-उत्तरा ॥ ततस् माया ततस् अव्यक्तम् शिवात् शक्तिमतः प्रभोः ॥ ७।१,९।३॥
śaktiḥ prathama-sambhūtā śāṃti-atīta-pada-uttarā .. tatas māyā tatas avyaktam śivāt śaktimataḥ prabhoḥ .. 7.1,9.3..
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४॥
शान्ति-अतीत-पदम् शक्तेः ततस् शान्ति-पद-क्रमात् ॥ ततस् विद्या-पदम् तस्मात् प्रतिष्ठा-पद-संभवः ॥ ७।१,९।४॥
śānti-atīta-padam śakteḥ tatas śānti-pada-kramāt .. tatas vidyā-padam tasmāt pratiṣṭhā-pada-saṃbhavaḥ .. 7.1,9.4..
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५॥
निवृत्ति-पदम् उत्पन्नम् प्रतिष्ठा-पदतः क्रमात् ॥ एवम् उक्ता समासेन सृष्टिः ईश्वर-चोदिता ॥ ७।१,९।५॥
nivṛtti-padam utpannam pratiṣṭhā-padataḥ kramāt .. evam uktā samāsena sṛṣṭiḥ īśvara-coditā .. 7.1,9.5..
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६॥
आनुलोम्यात् तथा एतेषाम् प्रतिलोम्येन संहृतिः ॥ अस्मात् पञ्च-पद-उद्दिष्टात् परः स्रष्टा समिष्यते ॥ ७।१,९।६॥
ānulomyāt tathā eteṣām pratilomyena saṃhṛtiḥ .. asmāt pañca-pada-uddiṣṭāt paraḥ sraṣṭā samiṣyate .. 7.1,9.6..
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७॥
कलाभिः पञ्चभिः व्याप्तम् तस्मात् विश्वम् इदम् जगत् ॥ अव्यक्तम् कारणम् यत् तत् आत्मना समनुष्ठितम् ॥ ७।१,९।७॥
kalābhiḥ pañcabhiḥ vyāptam tasmāt viśvam idam jagat .. avyaktam kāraṇam yat tat ātmanā samanuṣṭhitam .. 7.1,9.7..
महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८॥
महत्-आदि-विशेष-अंतम् सृजति इति अपि संमतम् ॥ किम् तु तत्र अपि कर्तृ-त्वम् न अव्यक्तस्य न च आत्मनः ॥ ७।१,९।८॥
mahat-ādi-viśeṣa-aṃtam sṛjati iti api saṃmatam .. kim tu tatra api kartṛ-tvam na avyaktasya na ca ātmanaḥ .. 7.1,9.8..
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९॥
अचेतन-त्वात् प्रकृतेः अज्ञ-त्वात् पुरुषस्य च ॥ प्रधान-परमाणु-आदि यावत् किञ्चिद् अचेतनम् ॥ ७।१,९।९॥
acetana-tvāt prakṛteḥ ajña-tvāt puruṣasya ca .. pradhāna-paramāṇu-ādi yāvat kiñcid acetanam .. 7.1,9.9..
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१०॥
तद्-कर्तृकम् स्वयम् दृष्टम् बुद्धिमत् कारणम् विना ॥ जगत् च कर्तृ-सापेक्षम् कार्यम् स अवयवम् यतस् ॥ ७।१,९।१०॥
tad-kartṛkam svayam dṛṣṭam buddhimat kāraṇam vinā .. jagat ca kartṛ-sāpekṣam kāryam sa avayavam yatas .. 7.1,9.10..
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११॥
तस्मात् शक्तः स्वतन्त्रः यः सर्व-शक्तिः च सर्व-विद् ॥ अन् आदि-निधनः च अयम् महत्-ऐश्वर्य-संयुतः ॥ ७।१,९।११॥
tasmāt śaktaḥ svatantraḥ yaḥ sarva-śaktiḥ ca sarva-vid .. an ādi-nidhanaḥ ca ayam mahat-aiśvarya-saṃyutaḥ .. 7.1,9.11..
स एव जगतः कर्ता महादेवो महेश्वराः ॥ पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२॥
सः एव जगतः कर्ता महादेवः महेश्वराः ॥ पाता हर्ता च सर्वस्य ततस् पृथक् अनन्वयः ॥ ७।१,९।१२॥
saḥ eva jagataḥ kartā mahādevaḥ maheśvarāḥ .. pātā hartā ca sarvasya tatas pṛthak ananvayaḥ .. 7.1,9.12..
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३॥
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ सर्वम् सत्यव्रतस्य एव शासनेन प्रवर्तते ॥ ७।१,९।१३॥
pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca .. sarvam satyavratasya eva śāsanena pravartate .. 7.1,9.13..
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४॥
इति इयम् शाश्वती निष्ठा सताम् मनसि वर्तते ॥ न च एनम् पक्षम् आश्रित्य वर्तते सु अल्प-चेतनः ॥ ७।१,९।१४॥
iti iyam śāśvatī niṣṭhā satām manasi vartate .. na ca enam pakṣam āśritya vartate su alpa-cetanaḥ .. 7.1,9.14..
यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५॥
यावत् आदि-समारंभः यावत् यः प्रलयः महान् ॥ तावत् अप्येति सकलम् ब्रह्मणः शारदाम् शतम् ॥ ७।१,९।१५॥
yāvat ādi-samāraṃbhaḥ yāvat yaḥ pralayaḥ mahān .. tāvat apyeti sakalam brahmaṇaḥ śāradām śatam .. 7.1,9.15..
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६॥
परम् इति आयुषः नाम ब्रह्मणः अव्यक्त-जन्मनः ॥ तद्-पर-आख्यम् तद्-अर्धम् च परार्धम् अभिधीयते ॥ ७।१,९।१६॥
param iti āyuṣaḥ nāma brahmaṇaḥ avyakta-janmanaḥ .. tad-para-ākhyam tad-ardham ca parārdham abhidhīyate .. 7.1,9.16..
परार्धद्वयकालांते प्रलये समुपस्थिते ॥ अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७॥
परार्ध-द्वय-काल-अंते प्रलये समुपस्थिते ॥ अव्यक्तम् आत्मनः कार्यम् आदाय आत्मनि तिष्ठति ॥ ७।१,९।१७॥
parārdha-dvaya-kāla-aṃte pralaye samupasthite .. avyaktam ātmanaḥ kāryam ādāya ātmani tiṣṭhati .. 7.1,9.17..
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८॥
आत्मनि अवस्थिते अव्यक्ते विकारे प्रतिसंहृते ॥ साधर्म्येण अधितिष्ठेते प्रधान-पुरुषौ उभौ ॥ ७।१,९।१८॥
ātmani avasthite avyakte vikāre pratisaṃhṛte .. sādharmyeṇa adhitiṣṭhete pradhāna-puruṣau ubhau .. 7.1,9.18..
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९॥
तमः सत्त्व-गुणौ एतौ समत्वेन व्यवस्थितौ ॥ अन् उद्रिक्तौ अनन्तौ तौ ओत-प्रोतौ परस्परम् ॥ ७।१,९।१९॥
tamaḥ sattva-guṇau etau samatvena vyavasthitau .. an udriktau anantau tau ota-protau parasparam .. 7.1,9.19..
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२०॥
गुण-साम्ये तदा तस्मिन् अविभागे तम-उदये ॥ शांत-वात-एक-नीरे च न प्राज्ञायत किंचन ॥ ७।१,९।२०॥
guṇa-sāmye tadā tasmin avibhāge tama-udaye .. śāṃta-vāta-eka-nīre ca na prājñāyata kiṃcana .. 7.1,9.20..
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१॥
अप्रज्ञाते जगति अस्मिन् एकः एव महेश्वरः ॥ उपास्य रजनीम् कृत्स्नाम् पराम् माहेश्वरीम् ततस् ॥ ७।१,९।२१॥
aprajñāte jagati asmin ekaḥ eva maheśvaraḥ .. upāsya rajanīm kṛtsnām parām māheśvarīm tatas .. 7.1,9.21..
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२॥
प्रभातायाम् तु शर्वर्याम् प्रधान-पुरुषौ उभौ ॥ प्रविश्य क्षोभयामास माया-योगात् महेश्वरः ॥ ७।१,९।२२॥
prabhātāyām tu śarvaryām pradhāna-puruṣau ubhau .. praviśya kṣobhayāmāsa māyā-yogāt maheśvaraḥ .. 7.1,9.22..
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३॥
ततस् पुनर् अशेषाणाम् भूतानाम् प्रभव-अप्ययात् ॥ अव्यक्तात् अभवत् सृष्टिः आज्ञया परमेष्ठिनः ॥ ७।१,९।२३॥
tatas punar aśeṣāṇām bhūtānām prabhava-apyayāt .. avyaktāt abhavat sṛṣṭiḥ ājñayā parameṣṭhinaḥ .. 7.1,9.23..
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४॥
विश्व-उत्तर-उत्तर-विचित्र-मनोरथस्य यस्य एक-शक्ति-शकले सकलः समाप्तः ॥ आत्मानम् अध्व-पतिम् अध्व-विदः वदंति तस्मै नमः सकल-लोक-विलक्षणाय ॥ ७।१,९।२४॥
viśva-uttara-uttara-vicitra-manorathasya yasya eka-śakti-śakale sakalaḥ samāptaḥ .. ātmānam adhva-patim adhva-vidaḥ vadaṃti tasmai namaḥ sakala-loka-vilakṣaṇāya .. 7.1,9.24..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् पूर्व-भागे सृष्टिपालनप्रलयकर्तृत्ववर्णनम् नाम नवमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām pūrva-bhāge sṛṣṭipālanapralayakartṛtvavarṇanam nāma navamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In