| |
|

This overlay will guide you through the buttons:

ओं
ओम्
om
नमस्समस्तसंसारचक्रभ्रमणहेतवे ॥ गौरीकुचतटद्वन्द्वकुंकुमांकितवक्षसे ॥ ७.२,१.१॥
नमः समस्त-संसार-चक्र-भ्रमण-हेतवे ॥ ॥ ७।२,१।१॥
namaḥ samasta-saṃsāra-cakra-bhramaṇa-hetave .. .. 7.2,1.1..
सूत उवाच॥
उक्त्वा भगवतो लब्धप्रसादादुपमन्युना ॥ नियमादुत्थितो वायुर्मध्ये प्राप्ते दिवाकरे ॥ ७.२,१.२॥
उक्त्वा भगवतः लब्ध-प्रसादात् उपमन्युना ॥ नियमात् उत्थितः वायुः मध्ये प्राप्ते दिवाकरे ॥ ७।२,१।२॥
uktvā bhagavataḥ labdha-prasādāt upamanyunā .. niyamāt utthitaḥ vāyuḥ madhye prāpte divākare .. 7.2,1.2..
ऋषयश्चापि ते सर्वे नैमिषारण्यवासिनः ॥ अथायमर्थः प्रष्टव्य इति कृत्वा विनिश्चयम् ॥ ७.२,१.३॥
ऋषयः च अपि ते सर्वे नैमिष-अरण्य-वासिनः ॥ अथ अयम् अर्थः प्रष्टव्यः इति कृत्वा विनिश्चयम् ॥ ७।२,१।३॥
ṛṣayaḥ ca api te sarve naimiṣa-araṇya-vāsinaḥ .. atha ayam arthaḥ praṣṭavyaḥ iti kṛtvā viniścayam .. 7.2,1.3..
कृत्वा यथा स्वकं कृत्यं प्रत्यहं ते यथा पुरा ॥ भगवंतमुपायांतं समीक्ष्य समुपाविशन् ॥ ७.२,१.४॥
कृत्वा यथा स्वकम् कृत्यम् प्रत्यहम् ते यथा पुरा ॥ भगवंतम् उपायांतम् समीक्ष्य समुपाविशन् ॥ ७।२,१।४॥
kṛtvā yathā svakam kṛtyam pratyaham te yathā purā .. bhagavaṃtam upāyāṃtam samīkṣya samupāviśan .. 7.2,1.4..
अथासौ नियमस्यांते भगवानम्बरोद्भवः ॥ मध्ये मुनिसभायास्तु भेजे कॢप्तं वरासनम् ॥ ७.२,१.५॥
अथ असौ नियमस्य अंते भगवान् अम्बर-उद्भवः ॥ मध्ये मुनि-सभायाः तु भेजे कॢप्तम् वरासनम् ॥ ७।२,१।५॥
atha asau niyamasya aṃte bhagavān ambara-udbhavaḥ .. madhye muni-sabhāyāḥ tu bheje kḷptam varāsanam .. 7.2,1.5..
सुखासनोपविष्टश्च वायुर्लोकनमस्कृतः ॥ श्रीमद्विभूतिमीशस्य हृदि कृत्वेदमब्रवीत् ॥ ७.२,१.६॥
सुख-आसन-उपविष्टः च वायुः लोक-नमस्कृतः ॥ श्रीमत्-विभूतिम् ईशस्य हृदि कृत्वा इदम् अब्रवीत् ॥ ७।२,१।६॥
sukha-āsana-upaviṣṭaḥ ca vāyuḥ loka-namaskṛtaḥ .. śrīmat-vibhūtim īśasya hṛdi kṛtvā idam abravīt .. 7.2,1.6..
तं प्रपद्ये महादेवं सर्वज्ञमपराजितम् ॥ विभूतिस्सकलं यस्य चराचरमिदं जगत् ॥ ७.२,१.७॥
तम् प्रपद्ये महादेवम् सर्वज्ञम् अपराजितम् ॥ विभूतिः सकलम् यस्य चराचरम् इदम् जगत् ॥ ७।२,१।७॥
tam prapadye mahādevam sarvajñam aparājitam .. vibhūtiḥ sakalam yasya carācaram idam jagat .. 7.2,1.7..
इत्याकर्ण्य शुभां वाणीमृषयः क्षीणकल्मषाः ॥ विभूतिविस्तरं श्रोतुमूचुस्ते परमं वचः ॥ ७.२,१.८॥
इति आकर्ण्य शुभाम् वाणीम् ऋषयः क्षीण-कल्मषाः ॥ विभूति-विस्तरम् श्रोतुम् ऊचुः ते परमम् वचः ॥ ७।२,१।८॥
iti ākarṇya śubhām vāṇīm ṛṣayaḥ kṣīṇa-kalmaṣāḥ .. vibhūti-vistaram śrotum ūcuḥ te paramam vacaḥ .. 7.2,1.8..
ऋषय ऊचुः॥
उक्तं भगवता वृत्तमुपमन्योर्महात्मनः ॥ क्षीरार्थेनापि तपसा यत्प्राप्तं परमेश्वरात् ॥ ७.२,१.९॥
उक्तम् भगवता वृत्तम् उपमन्योः महात्मनः ॥ क्षीर-अर्थेन अपि तपसा यत् प्राप्तम् परमेश्वरात् ॥ ७।२,१।९॥
uktam bhagavatā vṛttam upamanyoḥ mahātmanaḥ .. kṣīra-arthena api tapasā yat prāptam parameśvarāt .. 7.2,1.9..
दृष्टो ऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ॥ धौम्याग्रजस्ततस्तेन कृत्वा पाशुपतं व्रतम् ॥ ७.२,१.१०॥
दृष्टः असौ वासुदेवेन कृष्णेन अक्लिष्ट-कर्मणा ॥ धौम्य-अग्रजः ततस् तेन कृत्वा पाशुपतम् व्रतम् ॥ ७।२,१।१०॥
dṛṣṭaḥ asau vāsudevena kṛṣṇena akliṣṭa-karmaṇā .. dhaumya-agrajaḥ tatas tena kṛtvā pāśupatam vratam .. 7.2,1.10..
प्राप्तं च परमं ज्ञानमिति प्रागेव शुश्रुम ॥ कथं स लब्धवान् कृष्णो ज्ञानं पाशुपतं परम् ॥ ७.२,१.११॥
प्राप्तम् च परमम् ज्ञानम् इति प्राक् एव शुश्रुम ॥ कथम् स लब्धवान् कृष्णः ज्ञानम् पाशुपतम् परम् ॥ ७।२,१।११॥
prāptam ca paramam jñānam iti prāk eva śuśruma .. katham sa labdhavān kṛṣṇaḥ jñānam pāśupatam param .. 7.2,1.11..
वायुरुवाच॥
स्वेच्छया ह्यवतीर्णोपि वासुदेवस्सनातनः ॥ निंदयन्निव मानुष्यं देहशुद्धिं चकार सः ॥ ७.२,१.१२॥
स्व-इच्छया हि अवतीर्णः अपि वासुदेवः सनातनः ॥ निंदयन् इव मानुष्यम् देह-शुद्धिम् चकार सः ॥ ७।२,१।१२॥
sva-icchayā hi avatīrṇaḥ api vāsudevaḥ sanātanaḥ .. niṃdayan iva mānuṣyam deha-śuddhim cakāra saḥ .. 7.2,1.12..
पुत्रार्थं हि तपस्तप्तुं गतस्तस्य महामुनेः ॥ आश्रमं मुनिभिर्दृष्टं दृष्टवांस्तत्र वै मुनिम् ॥ ७.२,१.१३॥
पुत्र-अर्थम् हि तपः तप्तुम् गतः तस्य महा-मुनेः ॥ आश्रमम् मुनिभिः दृष्टम् दृष्टवान् तत्र वै मुनिम् ॥ ७।२,१।१३॥
putra-artham hi tapaḥ taptum gataḥ tasya mahā-muneḥ .. āśramam munibhiḥ dṛṣṭam dṛṣṭavān tatra vai munim .. 7.2,1.13..
भस्मावदातसर्वांगं त्रिपुंड्रांकितमस्तकम् ॥ रुद्राक्षमालाभरणं जटामंडलमंडितम् ॥ ७.२,१.१४॥
भस्म-अवदात-सर्व-अंगम् त्रिपुंड्र-अंकित-मस्तकम् ॥ रुद्र-अक्ष-माला-आभरणम् जटा-मंडल-मंडितम् ॥ ७।२,१।१४॥
bhasma-avadāta-sarva-aṃgam tripuṃḍra-aṃkita-mastakam .. rudra-akṣa-mālā-ābharaṇam jaṭā-maṃḍala-maṃḍitam .. 7.2,1.14..
तच्छिष्यभूतैर्मुनिभिश्शास्त्रैर्वेदमिवावृतम् ॥ शिवध्यानरतं शांतमुपमन्युं महाद्युतिम् ॥ ७.२,१.१५॥
तद्-शिष्य-भूतैः मुनिभिः शास्त्रैः वेदम् इव आवृतम् ॥ शिव-ध्यान-रतम् शांतम् उपमन्युम् महा-द्युतिम् ॥ ७।२,१।१५॥
tad-śiṣya-bhūtaiḥ munibhiḥ śāstraiḥ vedam iva āvṛtam .. śiva-dhyāna-ratam śāṃtam upamanyum mahā-dyutim .. 7.2,1.15..
नमश्चकार तं दृष्ट्वा हृष्टसर्वतनूरुहः ॥ बहुमानेन कृष्णो ऽसौ त्रिः कृत्वा तु प्रदक्षिणाम् ॥ स्तुतिं चकार सुप्रीत्या नतस्कंधः कृताञ्जलिः ॥ ७.२,१.१६॥
नमश्चकार तम् दृष्ट्वा हृष्ट-सर्व-तनूरुहः ॥ बहु-मानेन कृष्णः असौ त्रिस् कृत्वा तु प्रदक्षिणाम् ॥ स्तुतिम् चकार सु प्रीत्या नत-स्कंधः कृताञ्जलिः ॥ ७।२,१।१६॥
namaścakāra tam dṛṣṭvā hṛṣṭa-sarva-tanūruhaḥ .. bahu-mānena kṛṣṇaḥ asau tris kṛtvā tu pradakṣiṇām .. stutim cakāra su prītyā nata-skaṃdhaḥ kṛtāñjaliḥ .. 7.2,1.16..
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ॥ नष्टमासीन्मलं सर्वं मायाजं कार्ममेव च ॥ ७.२,१.१७॥
तस्य अवलोकनात् एव मुनेः कृष्णस्य धीमतः ॥ नष्टम् आसीत् मलम् सर्वम् माया-जम् कार्मम् एव च ॥ ७।२,१।१७॥
tasya avalokanāt eva muneḥ kṛṣṇasya dhīmataḥ .. naṣṭam āsīt malam sarvam māyā-jam kārmam eva ca .. 7.2,1.17..
तपःक्षीणमलं कृष्णमुपमन्युर्यथाविधिः ॥ भस्मनोद्धूल्य तं मन्त्रैरग्निरित्यादिभिः क्रमात् ॥ ७.२,१.१८॥
तपः-क्षीणम् अलम् कृष्णम् उपमन्युः यथा विधिः ॥ भस्मना उद्धूल्य तम् मन्त्रैः अग्निः इत्यादिभिः क्रमात् ॥ ७।२,१।१८॥
tapaḥ-kṣīṇam alam kṛṣṇam upamanyuḥ yathā vidhiḥ .. bhasmanā uddhūlya tam mantraiḥ agniḥ ityādibhiḥ kramāt .. 7.2,1.18..
अथ पाशुपतं साक्षाद्व्रतं द्वादशमासिकम् ॥ कारयित्वा मुनिस्तस्मै प्रददौ ज्ञानमुत्तमम् ॥ ७.२,१.१९॥
अथ पाशुपतम् साक्षात् व्रतम् द्वादश-मासिकम् ॥ कारयित्वा मुनिः तस्मै प्रददौ ज्ञानम् उत्तमम् ॥ ७।२,१।१९॥
atha pāśupatam sākṣāt vratam dvādaśa-māsikam .. kārayitvā muniḥ tasmai pradadau jñānam uttamam .. 7.2,1.19..
तदाप्रभृति तं कृष्णं मुनयश्शंसितव्रताः ॥ दिव्याः पाशुपताः सर्वे परिवृत्योपतस्थिरे ॥ ७.२,१.२०॥
तदा प्रभृति तम् कृष्णम् मुनयः शंसित-व्रताः ॥ दिव्याः पाशुपताः सर्वे परिवृत्य उपतस्थिरे ॥ ७।२,१।२०॥
tadā prabhṛti tam kṛṣṇam munayaḥ śaṃsita-vratāḥ .. divyāḥ pāśupatāḥ sarve parivṛtya upatasthire .. 7.2,1.20..
ततो गुरुनियोगाद्वै कृष्णः परमशक्तिमान् ॥ तपश्चकार पुत्रार्थं सांबमुद्दिश्य शंकरम् ॥ ७.२,१.२१॥
ततस् गुरु-नियोगात् वै कृष्णः परम-शक्तिमान् ॥ तपः चकार पुत्र-अर्थम् स अंबम् उद्दिश्य शंकरम् ॥ ७।२,१।२१॥
tatas guru-niyogāt vai kṛṣṇaḥ parama-śaktimān .. tapaḥ cakāra putra-artham sa aṃbam uddiśya śaṃkaram .. 7.2,1.21..
तपसो तेन वर्षांते दृष्टो ऽसौ परमेश्वरः ॥ श्रिया परमया युक्तस्सांबश्च सगणश्शिवः ॥ ७.२,१.२२॥
तेन वर्ष-अंते दृष्टः असौ परमेश्वरः ॥ श्रिया परमया युक्तः स अंबः च स गणः शिवः ॥ ७।२,१।२२॥
tena varṣa-aṃte dṛṣṭaḥ asau parameśvaraḥ .. śriyā paramayā yuktaḥ sa aṃbaḥ ca sa gaṇaḥ śivaḥ .. 7.2,1.22..
वरार्थमाविर्भूतस्य हरस्य सुभगाकृतेः ॥ स्तुतिं चकार नत्वासौ कृष्णः सम्यक्कृतांजलिः ॥ ७.२,१.२३॥
वर-अर्थम् आविर्भूतस्य हरस्य सुभग-आकृतेः ॥ स्तुतिम् चकार नत्वा असौ कृष्णः सम्यक् कृतांजलिः ॥ ७।२,१।२३॥
vara-artham āvirbhūtasya harasya subhaga-ākṛteḥ .. stutim cakāra natvā asau kṛṣṇaḥ samyak kṛtāṃjaliḥ .. 7.2,1.23..
सांबं समगणव्यग्रो लब्धवान्पुत्रमात्मनः ॥ तपसा तुष्टचित्तेन दत्तं विष्णोश्शिवेन वै ॥ ७.२,१.२४॥
स अंबम् सम-गण-व्यग्रः लब्धवान् पुत्रम् आत्मनः ॥ तपसा तुष्ट-चित्तेन दत्तम् विष्णोः शिवेन वै ॥ ७।२,१।२४॥
sa aṃbam sama-gaṇa-vyagraḥ labdhavān putram ātmanaḥ .. tapasā tuṣṭa-cittena dattam viṣṇoḥ śivena vai .. 7.2,1.24..
यस्मात्सांबो महादेवः प्रददौ पुत्रमात्मनः ॥ तस्माज्जांबवतीसूनुं सांबं चक्रे स नामतः ॥ ७.२,१.२५॥
यस्मात् स अंबः महादेवः प्रददौ पुत्रम् आत्मनः ॥ तस्मात् जांबवती-सूनुम् सांबम् चक्रे स नामतः ॥ ७।२,१।२५॥
yasmāt sa aṃbaḥ mahādevaḥ pradadau putram ātmanaḥ .. tasmāt jāṃbavatī-sūnum sāṃbam cakre sa nāmataḥ .. 7.2,1.25..
तदेतत्कथितं सर्वं कृष्णस्यामितकर्मणः ॥ महर्षेर्ज्ञानलाभश्च पुत्रलाभश्च शंकरात् ॥ ७.२,१.२६॥
तत् एतत् कथितम् सर्वम् कृष्णस्य अमित-कर्मणः ॥ महा-ऋषेः ज्ञान-लाभः च पुत्र-लाभः च शंकरात् ॥ ७।२,१।२६॥
tat etat kathitam sarvam kṛṣṇasya amita-karmaṇaḥ .. mahā-ṛṣeḥ jñāna-lābhaḥ ca putra-lābhaḥ ca śaṃkarāt .. 7.2,1.26..
य इदं कीर्तयेन्नित्यं शृणुयाच्छ्रावयेत्तथा ॥ स विष्णोर्ज्ञानमासाद्य तेनैव सह मोदते ॥ ७.२,१.२७॥
यः इदम् कीर्तयेत् नित्यम् शृणुयात् श्रावयेत् तथा ॥ स विष्णोः ज्ञानम् आसाद्य तेन एव सह मोदते ॥ ७।२,१।२७॥
yaḥ idam kīrtayet nityam śṛṇuyāt śrāvayet tathā .. sa viṣṇoḥ jñānam āsādya tena eva saha modate .. 7.2,1.27..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे कृष्णपुत्रप्राप्तिवर्णनं नम प्रथमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे कृष्णपुत्रप्राप्तिवर्णनम् प्रथमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe kṛṣṇaputraprāptivarṇanam prathamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In