| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाचमहर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ ॥
श्री-कृष्णः उवाच महा-ऋषि-वर सर्वज्ञ सर्व-ज्ञान-महोदधे ॥ ॥
śrī-kṛṣṇaḥ uvāca mahā-ṛṣi-vara sarvajña sarva-jñāna-mahodadhe .. ..
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ॥ पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ ७.२,१२.१॥
महा-ऋषि-वर सर्वज्ञ सर्व-ज्ञान-महोदधे ॥ पञ्चाक्षरस्य माहात्म्यम् श्रोतुम् इच्छामि तत्त्वतः ॥ ७।२,१२।१॥
mahā-ṛṣi-vara sarvajña sarva-jñāna-mahodadhe .. pañcākṣarasya māhātmyam śrotum icchāmi tattvataḥ .. 7.2,12.1..
उपमन्युरुवाच॥
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ॥ अशक्यं विस्तराद्वक्तुं तस्मात्संक्षेपतः शृणु ॥ ७.२,१२.२॥
पञ्चाक्षरस्य माहात्म्यम् वर्ष-कोटि-शतैः अपि ॥ अशक्यम् विस्तरात् वक्तुम् तस्मात् संक्षेपतः शृणु ॥ ७।२,१२।२॥
pañcākṣarasya māhātmyam varṣa-koṭi-śataiḥ api .. aśakyam vistarāt vaktum tasmāt saṃkṣepataḥ śṛṇu .. 7.2,12.2..
वेदे शिवागमे चायमुभयत्र षडक्षरेः ॥ सर्वेषां शिवभक्तानामशेषार्थसाधकः ॥ ७.२,१२.३॥
वेदे शिव-आगमे च अयम् उभयत्र ॥ सर्वेषाम् शिव-भक्तानाम् अशेष-अर्थ-साधकः ॥ ७।२,१२।३॥
vede śiva-āgame ca ayam ubhayatra .. sarveṣām śiva-bhaktānām aśeṣa-artha-sādhakaḥ .. 7.2,12.3..
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ॥ आज्ञासिद्धमसंदिग्धं वाक्यमेतच्छिवात्मकम् ॥ ७.२,१२.४॥
तत् अल्प-अक्षरम् अर्थ-आढ्यम् वेद-सारम् विमुक्ति-दम् ॥ आज्ञा-सिद्धम् असंदिग्धम् वाक्यम् एतत् शिव-आत्मकम् ॥ ७।२,१२।४॥
tat alpa-akṣaram artha-āḍhyam veda-sāram vimukti-dam .. ājñā-siddham asaṃdigdham vākyam etat śiva-ātmakam .. 7.2,12.4..
नानासिद्धियुतं दिव्यं लोकचित्तानुरंजकम् ॥ सुनिश्चितार्थं गंभीरं वाक्यं तत्पारमेश्वरम् ॥ ७.२,१२.५॥
नाना सिद्धि-युतम् दिव्यम् लोक-चित्त-अनुरंजकम् ॥ सु निश्चित-अर्थम् गंभीरम् वाक्यम् तत् पारमेश्वरम् ॥ ७।२,१२।५॥
nānā siddhi-yutam divyam loka-citta-anuraṃjakam .. su niścita-artham gaṃbhīram vākyam tat pārameśvaram .. 7.2,12.5..
मन्त्रं सुखमुकोच्चार्यमशेषार्थप्रसिद्धये ॥ प्राहोन्नमः शिवायेति सर्वज्ञस्सर्वदेहिनाम् ॥ ७.२,१२.६॥
मन्त्रम् अशेष-अर्थ-प्रसिद्धये ॥ प्राह उन्नमः शिवाय इति सर्वज्ञः सर्व-देहिनाम् ॥ ७।२,१२।६॥
mantram aśeṣa-artha-prasiddhaye .. prāha unnamaḥ śivāya iti sarvajñaḥ sarva-dehinām .. 7.2,12.6..
तद्बीजं सर्वविद्यानां मंत्रमाद्यं षडक्षरम् ॥ अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७.२,१२.७॥
तत् बीजम् सर्व-विद्यानाम् मंत्रम् आद्यम् षष्-अक्षरम् ॥ अति सूक्ष्मम् महार्थम् च ज्ञेयम् तत् वट-बीज-वत् ॥ ७।२,१२।७॥
tat bījam sarva-vidyānām maṃtram ādyam ṣaṣ-akṣaram .. ati sūkṣmam mahārtham ca jñeyam tat vaṭa-bīja-vat .. 7.2,12.7..
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥ ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ७.२,१२.८॥
॥ ओम् इति एकाक्षरे मन्त्रे स्थितः सर्व-गतः शिवः ॥ ७।२,१२।८॥
.. om iti ekākṣare mantre sthitaḥ sarva-gataḥ śivaḥ .. 7.2,12.8..
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ॥ मंत्रे नमश्शिवायेति संस्थितानि यथाक्रमम् ॥ मंत्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ७.२,१२.९॥
इशान-आद्यानि सूक्ष्माणि ब्रह्माणि एक-अक्षराणि तु ॥ मंत्रे नमः शिवाय इति संस्थितानि यथाक्रमम् ॥ मंत्रे षष्-अक्षरे सूक्ष्मे पञ्च-ब्रह्म-तनुः शिवः ॥ ७।२,१२।९॥
iśāna-ādyāni sūkṣmāṇi brahmāṇi eka-akṣarāṇi tu .. maṃtre namaḥ śivāya iti saṃsthitāni yathākramam .. maṃtre ṣaṣ-akṣare sūkṣme pañca-brahma-tanuḥ śivaḥ .. 7.2,12.9..
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ॥ वाच्यश्शिवोप्रमेयत्वान्मंत्रस्तद्वाचकस्स्मृतः ॥ ७.२,१२.१०॥
वाच्य-वाचक-भावेन स्थितः साक्षात् स्वभावतः ॥ वाच्यः शिव-उप्रमेय-त्वात् मंत्रः तद्-वाचकः स्मृतः ॥ ७।२,१२।१०॥
vācya-vācaka-bhāvena sthitaḥ sākṣāt svabhāvataḥ .. vācyaḥ śiva-uprameya-tvāt maṃtraḥ tad-vācakaḥ smṛtaḥ .. 7.2,12.10..
वाच्यवाचकभावो ऽयमनादिसंस्थितस्तयोः ॥ यथा ऽनादिप्रवृत्तोयं घोरसंसारसागरः ॥ ७.२,१२.११॥
वाच्य-वाचक-भावः अयम् अनादि-संस्थितः तयोः ॥ यथा अनादि-प्रवृत्तः यम् घोर-संसार-सागरः ॥ ७।२,१२।११॥
vācya-vācaka-bhāvaḥ ayam anādi-saṃsthitaḥ tayoḥ .. yathā anādi-pravṛttaḥ yam ghora-saṃsāra-sāgaraḥ .. 7.2,12.11..
शिवो ऽपि हि तथानादिसंसारान्मोचकः स्थितः ॥ व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ ७.२,१२.१२॥
शिवः अपि हि तथा अनादि-संसारात् मोचकः स्थितः ॥ व्याधीनाम् भेषजम् यद्वत् प्रतिपक्षः स्वभावतः ॥ ७।२,१२।१२॥
śivaḥ api hi tathā anādi-saṃsārāt mocakaḥ sthitaḥ .. vyādhīnām bheṣajam yadvat pratipakṣaḥ svabhāvataḥ .. 7.2,12.12..
तद्वत्संसारदोषाणां प्रतिपक्षः शिवस्स्मृतः ॥ असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ ७.२,१२.१३॥
तद्वत् संसार-दोषाणाम् प्रतिपक्षः शिवः स्मृतः ॥ असति अस्मिन् जगन्नाथे तमः-भूतम् इदम् भवेत् ॥ ७।२,१२।१३॥
tadvat saṃsāra-doṣāṇām pratipakṣaḥ śivaḥ smṛtaḥ .. asati asmin jagannāthe tamaḥ-bhūtam idam bhavet .. 7.2,12.13..
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरषस्य च ॥ प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥ ७.२,१२.१४॥
अचेतन-त्वात् प्रकृतेः अज्ञ-त्वात् पुरषस्य च ॥ प्रधान-परमाणु-आदि यावत् किंचिद् अचेतनम् ॥ ७।२,१२।१४॥
acetana-tvāt prakṛteḥ ajña-tvāt puraṣasya ca .. pradhāna-paramāṇu-ādi yāvat kiṃcid acetanam .. 7.2,12.14..
न तत्कर्तृ स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ धर्माधर्मोपदेशश्च बंधमोक्षौ विचारणात् ॥ ७.२,१२.१५॥
न तत् कर्तृ स्वयम् दृष्टम् बुद्धिमत् कारणम् विना ॥ धर्म-अधर्म-उपदेशः च बंध-मोक्षौ विचारणात् ॥ ७।२,१२।१५॥
na tat kartṛ svayam dṛṣṭam buddhimat kāraṇam vinā .. dharma-adharma-upadeśaḥ ca baṃdha-mokṣau vicāraṇāt .. 7.2,12.15..
न सर्वज्ञं विना पुंसामादिसर्गः प्रसिद्ध्यति ॥ वैद्यं विना निरानंदाः क्लिश्यंते रोगिणो यथा ॥ ७.२,१२.१६॥
न सर्वज्ञम् विना पुंसाम् आदिसर्गः प्रसिद्धि-अति ॥ वैद्यम् विना निरानंदाः क्लिश्यंते रोगिणः यथा ॥ ७।२,१२।१६॥
na sarvajñam vinā puṃsām ādisargaḥ prasiddhi-ati .. vaidyam vinā nirānaṃdāḥ kliśyaṃte rogiṇaḥ yathā .. 7.2,12.16..
तस्मादनादिः सर्वज्ञः परिपूर्णस्सदाशिवः ॥ अस्ति नाथः परित्राता पुंसां संसारसागरात् ॥ ७.२,१२.१७॥
तस्मात् अनादिः सर्वज्ञः परिपूर्णः सदाशिवः ॥ अस्ति नाथः परित्राता पुंसाम् संसार-सागरात् ॥ ७।२,१२।१७॥
tasmāt anādiḥ sarvajñaḥ paripūrṇaḥ sadāśivaḥ .. asti nāthaḥ paritrātā puṃsām saṃsāra-sāgarāt .. 7.2,12.17..
आदिमध्यांतनिर्मुक्तस्स्वभावविमलः प्रभुः ॥ सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयश्शिवागमे ॥ ७.२,१२.१८॥
आदि-मध्य-अंत-निर्मुक्तः स्वभाव-विमलः प्रभुः ॥ सर्वज्ञः परिपूर्णः च शिवः ज्ञेयः शिव-आगमे ॥ ७।२,१२।१८॥
ādi-madhya-aṃta-nirmuktaḥ svabhāva-vimalaḥ prabhuḥ .. sarvajñaḥ paripūrṇaḥ ca śivaḥ jñeyaḥ śiva-āgame .. 7.2,12.18..
तस्याभिधानमन्त्रो ऽयमभिधेयश्च स स्मृतः ॥ अभिधानाभिधेयत्वान्मंत्रस्सिद्धः परश्शिवः ॥ ७.२,१२.१९॥
तस्य अभिधान-मन्त्रः अयम् अभिधेयः च स स्मृतः ॥ अभिधान-अभिधेय-त्वात् मंत्रः सिद्धः परः शिवः ॥ ७।२,१२।१९॥
tasya abhidhāna-mantraḥ ayam abhidheyaḥ ca sa smṛtaḥ .. abhidhāna-abhidheya-tvāt maṃtraḥ siddhaḥ paraḥ śivaḥ .. 7.2,12.19..
एतावत्तु शिवज्ञानमेतावत्परमं पदम् ॥ यदोंनमश्शिवायेति शिववाक्यं षडक्षरम् ॥ ७.२,१२.२०॥
एतावत् तु शिव-ज्ञानम् एतावत् परमम् पदम् ॥ यत् ओम् नमः शिवाय इति शिव-वाक्यम् षष्-अक्षरम् ॥ ७।२,१२।२०॥
etāvat tu śiva-jñānam etāvat paramam padam .. yat om namaḥ śivāya iti śiva-vākyam ṣaṣ-akṣaram .. 7.2,12.20..
विधिवाक्यमिदं शैवं नार्थवादं शिवात्मकम् ॥ यस्सर्वज्ञस्सुसंपूर्णः स्वभावविमलः शिवः ॥ ७.२,१२.२१॥
विधि-वाक्यम् इदम् शैवम् न अर्थ-वादम् शिव-आत्मकम् ॥ यः सर्वज्ञः सु संपूर्णः स्वभाव-विमलः शिवः ॥ ७।२,१२।२१॥
vidhi-vākyam idam śaivam na artha-vādam śiva-ātmakam .. yaḥ sarvajñaḥ su saṃpūrṇaḥ svabhāva-vimalaḥ śivaḥ .. 7.2,12.21..
लोकानुग्रहकर्ता च स मृषार्थं कथं वदेत् ॥ यद्यथावस्थितं वस्तु गुणदोषैः स्वभावतः ॥ ७.२,१२.२२॥
लोक-अनुग्रह-कर्ता च स मृषार्थम् कथम् वदेत् ॥ यत् यथा अवस्थितम् वस्तु गुण-दोषैः स्वभावतः ॥ ७।२,१२।२२॥
loka-anugraha-kartā ca sa mṛṣārtham katham vadet .. yat yathā avasthitam vastu guṇa-doṣaiḥ svabhāvataḥ .. 7.2,12.22..
यावत्फलं च तत्पूर्णं सर्वज्ञस्तु यथा वदेत् ॥ रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ॥ ७.२,१२.२३॥
यावत् फलम् च तत् पूर्णम् सर्वज्ञः तु यथा वदेत् ॥ राग-अज्ञान-आदिभिः दोषैः ग्रस्त-त्वात् अनृतम् वदेत् ॥ ७।२,१२।२३॥
yāvat phalam ca tat pūrṇam sarvajñaḥ tu yathā vadet .. rāga-ajñāna-ādibhiḥ doṣaiḥ grasta-tvāt anṛtam vadet .. 7.2,12.23..
ते चेश्वरे न विद्येते ब्रूयात्स कथमन्यथा ॥ अज्ञाताशेषदोषेण सर्वज्ञेय शिवेन यत् ॥ ७.२,१२.२४॥
ते च ईश्वरे न विद्येते ब्रूयात् स कथम् अन्यथा ॥ अज्ञात-अशेष-दोषेण सर्व-ज्ञेय शिवेन यत् ॥ ७।२,१२।२४॥
te ca īśvare na vidyete brūyāt sa katham anyathā .. ajñāta-aśeṣa-doṣeṇa sarva-jñeya śivena yat .. 7.2,12.24..
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ॥ तस्मादीश्वरवाक्यानि श्रद्धेयानि विपश्चिता ॥ ७.२,१२.२४॥
प्रणीतम् अमलम् वाक्यम् तत् प्रमाणम् न संशयः ॥ तस्मात् ईश्वर-वाक्यानि श्रद्धेयानि विपश्चिता ॥ ७।२,१२।२४॥
praṇītam amalam vākyam tat pramāṇam na saṃśayaḥ .. tasmāt īśvara-vākyāni śraddheyāni vipaścitā .. 7.2,12.24..
यथार्थपुण्यपापेषु तदश्रद्धो व्रजत्यधः ॥ स्वर्गापवर्गसिद्ध्यर्थं भाषितं यत्सुशोभनम् ॥ ७.२,१२.२५॥
यथार्थ-पुण्य-पापेषु तत् अश्रद्धः व्रजति अधस् ॥ स्वर्ग-अपवर्ग-सिद्धि-अर्थम् भाषितम् यत् सु शोभनम् ॥ ७।२,१२।२५॥
yathārtha-puṇya-pāpeṣu tat aśraddhaḥ vrajati adhas .. svarga-apavarga-siddhi-artham bhāṣitam yat su śobhanam .. 7.2,12.25..
वाक्यं मुनिवरैः शांतैस्तद्विज्ञेयं सुभाषितम् ॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ॥ ७.२,१२.२६॥
वाक्यम् मुनि-वरैः शांतैः तत् विज्ञेयम् सुभाषितम् ॥ राग-द्वेष-अनृत-क्रोध-काम-तृष्णा-अनुसारि यत् ॥ ७।२,१२।२६॥
vākyam muni-varaiḥ śāṃtaiḥ tat vijñeyam subhāṣitam .. rāga-dveṣa-anṛta-krodha-kāma-tṛṣṇā-anusāri yat .. 7.2,12.26..
वाक्यं निरयहेतुत्वात्तद्दुर्भाषितमुच्यते ॥ संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ ७.२,१२.२७॥
वाक्यम् निरय-हेतु-त्वात् तत् दुर्भाषितम् उच्यते ॥ संस्कृतेन अपि किम् तेन मृदुना ललितेन वा ॥ ७।२,१२।२७॥
vākyam niraya-hetu-tvāt tat durbhāṣitam ucyate .. saṃskṛtena api kim tena mṛdunā lalitena vā .. 7.2,12.27..
अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ यच्छ्रुत्वा जायते श्रेयो रागादीनां च संशयः ॥ ७.२,१२.२८॥
अविद्या-राग-वाक्येन संसार-क्लेश-हेतुना ॥ यत् श्रुत्वा जायते श्रेयः राग-आदीनाम् च संशयः ॥ ७।२,१२।२८॥
avidyā-rāga-vākyena saṃsāra-kleśa-hetunā .. yat śrutvā jāyate śreyaḥ rāga-ādīnām ca saṃśayaḥ .. 7.2,12.28..
विरूपमपि तद्वाक्यं विज्ञेयमिति शोभनम् ॥ बहुत्वेपि हि मंत्राणां सर्वज्ञेन शिवेन यः ॥ ७.२,१२.२९॥
विरूपम् अपि तत् वाक्यम् विज्ञेयम् इति शोभनम् ॥ बहु-त्वे अपि हि मंत्राणाम् सर्वज्ञेन शिवेन यः ॥ ७।२,१२।२९॥
virūpam api tat vākyam vijñeyam iti śobhanam .. bahu-tve api hi maṃtrāṇām sarvajñena śivena yaḥ .. 7.2,12.29..
प्रणीतो विमलो मन्त्रो न तेन सदृशः क्वचित् ॥ सांगानि वेदशास्त्राणि संस्थितानि षडक्षरे ॥ ७.२,१२.३०॥
प्रणीतः विमलः मन्त्रः न तेन सदृशः क्वचिद् ॥ स अंगानि वेद-शास्त्राणि संस्थितानि षडक्षरे ॥ ७।२,१२।३०॥
praṇītaḥ vimalaḥ mantraḥ na tena sadṛśaḥ kvacid .. sa aṃgāni veda-śāstrāṇi saṃsthitāni ṣaḍakṣare .. 7.2,12.30..
न तेन सदृशस्तस्मान्मन्त्रो ऽप्यस्त्यपरः क्वचित् ॥ सप्तकोटिमहामन्त्रैरुपमन्त्रैरनेकधा ॥ ७.२,१२.३१॥
न तेन सदृशः तस्मात् मन्त्रः अपि अस्ति अपरः क्वचिद् ॥ सप्त-कोटि-महामन्त्रैः उपमन्त्रैः अनेकधा ॥ ७।२,१२।३१॥
na tena sadṛśaḥ tasmāt mantraḥ api asti aparaḥ kvacid .. sapta-koṭi-mahāmantraiḥ upamantraiḥ anekadhā .. 7.2,12.31..
मन्त्रः षडक्षरो भिन्नस्सूत्रं वृत्यात्मना यथा ॥ शिवज्ञानानि यावंति विद्यास्थानापि यानि च ॥ ७.२,१२.३२॥
मन्त्रः षष्-अक्षरः भिन्नः सूत्रम् वृत्या आत्मना यथा ॥ शिव-ज्ञानानि यावंति यानि च ॥ ७।२,१२।३२॥
mantraḥ ṣaṣ-akṣaraḥ bhinnaḥ sūtram vṛtyā ātmanā yathā .. śiva-jñānāni yāvaṃti yāni ca .. 7.2,12.32..
षडक्षरस्य सूत्रस्य तानि भाष्यं समासतः ॥ किं तस्य बहुभिर्मंत्रैश्शास्त्रैर्वा बहुविस्तरैः ॥ ७.२,१२.३३॥
षष्-अक्षरस्य सूत्रस्य तानि भाष्यम् समासतस् ॥ किम् तस्य बहुभिः मंत्रैः शास्त्रैः वा बहु-विस्तरैः ॥ ७।२,१२।३३॥
ṣaṣ-akṣarasya sūtrasya tāni bhāṣyam samāsatas .. kim tasya bahubhiḥ maṃtraiḥ śāstraiḥ vā bahu-vistaraiḥ .. 7.2,12.33..
यस्योन्नमः शिवायेति मन्त्रो ऽयं हृदि संस्थितः ॥ तेनाधीतं श्रुतं तेन कृतं सर्वमनुष्ठितम् ॥ ७.२,१२.३४॥
यस्य उन्नमः शिवाय इति मन्त्रः अयम् हृदि संस्थितः ॥ तेन अधीतम् श्रुतम् तेन कृतम् सर्वम् अनुष्ठितम् ॥ ७।२,१२।३४॥
yasya unnamaḥ śivāya iti mantraḥ ayam hṛdi saṃsthitaḥ .. tena adhītam śrutam tena kṛtam sarvam anuṣṭhitam .. 7.2,12.34..
येनोन्नमश्शिवायेति मंत्राभ्यासः स्थिरीकृतः ॥ नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् ॥ ७.२,१२.३५॥
येन उन्नमः शिवाय इति मंत्र-अभ्यासः स्थिरीकृतः ॥ नमस्कार-आदि-संयुक्तम् शिवाय इति अक्षर-त्रयम् ॥ ७।२,१२।३५॥
yena unnamaḥ śivāya iti maṃtra-abhyāsaḥ sthirīkṛtaḥ .. namaskāra-ādi-saṃyuktam śivāya iti akṣara-trayam .. 7.2,12.35..
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ अंत्यजो वाधमो वापि मूर्खो वा पंडितो ऽपि वा ॥ ७.२,१२.३६॥
जिह्वा-अग्रे वर्तते यस्य सफलम् तस्य जीवितम् ॥ अंत्यजः वा अधमः वा अपि मूर्खः वा पंडितः अपि वा ॥ ७।२,१२।३६॥
jihvā-agre vartate yasya saphalam tasya jīvitam .. aṃtyajaḥ vā adhamaḥ vā api mūrkhaḥ vā paṃḍitaḥ api vā .. 7.2,12.36..
पञ्चाक्षरजपे निष्ठो मुच्यते पापपंजरात् ॥ इत्युक्तं परमेशेन देव्या पृष्टेन शूलिना ॥ ७.२,१२.३७॥
पञ्चाक्षर-जपे निष्ठः मुच्यते पाप-पंजरात् ॥ इति उक्तम् परमेशेन देव्या पृष्टेन शूलिना ॥ ७।२,१२।३७॥
pañcākṣara-jape niṣṭhaḥ mucyate pāpa-paṃjarāt .. iti uktam parameśena devyā pṛṣṭena śūlinā .. 7.2,12.37..
हिताय सर्वमर्त्यानां द्विजानां तु विशेषतः ॥ ७.२,१२.३८॥
हिताय सर्व-मर्त्यानाम् द्विजानाम् तु विशेषतः ॥ ७।२,१२।३८॥
hitāya sarva-martyānām dvijānām tu viśeṣataḥ .. 7.2,12.38..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम द्वादशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे पञ्चाक्षरमाहात्म्यवर्णनम् नाम द्वादशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe pañcākṣaramāhātmyavarṇanam nāma dvādaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In