| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवन्सर्वयोगींद्र गणेश्वर मुनीश्वर ॥षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ ७.२, १०.१ ॥
भगवन् सर्व-योगि-इन्द्र गणेश्वर मुनि-ईश्वर ॥षडानन-सम-प्रख्य सर्व-ज्ञान-निधे गुरो ॥ ७।२, १०।१ ॥
bhagavan sarva-yogi-indra gaṇeśvara muni-īśvara ..ṣaḍānana-sama-prakhya sarva-jñāna-nidhe guro .. 7.2, 10.1 ..
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ॥महर्षिवपुरास्थाय स्थितो ऽसि परमेश्वर ॥ ७.२, १०.२ ॥
प्रायस् त्वम् अवतीर्य उर्व्याम् पाश-विच्छित्तये नृणाम् ॥महा-ऋषि-वपुः आस्थाय स्थितः असि परमेश्वर ॥ ७।२, १०।२ ॥
prāyas tvam avatīrya urvyām pāśa-vicchittaye nṛṇām ..mahā-ṛṣi-vapuḥ āsthāya sthitaḥ asi parameśvara .. 7.2, 10.2 ..
अन्यथा हि जगत्यस्मिन् देवो वा दानवो ऽपि वा ॥त्वत्तोन्यः परमं भावं को जानीयाच्छिवात्मकम् ॥ ७.२, १०.३ ॥
अन्यथा हि जगति अस्मिन् देवः वा दानवः अपि वा ॥त्वत्तः न्यः परमम् भावम् कः जानीयात् शिव-आत्मकम् ॥ ७।२, १०।३ ॥
anyathā hi jagati asmin devaḥ vā dānavaḥ api vā ..tvattaḥ nyaḥ paramam bhāvam kaḥ jānīyāt śiva-ātmakam .. 7.2, 10.3 ..
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ॥शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ७.२, १०.४ ॥
तस्मात् तव मुख-उद्गीर्णम् साक्षात् इव पिनाकिनः ॥शिव-ज्ञान-अमृतम् पीत्वा न मे तृप्तम् अभूत् मनः ॥ ७।२, १०।४ ॥
tasmāt tava mukha-udgīrṇam sākṣāt iva pinākinaḥ ..śiva-jñāna-amṛtam pītvā na me tṛptam abhūt manaḥ .. 7.2, 10.4 ..
साक्षात्सर्वजगत्कर्तुर्भर्तुरंकं समाश्रिता ॥भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ७.२, १०.५ ॥
साक्षात् सर्व-जगत्-कर्तुः भर्तुः अंकम् समाश्रिता ॥भगवन् किन् नु पप्रच्छ भर्तारम् परमेश्वरी ॥ ७।२, १०।५ ॥
sākṣāt sarva-jagat-kartuḥ bhartuḥ aṃkam samāśritā ..bhagavan kin nu papraccha bhartāram parameśvarī .. 7.2, 10.5 ..
उपमन्युरुवाच॥
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ॥भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ७.२, १०.६ ॥
स्थाने पृष्टम् त्वया कृष्ण तत् वक्ष्यामि यथातथम् ॥भव-भक्तस्य युक्तस्य तव कल्याण-चेतसः ॥ ७।२, १०।६ ॥
sthāne pṛṣṭam tvayā kṛṣṇa tat vakṣyāmi yathātatham ..bhava-bhaktasya yuktasya tava kalyāṇa-cetasaḥ .. 7.2, 10.6 ..
महीधरवरे दिव्ये मंदरे चारुकंदरे ॥देव्या सह महादेवो दिव्यो ध्यानगतो ऽभवत् ॥ ७.२, १०.७ ॥
महीधर-वरे दिव्ये मंदरे चारु-कंदरे ॥देव्या सह महादेवः दिव्यः ध्यान-गतः अभवत् ॥ ७।२, १०।७ ॥
mahīdhara-vare divye maṃdare cāru-kaṃdare ..devyā saha mahādevaḥ divyaḥ dhyāna-gataḥ abhavat .. 7.2, 10.7 ..
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ॥फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ७.२, १०.८ ॥
तदा देव्याः प्रिय-सखी सु स्मित-आस्या शुभावती ॥फुल्लानि अति मनोज्ञानि पुष्पाणि समुदाहरत् ॥ ७।२, १०।८ ॥
tadā devyāḥ priya-sakhī su smita-āsyā śubhāvatī ..phullāni ati manojñāni puṣpāṇi samudāharat .. 7.2, 10.8 ..
ततः स्वमंकमारोप्य देवीं देववरोरहः ॥अलंकृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ७.२, १०.९ ॥
ततस् स्वम् अंकम् आरोप्य देवीम् ॥अलंकृत्य च तैः पुष्पैः आस्ते हृष्टतरः स्वयम् ॥ ७।२, १०।९ ॥
tatas svam aṃkam āropya devīm ..alaṃkṛtya ca taiḥ puṣpaiḥ āste hṛṣṭataraḥ svayam .. 7.2, 10.9 ..
अथांतःपुरचारिण्यो देव्यो दिव्यविभूषणाः ॥अंतरंगा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ ७.२, १०.१० ॥
अथ अंतःपुर-चारिण्यः देव्यः दिव्य-विभूषणाः ॥अंतरंगाः गण-इन्द्राः च सर्व-लोक-महेश्वरीम् ॥ ७।२, १०।१० ॥
atha aṃtaḥpura-cāriṇyaḥ devyaḥ divya-vibhūṣaṇāḥ ..aṃtaraṃgāḥ gaṇa-indrāḥ ca sarva-loka-maheśvarīm .. 7.2, 10.10 ..
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ॥चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ७.२, १०.११ ॥
भर्तारम् परिपूर्णम् च सर्व-लोक-महा-ईश्वरम् ॥चामर-आसक्त-हस्ताः च देवीम् देवम् सिषेविरे ॥ ७।२, १०।११ ॥
bhartāram paripūrṇam ca sarva-loka-mahā-īśvaram ..cāmara-āsakta-hastāḥ ca devīm devam siṣevire .. 7.2, 10.11 ..
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ॥त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ ७.२, १०.१२ ॥
ततस् प्रियाः कथाः वृत्ताः विनोदाय महेशयोः ॥त्राणाय च नृणाम् लोके ये शिवम् शरणम् गताः ॥ ७।२, १०।१२ ॥
tatas priyāḥ kathāḥ vṛttāḥ vinodāya maheśayoḥ ..trāṇāya ca nṛṇām loke ye śivam śaraṇam gatāḥ .. 7.2, 10.12 ..
तदावसरमालोक्य सर्वलोकमहेश्वरी ॥भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ ७.२, १०.१३ ॥
तदा अवसरम् आलोक्य सर्व-लोक-महेश्वरी ॥भर्तारम् परिपप्रच्छ सर्व-लोक-महा-ईश्वरम् ॥ ७।२, १०।१३ ॥
tadā avasaram ālokya sarva-loka-maheśvarī ..bhartāram paripapraccha sarva-loka-mahā-īśvaram .. 7.2, 10.13 ..
देव्युवाच॥
केन वश्यो महादेवो मर्त्यानां मंदचेतसाम् ॥आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ ७.२, १०.१४ ॥
केन वश्यः महादेवः मर्त्यानाम् मंद-चेतसाम् ॥आत्म-तत्त्व-आदि-अशक्तानाम् आत्मनाम् अकृतात्मनाम् ॥ ७।२, १०।१४ ॥
kena vaśyaḥ mahādevaḥ martyānām maṃda-cetasām ..ātma-tattva-ādi-aśaktānām ātmanām akṛtātmanām .. 7.2, 10.14 ..
ईश्वर उवाच॥
न कर्मणा न तपसा न जपैर्नासनादिभिः ॥न ज्ञानेन न चान्येन वश्यो ऽहं श्रद्धया विना ॥ ७.२, १०.१५ ॥
न कर्मणा न तपसा न जपैः न आसन-आदिभिः ॥न ज्ञानेन न च अन्येन वश्यः अहम् श्रद्धया विना ॥ ७।२, १०।१५ ॥
na karmaṇā na tapasā na japaiḥ na āsana-ādibhiḥ ..na jñānena na ca anyena vaśyaḥ aham śraddhayā vinā .. 7.2, 10.15 ..
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ॥वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्संभाष्य एव च ॥ ७.२, १०.१६ ॥
श्रद्धा मयि अस्ति चेद् पुंसाम् येन केन अपि हेतुना ॥वश्यः स्पृश्यः च दृश्यः च पूज्यः संभाष्यः एव च ॥ ७।२, १०।१६ ॥
śraddhā mayi asti ced puṃsām yena kena api hetunā ..vaśyaḥ spṛśyaḥ ca dṛśyaḥ ca pūjyaḥ saṃbhāṣyaḥ eva ca .. 7.2, 10.16 ..
साध्या तस्मान्मयि शद्धा मां वशीकर्तुमिच्छता ॥श्रद्धा हेतुस्स्वधर्मस्य रक्षणं वर्णिनामिह ॥ ७.२, १०.१७ ॥
साध्या तस्मात् मयि शद्धा माम् वशीकर्तुम् इच्छता ॥श्रद्धा हेतुः स्वधर्मस्य रक्षणम् वर्णिनाम् इह ॥ ७।२, १०।१७ ॥
sādhyā tasmāt mayi śaddhā mām vaśīkartum icchatā ..śraddhā hetuḥ svadharmasya rakṣaṇam varṇinām iha .. 7.2, 10.17 ..
स्ववर्णाश्रमधर्मेण वर्तते यस्तु मानवः ॥तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ ७.२, १०.१८ ॥
स्व-वर्ण-आश्रम-धर्मेण वर्तते यः तु मानवः ॥तस्य एव भवति श्रद्धा मयि न अन्यस्य कस्यचिद् ॥ ७।२, १०।१८ ॥
sva-varṇa-āśrama-dharmeṇa vartate yaḥ tu mānavaḥ ..tasya eva bhavati śraddhā mayi na anyasya kasyacid .. 7.2, 10.18 ..
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ॥ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरस्सरम् ॥ ७.२, १०.१९ ॥
आम्नाय-सिद्धम् अखिलम् धर्मम् आश्रमिणाम् इह ॥ब्रह्मणा कथितम् पूर्वम् मम एव आज्ञा-पुरस्सरम् ॥ ७।२, १०।१९ ॥
āmnāya-siddham akhilam dharmam āśramiṇām iha ..brahmaṇā kathitam pūrvam mama eva ājñā-purassaram .. 7.2, 10.19 ..
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ॥नात्यन्त फलभूयिष्ठः क्लेशाया ससमन्वितः ॥ ७.२, १०.२० ॥
स तु पैतामहः धर्मः बहु-वित्त-क्रिया-अन्वितः ॥न अत्यन्त-फल-भूयिष्ठः स समन्वितः ॥ ७।२, १०।२० ॥
sa tu paitāmahaḥ dharmaḥ bahu-vitta-kriyā-anvitaḥ ..na atyanta-phala-bhūyiṣṭhaḥ sa samanvitaḥ .. 7.2, 10.20 ..
तेन धर्मेण महतां श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ वर्णिनो ये प्रपद्यंते मामनन्यसमाश्रयाः ॥ ७.२, १०.२१ ॥
तेन धर्मेण महताम् श्रद्धाम् प्राप्य सु दुर्ल्लभाम् ॥ वर्णिनः ये प्रपद्यंते माम् अन् अन्य-समाश्रयाः ॥ ७।२, १०।२१ ॥
tena dharmeṇa mahatām śraddhām prāpya su durllabhām .. varṇinaḥ ye prapadyaṃte mām an anya-samāśrayāḥ .. 7.2, 10.21 ..
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ॥ ७.२, १०.२२ ॥
तेषाम् सुखेन मार्गेण धर्म-काम-अर्थ-मुक्तयः ॥ वर्ण-आश्रम-समाचारः मया भूयस् प्रकल्पितः ॥ ७।२, १०।२२ ॥
teṣām sukhena mārgeṇa dharma-kāma-artha-muktayaḥ .. varṇa-āśrama-samācāraḥ mayā bhūyas prakalpitaḥ .. 7.2, 10.22 ..
तस्मिन्भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम॥ ७.२, १०.२३ ॥
तस्मिन् भक्तिमताम् एव मदीयानाम् तु वर्णिनाम् ॥ अधिकारः न च अन्येषाम् इति आज्ञा नैष्ठिकी मम॥ ७।२, १०।२३ ॥
tasmin bhaktimatām eva madīyānām tu varṇinām .. adhikāraḥ na ca anyeṣām iti ājñā naiṣṭhikī mama.. 7.2, 10.23 ..
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ॥ ७.२, १०.२४ ॥
तद्-आज्ञप्तेन मार्गेण वर्णिनः मद्-उपाश्रयाः ॥मल-माया-आदि-पाशेभ्यः विमुक्ताः मद्-प्रसादतः ॥ ७।२, १०।२४ ॥
tad-ājñaptena mārgeṇa varṇinaḥ mad-upāśrayāḥ ..mala-māyā-ādi-pāśebhyaḥ vimuktāḥ mad-prasādataḥ .. 7.2, 10.24 ..
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ॥परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ ७.२, १०.२५ ॥
परम् मदीयम् आसाद्य पुनरावृत्ति-दुर्लभम् ॥परमम् मम साधर्म्यम् प्राप्य निर्वृतिम् आययुः ॥ ७।२, १०।२५ ॥
param madīyam āsādya punarāvṛtti-durlabham ..paramam mama sādharmyam prāpya nirvṛtim āyayuḥ .. 7.2, 10.25 ..
तस्माल्लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ॥आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ ७.२, १०.२६ ॥
तस्मात् लब्ध्वा अपि अ लब्ध्वा वा वर्ण-धर्मम् मया ईरितम् ॥आश्रित्य मम भक्तः चेद् स्व-आत्मना आत्मानम् उद्धरेत् ॥ ७।२, १०।२६ ॥
tasmāt labdhvā api a labdhvā vā varṇa-dharmam mayā īritam ..āśritya mama bhaktaḥ ced sva-ātmanā ātmānam uddharet .. 7.2, 10.26 ..
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ॥तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ ७.२, १०.२७ ॥
अलब्ध-लाभः एव एष कोटि-कोटि-गुण-अधिकः ॥तस्मात् मे मुखतः लब्धम् वर्ण-धर्मम् समाचरेत् ॥ ७।२, १०।२७ ॥
alabdha-lābhaḥ eva eṣa koṭi-koṭi-guṇa-adhikaḥ ..tasmāt me mukhataḥ labdham varṇa-dharmam samācaret .. 7.2, 10.27 ..
ममावतारा हि शुभे योगाचार्यच्छलेन तु ॥सर्वांतरेषु सन्त्यार्ये संततिश्च सहस्रशः ॥ ७.२, १०.२८ ॥
मम अवताराः हि शुभे योग-आचार्य-छलेन तु ॥सर्व-अन्तरेषु सन्ति आर्ये संततिः च सहस्रशस् ॥ ७।२, १०।२८ ॥
mama avatārāḥ hi śubhe yoga-ācārya-chalena tu ..sarva-antareṣu santi ārye saṃtatiḥ ca sahasraśas .. 7.2, 10.28 ..
अयुक्तानामबुद्धीनामभक्तानां सुरेश्वरि ॥दुर्लभं संततिज्ञानं ततो यत्नात्समाश्रयेत् ॥ ७.२, १०.२९ ॥
अयुक्तानाम् अबुद्धीनाम् अभक्तानाम् सुरेश्वरि ॥दुर्लभम् संतति-ज्ञानम् ततस् यत्नात् समाश्रयेत् ॥ ७।२, १०।२९ ॥
ayuktānām abuddhīnām abhaktānām sureśvari ..durlabham saṃtati-jñānam tatas yatnāt samāśrayet .. 7.2, 10.29 ..
सा हानिस्तन्महच्छिद्रं स मोहस्सांधमूकता ॥यदन्यत्र श्रमं कुर्यान्मोक्षमार्गबहिष्कृतः ॥ ७.२, १०.३० ॥
सा हानिः तत् महत् छिद्रम् स मोहः सांध-मूक-ता ॥यत् अन्यत्र श्रमम् कुर्यात् मोक्ष-मार्ग-बहिष्कृतः ॥ ७।२, १०।३० ॥
sā hāniḥ tat mahat chidram sa mohaḥ sāṃdha-mūka-tā ..yat anyatra śramam kuryāt mokṣa-mārga-bahiṣkṛtaḥ .. 7.2, 10.30 ..
ज्ञानं क्रिया च चर्या च योगश्चेति सुरेश्वरि ॥चतुष्पादः समाख्यातो मम धर्मस्सनातनः ॥ ७.२, १०.३१ ॥
ज्ञानम् क्रिया च चर्या च योगः च इति सुरेश्वरि ॥चतुष्पादः समाख्यातः मम धर्मः सनातनः ॥ ७।२, १०।३१ ॥
jñānam kriyā ca caryā ca yogaḥ ca iti sureśvari ..catuṣpādaḥ samākhyātaḥ mama dharmaḥ sanātanaḥ .. 7.2, 10.31 ..
पशुपाशपतिज्ञानं ज्ञानमित्यभिधीयते ॥षडध्वशुद्धिर्विधिना गुर्वधीना क्रियोच्यते ॥ ७.२, १०.३२ ॥
पशु-पाश-पति-ज्ञानम् ज्ञानम् इति अभिधीयते ॥षडध्व-शुद्धिः विधिना गुरु-अधीना क्रिया उच्यते ॥ ७।२, १०।३२ ॥
paśu-pāśa-pati-jñānam jñānam iti abhidhīyate ..ṣaḍadhva-śuddhiḥ vidhinā guru-adhīnā kriyā ucyate .. 7.2, 10.32 ..
वर्णाश्रमप्रयुक्तस्य मयैव विहितस्य च ॥ममार्चनादिधर्मस्य चर्या चर्येति कथ्यते ॥ ७.२, १०.३३ ॥
वर्ण-आश्रम-प्रयुक्तस्य मया एव विहितस्य च ॥मम अर्चन-आदि-धर्मस्य चर्या चर्या इति कथ्यते ॥ ७।२, १०।३३ ॥
varṇa-āśrama-prayuktasya mayā eva vihitasya ca ..mama arcana-ādi-dharmasya caryā caryā iti kathyate .. 7.2, 10.33 ..
मदुक्तेनैव मार्गेण मय्यवस्थितचेतसः ॥वृत्त्यंतरनिरोधो यो योग इत्यभिधीयते ॥ ७.२, १०.३४ ॥
मद्-उक्तेन एव मार्गेण मयि अवस्थित-चेतसः ॥वृत्ति-अंतर-निरोधः यः योगः इति अभिधीयते ॥ ७।२, १०।३४ ॥
mad-uktena eva mārgeṇa mayi avasthita-cetasaḥ ..vṛtti-aṃtara-nirodhaḥ yaḥ yogaḥ iti abhidhīyate .. 7.2, 10.34 ..
अश्वमेधगणाच्छ्रेष्ठं देवि चित्तप्रसाधनम् ॥मुक्तिदं च तथा ह्येतद्दुष्प्राप्यं विषयैषिणाम् ॥ ७.२, १०.३५ ॥
अश्वमेध-गणात् श्रेष्ठम् देवि चित्त-प्रसाधनम् ॥मुक्ति-दम् च तथा हि एतत् दुष्प्राप्यम् विषय-एषिणाम् ॥ ७।२, १०।३५ ॥
aśvamedha-gaṇāt śreṣṭham devi citta-prasādhanam ..mukti-dam ca tathā hi etat duṣprāpyam viṣaya-eṣiṇām .. 7.2, 10.35 ..
विजितेंद्रियवर्गस्य यमेन नियमेन च ॥पूर्वपापहरो योगो विरक्तस्यैव कथ्यते ॥ ७.२, १०.३६ ॥
विजित-इंद्रिय-वर्गस्य यमेन नियमेन च ॥पूर्व-पाप-हरः योगः विरक्तस्य एव कथ्यते ॥ ७।२, १०।३६ ॥
vijita-iṃdriya-vargasya yamena niyamena ca ..pūrva-pāpa-haraḥ yogaḥ viraktasya eva kathyate .. 7.2, 10.36 ..
वैराग्याज्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते ॥योगज्ञः पतितो वापि मुच्यते नात्र संशयः ॥ ७.२, १०.३७ ॥
वैराग्यात् जायते ज्ञानम् ज्ञानात् योगः प्रवर्तते ॥योग-ज्ञः पतितः वा अपि मुच्यते न अत्र संशयः ॥ ७।२, १०।३७ ॥
vairāgyāt jāyate jñānam jñānāt yogaḥ pravartate ..yoga-jñaḥ patitaḥ vā api mucyate na atra saṃśayaḥ .. 7.2, 10.37 ..
दया कार्याथ सततमहिंसा ज्ञानसंग्रहः ॥ सत्यमस्तेयमास्तिक्यं श्रद्धा चेंद्रियनिग्रहः ॥ ७.२, १०.३८ ॥
दया कार्या अथ सततम् अहिंसा ज्ञान-संग्रहः ॥ सत्यम् अस्तेयम् आस्तिक्यम् श्रद्धा च इंद्रिय-निग्रहः ॥ ७।२, १०।३८ ॥
dayā kāryā atha satatam ahiṃsā jñāna-saṃgrahaḥ .. satyam asteyam āstikyam śraddhā ca iṃdriya-nigrahaḥ .. 7.2, 10.38 ..
अध्यापनं चाध्ययनं यजनं याजनं तथा ॥ध्यानमीश्वरभावश्च सततं ज्ञानशीलता ॥ ७.२, १०.३९ ॥
अध्यापनम् च अध्ययनम् यजनम् याजनम् तथा ॥ध्यानम् ईश्वर-भावः च सततम् ज्ञान-शील-ता ॥ ७।२, १०।३९ ॥
adhyāpanam ca adhyayanam yajanam yājanam tathā ..dhyānam īśvara-bhāvaḥ ca satatam jñāna-śīla-tā .. 7.2, 10.39 ..
य एवं वर्तते विप्रो ज्ञानयोगस्य सिद्धये ॥ अचिरादेव विज्ञानं लब्ध्वा योगं च विंदति ॥ ७.२, १०.४० ॥
यः एवम् वर्तते विप्रः ज्ञान-योगस्य सिद्धये ॥ अचिरात् एव विज्ञानम् लब्ध्वा योगम् च विंदति ॥ ७।२, १०।४० ॥
yaḥ evam vartate vipraḥ jñāna-yogasya siddhaye .. acirāt eva vijñānam labdhvā yogam ca viṃdati .. 7.2, 10.40 ..
दग्ध्वा देहमिमं ज्ञानी क्षणाज्ज्ञानाग्निना प्रिये ॥ प्रसादान्मम योगज्ञः कर्मबंधं प्रहास्यति॥ ७.२, १०.४१ ॥
दग्ध्वा देहम् इमम् ज्ञानी क्षणात् ज्ञान-अग्निना प्रिये ॥ प्रसादात् मम योग-ज्ञः कर्म-बंधम् प्रहास्यति॥ ७।२, १०।४१ ॥
dagdhvā deham imam jñānī kṣaṇāt jñāna-agninā priye .. prasādāt mama yoga-jñaḥ karma-baṃdham prahāsyati.. 7.2, 10.41 ..
पुण्यःपुण्यात्मकं कर्ममुक्तेस्तत्प्रतिबंधकम् ॥ तस्मान्नियोगतो योगी पुण्यापुण्यं विवर्जयेत् ॥ ७.२, १०.४२ ॥
पुण्यः पुण्य-आत्मकम् कर्म-मुक्तेः तद्-प्रतिबंधकम् ॥ तस्मात् नियोगतः योगी पुण्य-अपुण्यम् विवर्जयेत् ॥ ७।२, १०।४२ ॥
puṇyaḥ puṇya-ātmakam karma-mukteḥ tad-pratibaṃdhakam .. tasmāt niyogataḥ yogī puṇya-apuṇyam vivarjayet .. 7.2, 10.42 ..
फलकामनया कर्मकरणात्प्रतिबध्यते ॥न कर्ममात्रकरणात्तस्मात्कर्मफलं त्यजेत् ॥ ७.२, १०.४३ ॥
फल-कामनया कर्म-करणात् प्रतिबध्यते ॥न कर्म-मात्र-करणात् तस्मात् कर्म-फलम् त्यजेत् ॥ ७।२, १०।४३ ॥
phala-kāmanayā karma-karaṇāt pratibadhyate ..na karma-mātra-karaṇāt tasmāt karma-phalam tyajet .. 7.2, 10.43 ..
प्रथमं कर्मयज्ञेन बहिः सम्पूज्य मां प्रिये ॥ज्ञानयोगरतो भूत्वा पश्चाद्योगं समभ्यसेत् ॥ ७.२, १०.४४ ॥
प्रथमम् कर्म-यज्ञेन बहिस् सम्पूज्य माम् प्रिये ॥ज्ञान-योग-रतः भूत्वा पश्चात् योगम् समभ्यसेत् ॥ ७।२, १०।४४ ॥
prathamam karma-yajñena bahis sampūjya mām priye ..jñāna-yoga-rataḥ bhūtvā paścāt yogam samabhyaset .. 7.2, 10.44 ..
विदिते मम याथात्म्ये कर्मयज्ञेन देहिनः ॥न यजंति हि मां युक्ताः समलोष्टाश्मकांचनाः ॥ ७.२, १०.४५ ॥
विदिते मम याथात्म्ये कर्म-यज्ञेन देहिनः ॥न यजंति हि माम् युक्ताः सम-लोष्ट-अश्म-कांचनाः ॥ ७।२, १०।४५ ॥
vidite mama yāthātmye karma-yajñena dehinaḥ ..na yajaṃti hi mām yuktāḥ sama-loṣṭa-aśma-kāṃcanāḥ .. 7.2, 10.45 ..
नित्ययुक्तो मुनिः श्रेष्ठो मद्भक्तश्च समाहितः ॥ज्ञानयोगरतो योगी मम सायुज्यमाप्नुयात् ॥ ७.२, १०.४६ ॥
नित्य-युक्तः मुनिः श्रेष्ठः मद्-भक्तः च समाहितः ॥ज्ञान-योग-रतः योगी मम सायुज्यम् आप्नुयात् ॥ ७।२, १०।४६ ॥
nitya-yuktaḥ muniḥ śreṣṭhaḥ mad-bhaktaḥ ca samāhitaḥ ..jñāna-yoga-rataḥ yogī mama sāyujyam āpnuyāt .. 7.2, 10.46 ..
अथाविरक्तचित्ता ये वर्णिनो मदुपाश्रिताः ॥ज्ञानचर्याक्रियास्वेव ते ऽधिकुर्युस्तदर्हकाः ॥ ७.२, १०.४७ ॥
अथ अ विरक्त-चित्ताः ये वर्णिनः मद्-उपाश्रिताः ॥ज्ञान-चर्या-क्रियासु एव ते अधिकुर्युः तद्-अर्हकाः ॥ ७।२, १०।४७ ॥
atha a virakta-cittāḥ ye varṇinaḥ mad-upāśritāḥ ..jñāna-caryā-kriyāsu eva te adhikuryuḥ tad-arhakāḥ .. 7.2, 10.47 ..
द्विधा मत्पूजनं ज्ञेयं बाह्यमाभ्यंतरं तथा ॥वाङ्मनःकायभेदाच्च त्रिधा मद्भजनं विदुः ॥ ७.२, १०.४८ ॥
द्विधा मद्-पूजनम् ज्ञेयम् बाह्यम् आभ्यंतरम् तथा ॥वाच्-मनः-काय-भेदात् च त्रिधा मद्-भजनम् विदुः ॥ ७।२, १०।४८ ॥
dvidhā mad-pūjanam jñeyam bāhyam ābhyaṃtaram tathā ..vāc-manaḥ-kāya-bhedāt ca tridhā mad-bhajanam viduḥ .. 7.2, 10.48 ..
तपः कर्म जपो ध्यानं ज्ञानं वेत्यनुपूर्वशः ॥पञ्चधा कथ्यते सद्भिस्तदेव भजनं पुनः ॥ ७.२, १०.४९ ॥
तपः कर्म जपः ध्यानम् ज्ञानम् वा इति अनुपूर्वशस् ॥पञ्चधा कथ्यते सद्भिः तत् एव भजनम् पुनर् ॥ ७।२, १०।४९ ॥
tapaḥ karma japaḥ dhyānam jñānam vā iti anupūrvaśas ..pañcadhā kathyate sadbhiḥ tat eva bhajanam punar .. 7.2, 10.49 ..
अन्यात्मविदितं बाह्यमस्मदभ्यर्चनादिकम् ॥तदेव तु स्वसंवेद्यमाभ्यंतरमुदाहृतम् ॥ ७.२, १०.५० ॥
अन्य-आत्म-विदितम् बाह्यम् अस्मद्-अभ्यर्चन-आदिकम् ॥तत् एव तु स्व-संवेद्यम् आभ्यंतरम् उदाहृतम् ॥ ७।२, १०।५० ॥
anya-ātma-viditam bāhyam asmad-abhyarcana-ādikam ..tat eva tu sva-saṃvedyam ābhyaṃtaram udāhṛtam .. 7.2, 10.50 ..
मनोमत्प्रवणं चित्तं न मनोमात्रमुच्यते ॥मन्नामनिरता वाणी वाङ्मता खलु नेतरा ॥ ७.२, १०.५१ ॥
मनोमत् प्रवणम् चित्तम् न मनः-मात्रम् उच्यते ॥मद्-नाम-निरता वाणी वाङ्मता खलु न इतरा ॥ ७।२, १०।५१ ॥
manomat pravaṇam cittam na manaḥ-mātram ucyate ..mad-nāma-niratā vāṇī vāṅmatā khalu na itarā .. 7.2, 10.51 ..
लिंगैर्मच्छासनादिष्टैस्त्रिपुंड्रादिभिरंकितः ॥ममोपचारनिरतः कायः कायो न चेतरः ॥ ७.२, १०.५२ ॥
लिंगैः मद्-शासन-आदिष्टैः त्रिपुंड्र-आदिभिः अंकितः ॥मम उपचार-निरतः कायः कायः न च इतरः ॥ ७।२, १०।५२ ॥
liṃgaiḥ mad-śāsana-ādiṣṭaiḥ tripuṃḍra-ādibhiḥ aṃkitaḥ ..mama upacāra-nirataḥ kāyaḥ kāyaḥ na ca itaraḥ .. 7.2, 10.52 ..
मदर्चाकर्म विज्ञेयं बाह्ये यागादिनोच्यते ॥मदर्थे देहसंशोषस्तपः कृच्छ्रादि नो मतम् ॥ ७.२, १०.५३ ॥
मद्-अर्चा-कर्म विज्ञेयम् बाह्ये याग-आदिना उच्यते ॥मद्-अर्थे देह-संशोषः तपः कृच्छ्र-आदि नः मतम् ॥ ७।२, १०।५३ ॥
mad-arcā-karma vijñeyam bāhye yāga-ādinā ucyate ..mad-arthe deha-saṃśoṣaḥ tapaḥ kṛcchra-ādi naḥ matam .. 7.2, 10.53 ..
जपः पञ्चाक्षराभ्यासः प्रणवाभ्यास एव च ॥रुद्राध्यायादिकाभ्यासो न वेदाध्ययनादिकम् ॥ ७.२, १०.५४ ॥
जपः पञ्चाक्षर-अभ्यासः प्रणव-अभ्यासः एव च ॥रुद्र-अध्याय-आदिक-अभ्यासः न वेद-अध्ययन-आदिकम् ॥ ७।२, १०।५४ ॥
japaḥ pañcākṣara-abhyāsaḥ praṇava-abhyāsaḥ eva ca ..rudra-adhyāya-ādika-abhyāsaḥ na veda-adhyayana-ādikam .. 7.2, 10.54 ..
ध्यानम्मद्रूपचिंताद्यं नात्माद्यर्थसमाधयः ॥ममागमार्थविज्ञानं ज्ञानं नान्यार्थवेदनम् ॥ ७.२, १०.५५ ॥
न आत्म-आदि-अर्थ-समाधयः ॥मम आगम-अर्थ-विज्ञानम् ज्ञानम् न अन्य-अर्थ-वेदनम् ॥ ७।२, १०।५५ ॥
na ātma-ādi-artha-samādhayaḥ ..mama āgama-artha-vijñānam jñānam na anya-artha-vedanam .. 7.2, 10.55 ..
बाह्ये वाभ्यंतरे वाथ यत्र स्यान्मनसो रतिः ॥प्राग्वासनावशाद्देवि तत्त्वनिष्ठां समाचरेत् ॥ ७.२, १०.५६ ॥
बाह्ये वा अभ्यंतरे वा अथ यत्र स्यात् मनसः रतिः ॥प्राक् वासना-वशात् देवि तत्त्व-निष्ठाम् समाचरेत् ॥ ७।२, १०।५६ ॥
bāhye vā abhyaṃtare vā atha yatra syāt manasaḥ ratiḥ ..prāk vāsanā-vaśāt devi tattva-niṣṭhām samācaret .. 7.2, 10.56 ..
बाह्यादाभ्यंतरं श्रेष्ठं भवेच्छतगुणाधिकम् ॥असंकरत्वाद्दोषाणां दृष्टानामप्यसम्भवात् ॥ ७.२, १०.५७ ॥
बाह्यात् आभ्यंतरम् श्रेष्ठम् भवेत् शतगुण-अधिकम् ॥असंकर-त्वात् दोषाणाम् दृष्टानाम् अपि असम्भवात् ॥ ७।२, १०।५७ ॥
bāhyāt ābhyaṃtaram śreṣṭham bhavet śataguṇa-adhikam ..asaṃkara-tvāt doṣāṇām dṛṣṭānām api asambhavāt .. 7.2, 10.57 ..
शौचमाभ्यंतरं विद्यान्न बाह्यं शौचमुच्यते ॥अंतः शौचविमुक्तात्मा शुचिरप्यशुचिर्यतः ॥ ७.२, १०.५८ ॥
शौचम् आभ्यंतरम् विद्यात् न बाह्यम् शौचम् उच्यते ॥अन्तर् शौच-विमुक्त-आत्मा शुचिः अपि अशुचिः यतस् ॥ ७।२, १०।५८ ॥
śaucam ābhyaṃtaram vidyāt na bāhyam śaucam ucyate ..antar śauca-vimukta-ātmā śuciḥ api aśuciḥ yatas .. 7.2, 10.58 ..
बाह्यमाभ्यंर्तरं चैव भजनं भवपूर्वकम् ॥न भावरहितं देवि विप्रलंभैककारणम् ॥ ७.२, १०.५९ ॥
बाह्यम् आभ्यंर्तरम् च एव भजनम् भव-पूर्वकम् ॥न भाव-रहितम् देवि विप्रलंभ-एक-कारणम् ॥ ७।२, १०।५९ ॥
bāhyam ābhyaṃrtaram ca eva bhajanam bhava-pūrvakam ..na bhāva-rahitam devi vipralaṃbha-eka-kāraṇam .. 7.2, 10.59 ..
कृतकृत्यस्य पूतस्य मम किं क्रियते नरैः ॥बहिर्वाभ्यंतरं वाथ मया भावो हि गृह्यते ॥ ७.२, १०.६० ॥
कृतकृत्यस्य पूतस्य मम किम् क्रियते नरैः ॥बहिस् वा अभ्यंतरम् वा अथ मया भावः हि गृह्यते ॥ ७।२, १०।६० ॥
kṛtakṛtyasya pūtasya mama kim kriyate naraiḥ ..bahis vā abhyaṃtaram vā atha mayā bhāvaḥ hi gṛhyate .. 7.2, 10.60 ..
भावैकात्मा क्रिया देवि मम धर्मस्सनातनः ॥मनसा कर्मणा वाचा ह्यनपेक्ष्य फलं क्वचित् ॥ ७.२, १०.६१ ॥
भाव-एक-आत्मा क्रिया देवि मम धर्मः सनातनः ॥मनसा कर्मणा वाचा हि अन् अपेक्ष्य फलम् क्वचिद् ॥ ७।२, १०।६१ ॥
bhāva-eka-ātmā kriyā devi mama dharmaḥ sanātanaḥ ..manasā karmaṇā vācā hi an apekṣya phalam kvacid .. 7.2, 10.61 ..
फलोद्देशेन देवेशि लघुर्मम समाश्रयः ॥फलार्थी तदभावे मां परित्यक्तुं क्षमो यतः ॥ ७.२, १०.६२ ॥
फल-उद्देशेन देवेशि लघुः मम समाश्रयः ॥फल-अर्थी तद्-अभावे माम् परित्यक्तुम् क्षमः यतस् ॥ ७।२, १०।६२ ॥
phala-uddeśena deveśi laghuḥ mama samāśrayaḥ ..phala-arthī tad-abhāve mām parityaktum kṣamaḥ yatas .. 7.2, 10.62 ..
फलार्थिनो ऽपि यस्यैव मयि चित्तं प्रतिष्ठितम् ॥भावानुरूपफलदस्तस्याप्यहमनिन्दिते ॥ ७.२, १०.६३ ॥
फल-अर्थिनः अपि यस्य एव मयि चित्तम् प्रतिष्ठितम् ॥भाव-अनुरूप-फल-दः तस्य अपि अहम् अनिन्दिते ॥ ७।२, १०।६३ ॥
phala-arthinaḥ api yasya eva mayi cittam pratiṣṭhitam ..bhāva-anurūpa-phala-daḥ tasya api aham anindite .. 7.2, 10.63 ..
फलानपेक्षया येषां मनो मत्प्रवणं भवेत् ॥प्रार्थयेयुः फलं पश्चाद्भक्तास्ते ऽपि मम प्रियाः ॥ ७.२, १०.६४ ॥
फल-अनपेक्षया येषाम् मनः मद्-प्रवणम् भवेत् ॥प्रार्थयेयुः फलम् पश्चात् भक्ताः ते अपि मम प्रियाः ॥ ७।२, १०।६४ ॥
phala-anapekṣayā yeṣām manaḥ mad-pravaṇam bhavet ..prārthayeyuḥ phalam paścāt bhaktāḥ te api mama priyāḥ .. 7.2, 10.64 ..
प्राक्संस्कारवशादेव ये विचिंत्य फलाफले ॥विवशा मां प्रपद्यंते मम प्रियतमा मताः ॥ ७.२, १०.६५ ॥
प्राक् संस्कार-वशात् एव ये विचिंत्य फल-अफले ॥विवशाः माम् प्रपद्यंते मम प्रियतमाः मताः ॥ ७।२, १०।६५ ॥
prāk saṃskāra-vaśāt eva ye viciṃtya phala-aphale ..vivaśāḥ mām prapadyaṃte mama priyatamāḥ matāḥ .. 7.2, 10.65 ..
मल्लाभान्न परो लाभस्तेषामस्ति यथातथम् ॥ममापि लाभस्तल्लाभान्नापरः परमेश्वरि ॥ ७.२, १०.६६ ॥
मद्-लाभात् न परः लाभः तेषाम् अस्ति यथातथम् ॥मम अपि लाभः तद्-लाभात् न अपरः परमेश्वरि ॥ ७।२, १०।६६ ॥
mad-lābhāt na paraḥ lābhaḥ teṣām asti yathātatham ..mama api lābhaḥ tad-lābhāt na aparaḥ parameśvari .. 7.2, 10.66 ..
मदनुग्रहतस्तेषां भावो मयि समर्पितः ॥फलं परमनिर्वाणं प्रयच्छति बलादिव ॥ ७.२, १०.६७ ॥
मद्-अनुग्रहतः तेषाम् भावः मयि समर्पितः ॥फलम् परम-निर्वाणम् प्रयच्छति बलात् इव ॥ ७।२, १०।६७ ॥
mad-anugrahataḥ teṣām bhāvaḥ mayi samarpitaḥ ..phalam parama-nirvāṇam prayacchati balāt iva .. 7.2, 10.67 ..
महात्मनामनन्यानां मयि संन्यस्तचेतसाम् ॥अष्टधा लक्षणं प्राहुर्मम धर्माधिकारिणाम् ॥ ७.२, १०.६८ ॥
महात्मनाम् अनन्यानाम् मयि संन्यस्त-चेतसाम् ॥अष्टधा लक्षणम् प्राहुः मम धर्म-अधिकारिणाम् ॥ ७।२, १०।६८ ॥
mahātmanām ananyānām mayi saṃnyasta-cetasām ..aṣṭadhā lakṣaṇam prāhuḥ mama dharma-adhikāriṇām .. 7.2, 10.68 ..
मद्भक्तजनवात्सल्यं पूजायां चानुमोदनम् ॥स्वयमभ्यर्चनं चैव मदर्थे चांगचेष्टितम् ॥ ७.२, १०.६९ ॥
मद्-भक्त-जन-वात्सल्यम् पूजायाम् च अनुमोदनम् ॥स्वयम् अभ्यर्चनम् च एव मद्-अर्थे च अंग-चेष्टितम् ॥ ७।२, १०।६९ ॥
mad-bhakta-jana-vātsalyam pūjāyām ca anumodanam ..svayam abhyarcanam ca eva mad-arthe ca aṃga-ceṣṭitam .. 7.2, 10.69 ..
मत्कथाश्रवणे भक्तिः स्वरनेत्रांगविक्रियाः ॥ममानुस्मरणं नित्यं यश्च मामुपजीवति ॥ ७.२, १०.७० ॥
मद्-कथा-श्रवणे भक्तिः स्वर-नेत्र-अंग-विक्रियाः ॥मम अनुस्मरणम् नित्यम् यः च माम् उपजीवति ॥ ७।२, १०।७० ॥
mad-kathā-śravaṇe bhaktiḥ svara-netra-aṃga-vikriyāḥ ..mama anusmaraṇam nityam yaḥ ca mām upajīvati .. 7.2, 10.70 ..
एवमष्टविधं चिह्नं यस्मिन्म्लेच्छे ऽपि वर्तते ॥स विप्रेन्द्रो मुनिः श्रीमान्स यतिस्स च पंडितः ॥ ७.२, १०.७१ ॥
एवम् अष्टविधम् चिह्नम् यस्मिन् म्लेच्छे अपि वर्तते ॥स विप्र-इन्द्रः मुनिः श्रीमान् स यतिः स च पंडितः ॥ ७।२, १०।७१ ॥
evam aṣṭavidham cihnam yasmin mlecche api vartate ..sa vipra-indraḥ muniḥ śrīmān sa yatiḥ sa ca paṃḍitaḥ .. 7.2, 10.71 ..
न मे प्रियश्चतुर्वेदी मद्भक्तो श्वपचो ऽपि यः ॥तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्यहम् ॥ ७.२, १०.७२ ॥
न मे प्रियः चतुर्वेदी मद्-भक्तः श्वपचः अपि यः ॥तस्मै देयम् ततस् ग्राह्यम् स च पूज्यः यथा हि अहम् ॥ ७।२, १०।७२ ॥
na me priyaḥ caturvedī mad-bhaktaḥ śvapacaḥ api yaḥ ..tasmai deyam tatas grāhyam sa ca pūjyaḥ yathā hi aham .. 7.2, 10.72 ..
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ॥तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ७.२, १०.७३ ॥
पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति ॥तस्य अहम् न प्रणश्यामि स च मे न प्रणश्यति ॥ ७।२, १०।७३ ॥
patram puṣpam phalam toyam yaḥ me bhaktyā prayacchati ..tasya aham na praṇaśyāmi sa ca me na praṇaśyati .. 7.2, 10.73 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं नाम दशमो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवभक्तिवर्णनम् नाम दशमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivabhaktivarṇanam nāma daśamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In