| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच॥
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ॥ विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ ७.२,११.१॥
अथ वक्ष्यामि देवेशि भक्तानाम् अधिकारिणाम् ॥ विदुषाम् द्विजमुख्यानाम् वर्ण-धर्म-समासतः ॥ ७।२,११।१॥
atha vakṣyāmi deveśi bhaktānām adhikāriṇām .. viduṣām dvijamukhyānām varṇa-dharma-samāsataḥ .. 7.2,11.1..
त्रिः स्नानं चाग्निकार्यं च लिंगार्चनमनुक्रमम् ॥ दानमीश्ररभावश्च दया सर्वत्र सर्वदा ॥ ७.२,११.२॥
त्रिस् स्नानम् च अग्नि-कार्यम् च लिंग-अर्चनम् अनुक्रमम् ॥ दानम् ईश्रर-भावः च दया सर्वत्र सर्वदा ॥ ७।२,११।२॥
tris snānam ca agni-kāryam ca liṃga-arcanam anukramam .. dānam īśrara-bhāvaḥ ca dayā sarvatra sarvadā .. 7.2,11.2..
सत्यं संतोषमास्तिक्यमहिंसा सर्वजंतुषु ॥ ह्रीश्रद्धाध्ययनं योगस्सदाध्यापनमेव च ॥ ७.२,११.३॥
सत्यम् संतोषम् आस्तिक्यम् अहिंसा सर्व-जंतुषु ॥ ह्री-श्रद्धा अध्ययनम् योगः सदा अध्यापनम् एव च ॥ ७।२,११।३॥
satyam saṃtoṣam āstikyam ahiṃsā sarva-jaṃtuṣu .. hrī-śraddhā adhyayanam yogaḥ sadā adhyāpanam eva ca .. 7.2,11.3..
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ॥ शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ७.२,११.४॥
व्याख्यानम् ब्रह्मचर्यम् च श्रवणम् च तपः क्षमा ॥ शौचम् शिखोपवीतम् च उष्णीषम् च उत्तरीयकम् ॥ ७।२,११।४॥
vyākhyānam brahmacaryam ca śravaṇam ca tapaḥ kṣamā .. śaucam śikhopavītam ca uṣṇīṣam ca uttarīyakam .. 7.2,11.4..
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ॥ पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ७.२,११.५॥
निषिद्ध-असेवनम् च एव भस्म-रुद्राक्ष-धारणम् ॥ पर्वणि अभ्यर्चनम् देवि चतुर्दश्याम् विशेषतः ॥ ७।२,११।५॥
niṣiddha-asevanam ca eva bhasma-rudrākṣa-dhāraṇam .. parvaṇi abhyarcanam devi caturdaśyām viśeṣataḥ .. 7.2,11.5..
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ७.२,११.६॥
पानम् च ब्रह्मकूर्चस्य मासि मासि यथाविधि ॥ अभ्यर्चनम् विशेषेण तेन एव स्नाप्य माम् प्रिये ॥ ७।२,११।६॥
pānam ca brahmakūrcasya māsi māsi yathāvidhi .. abhyarcanam viśeṣeṇa tena eva snāpya mām priye .. 7.2,11.6..
सर्वक्रियान्न सन्त्यागः श्रद्धान्नस्य च वर्जनम् ॥ तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७.२,११.७॥
सर्व-क्रिया अन्न सन् त्यागः श्रद्धा-अन्नस्य च वर्जनम् ॥ तथा पर्युषित-अन्नस्य यावकस्य विशेषतः ॥ ७।२,११।७॥
sarva-kriyā anna san tyāgaḥ śraddhā-annasya ca varjanam .. tathā paryuṣita-annasya yāvakasya viśeṣataḥ .. 7.2,11.7..
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ॥ सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ७.२,११.८॥
मद्यस्य मद्य-गन्धस्य नैवेद्यस्य च वर्जनम् ॥ सामान्यम् सर्व-वर्णानाम् ब्राह्मणानाम् विशेषतः ॥ ७।२,११।८॥
madyasya madya-gandhasya naivedyasya ca varjanam .. sāmānyam sarva-varṇānām brāhmaṇānām viśeṣataḥ .. 7.2,11.8..
क्षमा शांतिश्च सन्तोषस्सत्यमस्तेयमेव च ॥ ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ७.२,११.९॥
क्षमा शांतिः च सन्तोषः सत्यम् अस्तेयम् एव च ॥ ब्रह्मचर्यम् मम ज्ञानम् वैराग्यम् भस्म-सेवनम् ॥ ७।२,११।९॥
kṣamā śāṃtiḥ ca santoṣaḥ satyam asteyam eva ca .. brahmacaryam mama jñānam vairāgyam bhasma-sevanam .. 7.2,11.9..
सर्वसंगनिवृत्तिश्च दशैतानि विशेषतः ॥ लिंगानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ ७.२,११.१०॥
सर्व-संग-निवृत्तिः च दश एतानि विशेषतः ॥ लिंगानि योगिनाम् भूयस् दिवा भिक्षा-अशनम् तथा ॥ ७।२,११।१०॥
sarva-saṃga-nivṛttiḥ ca daśa etāni viśeṣataḥ .. liṃgāni yoginām bhūyas divā bhikṣā-aśanam tathā .. 7.2,11.10..
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ॥ रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ७.२,११.११॥
वानप्रस्थ-आश्रम-स्थानाम् समानम् इदम् इष्यते ॥ रात्रौ न भोजनम् कार्यम् सर्वेषाम् ब्रह्मचारिणाम् ॥ ७।२,११।११॥
vānaprastha-āśrama-sthānām samānam idam iṣyate .. rātrau na bhojanam kāryam sarveṣām brahmacāriṇām .. 7.2,11.11..
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ॥ वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ ७.२,११.१२॥
अध्यापनम् याजनम् च क्षत्रियस्य अ प्रतिग्रहः ॥ वैश्यस्य च विशेषेण मया न अत्र विधीयते ॥ ७।२,११।१२॥
adhyāpanam yājanam ca kṣatriyasya a pratigrahaḥ .. vaiśyasya ca viśeṣeṇa mayā na atra vidhīyate .. 7.2,11.12..
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ॥ दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ ७.२,११.१३॥
रक्षणम् सर्व-वर्णानाम् युद्धे शत्रु-वधः तथा ॥ दुष्ट-पक्षि-मृगाणाम् च दुष्टानाम् शातनम् नृणाम् ॥ ७।२,११।१३॥
rakṣaṇam sarva-varṇānām yuddhe śatru-vadhaḥ tathā .. duṣṭa-pakṣi-mṛgāṇām ca duṣṭānām śātanam nṛṇām .. 7.2,11.13..
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ॥ स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ ७.२,११.१४॥
अविश्वासः च सर्वत्र विश्वासः मम योगिषु ॥ स्त्री-संसर्गः च कालेषु चमू-रक्षणम् एव च ॥ ७।२,११।१४॥
aviśvāsaḥ ca sarvatra viśvāsaḥ mama yogiṣu .. strī-saṃsargaḥ ca kāleṣu camū-rakṣaṇam eva ca .. 7.2,11.14..
सदा संचारितैश्चारैर्लोकवृत्तांतवेदनम् ॥ सदास्त्रधारणं चैव भस्मकंचुकधारणम् ॥ ७.२,११.१५॥
सदा संचारितैः चारैः लोक-वृत्तांत-वेदनम् ॥ सदा अस्त्र-धारणम् च एव भस्म-कंचुक-धारणम् ॥ ७।२,११।१५॥
sadā saṃcāritaiḥ cāraiḥ loka-vṛttāṃta-vedanam .. sadā astra-dhāraṇam ca eva bhasma-kaṃcuka-dhāraṇam .. 7.2,11.15..
राज्ञां ममाश्रमस्थानामेष धर्मस्य संग्रहः ॥ गोरक्षणं च वाणिज्यं कृषिर्वैश्यस्य कथ्यते ॥ ७.२,११.१६॥
राज्ञाम् मम आश्रम-स्थानाम् एष धर्मस्य संग्रहः ॥ गोरक्षणम् च वाणिज्यम् कृषिः वैश्यस्य कथ्यते ॥ ७।२,११।१६॥
rājñām mama āśrama-sthānām eṣa dharmasya saṃgrahaḥ .. gorakṣaṇam ca vāṇijyam kṛṣiḥ vaiśyasya kathyate .. 7.2,11.16..
शुश्रूषेतरवर्णानां धर्मः शूद्रस्य कथ्यते ॥ उद्यानकरणं चैव मम क्षेत्रसमाश्रयः ॥ ७.२,११.१७॥
शुश्रूषा इतर-वर्णानाम् धर्मः शूद्रस्य कथ्यते ॥ उद्यान-करणम् च एव मम क्षेत्र-समाश्रयः ॥ ७।२,११।१७॥
śuśrūṣā itara-varṇānām dharmaḥ śūdrasya kathyate .. udyāna-karaṇam ca eva mama kṣetra-samāśrayaḥ .. 7.2,11.17..
धर्मपत्न्यास्तु गमनं गृहस्थस्य विधीयते ॥ ब्रह्मचर्यं वनस्थानां यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.१८॥
धर्मपत्न्याः तु गमनम् गृहस्थस्य विधीयते ॥ ब्रह्मचर्यम् वनस्थानाम् यतीनाम् ब्रह्मचारिणाम् ॥ ७।२,११।१८॥
dharmapatnyāḥ tu gamanam gṛhasthasya vidhīyate .. brahmacaryam vanasthānām yatīnām brahmacāriṇām .. 7.2,11.18..
स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्यस्सनातनः ॥ ममार्चनं च कल्याणि नियोगो भर्तुरस्ति चेत् ॥ ७.२,११.१९॥
स्त्रीणाम् तु भर्तृ-शुश्रूषा धर्मः न अन्यः सनातनः ॥ मम अर्चनम् च कल्याणि नियोगः भर्तुः अस्ति चेद् ॥ ७।२,११।१९॥
strīṇām tu bhartṛ-śuśrūṣā dharmaḥ na anyaḥ sanātanaḥ .. mama arcanam ca kalyāṇi niyogaḥ bhartuḥ asti ced .. 7.2,11.19..
या नारी भर्तृशुश्रूषां विहाय व्रततत्परा ॥ सा नारी नरकं याति नात्र कार्या विचारणा ॥ ७.२,११.२०॥
या नारी भर्तृ-शुश्रूषाम् विहाय व्रत-तत्परा ॥ सा नारी नरकम् याति न अत्र कार्या विचारणा ॥ ७।२,११।२०॥
yā nārī bhartṛ-śuśrūṣām vihāya vrata-tatparā .. sā nārī narakam yāti na atra kāryā vicāraṇā .. 7.2,11.20..
अथ भर्तृविहीनाया वक्ष्ये धर्मं सनातनम् ॥ व्रतं दानं तपः शौचं भूशय्यानक्तभोजनम् ॥ ७.२,११.२१॥
अथ भर्तृ-विहीनायाः वक्ष्ये धर्मम् सनातनम् ॥ व्रतम् दानम् तपः शौचम् भू-शय्या-नक्तभोजनम् ॥ ७।२,११।२१॥
atha bhartṛ-vihīnāyāḥ vakṣye dharmam sanātanam .. vratam dānam tapaḥ śaucam bhū-śayyā-naktabhojanam .. 7.2,11.21..
ब्रह्मचर्यं सदा स्नानं भस्मना सलिलेन वा ॥ शांतिर्मौनं क्षमा नित्यं संविभागो यथाविधि ॥ ७.२,११.२२॥
ब्रह्मचर्यम् सदा स्नानम् भस्मना सलिलेन वा ॥ शांतिः मौनम् क्षमा नित्यम् संविभागः यथाविधि ॥ ७।२,११।२२॥
brahmacaryam sadā snānam bhasmanā salilena vā .. śāṃtiḥ maunam kṣamā nityam saṃvibhāgaḥ yathāvidhi .. 7.2,11.22..
अष्टाभ्यां च चतुर्दश्यां पौर्णमास्यां विशेषतः ॥ एकादश्यां च विधिवदुपवासोममार्चनम् ॥ ७.२,११.२३॥
अष्टाभ्याम् च चतुर्दश्याम् पौर्णमास्याम् विशेषतः ॥ एकादश्याम् च विधिवत् उपवासः उमम-अर्चनम् ॥ ७।२,११।२३॥
aṣṭābhyām ca caturdaśyām paurṇamāsyām viśeṣataḥ .. ekādaśyām ca vidhivat upavāsaḥ umama-arcanam .. 7.2,11.23..
इति संक्षेपतः प्रोक्तो मयाश्रमनिषेविणाम् ॥ ब्रह्मक्षत्रविशां देवि यतीनां ब्रह्मचारिणाम् ॥ ७.२,११.२४॥
इति संक्षेपतः प्रोक्तः मया आश्रम-निषेविणाम् ॥ ब्रह्म-क्षत्र-विशाम् देवि यतीनाम् ब्रह्मचारिणाम् ॥ ७।२,११।२४॥
iti saṃkṣepataḥ proktaḥ mayā āśrama-niṣeviṇām .. brahma-kṣatra-viśām devi yatīnām brahmacāriṇām .. 7.2,11.24..
तथैव वानप्रस्थानां गृहस्थानां च सुन्दरि ॥ शूद्राणामथ नारीणां धर्म एष सनातनः ॥ ७.२,११.२५॥
तथा एव वानप्रस्थानाम् गृहस्थानाम् च सुन्दरि ॥ शूद्राणाम् अथ नारीणाम् धर्मः एष सनातनः ॥ ७।२,११।२५॥
tathā eva vānaprasthānām gṛhasthānām ca sundari .. śūdrāṇām atha nārīṇām dharmaḥ eṣa sanātanaḥ .. 7.2,11.25..
ध्येयस्त्वयाहं देवेशि सदा जाप्यः षडक्षरः ॥ वेदोक्तमखिलं धर्ममिति धर्मार्थसंग्रहः ॥ ७.२,११.२६॥
ध्येयः त्वया अहम् देवेशि सदा जाप्यः षष्-अक्षरः ॥ वेद-उक्तम् अखिलम् धर्मम् इति धर्म-अर्थ-संग्रहः ॥ ७।२,११।२६॥
dhyeyaḥ tvayā aham deveśi sadā jāpyaḥ ṣaṣ-akṣaraḥ .. veda-uktam akhilam dharmam iti dharma-artha-saṃgrahaḥ .. 7.2,11.26..
अथ ये मानवा लोके स्वेच्छया धृतविग्रहाः ॥ भावातिशयसंपन्नाः पूर्वसंस्कारसंयुताः ॥ ७.२,११.२७॥
अथ ये मानवाः लोके स्व-इच्छया धृत-विग्रहाः ॥ भाव-अतिशय-संपन्नाः पूर्व-संस्कार-संयुताः ॥ ७।२,११।२७॥
atha ye mānavāḥ loke sva-icchayā dhṛta-vigrahāḥ .. bhāva-atiśaya-saṃpannāḥ pūrva-saṃskāra-saṃyutāḥ .. 7.2,11.27..
विरक्ता वानुरक्ता वा स्त्र्यादीनां विषयेष्वपि ॥ पापैर्न ते विलिंपंते पद्मपत्रमिवांभसा ॥ ७.२,११.२८॥
विरक्ता वा अनुरक्ता वा स्त्री-आदीनाम् विषयेषु अपि ॥ पापैः न ते विलिंपंते पद्म-पत्रम् इव अंभसा ॥ ७।२,११।२८॥
viraktā vā anuraktā vā strī-ādīnām viṣayeṣu api .. pāpaiḥ na te viliṃpaṃte padma-patram iva aṃbhasā .. 7.2,11.28..
तेषां ममात्मविज्ञानं विशुद्धानां विवेकिनाम् ॥ मत्प्रसादाद्विशुद्धानां दुःखमाश्रमरक्षणात् ॥ ७.२,११.२९॥
तेषाम् मम आत्म-विज्ञानम् विशुद्धानाम् विवेकिनाम् ॥ मद्-प्रसादात् विशुद्धानाम् दुःखम् आश्रम-रक्षणात् ॥ ७।२,११।२९॥
teṣām mama ātma-vijñānam viśuddhānām vivekinām .. mad-prasādāt viśuddhānām duḥkham āśrama-rakṣaṇāt .. 7.2,11.29..
नास्ति कृत्यमकृत्यं च समाधिर्वा परायणम् ॥ न विधिर्न निषेधश्च तेषां मम यथा तथा ॥ ७.२,११.३०॥
न अस्ति कृत्यम् अकृत्यम् च समाधिः वा परायणम् ॥ न विधिः न निषेधः च तेषाम् मम यथा तथा ॥ ७।२,११।३०॥
na asti kṛtyam akṛtyam ca samādhiḥ vā parāyaṇam .. na vidhiḥ na niṣedhaḥ ca teṣām mama yathā tathā .. 7.2,11.30..
तथेह परिपूर्णस्य साध्यं मम न विद्यते ॥ तथैव कृतकृत्यानां तेषामपि न संशयः ॥ ७.२,११.३१॥
तथा इह परिपूर्णस्य साध्यम् मम न विद्यते ॥ तथा एव कृतकृत्यानाम् तेषाम् अपि न संशयः ॥ ७।२,११।३१॥
tathā iha paripūrṇasya sādhyam mama na vidyate .. tathā eva kṛtakṛtyānām teṣām api na saṃśayaḥ .. 7.2,11.31..
मद्भक्तानां हितार्थाय मानुषं भावमाश्रिताः ॥ रुद्रलोकात्परिभ्रष्टास्ते रुद्रा नात्र संशयः ॥ ७.२,११.३२॥
मद्-भक्तानाम् हित-अर्थाय मानुषम् भावम् आश्रिताः ॥ रुद्र-लोकात् परिभ्रष्टाः ते रुद्राः न अत्र संशयः ॥ ७।२,११।३२॥
mad-bhaktānām hita-arthāya mānuṣam bhāvam āśritāḥ .. rudra-lokāt paribhraṣṭāḥ te rudrāḥ na atra saṃśayaḥ .. 7.2,11.32..
ममानुशासनं यद्वद्ब्रह्मादीनां प्रवर्तकम् ॥ तथा नराणामन्येषां तन्नियोगः प्रवर्तकः ॥ ७.२,११.३३॥
मम अनुशासनम् यद्वत् ब्रह्म-आदीनाम् प्रवर्तकम् ॥ तथा नराणाम् अन्येषाम् तद्-नियोगः प्रवर्तकः ॥ ७।२,११।३३॥
mama anuśāsanam yadvat brahma-ādīnām pravartakam .. tathā narāṇām anyeṣām tad-niyogaḥ pravartakaḥ .. 7.2,11.33..
ममाज्ञाधारभावेन सद्भावातिशयेन च ॥ तदालोकनमात्रेण सर्वपापक्षयो भवेत् ॥ ७.२,११.३४॥
मम आज्ञा-धार-भावेन सद्भाव-अतिशयेन च ॥ तद्-आलोकन-मात्रेण सर्व-पाप-क्षयः भवेत् ॥ ७।२,११।३४॥
mama ājñā-dhāra-bhāvena sadbhāva-atiśayena ca .. tad-ālokana-mātreṇa sarva-pāpa-kṣayaḥ bhavet .. 7.2,11.34..
प्रत्ययाश्च प्रवर्तंते प्रशस्तफलसूचकाः ॥ मयि भाववतां पुंसां प्रागदृष्टार्थगोचराः ॥ ७.२,११.३५॥
प्रत्ययाः च प्रवर्तन्ते प्रशस्त-फल-सूचकाः ॥ मयि भाववताम् पुंसाम् प्राक् अदृष्ट-अर्थ-गोचराः ॥ ७।२,११।३५॥
pratyayāḥ ca pravartante praśasta-phala-sūcakāḥ .. mayi bhāvavatām puṃsām prāk adṛṣṭa-artha-gocarāḥ .. 7.2,11.35..
कंपस्वेदो ऽश्रुपातश्च कण्ठे च स्वरविक्रिया ॥ आनंदाद्युपलब्धिश्च भवेदाकस्मिकी मुहुः ॥ ७.२,११.३६॥
कंप-स्वेदः अश्रु-पातः च कण्ठे च स्वर-विक्रिया ॥ आनंद-आदि-उपलब्धिः च भवेत् आकस्मिकी मुहुर् ॥ ७।२,११।३६॥
kaṃpa-svedaḥ aśru-pātaḥ ca kaṇṭhe ca svara-vikriyā .. ānaṃda-ādi-upalabdhiḥ ca bhavet ākasmikī muhur .. 7.2,11.36..
स तैर्व्यस्तैस्समस्तैर्वा लिंगैरव्यभिचारिभिः ॥ मंदमध्योत्तमैर्भावैर्विज्ञेयास्ते नरोत्तमाः ॥ ७.२,११.३७॥
स तैः व्यस्तैः समस्तैः वा लिंगैः अव्यभिचारिभिः ॥ मंद-मध्य-उत्तमैः भावैः विज्ञेयाः ते नर-उत्तमाः ॥ ७।२,११।३७॥
sa taiḥ vyastaiḥ samastaiḥ vā liṃgaiḥ avyabhicāribhiḥ .. maṃda-madhya-uttamaiḥ bhāvaiḥ vijñeyāḥ te nara-uttamāḥ .. 7.2,11.37..
यथायोग्निसमावेशान्नायो भवति केवलम् ॥ स तथैव मम सान्निध्यान्न ते केवलमानुषाः ॥ ७.२,११.३८॥
यथा आय-उग्नि-समावेशात् न आयः भवति केवलम् ॥ स तथा एव मम सान्निध्यात् न ते केवल-मानुषाः ॥ ७।२,११।३८॥
yathā āya-ugni-samāveśāt na āyaḥ bhavati kevalam .. sa tathā eva mama sānnidhyāt na te kevala-mānuṣāḥ .. 7.2,11.38..
हस्तपादादिसाधर्म्याद्रुद्रान्मर्त्यवपुर्धरान् ॥ प्राकृतानिव मन्वानो नावजानीत पंडितः ॥ ७.२,११.३९॥
हस्त-पाद-आदि-साधर्म्यात् रुद्रान् मर्त्य-वपुः-धरान् ॥ प्राकृतान् इव मन्वानः न अवजानीत पंडितः ॥ ७।२,११।३९॥
hasta-pāda-ādi-sādharmyāt rudrān martya-vapuḥ-dharān .. prākṛtān iva manvānaḥ na avajānīta paṃḍitaḥ .. 7.2,11.39..
अवज्ञानं कृतं तेषु नरैर्व्यामूढचेतनैः ॥ आयुः श्रियं कुलं शीलं हित्वा निरयमावहेत् ॥ ७.२,११.४०॥
अवज्ञानम् कृतम् तेषु नरैः व्यामूढ-चेतनैः ॥ आयुः श्रियम् कुलम् शीलम् हित्वा निरयम् आवहेत् ॥ ७।२,११।४०॥
avajñānam kṛtam teṣu naraiḥ vyāmūḍha-cetanaiḥ .. āyuḥ śriyam kulam śīlam hitvā nirayam āvahet .. 7.2,11.40..
ब्रह्मविष्णुसुरेशानामपि तूलायते पदम् ॥ मत्तोन्यदनपेक्षाणामुद्धृतानां महात्मनाम् ॥ ७.२,११.४१॥
ब्रह्म-विष्णु-सुरेशानाम् अपि तूलायते पदम् ॥ मत्तः अन्यत्-अनपेक्षाणाम् उद्धृतानाम् महात्मनाम् ॥ ७।२,११।४१॥
brahma-viṣṇu-sureśānām api tūlāyate padam .. mattaḥ anyat-anapekṣāṇām uddhṛtānām mahātmanām .. 7.2,11.41..
अशुद्धं बौद्धमैश्वर्यं प्राकृतं पौरुषं तथा ॥ गुणेशानामतस्त्याज्यं गुणातीतपदैषिणाम् ॥ ७.२,११.४२॥
अशुद्धम् बौद्धम् ऐश्वर्यम् प्राकृतम् पौरुषम् तथा ॥ गुण-ईशानाम् अतस् त्याज्यम् गुण-अतीत-पद-एषिणाम् ॥ ७।२,११।४२॥
aśuddham bauddham aiśvaryam prākṛtam pauruṣam tathā .. guṇa-īśānām atas tyājyam guṇa-atīta-pada-eṣiṇām .. 7.2,11.42..
अथ किं बहुनोक्तेन श्रेयः प्राप्त्यैकसाधनम् ॥ मयि चित्तसमासंगो येन केनापि हेतुना ॥ ७.२,११.४३॥
अथ किम् बहुना उक्तेन श्रेयः प्राप्त्या एक-साधनम् ॥ मयि चित्त-समासंगः येन केन अपि हेतुना ॥ ७।२,११।४३॥
atha kim bahunā uktena śreyaḥ prāptyā eka-sādhanam .. mayi citta-samāsaṃgaḥ yena kena api hetunā .. 7.2,11.43..
उपमन्युरुवाच॥
इत्थं श्रीकण्ठनाथेन शिवेन परमात्मना ॥ हिताय जगतामुक्तो ज्ञानसारार्थसंग्रहः ॥ ७.२,११.४४॥
इत्थम् श्रीकण्ठ-नाथेन शिवेन परमात्मना ॥ हिताय जगताम् उक्तः ज्ञान-सार-अर्थ-संग्रहः ॥ ७।२,११।४४॥
ittham śrīkaṇṭha-nāthena śivena paramātmanā .. hitāya jagatām uktaḥ jñāna-sāra-artha-saṃgrahaḥ .. 7.2,11.44..
विज्ञानसंग्रहस्यास्य वेदशास्त्राणि कृत्स्नशः ॥ सेतिहासपुराणानि विद्या व्याख्यानविस्तरः ॥ ७.२,११.४५॥
विज्ञान-संग्रहस्य अस्य वेद-शास्त्राणि कृत्स्नशस् ॥ स इतिहास-पुराणानि विद्या व्याख्यान-विस्तरः ॥ ७।२,११।४५॥
vijñāna-saṃgrahasya asya veda-śāstrāṇi kṛtsnaśas .. sa itihāsa-purāṇāni vidyā vyākhyāna-vistaraḥ .. 7.2,11.45..
ज्ञानं ज्ञेयमनुष्ठेयमधिकारो ऽथ साधनम् ॥ साध्यं चेति षडर्थानां संग्रहत्वेष संग्रहः ॥ ७.२,११.४६॥
ज्ञानम् ज्ञेयम् अनुष्ठेयम् अधिकारः अथ साधनम् ॥ साध्यम् च इति षष्-अर्थानाम् संग्रह-त्वा एष संग्रहः ॥ ७।२,११।४६॥
jñānam jñeyam anuṣṭheyam adhikāraḥ atha sādhanam .. sādhyam ca iti ṣaṣ-arthānām saṃgraha-tvā eṣa saṃgrahaḥ .. 7.2,11.46..
गुरोरधिकृतं ज्ञानं ज्ञेयं पाशः पशुः पतिः ॥ लिंगार्चनाद्यनुष्ठेयं भक्तस्त्वधिकृतो ऽपि यः ॥ ७.२,११.४७॥
गुरोः अधिकृतम् ज्ञानम् ज्ञेयम् पाशः पशुः पतिः ॥ लिंग-अर्चन-आदि अनुष्ठेयम् भक्तः तु अधिकृतः अपि यः ॥ ७।२,११।४७॥
guroḥ adhikṛtam jñānam jñeyam pāśaḥ paśuḥ patiḥ .. liṃga-arcana-ādi anuṣṭheyam bhaktaḥ tu adhikṛtaḥ api yaḥ .. 7.2,11.47..
साधनं शिवमंत्राद्यं साध्यं शिवसमानता ॥ षडर्थसंग्रहस्यास्य ज्ञानात्सर्वज्ञतोच्यते ॥ ७.२,११.४८॥
साधनम् शिव-मंत्र-आद्यम् साध्यम् शिव-समान-ता ॥ षष्-अर्थ-संग्रहस्य अस्य ज्ञानात् सर्वज्ञ-ता उच्यते ॥ ७।२,११।४८॥
sādhanam śiva-maṃtra-ādyam sādhyam śiva-samāna-tā .. ṣaṣ-artha-saṃgrahasya asya jñānāt sarvajña-tā ucyate .. 7.2,11.48..
प्रथमं कर्म यज्ञादेर्भक्त्या वित्तानुसारतः ॥ बाह्येभ्यर्च्य शिवं पश्चादंतर्यागरतो भवेत् ॥ ७.२,११.४९॥
प्रथमम् कर्म यज्ञ-आदेः भक्त्या वित्त-अनुसारतः ॥ बाह्येभ्यर्च्य अर्च्य शिवम् पश्चात् अन्तर्याग-रतः भवेत् ॥ ७।२,११।४९॥
prathamam karma yajña-ādeḥ bhaktyā vitta-anusārataḥ .. bāhyebhyarcya arcya śivam paścāt antaryāga-rataḥ bhavet .. 7.2,11.49..
रतिरभ्यंतरे यस्य न बाह्ये पुण्यगौरवात् ॥ न कर्म करणीयं हि बहिस्तस्य महात्मनाः ॥ ७.२,११.५०॥
रतिः अभ्यंतरे यस्य न बाह्ये पुण्य-गौरवात् ॥ न कर्म करणीयम् हि बहिस् तस्य महात्मनाः ॥ ७।२,११।५०॥
ratiḥ abhyaṃtare yasya na bāhye puṇya-gauravāt .. na karma karaṇīyam hi bahis tasya mahātmanāḥ .. 7.2,11.50..
ज्ञानामृतेन तृप्तस्य भक्त्या शैवशिवात्मनः ॥ नांतर्न च बहिः कृष्ण कृत्यमस्ति कदाचन ॥ ७.२,११.५१॥
ज्ञान-अमृतेन तृप्तस्य भक्त्या शैव-शिव-आत्मनः ॥ न अंतर् न च बहिस् कृष्ण कृत्यम् अस्ति कदाचन ॥ ७।२,११।५१॥
jñāna-amṛtena tṛptasya bhaktyā śaiva-śiva-ātmanaḥ .. na aṃtar na ca bahis kṛṣṇa kṛtyam asti kadācana .. 7.2,11.51..
तस्मात्क्रमेण संत्यज्य बाह्यमाभ्यंतरं तथा ॥ ज्ञानेन ज्ञेयमालोक्याज्ञानं चापि परित्यजेत् ॥ ७.२,११.५२॥
तस्मात् क्रमेण संत्यज्य बाह्यम् आभ्यंतरम् तथा ॥ ज्ञानेन ज्ञेयम् आलोक्य अज्ञानम् च अपि परित्यजेत् ॥ ७।२,११।५२॥
tasmāt krameṇa saṃtyajya bāhyam ābhyaṃtaram tathā .. jñānena jñeyam ālokya ajñānam ca api parityajet .. 7.2,11.52..
नैकाग्रं चेच्छिवे चित्तं किं कृतेनापि कर्मणा ॥ एकाग्रमेव चेच्चित्तं किं कृतेनापि कर्मणा ॥ ७.२,११.५३॥
न एकाग्रम् चेद् शिवे चित्तम् किम् कृतेन अपि कर्मणा ॥ एकाग्रम् एव चेद् चित्तम् किम् कृतेन अपि कर्मणा ॥ ७।२,११।५३॥
na ekāgram ced śive cittam kim kṛtena api karmaṇā .. ekāgram eva ced cittam kim kṛtena api karmaṇā .. 7.2,11.53..
तस्मात्कर्माण्यकृत्वा वा कृत्वा वांतर्बहिःक्रमात् ॥ येन केनाप्युपायेन शिवे चित्तं निवेशयेत् ॥ ७.२,११.५४॥
तस्मात् कर्माणि अ कृत्वा वा कृत्वा वा अन्तर् बहिस् क्रमात् ॥ येन केन अपि उपायेन शिवे चित्तम् निवेशयेत् ॥ ७।२,११।५४॥
tasmāt karmāṇi a kṛtvā vā kṛtvā vā antar bahis kramāt .. yena kena api upāyena śive cittam niveśayet .. 7.2,11.54..
शिवे निविष्टचित्तानां प्रतिष्ठितधियां सताम् ॥ परत्रेह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ७.२,११.५५॥
शिवे निविष्ट-चित्तानाम् प्रतिष्ठित-धियाम् सताम् ॥ परत्र इह च सर्वत्र निर्वृतिः परमा भवेत् ॥ ७।२,११।५५॥
śive niviṣṭa-cittānām pratiṣṭhita-dhiyām satām .. paratra iha ca sarvatra nirvṛtiḥ paramā bhavet .. 7.2,11.55..
इहोन्नमः शिवायेति मंत्रेणानेन सिद्धयः ॥ स तस्मादधिगंतव्यः परावरविभूतये ॥ ७.२,११.५६॥
इह उन्नमः शिवाय इति मंत्रेण अनेन सिद्धयः ॥ स तस्मात् अधिगंतव्यः परावर-विभूतये ॥ ७।२,११।५६॥
iha unnamaḥ śivāya iti maṃtreṇa anena siddhayaḥ .. sa tasmāt adhigaṃtavyaḥ parāvara-vibhūtaye .. 7.2,11.56..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिवज्ञानवर्णनं नामैकादशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खंडे शिवज्ञानवर्णनम् नाम एकादशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṃḍe śivajñānavarṇanam nāma ekādaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In