| |
|

This overlay will guide you through the buttons:

देव्युवाच॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ ७.२,१३.१॥
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ॥ अपुण्य-तमसा आच्छन्ने लोके धर्म-पराङ्मुखे ॥ ७।२,१३।१॥
kalau kaluṣite kāle durjaye duratikrame .. apuṇya-tamasā ācchanne loke dharma-parāṅmukhe .. 7.2,13.1..
क्षीणे वर्णाश्रमाचारे संकटे समुपस्थिते ॥ सर्वाधिकारे संदिग्धे निश्चिते वापि पर्यये ॥ ७.२,१३.२॥
क्षीणे वर्ण-आश्रम-आचारे संकटे समुपस्थिते ॥ सर्व-अधिकारे संदिग्धे निश्चिते वा अपि पर्यये ॥ ७।२,१३।२॥
kṣīṇe varṇa-āśrama-ācāre saṃkaṭe samupasthite .. sarva-adhikāre saṃdigdhe niścite vā api paryaye .. 7.2,13.2..
तदोपदेशे विहते गुरुशिष्यक्रमे गते ॥ केनोपायेन मुच्यंते भक्तास्तव महेश्वर ॥ ७.२,१३.३॥
तदा उपदेशे विहते गुरु-शिष्य-क्रमे गते ॥ केन उपायेन मुच्यंते भक्ताः तव महेश्वर ॥ ७।२,१३।३॥
tadā upadeśe vihate guru-śiṣya-krame gate .. kena upāyena mucyaṃte bhaktāḥ tava maheśvara .. 7.2,13.3..
ईश्वर उवाच॥
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ भक्त्या च भावितात्मानो मुच्यंते कलिजा नराः ॥ ७.२,१३.४॥
आश्रित्य परमाम् विद्याम् हृद्याम् पञ्चाक्षरीम् मम ॥ भक्त्या च भावितात्मानः मुच्यंते कलि-जाः नराः ॥ ७।२,१३।४॥
āśritya paramām vidyām hṛdyām pañcākṣarīm mama .. bhaktyā ca bhāvitātmānaḥ mucyaṃte kali-jāḥ narāḥ .. 7.2,13.4..
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ दूषितानां कृतघ्नानां निंदकानां छलात्मनाम् ॥ ७.२,१३.५॥
मनः-वाच्-काय-जैः दोषैः वक्तुम् स्मर्तुम् अगोचरैः ॥ दूषितानाम् कृतघ्नानाम् निंदकानाम् छल-आत्मनाम् ॥ ७।२,१३।५॥
manaḥ-vāc-kāya-jaiḥ doṣaiḥ vaktum smartum agocaraiḥ .. dūṣitānām kṛtaghnānām niṃdakānām chala-ātmanām .. 7.2,13.5..
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ७.२,१३.६॥
लुब्धानाम् वक्र-मनसाम् अपि मद्-प्रवण-आत्मनाम् ॥ मम पञ्चाक्षरी विद्या संसार-भय-तारिणी ॥ ७।२,१३।६॥
lubdhānām vakra-manasām api mad-pravaṇa-ātmanām .. mama pañcākṣarī vidyā saṃsāra-bhaya-tāriṇī .. 7.2,13.6..
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ पतितो ऽपि विमुच्येत मद्भक्तो विद्ययानया ॥ ७.२,१३.७॥
मया एवम् असकृत् देवि प्रतिज्ञातम् धरा-तले ॥ पतितः अपि विमुच्येत मद्-भक्तः विद्यया अनया ॥ ७।२,१३।७॥
mayā evam asakṛt devi pratijñātam dharā-tale .. patitaḥ api vimucyeta mad-bhaktaḥ vidyayā anayā .. 7.2,13.7..
देव्युवाच॥
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ॥ कर्मायोगेन यत्कर्म कृतं च नरकाय हि ॥ ततः कथं विमुच्येत पतितो विद्यया ऽनया ॥ ७.२,१३.८॥
कर्म-अयोग्यः भवेत् मर्त्यः पतितः यदि सर्वथा ॥ कर्म-अयोगेन यत् कर्म कृतम् च नरकाय हि ॥ ततस् कथम् विमुच्येत पतितः विद्यया अनया ॥ ७।२,१३।८॥
karma-ayogyaḥ bhavet martyaḥ patitaḥ yadi sarvathā .. karma-ayogena yat karma kṛtam ca narakāya hi .. tatas katham vimucyeta patitaḥ vidyayā anayā .. 7.2,13.8..
ईश्वर उवाच॥
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ॥ रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ७.२,१३.९॥
तथ्यम् एतत् त्वया प्रोक्तम् तथा हि शृणु सुन्दरि ॥ रहस्यम् इति मत्वा एतत् गोपितम् यत् मया पुरा ॥ ७।२,१३।९॥
tathyam etat tvayā proktam tathā hi śṛṇu sundari .. rahasyam iti matvā etat gopitam yat mayā purā .. 7.2,13.9..
समंत्रकं मां पतितः पूजयेद्यदि मोहितः ॥ नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ ७.२,१३.१०॥
स मंत्रकम् माम् पतितः पूजयेत् यदि मोहितः ॥ नारकी स्यात् न सन्देहः मम पञ्चाक्षरम् विना ॥ ७।२,१३।१०॥
sa maṃtrakam mām patitaḥ pūjayet yadi mohitaḥ .. nārakī syāt na sandehaḥ mama pañcākṣaram vinā .. 7.2,13.10..
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ७.२,१३.११॥
अब्भक्षाः वायुभक्षाः च ये च अन्ये व्रत-कर्शिताः ॥ तेषाम् एतैः व्रतैः न अस्ति मम लोक-समागमः ॥ ७।२,१३।११॥
abbhakṣāḥ vāyubhakṣāḥ ca ye ca anye vrata-karśitāḥ .. teṣām etaiḥ vrataiḥ na asti mama loka-samāgamaḥ .. 7.2,13.11..
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ॥ सो ऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ ७.२,१३.१२॥
भक्त्या पञ्चाक्षरेण एव यः हि माम् सकृत् अर्चयेत् ॥ सः अपि गच्छेत् मम स्थानम् मन्त्रस्य अस्य एव गौरवात् ॥ ७।२,१३।१२॥
bhaktyā pañcākṣareṇa eva yaḥ hi mām sakṛt arcayet .. saḥ api gacchet mama sthānam mantrasya asya eva gauravāt .. 7.2,13.12..
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ॥ पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ ७.२,१३.१३॥
तस्मात् तपांसि यज्ञाः च व्रतानि नियमाः तथा ॥ पञ्चाक्षर-अर्चनस्य एते कोटि-अंशेन अपि नो समः ॥ ७।२,१३।१३॥
tasmāt tapāṃsi yajñāḥ ca vratāni niyamāḥ tathā .. pañcākṣara-arcanasya ete koṭi-aṃśena api no samaḥ .. 7.2,13.13..
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ॥ पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ ७.२,१३.१४॥
बद्धः वा अपि अथ मुक्तः वा पाशात् पञ्चाक्षरेण यः ॥ पूजयेत् माम् स मुच्येत न अत्र कार्या विचारणा ॥ ७।२,१३।१४॥
baddhaḥ vā api atha muktaḥ vā pāśāt pañcākṣareṇa yaḥ .. pūjayet mām sa mucyeta na atra kāryā vicāraṇā .. 7.2,13.14..
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ॥ पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ ७.२,१३.१५॥
अरुद्रः वा स रुद्रः वा सकृत् पञ्च-अक्षरेण यः ॥ पूजयेत् पतितः वा अपि मूढः वा मुच्यते नरः ॥ ७।२,१३।१५॥
arudraḥ vā sa rudraḥ vā sakṛt pañca-akṣareṇa yaḥ .. pūjayet patitaḥ vā api mūḍhaḥ vā mucyate naraḥ .. 7.2,13.15..
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ॥ स ब्रह्मांगेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ ७.२,१३.१६॥
षष्-अक्षरेण वा देवि तथा पञ्च-अक्षरेण वा ॥ स ब्रह्म-अंगेन माम् भक्त्या पूजयेत् यदि मुच्यते ॥ ७।२,१३।१६॥
ṣaṣ-akṣareṇa vā devi tathā pañca-akṣareṇa vā .. sa brahma-aṃgena mām bhaktyā pūjayet yadi mucyate .. 7.2,13.16..
पतितो ऽपतितो वापि मन्त्रेणानेन पूजयेत् ॥ मम भक्तो जितक्रोधो सलब्धो ऽलब्ध एव वा ॥ ७.२,१३.१७॥
पतितः अ पतितः वा अपि मन्त्रेण अनेन पूजयेत् ॥ मम भक्तः जित-क्रोधः सलब्धः अलब्धः एव वा ॥ ७।२,१३।१७॥
patitaḥ a patitaḥ vā api mantreṇa anena pūjayet .. mama bhaktaḥ jita-krodhaḥ salabdhaḥ alabdhaḥ eva vā .. 7.2,13.17..
अलब्धालब्ध एवेह कोटिकोटिगुणाधिकः ॥ तस्माल्लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ ७.२,१३.१८॥
अलब्ध-अलब्धः एवा इह कोटि-कोटि-गुण-अधिकः ॥ तस्मात् लब्ध्वा एव माम् देवि मन्त्रेण अनेन पूजयेत् ॥ ७।२,१३।१८॥
alabdha-alabdhaḥ evā iha koṭi-koṭi-guṇa-adhikaḥ .. tasmāt labdhvā eva mām devi mantreṇa anena pūjayet .. 7.2,13.18..
लब्ध्वा संपूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ॥ ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ ७.२,१३.१९॥
लब्ध्वा संपूजयेत् यः तु मैत्री-आदि-गुण-संयुतः ॥ ब्रह्मचर्य-रतः भक्त्या मद्-सादृश्यम् अवाप्नुयात् ॥ ७।२,१३।१९॥
labdhvā saṃpūjayet yaḥ tu maitrī-ādi-guṇa-saṃyutaḥ .. brahmacarya-rataḥ bhaktyā mad-sādṛśyam avāpnuyāt .. 7.2,13.19..
किमत्र बहुनोक्तेन भक्तास्सर्वेधिकारिणः ॥ मम पञ्चाक्षरे मंत्रे तस्माच्छ्रेष्ठतरो हि सः ॥ ७.२,१३.२०॥
किम् अत्र बहुना उक्तेन भक्ताः सर्व-अधिकारिणः ॥ मम पञ्च-अक्षरे मंत्रे तस्मात् श्रेष्ठतरः हि सः ॥ ७।२,१३।२०॥
kim atra bahunā uktena bhaktāḥ sarva-adhikāriṇaḥ .. mama pañca-akṣare maṃtre tasmāt śreṣṭhataraḥ hi saḥ .. 7.2,13.20..
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ॥ तिष्ठंति शाश्वता धर्मा देवास्सर्वमिदं जगत् ॥ ७.२,१३.२१॥
पञ्चाक्षर-प्रभावेण लोक-वेद-महा-ऋषयः ॥ तिष्ठन्ति शाश्वताः धर्माः देवाः सर्वम् इदम् जगत् ॥ ७।२,१३।२१॥
pañcākṣara-prabhāveṇa loka-veda-mahā-ṛṣayaḥ .. tiṣṭhanti śāśvatāḥ dharmāḥ devāḥ sarvam idam jagat .. 7.2,13.21..
प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ॥ सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ ७.२,१३.२२॥
प्रलये समनुप्राप्ते नष्टे स्थावर-जंगमे ॥ सर्वम् प्रकृतिम् आपन्नम् तत्र संलयम् एष्यति ॥ ७।२,१३।२२॥
pralaye samanuprāpte naṣṭe sthāvara-jaṃgame .. sarvam prakṛtim āpannam tatra saṃlayam eṣyati .. 7.2,13.22..
एको ऽहं संस्थितो देवि न द्वितीयो ऽस्ति कुत्रचित् ॥ तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७.२,१३.२३॥
एकः अहम् संस्थितः देवि न द्वितीयः अस्ति कुत्रचिद् ॥ तदा वेदाः च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ ७।२,१३।२३॥
ekaḥ aham saṃsthitaḥ devi na dvitīyaḥ asti kutracid .. tadā vedāḥ ca śāstrāṇi sarve pañcākṣare sthitāḥ .. 7.2,13.23..
ते नाशं नैव संप्राप्ता मच्छक्त्या ह्यनुपालिताः ॥ ततस्सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ ७.२,१३.२४॥
ते नाशम् ना एव संप्राप्ताः मद्-शक्त्या हि अनुपालिताः ॥ ततस् सृष्टिः अभूत् मत्तः प्रकृति-आत्म-प्रभेदतः ॥ ७।२,१३।२४॥
te nāśam nā eva saṃprāptāḥ mad-śaktyā hi anupālitāḥ .. tatas sṛṣṭiḥ abhūt mattaḥ prakṛti-ātma-prabhedataḥ .. 7.2,13.24..
गुणमूर्त्यात्मनां चैव ततोवांतरसंहृतिः ॥ तदा नारायणश्शेते देवो मायामयीं तनुम् ॥ ७.२,१३.२५॥
गुण-मूर्ति-आत्मनाम् च एव ॥ तदा नारायणः शेते देवः माया-मयीम् तनुम् ॥ ७।२,१३।२५॥
guṇa-mūrti-ātmanām ca eva .. tadā nārāyaṇaḥ śete devaḥ māyā-mayīm tanum .. 7.2,13.25..
आस्थाय भोगिपर्यंकशयने तोयमध्यगः ॥ तन्नाभिपंकजाज्जातः पञ्चवक्त्रः पितामहः ॥ ७.२,१३.२६॥
आस्थाय भोगि-पर्यंक-शयने तोय-मध्य-गः ॥ तद्-नाभि-पंकजात् जातः पञ्चवक्त्रः पितामहः ॥ ७।२,१३।२६॥
āsthāya bhogi-paryaṃka-śayane toya-madhya-gaḥ .. tad-nābhi-paṃkajāt jātaḥ pañcavaktraḥ pitāmahaḥ .. 7.2,13.26..
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ॥ मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ ७.२,१३.२७॥
सिसृक्षमाणः लोकान् त्रीन् न सक्तः हि अ सहायवान् ॥ मुनीन् दश ससर्ज आदौ मानसान् अमित-ओजसः ॥ ७।२,१३।२७॥
sisṛkṣamāṇaḥ lokān trīn na saktaḥ hi a sahāyavān .. munīn daśa sasarja ādau mānasān amita-ojasaḥ .. 7.2,13.27..
तेषां सिद्धिविवृद्ध्यर्थं मां प्रोवाच पितामहः ॥ मत्पुत्राणां महादेव शक्तिं देहि महेश्वर ॥ ७.२,१३.२८॥
तेषाम् सिद्धि-विवृद्धि-अर्थम् माम् प्रोवाच पितामहः ॥ मद्-पुत्राणाम् महादेव शक्तिम् देहि महेश्वर ॥ ७।२,१३।२८॥
teṣām siddhi-vivṛddhi-artham mām provāca pitāmahaḥ .. mad-putrāṇām mahādeva śaktim dehi maheśvara .. 7.2,13.28..
इत्येवं प्रार्थितस्तेन पञ्चवक्त्रधरो ह्यहम् ॥ पञ्चाक्षराणि क्रमशः प्रोक्तवान्पद्मयोनये ॥ ७.२,१३.२९॥
इति एवम् प्रार्थितः तेन पञ्च-वक्त्र-धरः हि अहम् ॥ पञ्च-अक्षराणि क्रमशस् प्रोक्तवान् पद्मयोनये ॥ ७।२,१३।२९॥
iti evam prārthitaḥ tena pañca-vaktra-dharaḥ hi aham .. pañca-akṣarāṇi kramaśas proktavān padmayonaye .. 7.2,13.29..
स पञ्चवदनैस्तानि गृह्णंल्लोकपितामहः ॥ वाच्यवाचकभावेन ज्ञातवान्मां महेश्वरम् ॥ ७.२,१३.३०॥
स पञ्च-वदनैः तानि गृह्णन् लोकपितामहः ॥ वाच्य-वाचक-भावेन ज्ञातवान् माम् महेश्वरम् ॥ ७।२,१३।३०॥
sa pañca-vadanaiḥ tāni gṛhṇan lokapitāmahaḥ .. vācya-vācaka-bhāvena jñātavān mām maheśvaram .. 7.2,13.30..
ज्ञात्वा प्रयोगं विविधं सिद्धमंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रं मंत्रार्थं च यथातथम् ॥ ७.२,१३.३१॥
ज्ञात्वा प्रयोगम् विविधम् सिद्ध-मंत्रः प्रजापतिः ॥ पुत्रेभ्यः प्रददौ मंत्रम् मंत्र-अर्थम् च यथातथम् ॥ ७।२,१३।३१॥
jñātvā prayogam vividham siddha-maṃtraḥ prajāpatiḥ .. putrebhyaḥ pradadau maṃtram maṃtra-artham ca yathātatham .. 7.2,13.31..
ते च लब्ध्वा मंत्ररत्नं साक्षाल्लोकपितामहात् ॥ तदाज्ञप्तेन मार्गेण मदाराधनकांक्षिणः ॥ ७.२,१३.३२॥
ते च लब्ध्वा मंत्र-रत्नम् साक्षात् लोकपितामहात् ॥ तद्-आज्ञप्तेन मार्गेण मद्-आराधन-कांक्षिणः ॥ ७।२,१३।३२॥
te ca labdhvā maṃtra-ratnam sākṣāt lokapitāmahāt .. tad-ājñaptena mārgeṇa mad-ārādhana-kāṃkṣiṇaḥ .. 7.2,13.32..
मेरोस्तु शिखरे रम्ये मुंजवान्नाम पर्वतः ॥ मत्प्रियः सततं श्रीमान्मद्भक्तै रक्षितस्सदा ॥ ७.२,१३.३३॥
मेरोः तु शिखरे रम्ये मुंजवान् नाम पर्वतः ॥ मद्-प्रियः सततम् श्रीमान् मद्-भक्तैः रक्षितः सदा ॥ ७।२,१३।३३॥
meroḥ tu śikhare ramye muṃjavān nāma parvataḥ .. mad-priyaḥ satatam śrīmān mad-bhaktaiḥ rakṣitaḥ sadā .. 7.2,13.33..
तस्याभ्याशे तपस्तीव्रं लोकं स्रष्टुं समुत्सुकाः ॥ दिव्यं वर्षसहस्रं तु वायुभक्षास्समाचरन् ॥ ७.२,१३.३४॥
तस्य अभ्याशे तपः तीव्रम् लोकम् स्रष्टुम् समुत्सुकाः ॥ दिव्यम् वर्ष-सहस्रम् तु वायुभक्षाः समाचरन् ॥ ७।२,१३।३४॥
tasya abhyāśe tapaḥ tīvram lokam sraṣṭum samutsukāḥ .. divyam varṣa-sahasram tu vāyubhakṣāḥ samācaran .. 7.2,13.34..
तेषां भक्तिमहं दृष्ट्वा सद्यः प्रत्यक्षतामियाम् ॥ ऋषिं छंदश्च कीलं च बीजशक्तिं च दैवतम् ॥ ७.२,१३.३५॥
तेषाम् भक्तिम् अहम् दृष्ट्वा सद्यस् प्रत्यक्षताम् इयाम् ॥ ऋषिम् छंदः च कीलम् च बीज-शक्तिम् च दैवतम् ॥ ७।२,१३।३५॥
teṣām bhaktim aham dṛṣṭvā sadyas pratyakṣatām iyām .. ṛṣim chaṃdaḥ ca kīlam ca bīja-śaktim ca daivatam .. 7.2,13.35..
न्यासं षडंगं दिग्बंधं विनियोगमशेषतः ॥ प्रोक्तवानहमार्याणां जगत्सृष्टिविवृद्धये ॥ ७.२,१३.३६॥
न्यासम् षडंगम् दिग्बंधम् विनियोगम् अशेषतस् ॥ प्रोक्तवान् अहम् आर्याणाम् जगत्-सृष्टि-विवृद्धये ॥ ७।२,१३।३६॥
nyāsam ṣaḍaṃgam digbaṃdham viniyogam aśeṣatas .. proktavān aham āryāṇām jagat-sṛṣṭi-vivṛddhaye .. 7.2,13.36..
ततस्ते मंत्रमाहात्म्यादृषयस्तपसेधिताः ॥ सृष्टिं वितन्वते सम्यक्सदेवासुरमानुषीम् ॥ ७.२,१३.३७॥
ततस् ते मंत्र-माहात्म्यात् ऋषयः तपसा इधिताः ॥ सृष्टिम् वितन्वते सम्यक् स देव-असुर-मानुषीम् ॥ ७।२,१३।३७॥
tatas te maṃtra-māhātmyāt ṛṣayaḥ tapasā idhitāḥ .. sṛṣṭim vitanvate samyak sa deva-asura-mānuṣīm .. 7.2,13.37..
अस्याः परमविद्यायास्स्वरूपमधुनोच्यते ॥ आदौ नमः प्रयोक्तव्यं शिवाय तु ततः परम् ॥ ७.२,१३.३८॥
अस्याः परम-विद्यायाः स्वरूपम् अधुना उच्यते ॥ आदौ नमः प्रयोक्तव्यम् शिवाय तु ततस् परम् ॥ ७।२,१३।३८॥
asyāḥ parama-vidyāyāḥ svarūpam adhunā ucyate .. ādau namaḥ prayoktavyam śivāya tu tatas param .. 7.2,13.38..
सैषा पञ्चाक्षरी विद्या सर्वश्रुतिशिरोगता ॥ सर्वजातस्य सर्वस्य बीजभूता सनातनी ॥ ७.२,१३.३९॥
सा एषा पञ्चाक्षरी विद्या सर्व-श्रुतिशिरः-गता ॥ सर्व-जातस्य सर्वस्य बीज-भूता सनातनी ॥ ७।२,१३।३९॥
sā eṣā pañcākṣarī vidyā sarva-śrutiśiraḥ-gatā .. sarva-jātasya sarvasya bīja-bhūtā sanātanī .. 7.2,13.39..
प्रथमं मन्मुखोद्गीर्णा सा ममैवास्ति वाचिका ॥ तप्तचामीकरप्रख्या पीनोन्नतपयोधरा ॥ ७.२,१३.४०॥
प्रथमम् मद्-मुख-उद्गीर्णा सा मम एव अस्ति वाचिका ॥ तप्त-चामीकर-प्रख्या पीन-उन्नत-पयोधरा ॥ ७।२,१३।४०॥
prathamam mad-mukha-udgīrṇā sā mama eva asti vācikā .. tapta-cāmīkara-prakhyā pīna-unnata-payodharā .. 7.2,13.40..
चतुर्भुजा त्रिनयना बालेंदुकृतशेखरा ॥ पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥ ७.२,१३.४१॥
चतुर्-भुजा त्रि-नयना बाल-इंदु-कृत-शेखरा ॥ ॥ ७।२,१३।४१॥
catur-bhujā tri-nayanā bāla-iṃdu-kṛta-śekharā .. .. 7.2,13.41..
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता ॥ सितपद्मासनासीना नीलकुंचितमूर्धजा ॥ ७.२,१३.४२॥
सर्व-लक्षण-संपन्ना सर्व-आभरण-भूषिता ॥ सित-पद्मासन-आसीना नील-कुंचित-मूर्धजा ॥ ७।२,१३।४२॥
sarva-lakṣaṇa-saṃpannā sarva-ābharaṇa-bhūṣitā .. sita-padmāsana-āsīnā nīla-kuṃcita-mūrdhajā .. 7.2,13.42..
अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमंडलाः ॥ पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥ ७.२,१३.४३॥
अस्याः पञ्चविधाः वर्णाः प्रस्फुरत्-रश्मि-मंडलाः ॥ पीतः कृष्णः तथा धूम्रः स्वर्ण-आभः रक्तः एव च ॥ ७।२,१३।४३॥
asyāḥ pañcavidhāḥ varṇāḥ prasphurat-raśmi-maṃḍalāḥ .. pītaḥ kṛṣṇaḥ tathā dhūmraḥ svarṇa-ābhaḥ raktaḥ eva ca .. 7.2,13.43..
पृथक्प्रयोज्या यद्येते बिंदुनादविभूषिताः ॥ अर्धचन्द्रनिभो बिंदुर्नादो दीपशिखाकृतिः ॥ ७.२,१३.४४॥
पृथक् प्रयोज्याः यदि एते बिंदु-नाद-विभूषिताः ॥ अर्धचन्द्र-निभः बिंदुः नादः दीप-शिखा-आकृतिः ॥ ७।२,१३।४४॥
pṛthak prayojyāḥ yadi ete biṃdu-nāda-vibhūṣitāḥ .. ardhacandra-nibhaḥ biṃduḥ nādaḥ dīpa-śikhā-ākṛtiḥ .. 7.2,13.44..
बीजं द्वितीयं बीजेषु मंत्रस्यास्य वरानने ॥ दीर्घपूर्वं तुरीयस्य पञ्चमं शक्तिमादिशेत् ॥ ७.२,१३.४५॥
बीजम् द्वितीयम् बीजेषु मंत्रस्य अस्य वरानने ॥ दीर्घ-पूर्वम् तुरीयस्य पञ्चमम् शक्तिम् आदिशेत् ॥ ७।२,१३।४५॥
bījam dvitīyam bījeṣu maṃtrasya asya varānane .. dīrgha-pūrvam turīyasya pañcamam śaktim ādiśet .. 7.2,13.45..
वामदेवो नाम ऋषिः पंक्तिश्छन्द उदाहृतम् ॥ देवता शिव एवाहं मन्त्रस्यास्य वरानने ॥ ७.२,१३.४६॥
वामदेवः नाम ऋषिः पंक्तिः छन्दः उदाहृतम् ॥ देवता शिवः एव अहम् मन्त्रस्य अस्य वरानने ॥ ७।२,१३।४६॥
vāmadevaḥ nāma ṛṣiḥ paṃktiḥ chandaḥ udāhṛtam .. devatā śivaḥ eva aham mantrasya asya varānane .. 7.2,13.46..
गौतमो ऽत्रिर्वरारोहे विश्वामित्रस्तथांगिराः ॥ भरद्वाजश्च वर्णानां क्रमशश्चर्षयः स्मृताः ॥ ७.२,१३.४७॥
गौतमः अत्रिः वरारोहे विश्वामित्रः तथा अंगिराः ॥ भरद्वाजः च वर्णानाम् क्रमशस् च ऋषयः स्मृताः ॥ ७।२,१३।४७॥
gautamaḥ atriḥ varārohe viśvāmitraḥ tathā aṃgirāḥ .. bharadvājaḥ ca varṇānām kramaśas ca ṛṣayaḥ smṛtāḥ .. 7.2,13.47..
गायत्र्यनुष्टुप्त्रिष्टुप्च छंदांसि बृहती विराट् ॥ इन्द्रो रुद्रो हरिर्ब्रह्मा स्कंदस्तेषां च देवताः ॥ ७.२,१३.४८॥
गायत्री अनुष्टुभ् त्रिष्टुभ् च छंदांसि बृहती विराज् ॥ इन्द्रः रुद्रः हरिः ब्रह्मा स्कंदः तेषाम् च देवताः ॥ ७।२,१३।४८॥
gāyatrī anuṣṭubh triṣṭubh ca chaṃdāṃsi bṛhatī virāj .. indraḥ rudraḥ hariḥ brahmā skaṃdaḥ teṣām ca devatāḥ .. 7.2,13.48..
मम पञ्चमुखान्याहुः स्थाने तेषां वरानने ॥ पूर्वादेश्चोर्ध्वपर्यंतं नकारादि यथाक्रमम् ॥ ७.२,१३.४९॥
मम पञ्च-मुखानि आहुः स्थाने तेषाम् वरानने ॥ पूर्व-आदेः च ऊर्ध्व-पर्यंतम् नकार-आदि यथाक्रमम् ॥ ७।२,१३।४९॥
mama pañca-mukhāni āhuḥ sthāne teṣām varānane .. pūrva-ādeḥ ca ūrdhva-paryaṃtam nakāra-ādi yathākramam .. 7.2,13.49..
अदात्तः प्रथमो वर्णश्चतुर्थश्च द्वितीयकः ॥ पञ्चमः स्वरितश्चैव तृतीयो निहतः स्मृतः ॥ ७.२,१३.५०॥
अदात्तः प्रथमः वर्णः चतुर्थः च द्वितीयकः ॥ पञ्चमः स्वरितः च एव तृतीयः निहतः स्मृतः ॥ ७।२,१३।५०॥
adāttaḥ prathamaḥ varṇaḥ caturthaḥ ca dvitīyakaḥ .. pañcamaḥ svaritaḥ ca eva tṛtīyaḥ nihataḥ smṛtaḥ .. 7.2,13.50..
मूलविद्या शिवं शैवं सूत्रं पञ्चाक्षरं तथा ॥ नामान्यस्य विजानीयाच्छैवं मे हृदयं महत् ॥ ७.२,१३.५१॥
मूलविद्या शिवम् शैवम् सूत्रम् पञ्चाक्षरम् तथा ॥ नामानि अस्य विजानीयात् शैवम् मे हृदयम् महत् ॥ ७।२,१३।५१॥
mūlavidyā śivam śaivam sūtram pañcākṣaram tathā .. nāmāni asya vijānīyāt śaivam me hṛdayam mahat .. 7.2,13.51..
नकारश्शिर उच्येत मकारस्तु शिखोच्यते ॥ शिकारः कवचं तद्वद्वकारो नेत्रमुच्यते ॥ ७.२,१३.५२॥
नकारः शिरः उच्येत मकारः तु शिखा उच्यते ॥ शिकारः कवचम् तद्वत् वकारः नेत्रम् उच्यते ॥ ७।२,१३।५२॥
nakāraḥ śiraḥ ucyeta makāraḥ tu śikhā ucyate .. śikāraḥ kavacam tadvat vakāraḥ netram ucyate .. 7.2,13.52..
यकारो ऽस्त्रं नमस्स्वाहा वषठुंवौषडित्यपि ॥ फडित्यपि च वर्णानामन्ते ऽङ्गत्वं यदा तदा ॥ ७.२,१३.५३॥
यकारः अस्त्रम् नमः स्वाहा वष-ठुम् वौषट् इति अपि ॥ फट् इति अपि च वर्णानाम् अन्ते अङ्ग-त्वम् यदा तदा ॥ ७।२,१३।५३॥
yakāraḥ astram namaḥ svāhā vaṣa-ṭhum vauṣaṭ iti api .. phaṭ iti api ca varṇānām ante aṅga-tvam yadā tadā .. 7.2,13.53..
तत्रापि मूलमंत्रो ऽयं किंचिद्भेदसमन्वयात् ॥ तत्रापि पञ्चमो वर्णो द्वादशस्वरभूषितः ॥ ७.२,१३.५४॥
तत्र अपि मूलमंत्रः अयम् किंचिद् भेद-समन्वयात् ॥ तत्र अपि पञ्चमः वर्णः द्वादश-स्वर-भूषितः ॥ ७।२,१३।५४॥
tatra api mūlamaṃtraḥ ayam kiṃcid bheda-samanvayāt .. tatra api pañcamaḥ varṇaḥ dvādaśa-svara-bhūṣitaḥ .. 7.2,13.54..
तास्मादनेन मंत्रेण मनोवाक्कायभेदतः ॥ आवयोरर्चनं कुर्याज्जपहोमादिकं तथा ॥ ७.२,१३.५५॥
ता अस्मात् अनेन मंत्रेण मनः-वाच्-काय-भेदतः ॥ आवयोः अर्चनम् कुर्यात् जप-होम-आदिकम् तथा ॥ ७।२,१३।५५॥
tā asmāt anena maṃtreṇa manaḥ-vāc-kāya-bhedataḥ .. āvayoḥ arcanam kuryāt japa-homa-ādikam tathā .. 7.2,13.55..
यथाप्रज्ञं यथाकालं यथाशास्त्रं यथामति ॥ यथाशक्ति यथासंपद्यथायोगं यथारति ॥ ७.२,१३.५६॥
यथाप्रज्ञम् यथाकालम् यथाशास्त्रम् यथामति ॥ यथाशक्ति यथासंपद् यथायोगम् यथारति ॥ ७।२,१३।५६॥
yathāprajñam yathākālam yathāśāstram yathāmati .. yathāśakti yathāsaṃpad yathāyogam yathārati .. 7.2,13.56..
यदा कदापि वा भक्त्या यत्र कुत्रापि वा कृता ॥ येन केनापि वा देवि पूजा मुक्तिं नयिष्यते ॥ ७.२,१३.५७॥
यदा कदा अपि वा भक्त्या यत्र कुत्र अपि वा कृता ॥ येन केन अपि वा देवि पूजा मुक्तिम् नयिष्यते ॥ ७।२,१३।५७॥
yadā kadā api vā bhaktyā yatra kutra api vā kṛtā .. yena kena api vā devi pūjā muktim nayiṣyate .. 7.2,13.57..
मय्यासक्तेन मनसा यत्कृतं मम सुन्दरि ॥ मत्प्रियं च शिवं चैव क्रमेणाप्यक्रमेण वा ॥ ७.२,१३.५८॥
मयि आसक्तेन मनसा यत् कृतम् मम सुन्दरि ॥ मद्-प्रियम् च शिवम् च एव क्रमेण अपि अक्रमेण वा ॥ ७।२,१३।५८॥
mayi āsaktena manasā yat kṛtam mama sundari .. mad-priyam ca śivam ca eva krameṇa api akrameṇa vā .. 7.2,13.58..
तथापि मम भक्ता ये नात्यंतविवशाः पुनः ॥ तेषां सर्वेषु शास्त्रेषु मयेव नियमः कृतः ॥ ७.२,१३.५९॥
तथा अपि मम भक्ताः ये न अत्यंत-विवशाः पुनर् ॥ तेषाम् सर्वेषु शास्त्रेषु मया इव नियमः कृतः ॥ ७।२,१३।५९॥
tathā api mama bhaktāḥ ye na atyaṃta-vivaśāḥ punar .. teṣām sarveṣu śāstreṣu mayā iva niyamaḥ kṛtaḥ .. 7.2,13.59..
तत्रादौ संप्रवक्ष्यामि मन्त्रसंग्रहणं शुभम् ॥ यं विना निष्फलं जाप्यं येन वा सफलं भवेत् ॥ ७.२,१३.६०॥
तत्र आदौ संप्रवक्ष्यामि मन्त्र-संग्रहणम् शुभम् ॥ यम् विना निष्फलम् जाप्यम् येन वा सफलम् भवेत् ॥ ७।२,१३।६०॥
tatra ādau saṃpravakṣyāmi mantra-saṃgrahaṇam śubham .. yam vinā niṣphalam jāpyam yena vā saphalam bhavet .. 7.2,13.60..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं नाम त्रयोदशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे पञ्चाक्षरमाहात्म्यवर्णनम् नाम त्रयोदशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe pañcākṣaramāhātmyavarṇanam nāma trayodaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In