| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच॥
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ॥आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ ७.२, १४.१ ॥
आज्ञा-हीनम् क्रिया-हीनम् श्रद्धा-हीनम् वरानने ॥आज्ञा-अर्थम् दक्षिणा-हीनम् सदा जप्तम् च निष्फलम् ॥ ७।२, १४।१ ॥
ājñā-hīnam kriyā-hīnam śraddhā-hīnam varānane ..ājñā-artham dakṣiṇā-hīnam sadā japtam ca niṣphalam .. 7.2, 14.1 ..
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ॥एवं चेद्दक्षिणायुक्तं मंत्रसिद्धिर्महत्फलम् ॥ ७.२, १४.२ ॥
आज्ञा-सिद्धम् क्रिया-सिद्धम् श्रद्धा-सिद्धम् मम आत्मकम् ॥एवम् चेद् दक्षिणा-युक्तम् मंत्र-सिद्धिः महत् फलम् ॥ ७।२, १४।२ ॥
ājñā-siddham kriyā-siddham śraddhā-siddham mama ātmakam ..evam ced dakṣiṇā-yuktam maṃtra-siddhiḥ mahat phalam .. 7.2, 14.2 ..
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ॥जापितं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ७.२, १४.३ ॥
उपगम्य गुरुम् विप्रम् आचार्यम् तत्त्व-वेदिनम् ॥जापितम् सत्-गुण-उपेतम् ध्यान-योग-परायणम् ॥ ७।२, १४।३ ॥
upagamya gurum vipram ācāryam tattva-vedinam ..jāpitam sat-guṇa-upetam dhyāna-yoga-parāyaṇam .. 7.2, 14.3 ..
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ॥वाचा च मनसा चैव कायेन द्रविणेन च ॥ ७.२, १४.४ ॥
तोषयेत् तम् प्रयत्नेन भाव-शुद्धि-समन्वितः ॥वाचा च मनसा च एव कायेन द्रविणेन च ॥ ७।२, १४।४ ॥
toṣayet tam prayatnena bhāva-śuddhi-samanvitaḥ ..vācā ca manasā ca eva kāyena draviṇena ca .. 7.2, 14.4 ..
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ॥हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ७.२, १४.५ ॥
आचार्यम् पूजयेत् विप्रः सर्वदा अति प्रयत्नतः ॥हस्ति-अश्व-रथ-रत्नानि क्षेत्राणि च गृहाणि च ॥ ७।२, १४।५ ॥
ācāryam pūjayet vipraḥ sarvadā ati prayatnataḥ ..hasti-aśva-ratha-ratnāni kṣetrāṇi ca gṛhāṇi ca .. 7.2, 14.5 ..
भूषणानि च वासांसि धान्यानि च धनानि च ॥एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ७.२, १४.६ ॥
भूषणानि च वासांसि धान्यानि च धनानि च ॥एतानि गुरवे दद्यात् भक्त्या च विभवे सति ॥ ७।२, १४।६ ॥
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca ..etāni gurave dadyāt bhaktyā ca vibhave sati .. 7.2, 14.6 ..
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ॥पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७.२, १४.७ ॥
वित्त-शाठ्यम् न कुर्वीत यदि इच्छेत् सिद्धिम् आत्मनः ॥पश्चात् निवेद्य स्व-आत्मानम् गुरवे स परिच्छदम् ॥ ७।२, १४।७ ॥
vitta-śāṭhyam na kurvīta yadi icchet siddhim ātmanaḥ ..paścāt nivedya sva-ātmānam gurave sa paricchadam .. 7.2, 14.7 ..
एवं संपूज्य विधिवद्यथाशक्तित्ववंचयन् ॥आददीत गुरोर्मंत्रं ज्ञानं चैव क्रमेण तु ॥ ७.२, १४.८ ॥
एवम् संपूज्य विधिवत् यथाशक्ति तु अवंचयन् ॥आददीत गुरोः मंत्रम् ज्ञानम् च एव क्रमेण तु ॥ ७।२, १४।८ ॥
evam saṃpūjya vidhivat yathāśakti tu avaṃcayan ..ādadīta guroḥ maṃtram jñānam ca eva krameṇa tu .. 7.2, 14.8 ..
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ॥शुश्रूषुमनहंकारं स्नातं शुचिमुपोषितम् ॥ ७.२, १४.९ ॥
एवम् तुष्टः गुरुः शिष्यम् पूजकम् वत्सर-उषितम् ॥शुश्रूषुम् अनहंकारम् स्नातम् शुचिम् उपोषितम् ॥ ७।२, १४।९ ॥
evam tuṣṭaḥ guruḥ śiṣyam pūjakam vatsara-uṣitam ..śuśrūṣum anahaṃkāram snātam śucim upoṣitam .. 7.2, 14.9 ..
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुंभघृतेन वै ॥जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ ७.२, १४.१० ॥
स्नापयित्वा विशुद्धि-अर्थम् पूर्ण-कुंभ-घृतेन वै ॥जलेन मन्त्र-शुद्धेन पुण्य-द्रव्य-युतेन च ॥ ७।२, १४।१० ॥
snāpayitvā viśuddhi-artham pūrṇa-kuṃbha-ghṛtena vai ..jalena mantra-śuddhena puṇya-dravya-yutena ca .. 7.2, 14.10 ..
अलंकृत्य सुवेषं च गंधस्रग्वस्त्रभूषणैः ॥पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ७.२, १४.११ ॥
अलंकृत्य सु वेषम् च गंध-स्रज्-वस्त्र-भूषणैः ॥पुण्याहम् वाचयित्वा च ब्राह्मणान् अभिपूज्य च ॥ ७।२, १४।११ ॥
alaṃkṛtya su veṣam ca gaṃdha-sraj-vastra-bhūṣaṇaiḥ ..puṇyāham vācayitvā ca brāhmaṇān abhipūjya ca .. 7.2, 14.11 ..
समुद्रतीरे नद्यां च गोष्ठे देवालये ऽपि वा ॥शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ ७.२, १४.१२ ॥
समुद्र-तीरे नद्याम् च गोष्ठे देवालये अपि वा ॥शुचौ देशे गृहे वा अपि काले सिद्धि-करे तिथौ ॥ ७।२, १४।१२ ॥
samudra-tīre nadyām ca goṣṭhe devālaye api vā ..śucau deśe gṛhe vā api kāle siddhi-kare tithau .. 7.2, 14.12 ..
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ॥अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ ७.२, १४.१३ ॥
नक्षत्रे शुभ-योगे च सर्व-दोष-विवर्जिते ॥अनुगृह्य ततस् दद्यात् ज्ञानम् मम यथाविधि ॥ ७।२, १४।१३ ॥
nakṣatre śubha-yoge ca sarva-doṣa-vivarjite ..anugṛhya tatas dadyāt jñānam mama yathāvidhi .. 7.2, 14.13 ..
स्वरेणोच्चारयेत्सम्यगेकांते ऽतिप्रसन्नधीः ॥उच्चार्योच्चारयित्वा तमावयोर्मंत्रमुत्तमम् ॥ ७.२, १४.१४ ॥
स्वरेण उच्चारयेत् सम्यक् एकान्ते अति प्रसन्न-धीः ॥उच्चार्य उच्चारयित्वा तम् आवयोः मंत्रम् उत्तमम् ॥ ७।२, १४।१४ ॥
svareṇa uccārayet samyak ekānte ati prasanna-dhīḥ ..uccārya uccārayitvā tam āvayoḥ maṃtram uttamam .. 7.2, 14.14 ..
शिवं चास्तु शुभं चास्तु शोभनो ऽस्तु प्रियो ऽस्त्विति ॥एवं दद्याद्गुरुर्मंत्रमाज्ञां चैव ततः परम् ॥ ७.२, १४.१५ ॥
शिवम् च अस्तु शुभम् च अस्तु शोभनः अस्तु प्रियः अस्तु इति ॥एवम् दद्यात् गुरुः मंत्रम् आज्ञाम् च एव ततस् परम् ॥ ७।२, १४।१५ ॥
śivam ca astu śubham ca astu śobhanaḥ astu priyaḥ astu iti ..evam dadyāt guruḥ maṃtram ājñām ca eva tatas param .. 7.2, 14.15 ..
एवं लब्ध्वा गुरोर्मंत्रमाज्ञां चैव समाहितः ॥संकल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ ७.२, १४.१६ ॥
एवम् लब्ध्वा गुरोः मंत्रम् आज्ञाम् च एव समाहितः ॥संकल्प्य च जपेत् नित्यम् पुरश्चरण-पूर्वकम् ॥ ७।२, १४।१६ ॥
evam labdhvā guroḥ maṃtram ājñām ca eva samāhitaḥ ..saṃkalpya ca japet nityam puraścaraṇa-pūrvakam .. 7.2, 14.16 ..
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ॥अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ ७.२, १४.१७ ॥
यावज्जीवम् जपेत् नित्यम् अष्टोत्तरसहस्रकम् ॥अन् अन्यः तद्-परः भूत्वा स याति परमाम् गतिम् ॥ ७।२, १४।१७ ॥
yāvajjīvam japet nityam aṣṭottarasahasrakam ..an anyaḥ tad-paraḥ bhūtvā sa yāti paramām gatim .. 7.2, 14.17 ..
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ॥नक्ताशी संयमी यस्स पौरश्चरणिकः स्मृतः ॥ ७.२, १४.१८ ॥
जपेत् अक्षर-लक्षम् वै चतुर्-गुणितम् आदरात् ॥नक्त-आशी संयमी यस् स पौरश्चरणिकः स्मृतः ॥ ७।२, १४।१८ ॥
japet akṣara-lakṣam vai catur-guṇitam ādarāt ..nakta-āśī saṃyamī yas sa pauraścaraṇikaḥ smṛtaḥ .. 7.2, 14.18 ..
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ॥तस्य नास्ति समो लोके स सिद्धः सिद्धदो भवेत् ॥ ७.२, १४.१९ ॥
यः पुरश्चरणम् कृत्वा नित्य-जापी भवेत् पुनर् ॥तस्य न अस्ति समः लोके स सिद्धः सिद्ध-दः भवेत् ॥ ७।२, १४।१९ ॥
yaḥ puraścaraṇam kṛtvā nitya-jāpī bhavet punar ..tasya na asti samaḥ loke sa siddhaḥ siddha-daḥ bhavet .. 7.2, 14.19 ..
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमानसम् ॥त्वया मां हृदि संचिंत्य संचिंत्य स्वगुरुं ततः ॥ ७.२, १४.२० ॥
स्नानम् कृत्वा शुचौ देशे बद्ध्वा रुचिर-मानसम् ॥त्वया माम् हृदि संचिंत्य संचिंत्य स्व-गुरुम् ततस् ॥ ७।२, १४।२० ॥
snānam kṛtvā śucau deśe baddhvā rucira-mānasam ..tvayā mām hṛdi saṃciṃtya saṃciṃtya sva-gurum tatas .. 7.2, 14.20 ..
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ॥विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ ७.२, १४.२१ ॥
उदक्-मुखः प्राच्-मुखः वा मौनी च एकाग्र-मानसः ॥विशोध्य पञ्चतत्त्वानि दहन-प्लावन-आदिभिः ॥ ७।२, १४।२१ ॥
udak-mukhaḥ prāc-mukhaḥ vā maunī ca ekāgra-mānasaḥ ..viśodhya pañcatattvāni dahana-plāvana-ādibhiḥ .. 7.2, 14.21 ..
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ॥आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ ७.२, १४.२२ ॥
मन्त्र-न्यास-आदिकम् कृत्वा सफलीकृत-विग्रहः ॥आवयोः विग्रहौ ध्यायन् प्राण-अपानौ नियम्य च ॥ ७।२, १४।२२ ॥
mantra-nyāsa-ādikam kṛtvā saphalīkṛta-vigrahaḥ ..āvayoḥ vigrahau dhyāyan prāṇa-apānau niyamya ca .. 7.2, 14.22 ..
विद्यास्थानं स्वकं रूपमृषिञ्छन्दो ऽधिदैवतम् ॥बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ ७.२, १४.२३ ॥
विद्या-स्थानम् स्वकम् रूपम् ऋषिन् छन्दः अधिदैवतम् ॥बीजम् शक्तिम् तथा वाक्यम् स्मृत्वा पञ्चाक्षरीम् जपेत् ॥ ७।२, १४।२३ ॥
vidyā-sthānam svakam rūpam ṛṣin chandaḥ adhidaivatam ..bījam śaktim tathā vākyam smṛtvā pañcākṣarīm japet .. 7.2, 14.23 ..
उत्तमं मानसं जाप्यमुपांशुं चैवमध्यमम् ॥अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ ७.२, १४.२४ ॥
उत्तमम् मानसम् जाप्यम् उपांशुम् च एव मध्यमम् ॥अधमम् वाचिकम् प्राहुः आगम-अर्थ-विशारदाः ॥ ७।२, १४।२४ ॥
uttamam mānasam jāpyam upāṃśum ca eva madhyamam ..adhamam vācikam prāhuḥ āgama-artha-viśāradāḥ .. 7.2, 14.24 ..
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ॥अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ ७.२, १४.२५ ॥
उत्तमम् रुद्र-दैवत्यम् मध्यमम् विष्णु-दैवतम् ॥अधमम् ब्रह्म-दैवत्यम् इति आहुः अनुपूर्वशस् ॥ ७।२, १४।२५ ॥
uttamam rudra-daivatyam madhyamam viṣṇu-daivatam ..adhamam brahma-daivatyam iti āhuḥ anupūrvaśas .. 7.2, 14.25 ..
यदुच्चनीचस्वरितैःस्पष्टास्पष्टपदाक्षरैः ॥मंत्रमुच्चारयेद्वाचा वाचिको ऽयं जपस्स्मृतः ॥ ७.२, १४.२६ ॥
यत् उच्च-नीच-स्वरितैः स्पष्ट-अस्पष्ट-पद-अक्षरैः ॥मंत्रम् उच्चारयेत् वाचा वाचिकः अयम् जपः स्मृतः ॥ ७।२, १४।२६ ॥
yat ucca-nīca-svaritaiḥ spaṣṭa-aspaṣṭa-pada-akṣaraiḥ ..maṃtram uccārayet vācā vācikaḥ ayam japaḥ smṛtaḥ .. 7.2, 14.26 ..
जिह्वामात्रपरिस्पंदादीषदुच्चारितो ऽपि वा ॥अपरैरश्रुतः किंचिच्छ्रुतो वोपांशुरुच्यते ॥ ७.२, १४.२७ ॥
जिह्वा-मात्र-परिस्पंदात् ईषत् उच्चारितः अपि वा ॥अपरैः अश्रुतः किंचिद् श्रुतः वा उपांशुः उच्यते ॥ ७।२, १४।२७ ॥
jihvā-mātra-parispaṃdāt īṣat uccāritaḥ api vā ..aparaiḥ aśrutaḥ kiṃcid śrutaḥ vā upāṃśuḥ ucyate .. 7.2, 14.27 ..
धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ॥शब्दार्थचिंतनं भूयः कथ्यते मानसो जपः ॥ ७.२, १४.२८ ॥
धिया यत् अक्षर-श्रेण्या वर्णात् वर्णम् पदात् पदम् ॥शब्द-अर्थ-चिंतनम् भूयस् कथ्यते मानसः जपः ॥ ७।२, १४।२८ ॥
dhiyā yat akṣara-śreṇyā varṇāt varṇam padāt padam ..śabda-artha-ciṃtanam bhūyas kathyate mānasaḥ japaḥ .. 7.2, 14.28 ..
वाचिकस्त्वेक एव स्यादुपांशुः शतमुच्यते ॥साहस्रं मानसः प्रोक्तः सगर्भस्तु शताधिकः ॥ ७.२, १४.२९ ॥
वाचिकः तु एकः एव स्यात् उपांशुः शतम् उच्यते ॥साहस्रम् मानसः प्रोक्तः सगर्भः तु शत-अधिकः ॥ ७।२, १४।२९ ॥
vācikaḥ tu ekaḥ eva syāt upāṃśuḥ śatam ucyate ..sāhasram mānasaḥ proktaḥ sagarbhaḥ tu śata-adhikaḥ .. 7.2, 14.29 ..
प्राणायामसमायुक्तस्सगर्भो जप उच्यते ॥आद्यंतयोरगर्भो ऽपि प्राणायामः प्रशस्यते ॥ ७.२, १४.३० ॥
प्राणायाम-समायुक्तः स गर्भः जपः उच्यते ॥आदि-अंतयोः अगर्भः अपि प्राणायामः प्रशस्यते ॥ ७।२, १४।३० ॥
prāṇāyāma-samāyuktaḥ sa garbhaḥ japaḥ ucyate ..ādi-aṃtayoḥ agarbhaḥ api prāṇāyāmaḥ praśasyate .. 7.2, 14.30 ..
चत्वारिंशत्समावृत्तीः प्राणानायम्य संस्मरेत् ॥मंत्रं मंत्रार्थविद्धीमानशक्तः शक्तितो जपेत् ॥ ७.२, १४.३१ ॥
चत्वारिंशत्-समावृत्तीः प्राणान् आयम्य संस्मरेत् ॥मंत्रम् मंत्र-अर्थ-विद्-धीमान् अशक्तः शक्तितः जपेत् ॥ ७।२, १४।३१ ॥
catvāriṃśat-samāvṛttīḥ prāṇān āyamya saṃsmaret ..maṃtram maṃtra-artha-vid-dhīmān aśaktaḥ śaktitaḥ japet .. 7.2, 14.31 ..
पञ्चकं त्रिकमेकं वा प्राणायामं समाचरेत् ॥अगर्भं वा सगर्भं वा सगर्भस्तत्र शस्यते ॥ ७.२, १४.३२ ॥
पञ्चकम् त्रिकम् एकम् वा प्राणायामम् समाचरेत् ॥अगर्भम् वा सगर्भम् वा सगर्भः तत्र शस्यते ॥ ७।२, १४।३२ ॥
pañcakam trikam ekam vā prāṇāyāmam samācaret ..agarbham vā sagarbham vā sagarbhaḥ tatra śasyate .. 7.2, 14.32 ..
सगर्भादपि साहस्रं सध्यानो जप उच्यते ॥एषु पञ्चविधेष्वेकः कर्तव्यः शक्तितो जपः ॥ ७.२, १४.३३ ॥
सगर्भात् अपि साहस्रम् स ध्यानः जपः उच्यते ॥एषु पञ्चविधेषु एकः कर्तव्यः शक्तितः जपः ॥ ७।२, १४।३३ ॥
sagarbhāt api sāhasram sa dhyānaḥ japaḥ ucyate ..eṣu pañcavidheṣu ekaḥ kartavyaḥ śaktitaḥ japaḥ .. 7.2, 14.33 ..
अङ्गुल्या जपसंख्यानमेकमेवमुदाहृतम् ॥रेखयाष्टगुणं विद्यात्पुत्रजीवैर्दशाधिकम् ॥ ७.२, १४.३४ ॥
अङ्गुल्या जप-संख्यानम् एकम् एवम् उदाहृतम् ॥रेखया अष्टगुणम् विद्यात् पुत्रजीवैः दश-अधिकम् ॥ ७।२, १४।३४ ॥
aṅgulyā japa-saṃkhyānam ekam evam udāhṛtam ..rekhayā aṣṭaguṇam vidyāt putrajīvaiḥ daśa-adhikam .. 7.2, 14.34 ..
शतं स्याच्छंखमणिभिः प्रवालैस्तु सहस्रकम् ॥स्फटिकैर्दशसाहस्रं मौक्तिकैर्लक्षमुच्यते ॥ ७.२, १४.३५ ॥
शतम् स्यात् शंख-मणिभिः प्रवालैः तु सहस्रकम् ॥स्फटिकैः दश-साहस्रम् मौक्तिकैः लक्षम् उच्यते ॥ ७।२, १४।३५ ॥
śatam syāt śaṃkha-maṇibhiḥ pravālaiḥ tu sahasrakam ..sphaṭikaiḥ daśa-sāhasram mauktikaiḥ lakṣam ucyate .. 7.2, 14.35 ..
पद्माक्षैर्दशलक्षन्तु सौवर्णैः कोटिरुच्यते ॥कुशग्रंथ्या च रुद्राक्षैरनंतगुणितं भवेत् ॥ ७.२, १४.३६ ॥
पद्माक्षैः दश-लक्षम् तु सौवर्णैः कोटिः उच्यते ॥कुश-ग्रंथ्या च रुद्राक्षैः अनंत-गुणितम् भवेत् ॥ ७।२, १४।३६ ॥
padmākṣaiḥ daśa-lakṣam tu sauvarṇaiḥ koṭiḥ ucyate ..kuśa-graṃthyā ca rudrākṣaiḥ anaṃta-guṇitam bhavet .. 7.2, 14.36 ..
त्रिंशदक्षैः कृता माला धनदा जपकर्मणि ॥सप्तविंशतिसंख्यातैरक्षैः पुष्टिप्रदा भवेत् ॥ ७.२, १४.३७ ॥
त्रिंशत्-अक्षैः कृता माला धन-दा जप-कर्मणि ॥सप्तविंशति-संख्यातैः अक्षैः पुष्टि-प्रदा भवेत् ॥ ७।२, १४।३७ ॥
triṃśat-akṣaiḥ kṛtā mālā dhana-dā japa-karmaṇi ..saptaviṃśati-saṃkhyātaiḥ akṣaiḥ puṣṭi-pradā bhavet .. 7.2, 14.37 ..
पञ्चविंशतिसंख्यातैः कृता मुक्तिं प्रयच्छति ॥अक्षैस्तु पञ्चदशभिरभिचारफलप्रदा ॥ ७.२, १४.३८ ॥
पञ्चविंशति-संख्यातैः कृता मुक्तिम् प्रयच्छति ॥अक्षैः तु पञ्चदशभिः अभिचार-फल-प्रदा ॥ ७।२, १४।३८ ॥
pañcaviṃśati-saṃkhyātaiḥ kṛtā muktim prayacchati ..akṣaiḥ tu pañcadaśabhiḥ abhicāra-phala-pradā .. 7.2, 14.38 ..
अङ्गुलयःपुराणेषु अङ्गुलिविन्यासःसामवेदे अङ्गुलिविन्यासः[1]॥ ॥ ७.२, १४.३९ ॥
अङ्गुलयः पुराणेषु अङ्गुलि-विन्यासः सामवेदे अङ्गुलि-विन्यासः[१]॥ ॥ ७।२, १४।३९ ॥
aṅgulayaḥ purāṇeṣu aṅguli-vinyāsaḥ sāmavede aṅguli-vinyāsaḥ[1].. .. 7.2, 14.39 ..
अंगुष्ठं मोक्षदं विद्यात्तर्जनीं शत्रुनाशिनीम् ॥मध्यमां धनदां शांतिं करोत्येषा ह्यनामिका ॥ ७.२, १४.४० ॥
अंगुष्ठम् मोक्ष-दम् विद्यात् तर्जनीम् शत्रु-नाशिनीम् ॥मध्यमाम् धन-दाम् शांतिम् करोति एषा हि अनामिका ॥ ७।२, १४।४० ॥
aṃguṣṭham mokṣa-dam vidyāt tarjanīm śatru-nāśinīm ..madhyamām dhana-dām śāṃtim karoti eṣā hi anāmikā .. 7.2, 14.40 ..
अष्टोत्तरशतं माला तत्र स्यादुत्तमोत्तमा ॥शतसंख्योत्तमा माला पञ्चाशद्भिस्तु मध्यमा ॥ ७.२, १४.४१ ॥
अष्टोत्तरशतम् माला तत्र स्यात् उत्तमोत्तमा ॥शत-संख्या-उत्तमा माला पञ्चाशद्भिः तु मध्यमा ॥ ७।२, १४।४१ ॥
aṣṭottaraśatam mālā tatra syāt uttamottamā ..śata-saṃkhyā-uttamā mālā pañcāśadbhiḥ tu madhyamā .. 7.2, 14.41 ..
चतुः पञ्चाशदक्षैस्तु हृच्छ्रेष्ठा हि प्रकीर्तिता ॥इत्येवं मालया कुर्याज्जपं कस्मै न दर्शयेत् ॥ ७.२, १४.४२ ॥
चतुः पञ्चाशत्-अक्षैः तु हृद् श्रेष्ठा हि प्रकीर्तिता ॥इति एवम् मालया कुर्यात् जपम् कस्मै न दर्शयेत् ॥ ७।२, १४।४२ ॥
catuḥ pañcāśat-akṣaiḥ tu hṛd śreṣṭhā hi prakīrtitā ..iti evam mālayā kuryāt japam kasmai na darśayet .. 7.2, 14.42 ..
कनिष्ठा क्षरिणी प्रोक्ता जपकर्मणि शोभना ॥अंगुष्ठेन जपेज्जप्यमन्यैरंगुलिभिस्सह ॥ ७.२, १४.४३ ॥
कनिष्ठा क्षरिणी प्रोक्ता जप-कर्मणि शोभना ॥अंगुष्ठेन जपेत् जप्यम् अन्यैः अंगुलिभिः सह ॥ ७।२, १४।४३ ॥
kaniṣṭhā kṣariṇī proktā japa-karmaṇi śobhanā ..aṃguṣṭhena japet japyam anyaiḥ aṃgulibhiḥ saha .. 7.2, 14.43 ..
अंगुष्ठेन विना जप्यं कृतं तदफलं यतः ॥गृहे जपं समं विद्याद्गोष्ठे शतगुणं विदुः ॥ ७.२, १४.४४ ॥
अंगुष्ठेन विना जप्यम् कृतम् तत् अफलम् यतस् ॥गृहे जपम् समम् विद्यात् गोष्ठे शतगुणम् विदुः ॥ ७।२, १४।४४ ॥
aṃguṣṭhena vinā japyam kṛtam tat aphalam yatas ..gṛhe japam samam vidyāt goṣṭhe śataguṇam viduḥ .. 7.2, 14.44 ..
पुण्यारण्ये तथारामे सहस्रगुणमुच्यते ॥अयुतं पर्वते पुण्ये नद्यां लक्षमुदाहृतम् ॥ ७.२, १४.४५ ॥
पुण्य-अरण्ये तथा आरामे सहस्रगुणम् उच्यते ॥अयुतम् पर्वते पुण्ये नद्याम् लक्षम् उदाहृतम् ॥ ७।२, १४।४५ ॥
puṇya-araṇye tathā ārāme sahasraguṇam ucyate ..ayutam parvate puṇye nadyām lakṣam udāhṛtam .. 7.2, 14.45 ..
कोटिं देवालये प्राहुरनन्तं मम सन्निधौ ॥सूर्यस्याग्नेर्गुरोरिंदोर्दीपस्य च जलस्य च ॥ ७.२, १४.४६ ॥
कोटिम् देवालये प्राहुः अनन्तम् मम सन्निधौ ॥सूर्यस्य अग्नेः गुरोः इंदोः दीपस्य च जलस्य च ॥ ७।२, १४।४६ ॥
koṭim devālaye prāhuḥ anantam mama sannidhau ..sūryasya agneḥ guroḥ iṃdoḥ dīpasya ca jalasya ca .. 7.2, 14.46 ..
विप्राणां च गवां चैव सन्निधौ शस्यते जपः ॥तत्पूर्वाभिमुखं वश्यं दक्षिणं चाभिचारिकम् ॥ ७.२, १४.४७ ॥
विप्राणाम् च गवाम् च एव सन्निधौ शस्यते जपः ॥तद्-पूर्व-अभिमुखम् वश्यम् दक्षिणम् च आभिचारिकम् ॥ ७।२, १४।४७ ॥
viprāṇām ca gavām ca eva sannidhau śasyate japaḥ ..tad-pūrva-abhimukham vaśyam dakṣiṇam ca ābhicārikam .. 7.2, 14.47 ..
पश्चिमं धनदं विद्यादौत्तरं शातिदं भवेत् ॥सूर्याग्निविप्रदेवानां गुरूणामपि सन्निधौ ॥ ७.२, १४.४८ ॥
पश्चिमम् धनदम् विद्यात् औत्तरम् शातिदम् भवेत् ॥सूर्य-अग्नि-विप्र-देवानाम् गुरूणाम् अपि सन्निधौ ॥ ७।२, १४।४८ ॥
paścimam dhanadam vidyāt auttaram śātidam bhavet ..sūrya-agni-vipra-devānām gurūṇām api sannidhau .. 7.2, 14.48 ..
अन्येषां च प्रसक्तानां मन्त्रं न विमुखो जपेत् ॥उष्णीषी कुंचुकी नम्रो मुक्तकेशो गलावृतः ॥ ७.२, १४.४९ ॥
अन्येषाम् च प्रसक्तानाम् मन्त्रम् न विमुखः जपेत् ॥उष्णीषी कुंचुकी नम्रः मुक्त-केशः गल-आवृतः ॥ ७।२, १४।४९ ॥
anyeṣām ca prasaktānām mantram na vimukhaḥ japet ..uṣṇīṣī kuṃcukī namraḥ mukta-keśaḥ gala-āvṛtaḥ .. 7.2, 14.49 ..
अपवित्रकरो ऽशुद्धो विलपन्न जपेत्क्वचित् ॥क्रोधं मदं क्षुतं त्रीणि निष्ठीवनविजृंभणे ॥ ७.२, १४.५० ॥
अपवित्र-करः अशुद्धः विलपन् न जपेत् क्वचिद् ॥क्रोधम् मदम् क्षुतम् त्रीणि निष्ठीवन-विजृंभणे ॥ ७।२, १४।५० ॥
apavitra-karaḥ aśuddhaḥ vilapan na japet kvacid ..krodham madam kṣutam trīṇi niṣṭhīvana-vijṛṃbhaṇe .. 7.2, 14.50 ..
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥आचमेत्संभवे तेषां स्मरेद्वा मां त्वया सह ॥ ७.२, १४.५१ ॥
दर्शनम् च श्व-नीचानाम् वर्जयेत् जप-कर्मणि ॥आचमेत् संभवे तेषाम् स्मरेत् वा माम् त्वया सह ॥ ७।२, १४।५१ ॥
darśanam ca śva-nīcānām varjayet japa-karmaṇi ..ācamet saṃbhave teṣām smaret vā mām tvayā saha .. 7.2, 14.51 ..
ज्योतींषि च प्रपश्येद्वा कुर्याद्वा प्राणसंयमम् ॥अनासनः शयाने वा गच्छन्नुत्थित एव वा ॥ ७.२, १४.५२ ॥
ज्योतींषि च प्रपश्येत् वा कुर्यात् वा प्राणसंयमम् ॥अनासनः शयाने वा गच्छन् उत्थितः एव वा ॥ ७।२, १४।५२ ॥
jyotīṃṣi ca prapaśyet vā kuryāt vā prāṇasaṃyamam ..anāsanaḥ śayāne vā gacchan utthitaḥ eva vā .. 7.2, 14.52 ..
रथ्यायामशिवे स्थाने न जपेत्तिमिरान्तरे ॥प्रसार्य न जपेत्पादौ कुक्कुटासन एव वा ॥ ७.२, १४.५३ ॥
रथ्यायाम् अशिवे स्थाने न जपेत् तिमिर-अन्तरे ॥प्रसार्य न जपेत् पादौ कुक्कुटासने एव वा ॥ ७।२, १४।५३ ॥
rathyāyām aśive sthāne na japet timira-antare ..prasārya na japet pādau kukkuṭāsane eva vā .. 7.2, 14.53 ..
यानशय्याधिरूढो वा चिंताव्याकुलितो ऽथ वा ॥शक्तश्चेत्सर्वमेवैतदशक्तः शक्तितो जपेत् ॥ ७.२, १४.५४ ॥
यान-शय्या-अधिरूढः वा चिंता-व्याकुलितः अथ वा ॥शक्तः चेद् सर्वम् एव एतत् अशक्तः शक्तितः जपेत् ॥ ७।२, १४।५४ ॥
yāna-śayyā-adhirūḍhaḥ vā ciṃtā-vyākulitaḥ atha vā ..śaktaḥ ced sarvam eva etat aśaktaḥ śaktitaḥ japet .. 7.2, 14.54 ..
किमत्र बहुनोक्तेन समासेन वचः शृणु ॥सदाचारो जपञ्छुद्धं ध्यायन्भद्रं समश्नुते ॥ ७.२, १४.५५ ॥
किम् अत्र बहुना उक्तेन समासेन वचः शृणु ॥सत्-आचारः जपन् शुद्धम् ध्यायन् भद्रम् समश्नुते ॥ ७।२, १४।५५ ॥
kim atra bahunā uktena samāsena vacaḥ śṛṇu ..sat-ācāraḥ japan śuddham dhyāyan bhadram samaśnute .. 7.2, 14.55 ..
आचारः परमो धर्म आचारः परमं धनं ॥आचारः परमा विद्या आचारः परमा गतिः ॥ ७.२, १४.५६ ॥
आचारः परमः धर्मः आचारः परमम् धनम् ॥आचारः परमा विद्या आचारः परमा गतिः ॥ ७।२, १४।५६ ॥
ācāraḥ paramaḥ dharmaḥ ācāraḥ paramam dhanam ..ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ .. 7.2, 14.56 ..
आचारहीनः पुरुषो लोके भवति निंदितः ॥परत्र च सुखी न स्यात्तस्मादाचारवान्भवेत् ॥ ७.२, १४.५७ ॥
आचार-हीनः पुरुषः लोके भवति निंदितः ॥परत्र च सुखी न स्यात् तस्मात् आचारवान् भवेत् ॥ ७।२, १४।५७ ॥
ācāra-hīnaḥ puruṣaḥ loke bhavati niṃditaḥ ..paratra ca sukhī na syāt tasmāt ācāravān bhavet .. 7.2, 14.57 ..
यस्य यद्विहितं कर्म वेदे शास्त्रे च वैदिकैः ॥तस्य तेन समाचारः सदाचारो न चेतरः ॥ ७.२, १४.५८ ॥
यस्य यत् विहितम् कर्म वेदे शास्त्रे च वैदिकैः ॥तस्य तेन समाचारः सत्-आचारः न च इतरः ॥ ७।२, १४।५८ ॥
yasya yat vihitam karma vede śāstre ca vaidikaiḥ ..tasya tena samācāraḥ sat-ācāraḥ na ca itaraḥ .. 7.2, 14.58 ..
सद्भिराचरितत्वाच्च सदाचारः स उच्यते ॥सदाचारस्य तस्याहुरास्तिक्यं मूलकारणम् ॥ ७.२, १४.५९ ॥
सद्भिः आचरित-त्वात् च सत्-आचारः सः उच्यते ॥सत्-आचारस्य तस्य आहुः आस्तिक्यम् मूल-कारणम् ॥ ७।२, १४।५९ ॥
sadbhiḥ ācarita-tvāt ca sat-ācāraḥ saḥ ucyate ..sat-ācārasya tasya āhuḥ āstikyam mūla-kāraṇam .. 7.2, 14.59 ..
आस्तिकश्चेत्प्रमादाद्यैः सदाचारादविच्युतः ॥न दुष्यति नरो नित्यं तस्मादास्तिकतां व्रजेत् ॥ ७.२, १४.६० ॥
आस्तिकः चेद् प्रमाद-आद्यैः सत्-आचारात् अविच्युतः ॥न दुष्यति नरः नित्यम् तस्मात् आस्तिक-ताम् व्रजेत् ॥ ७।२, १४।६० ॥
āstikaḥ ced pramāda-ādyaiḥ sat-ācārāt avicyutaḥ ..na duṣyati naraḥ nityam tasmāt āstika-tām vrajet .. 7.2, 14.60 ..
यथेहास्ति सुखं दुःखं सुकृतैर्दुष्कृतैरपि ॥तथा परत्र चास्तीति मतिरास्तिक्यमुच्यते ॥ ७.२, १४.६१ ॥
यथा इह अस्ति सुखम् दुःखम् सुकृतैः दुष्कृतैः अपि ॥तथा परत्र च अस्ति इति मतिः आस्तिक्यम् उच्यते ॥ ७।२, १४।६१ ॥
yathā iha asti sukham duḥkham sukṛtaiḥ duṣkṛtaiḥ api ..tathā paratra ca asti iti matiḥ āstikyam ucyate .. 7.2, 14.61 ..
रहस्यमन्यद्वक्ष्यामि गोपनीयमिदं प्रिये ॥न वाच्यं यस्य कस्यापि नास्तिकस्याथ वा पशोः ॥ ७.२, १४.६२ ॥
रहस्यम् अन्यत् वक्ष्यामि गोपनीयम् इदम् प्रिये ॥न वाच्यम् यस्य कस्य अपि नास्तिकस्य अथ वा पशोः ॥ ७।२, १४।६२ ॥
rahasyam anyat vakṣyāmi gopanīyam idam priye ..na vācyam yasya kasya api nāstikasya atha vā paśoḥ .. 7.2, 14.62 ..
सदाचारविहीनस्य पतितस्यान्त्यजस्य च ॥पञ्चाक्षरात्परं नास्ति परित्राणं कलौ युगे ॥ ७.२, १४.६३ ॥
सत्-आचार-विहीनस्य पतितस्य अन्त्यजस्य च ॥पञ्चाक्षरात् परम् न अस्ति परित्राणम् कलौ युगे ॥ ७।२, १४।६३ ॥
sat-ācāra-vihīnasya patitasya antyajasya ca ..pañcākṣarāt param na asti paritrāṇam kalau yuge .. 7.2, 14.63 ..
गच्छतस्तिष्ठतो वापि स्वेच्छया कर्म कुर्वतः ॥अशुचेर्वा शुचेर्वापि मन्त्रो ऽयन्न च निष्फलः ॥ ७.२, १४.६४ ॥
गच्छतः तिष्ठतः वा अपि स्व-इच्छया कर्म कुर्वतः ॥अशुचेः वा शुचेः वा अपि मन्त्रः अयन् न च निष्फलः ॥ ७।२, १४।६४ ॥
gacchataḥ tiṣṭhataḥ vā api sva-icchayā karma kurvataḥ ..aśuceḥ vā śuceḥ vā api mantraḥ ayan na ca niṣphalaḥ .. 7.2, 14.64 ..
अनाचारवतां पुंसामविशुद्धषडध्वनाम् ॥अनादिष्टो ऽपि गुरुणा मन्त्रो ऽयं न च निष्फलः ॥ ७.२, १४.६५ ॥
अनाचारवताम् पुंसाम् अविशुद्ध-षडध्वनाम् ॥अन् आदिष्टः अपि गुरुणा मन्त्रः अयम् न च निष्फलः ॥ ७।२, १४।६५ ॥
anācāravatām puṃsām aviśuddha-ṣaḍadhvanām ..an ādiṣṭaḥ api guruṇā mantraḥ ayam na ca niṣphalaḥ .. 7.2, 14.65 ..
अन्त्यजस्यापि मूर्खस्य मूढस्य पतितस्य च ॥निर्मर्यादस्य नीचस्य मंत्रो ऽयं न च निष्फलः ॥ ७.२, १४.६६ ॥
अन्त्यजस्य अपि मूर्खस्य मूढस्य पतितस्य च ॥निर्मर्यादस्य नीचस्य मंत्रः अयम् न च निष्फलः ॥ ७।२, १४।६६ ॥
antyajasya api mūrkhasya mūḍhasya patitasya ca ..nirmaryādasya nīcasya maṃtraḥ ayam na ca niṣphalaḥ .. 7.2, 14.66 ..
सर्वावस्थां गतस्यापि मयि भक्तिमतः परम् ॥सिध्यत्येव न संदेहो नापरस्य तु कस्यचित् ॥ ७.२, १४.६७ ॥
सर्व-अवस्थाम् गतस्य अपि मयि भक्तिमतः परम् ॥सिध्यति एव न संदेहः ना अपरस्य तु कस्यचिद् ॥ ७।२, १४।६७ ॥
sarva-avasthām gatasya api mayi bhaktimataḥ param ..sidhyati eva na saṃdehaḥ nā aparasya tu kasyacid .. 7.2, 14.67 ..
न लग्नतिथिनक्षत्रवारयोगादयः प्रिये ॥अस्यात्यंतमवेक्ष्याः स्युर्नैष सप्तस्सदोदितः ॥ ७.२, १४.६८ ॥
न लग्न-तिथि-नक्षत्र-वार-योग-आदयः प्रिये ॥अस्य अत्यंतम् अवेक्ष्याः स्युः न एष सप्तस्सदा उदितः ॥ ७।२, १४।६८ ॥
na lagna-tithi-nakṣatra-vāra-yoga-ādayaḥ priye ..asya atyaṃtam avekṣyāḥ syuḥ na eṣa saptassadā uditaḥ .. 7.2, 14.68 ..
न कदाचिन्न कस्यापि रिपुरेष महामनुः ॥सुसिद्धो वापि सिद्धो वा साध्यो वापि भविष्यति ॥ ७.२, १४.६९ ॥
न कदाचिद् न कस्य अपि रिपुः एष महा-मनुः ॥सुसिद्धः वा अपि सिद्धः वा साध्यः वा अपि भविष्यति ॥ ७।२, १४।६९ ॥
na kadācid na kasya api ripuḥ eṣa mahā-manuḥ ..susiddhaḥ vā api siddhaḥ vā sādhyaḥ vā api bhaviṣyati .. 7.2, 14.69 ..
सिद्धेन गुरुणादिष्टस्सुसिद्ध इति कथ्यते ॥असिद्धेनापि वा दत्तस्सिद्धसाध्यस्तु केवलः ॥ ७.२, १४.७० ॥
सिद्धेन गुरुणा आदिष्टः सुसिद्धः इति कथ्यते ॥असिद्धेन अपि वा दत्तः सिद्ध-साध्यः तु केवलः ॥ ७।२, १४।७० ॥
siddhena guruṇā ādiṣṭaḥ susiddhaḥ iti kathyate ..asiddhena api vā dattaḥ siddha-sādhyaḥ tu kevalaḥ .. 7.2, 14.70 ..
असाधितस्साधितो वा सिध्यत्वेन न संशयः ॥श्रद्धातिशययुक्तस्य मयि मंत्रे तथा गुरौ ॥ ७.२, १४.७१ ॥
असाधितः साधितः वा सिध्य त्वेन न संशयः ॥श्रद्धा-अतिशय-युक्तस्य मयि मंत्रे तथा गुरौ ॥ ७।२, १४।७१ ॥
asādhitaḥ sādhitaḥ vā sidhya tvena na saṃśayaḥ ..śraddhā-atiśaya-yuktasya mayi maṃtre tathā gurau .. 7.2, 14.71 ..
तस्मान्मंत्रान्तरांस्त्यक्त्वा सापायान् धिकारतः ॥आश्रमेत्परमां विद्यां साक्षात्पञ्चाक्षरीं बुधः ॥ ७.२, १४.७२ ॥
तस्मात् मंत्र-अन्तरान् त्यक्त्वा स अपायान् धिकारतः ॥आश्रमेत् परमाम् विद्याम् साक्षात् पञ्चाक्षरीम् बुधः ॥ ७।२, १४।७२ ॥
tasmāt maṃtra-antarān tyaktvā sa apāyān dhikārataḥ ..āśramet paramām vidyām sākṣāt pañcākṣarīm budhaḥ .. 7.2, 14.72 ..
मंत्रान्तरेषु सिद्धेषु मंत्र एष न सिध्यति ॥सिद्धे त्वस्मिन्महामंत्रे ते च सिद्धा भवंत्युत ॥ ७.२, १४.७३ ॥
मंत्र-अन्तरेषु सिद्धेषु मंत्रः एष न सिध्यति ॥सिद्धे तु अस्मिन् महा-मंत्रे ते च सिद्धाः भवन्ति उत ॥ ७।२, १४।७३ ॥
maṃtra-antareṣu siddheṣu maṃtraḥ eṣa na sidhyati ..siddhe tu asmin mahā-maṃtre te ca siddhāḥ bhavanti uta .. 7.2, 14.73 ..
यथा देवेष्वलब्धो ऽस्मि लब्धेष्वपि महेश्वरि ॥मयि लब्धे तु ते लब्धा मंत्रेष्वेषु समो विधिः ॥ ७.२, १४.७४ ॥
यथा देवेषु अलब्धः अस्मि लब्धेषु अपि महेश्वरि ॥मयि लब्धे तु ते लब्धाः मंत्रेषु एषु समः विधिः ॥ ७।२, १४।७४ ॥
yathā deveṣu alabdhaḥ asmi labdheṣu api maheśvari ..mayi labdhe tu te labdhāḥ maṃtreṣu eṣu samaḥ vidhiḥ .. 7.2, 14.74 ..
ये दोषास्सर्वमंत्राणां न ते ऽस्मिन्संभवंत्यपि ॥अस्य मंत्रस्य जात्यादीननपेक्ष्य प्रवर्तनात् ॥ ७.२, १४.७५ ॥
ये दोषाः सर्व-मंत्राणाम् न ते अस्मिन् संभवन्ति अपि ॥अस्य मंत्रस्य जाति-आदीन् अन् अपेक्ष्य प्रवर्तनात् ॥ ७।२, १४।७५ ॥
ye doṣāḥ sarva-maṃtrāṇām na te asmin saṃbhavanti api ..asya maṃtrasya jāti-ādīn an apekṣya pravartanāt .. 7.2, 14.75 ..
तथापि नैव क्षुद्रेषु फलेषु प्रति योगिषु ॥सहसा विनियुंजीत तस्मादेष महाबलः ॥ ७.२, १४.७६ ॥
तथा अपि ना एव क्षुद्रेषु फलेषु प्रति योगिषु ॥सहसा विनियुंजीत तस्मात् एष महा-बलः ॥ ७।२, १४।७६ ॥
tathā api nā eva kṣudreṣu phaleṣu prati yogiṣu ..sahasā viniyuṃjīta tasmāt eṣa mahā-balaḥ .. 7.2, 14.76 ..
उपमन्युरुवाच॥
एवं साक्षान्महादेव्यै महादेवेन शूलिना ॥हिता य जगतामुक्तः पञ्चाक्षरविधिर्यथा ॥ ७.२, १४.७७ ॥
एवम् साक्षात् महादेव्यै महादेवेन शूलिना ॥जगताम् उक्तः पञ्चाक्षर-विधिः यथा ॥ ७।२, १४।७७ ॥
evam sākṣāt mahādevyai mahādevena śūlinā ..jagatām uktaḥ pañcākṣara-vidhiḥ yathā .. 7.2, 14.77 ..
य इदं कीर्तयेद्भक्त्या शृणुयाद्वा समाहितः ॥सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ ७.२, १४.७८ ॥
यः इदम् कीर्तयेत् भक्त्या शृणुयात् वा समाहितः ॥सर्व-पाप-विनिर्मुक्तः प्रयाति परमाम् गतिम् ॥ ७।२, १४।७८ ॥
yaḥ idam kīrtayet bhaktyā śṛṇuyāt vā samāhitaḥ ..sarva-pāpa-vinirmuktaḥ prayāti paramām gatim .. 7.2, 14.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे पञ्चाक्षरमहिमवर्णनं नाम चतुर्दशोध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खंडे पञ्चाक्षरमहिमवर्णनम् नाम चतुर्दशः उध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṃḍe pañcākṣaramahimavarṇanam nāma caturdaśaḥ udhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In