| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
भगवान्मंत्रमाहात्म्यं भवता कथितं प्रभो ॥ तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ 1॥
भगवान् मंत्र-माहात्म्यम् भवता कथितम् प्रभो ॥ तद्-प्रयोग-विधानम् च साक्षात् श्रुति-समम् यथा ॥ १॥
bhagavān maṃtra-māhātmyam bhavatā kathitam prabho .. tad-prayoga-vidhānam ca sākṣāt śruti-samam yathā .. 1..
इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ॥ मंत्रसंग्रहणे किंचित्सूचितन्न तु विस्मृतम् ॥ 2॥
इदानीम् श्रोतुम् इच्छामि शिव-संस्कारम् उत्तमम् ॥ मंत्र-संग्रहणे किंचिद् सूचितत् न तु विस्मृतम् ॥ २॥
idānīm śrotum icchāmi śiva-saṃskāram uttamam .. maṃtra-saṃgrahaṇe kiṃcid sūcitat na tu vismṛtam .. 2..
उपमन्युरुवाच॥
हन्त ते कथयिष्यामि सर्वपापविशोधनम् ॥ संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ 3॥
हन्त ते कथयिष्यामि सर्व-पाप-विशोधनम् ॥ संस्कारम् परमम् पुण्यम् शिवेन पति-भाषितम् ॥ ३॥
hanta te kathayiṣyāmi sarva-pāpa-viśodhanam .. saṃskāram paramam puṇyam śivena pati-bhāṣitam .. 3..
सम्यक्कृताधिकारः स्यात्पूजादिषु नरो यतः ॥ संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ 4॥
सम्यक् कृत-अधिकारः स्यात् पूजा-आदिषु नरः यतस् ॥ संस्कारः कथ्यते तेन षडध्व-परिशोधनम् ॥ ४॥
samyak kṛta-adhikāraḥ syāt pūjā-ādiṣu naraḥ yatas .. saṃskāraḥ kathyate tena ṣaḍadhva-pariśodhanam .. 4..
दीयते येन विज्ञानं क्षीयते पाशबंधनम् ॥ तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ 5॥
दीयते येन विज्ञानम् क्षीयते पाश-बंधनम् ॥ तस्मात् संस्कारः एव अयम् दीक्षा इति अपि च कथ्यते ॥ ५॥
dīyate yena vijñānam kṣīyate pāśa-baṃdhanam .. tasmāt saṃskāraḥ eva ayam dīkṣā iti api ca kathyate .. 5..
शांभवी चैव शाक्ती च मांत्री चैव शिवागमे ॥ दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ 6॥
शांभवी च एव शाक्ती च मांत्री च एव शिव-आगमे ॥ दीक्षा उपदिश्यते त्रेधा शिवेन परमात्मना ॥ ६॥
śāṃbhavī ca eva śāktī ca māṃtrī ca eva śiva-āgame .. dīkṣā upadiśyate tredhā śivena paramātmanā .. 6..
गुरोरालोकमात्रेण स्पर्शात्संभाषणादपि ॥ सद्यस्संज्ञा भवेज्जंतोः पाशोपक्षयकारिणी ॥ 7॥
गुरोः आलोक-मात्रेण स्पर्शात् संभाषणात् अपि ॥ सद्यस् संज्ञा भवेत् जंतोः पाश-उपक्षय-कारिणी ॥ ७॥
guroḥ āloka-mātreṇa sparśāt saṃbhāṣaṇāt api .. sadyas saṃjñā bhavet jaṃtoḥ pāśa-upakṣaya-kāriṇī .. 7..
सा दीक्षा शांभवी प्रोक्ता सा पुनर्भिद्यते द्विधा ॥ तीव्रा तीव्रतरा चेति पाशो पक्षयभेदतः ॥ 8॥
सा दीक्षा शांभवी प्रोक्ता सा पुनर् भिद्यते द्विधा ॥ तीव्रा तीव्रतरा च इति प क्षय-भेदतः ॥ ८॥
sā dīkṣā śāṃbhavī proktā sā punar bhidyate dvidhā .. tīvrā tīvratarā ca iti pa kṣaya-bhedataḥ .. 8..
यया स्यान्निर्वृतिः सद्यस्सैव तीव्रतरा मता ॥ तीव्रा तु जीवतोत्यंतं पुंसः पापविशोधिका ॥ 9॥
यया स्यात् निर्वृतिः सद्यस् सा एव तीव्रतरा मता ॥ तीव्रा तु जीवता अत्यन्तम् पुंसः पाप-विशोधिका ॥ ९॥
yayā syāt nirvṛtiḥ sadyas sā eva tīvratarā matā .. tīvrā tu jīvatā atyantam puṃsaḥ pāpa-viśodhikā .. 9..
शक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ॥ गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ 10॥
शक्ती ज्ञानवती दीक्षा शिष्य-देहम् प्रविश्य तु ॥ गुरुणा योग-मार्गेण क्रियते ज्ञानचक्षुषा ॥ १०॥
śaktī jñānavatī dīkṣā śiṣya-deham praviśya tu .. guruṇā yoga-mārgeṇa kriyate jñānacakṣuṣā .. 10..
मांत्री क्रियावती दीक्षा कुंडमंडलपूर्विका ॥ मंदमंदतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ 11॥
मांत्री क्रियावती दीक्षा कुंड-मंडल-पूर्विका ॥ मंद-मंदतर-उद्देशात् कर्तव्या गुरुणा बहिस् ॥ ११॥
māṃtrī kriyāvatī dīkṣā kuṃḍa-maṃḍala-pūrvikā .. maṃda-maṃdatara-uddeśāt kartavyā guruṇā bahis .. 11..
शक्तिपातानुसारेण शिष्यो ऽनुग्रहमर्हति ॥ शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ 12॥
शक्तिपात-अनुसारेण शिष्यः अनुग्रहम् अर्हति ॥ शैव-धर्म-अनुसारस्य तद्-मूल-त्वात् समासतस् ॥ १२॥
śaktipāta-anusāreṇa śiṣyaḥ anugraham arhati .. śaiva-dharma-anusārasya tad-mūla-tvāt samāsatas .. 12..
यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ॥ न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ 13॥
यत्र शक्तिः न पतिता तत्र शुद्धिः न जायते ॥ न विद्या न शिव-आचारः न मुक्तिः न च सिद्धयः ॥ १३॥
yatra śaktiḥ na patitā tatra śuddhiḥ na jāyate .. na vidyā na śiva-ācāraḥ na muktiḥ na ca siddhayaḥ .. 13..
तस्माल्लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ज्ञानेन क्रियया वाथ गुरुश्शिष्यं विशोधयेत् ॥ 14॥
तस्मात् लिंगानि संवीक्ष्य शक्तिपातस्य भूयसः ॥ ज्ञानेन क्रियया वा अथ गुरुः शिष्यम् विशोधयेत् ॥ १४॥
tasmāt liṃgāni saṃvīkṣya śaktipātasya bhūyasaḥ .. jñānena kriyayā vā atha guruḥ śiṣyam viśodhayet .. 14..
यो ऽन्यथा कुरुते मोहात्स विनश्यति दुर्मतिः ॥ तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ 15॥
यः अन्यथा कुरुते मोहात् स विनश्यति दुर्मतिः ॥ तस्मात् सर्व-प्रकारेण गुरुः शिष्यम् परीक्षयेत् ॥ १५॥
yaḥ anyathā kurute mohāt sa vinaśyati durmatiḥ .. tasmāt sarva-prakāreṇa guruḥ śiṣyam parīkṣayet .. 15..
लक्षणं शक्तिपातस्य प्रबोधानंदसंभवः ॥ सा यस्मात्परमा शक्तिः प्रबोधानंदरूपिणी ॥ 16॥
लक्षणम् शक्तिपातस्य प्रबोध-आनंद-संभवः ॥ सा यस्मात् परमा शक्तिः प्रबोध-आनंद-रूपिणी ॥ १६॥
lakṣaṇam śaktipātasya prabodha-ānaṃda-saṃbhavaḥ .. sā yasmāt paramā śaktiḥ prabodha-ānaṃda-rūpiṇī .. 16..
आनंदबोधयोर्लिंगमंतःकरणविक्रियाः ॥ यथा स्यात्कंपरोमांचस्वरनेत्रांगविक्रियाः ॥ 17॥
आनंद-बोधयोः लिंगम् अंतःकरण-विक्रियाः ॥ यथा स्यात् कंप-रोमाञ्च-स्वर-नेत्र-अंग-विक्रियाः ॥ १७॥
ānaṃda-bodhayoḥ liṃgam aṃtaḥkaraṇa-vikriyāḥ .. yathā syāt kaṃpa-romāñca-svara-netra-aṃga-vikriyāḥ .. 17..
शिष्योपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ॥ तत्संपर्कैः शिवार्चादौ संगतैर्वाथ तद्गतैः ॥ 18॥
शिष्यः अपि लक्षणैः एभिः कुर्यात् गुरु-परीक्षणम् ॥ तद्-संपर्कैः शिव-अर्चा-आदौ संगतैः वा अथ तद्-गतैः ॥ १८॥
śiṣyaḥ api lakṣaṇaiḥ ebhiḥ kuryāt guru-parīkṣaṇam .. tad-saṃparkaiḥ śiva-arcā-ādau saṃgataiḥ vā atha tad-gataiḥ .. 18..
शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ॥ तस्मात्सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ 19॥
शिष्यः तु शिक्षणीय-त्वात् गुरोः गौरव-कारणात् ॥ तस्मात् सर्व-प्रयत्नेन गुरोः गौरवम् आचरेत् ॥ १९॥
śiṣyaḥ tu śikṣaṇīya-tvāt guroḥ gaurava-kāraṇāt .. tasmāt sarva-prayatnena guroḥ gauravam ācaret .. 19..
यो गुरुस्स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ॥ गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ 20॥
यः गुरुः स शिवः प्रोक्तः यः शिवः स गुरुः स्मृतः ॥ गुरुः वा शिवः एव अथ विद्याकारेण संस्थितः ॥ २०॥
yaḥ guruḥ sa śivaḥ proktaḥ yaḥ śivaḥ sa guruḥ smṛtaḥ .. guruḥ vā śivaḥ eva atha vidyākāreṇa saṃsthitaḥ .. 20..
यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ॥ शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ 21॥
यथा शिवः तथा विद्या यथा विद्या तथा गुरुः ॥ शिव-विद्या गुरूणाम् च पूजया सदृशम् फलम् ॥ २१॥
yathā śivaḥ tathā vidyā yathā vidyā tathā guruḥ .. śiva-vidyā gurūṇām ca pūjayā sadṛśam phalam .. 21..
सर्वदेवात्मकश्चासौ सर्वमंत्रमयो गुरुः ॥ तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ 22॥
सर्व-देव-आत्मकः च असौ सर्व-मंत्र-मयः गुरुः ॥ तस्मात् सर्व-प्रयत्नेन यस्य आज्ञाम् शिरसा वहेत् ॥ २२॥
sarva-deva-ātmakaḥ ca asau sarva-maṃtra-mayaḥ guruḥ .. tasmāt sarva-prayatnena yasya ājñām śirasā vahet .. 22..
श्रेयो ऽर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ॥ गुर्वाज्ञापालको यस्माज्ज्ञानसंपत्तिमश्नुते ॥ 23॥
श्रेयः अर्थी यदि गुरु-आज्ञाम् मनसा अपि न लंघयेत् ॥ गुरु-आज्ञा-पालकः यस्मात् ज्ञान-संपत्तिम् अश्नुते ॥ २३॥
śreyaḥ arthī yadi guru-ājñām manasā api na laṃghayet .. guru-ājñā-pālakaḥ yasmāt jñāna-saṃpattim aśnute .. 23..
गच्छंस्तिष्ठन्स्वपन्भुंजन्नान्यत्कर्म समाचरेत् ॥ समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ 24॥
गच्छन् तिष्ठन् स्वपन् भुंजन् न अन्यत् कर्म समाचरेत् ॥ समक्षम् यदि कुर्वीत सर्वम् च अनुज्ञया गुरोः ॥ २४॥
gacchan tiṣṭhan svapan bhuṃjan na anyat karma samācaret .. samakṣam yadi kurvīta sarvam ca anujñayā guroḥ .. 24..
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ॥ गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ 25॥
गुरोः गृहे समक्षम् वा न यथा इष्ट-आसनः भवेत् ॥ गुरुः देवः यतस् साक्षात् तत् गृहम् देव-मन्दिरम् ॥ २५॥
guroḥ gṛhe samakṣam vā na yathā iṣṭa-āsanaḥ bhavet .. guruḥ devaḥ yatas sākṣāt tat gṛham deva-mandiram .. 25..
पापिनां च यथा संगात्तत्पापात्पतितो भवेत् ॥ यथेह वह्निसंपर्कान्मलं त्यजति कांचनम् ॥ 26॥
पापिनाम् च यथा संगात् तद्-पापात् पतितः भवेत् ॥ यथा इह वह्नि-संपर्कात् मलम् त्यजति कांचनम् ॥ २६॥
pāpinām ca yathā saṃgāt tad-pāpāt patitaḥ bhavet .. yathā iha vahni-saṃparkāt malam tyajati kāṃcanam .. 26..
तथैव गुरुसंपर्कात्पापं त्यजति मानवः ॥ यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ॥ 27॥
तथा एव गुरु-संपर्कात् पापम् त्यजति मानवः ॥ यथा वह्नि-समीप-स्थः घृत-कुम्भः विलीयते ॥ २७॥
tathā eva guru-saṃparkāt pāpam tyajati mānavaḥ .. yathā vahni-samīpa-sthaḥ ghṛta-kumbhaḥ vilīyate .. 27..
तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ यथा प्रज्वलितो वह्निः शुष्कमार्द्रं च निर्दहेत् ॥ 28॥
तथा पापम् विलीयेत हि आचार्यस्य समीपतः ॥ यथा प्रज्वलितः वह्निः शुष्कम् आर्द्रम् च निर्दहेत् ॥ २८॥
tathā pāpam vilīyeta hi ācāryasya samīpataḥ .. yathā prajvalitaḥ vahniḥ śuṣkam ārdram ca nirdahet .. 28..
तथायमपि संतुष्टो गुरुः पापं क्षणाद्दहेत् ॥ मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ॥ 29॥
तथा अयम् अपि संतुष्टः गुरुः पापम् क्षणात् दहेत् ॥ मनसा कर्मणा वाचा गुरोः क्रोधम् न कारयेत् ॥ २९॥
tathā ayam api saṃtuṣṭaḥ guruḥ pāpam kṣaṇāt dahet .. manasā karmaṇā vācā guroḥ krodham na kārayet .. 29..
तस्य क्रोधेन दह्यंते ह्यायुःश्रीज्ञानसत्क्रियाः ॥ तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ॥ 30॥
तस्य क्रोधेन दह्यंते हि आयुः-श्री-ज्ञान-सत्क्रियाः ॥ तद्-क्रोध-कारिणः ये स्युः तेषाम् यज्ञाः च निष्फलाः ॥ ३०॥
tasya krodhena dahyaṃte hi āyuḥ-śrī-jñāna-satkriyāḥ .. tad-krodha-kāriṇaḥ ye syuḥ teṣām yajñāḥ ca niṣphalāḥ .. 30..
यमश्च नियमाश्चैव नात्र कार्या विचारणा ॥ गुरोर्विरुद्धं यद्वाक्यं न वदेज्जातुचिन्नरः ॥ 31॥
यमः च नियमाः च एव न अत्र कार्या विचारणा ॥ गुरोः विरुद्धम् यत् वाक्यम् न वदेत् जातुचित् नरः ॥ ३१॥
yamaḥ ca niyamāḥ ca eva na atra kāryā vicāraṇā .. guroḥ viruddham yat vākyam na vadet jātucit naraḥ .. 31..
वदेद्यदि महामोहाद्रौरवं नरकं व्रजेत् ॥ मनसा कर्मणा वाचा गुरुमुद्दिश्य यत्नतः ॥ 32॥
वदेत् यदि महा-मोहात् रौरवम् नरकम् व्रजेत् ॥ मनसा कर्मणा वाचा गुरुम् उद्दिश्य यत्नतः ॥ ३२॥
vadet yadi mahā-mohāt rauravam narakam vrajet .. manasā karmaṇā vācā gurum uddiśya yatnataḥ .. 32..
श्रेयोर्थी चेन्नरो धीमान्न मिथ्याचारमाचरेत् ॥ गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ॥ 33॥
श्रेयः-ऋथी चेद् नरः धीमान् न मिथ्या आचारम् आचरेत् ॥ गुरोः हितम् प्रियम् कुर्यात् आदिष्टः वा न वा सदा ॥ ३३॥
śreyaḥ-ṛthī ced naraḥ dhīmān na mithyā ācāram ācaret .. guroḥ hitam priyam kuryāt ādiṣṭaḥ vā na vā sadā .. 33..
असमक्षं समक्षं वा तस्य कार्यं समाचरेत् ॥ इत्थमाचारवान्भक्तो नित्यमुद्युक्तमानसः ॥ 34॥
असमक्षम् समक्षम् वा तस्य कार्यम् समाचरेत् ॥ इत्थम् आचारवान् भक्तः नित्यम् उद्युक्त-मानसः ॥ ३४॥
asamakṣam samakṣam vā tasya kāryam samācaret .. ittham ācāravān bhaktaḥ nityam udyukta-mānasaḥ .. 34..
गुरुप्रियकरः शिष्यः शैवधर्मांस्ततो ऽर्हति ॥ गुरुश्चेद्गुणवान्प्राज्ञः परमानंदभासकः ॥ 35॥
गुरु-प्रिय-करः शिष्यः शैव-धर्मान् ततस् अर्हति ॥ गुरुः चेद् गुणवान् प्राज्ञः परम-आनंद-भासकः ॥ ३५॥
guru-priya-karaḥ śiṣyaḥ śaiva-dharmān tatas arhati .. guruḥ ced guṇavān prājñaḥ parama-ānaṃda-bhāsakaḥ .. 35..
तत्त्वविच्छिवसंसक्तो मुक्तिदो न तु चापरः ॥ संवित्संजननं तत्त्वं परमानंदसंभवम् ॥ 36॥
तत्त्व-विद् शिव-संसक्तः मुक्ति-दः न तु च अपरः ॥ संविद्-संजननम् तत्त्वम् परमानंद-संभवम् ॥ ३६॥
tattva-vid śiva-saṃsaktaḥ mukti-daḥ na tu ca aparaḥ .. saṃvid-saṃjananam tattvam paramānaṃda-saṃbhavam .. 36..
तत्तत्त्वं विदितं येन स एवानंददर्शकः ॥ न पुनर्नाममात्रेण संविदारहितस्तु यः ॥ 37॥
तत् तत्त्वम् विदितम् येन सः एव आनंद-दर्शकः ॥ न पुनर् नाम-मात्रेण संविद्-आरहितः तु यः ॥ ३७॥
tat tattvam viditam yena saḥ eva ānaṃda-darśakaḥ .. na punar nāma-mātreṇa saṃvid-ārahitaḥ tu yaḥ .. 37..
अन्योन्यं तारयेन्नौका किं शिला तारयेच्छिलाम् ॥ एतस्या नाममात्रेण मुक्तिर्वै नाममात्रिका ॥ 38॥
अन्योन्यम् तारयेत् नौका किम् शिला तारयेत् शिलाम् ॥ एतस्याः नाम-मात्रेण मुक्तिः वै नाममात्रिका ॥ ३८॥
anyonyam tārayet naukā kim śilā tārayet śilām .. etasyāḥ nāma-mātreṇa muktiḥ vai nāmamātrikā .. 38..
यैः पुनर्विदितं तत्त्वं ते मुक्ता मोचयन्त्यपि ॥ तत्त्वहीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ॥ 39॥
यैः पुनर् विदितम् तत्त्वम् ते मुक्ताः मोचयन्ति अपि ॥ तत्त्व-हीने कुतस् बोधः कुतस् हि आत्म-परिग्रहः ॥ ३९॥
yaiḥ punar viditam tattvam te muktāḥ mocayanti api .. tattva-hīne kutas bodhaḥ kutas hi ātma-parigrahaḥ .. 39..
परिग्रहविनिर्मुक्तः पशुरित्यभिधीयते ॥ पशुभिः प्रेरितश्चापि पशुत्वं नातिवर्तते ॥ 40॥
परिग्रह-विनिर्मुक्तः पशुः इति अभिधीयते ॥ पशुभिः प्रेरितः च अपि पशु-त्वम् न अतिवर्तते ॥ ४०॥
parigraha-vinirmuktaḥ paśuḥ iti abhidhīyate .. paśubhiḥ preritaḥ ca api paśu-tvam na ativartate .. 40..
तस्मात्तत्त्वविदेवेह मुक्तो मोचक इष्यते ॥ सर्वलक्षणसंयुक्तः सर्वशास्त्रविदप्ययम् ॥ 41॥
तस्मात् तत्त्व-विद् एव इह मुक्तः मोचकः इष्यते ॥ सर्व-लक्षण-संयुक्तः सर्व-शास्त्र-विद् अपि अयम् ॥ ४१॥
tasmāt tattva-vid eva iha muktaḥ mocakaḥ iṣyate .. sarva-lakṣaṇa-saṃyuktaḥ sarva-śāstra-vid api ayam .. 41..
सर्वोपायविधिज्ञो ऽपि तत्त्वहीनस्तु निष्फलः ॥ यस्यानुभवपर्यंता बुद्धिस्तत्त्वे प्रवर्तते ॥ 42॥
सर्व-उपाय-विधि-ज्ञः अपि तत्त्व-हीनः तु निष्फलः ॥ यस्य अनुभव-पर्यंता बुद्धिः तत्त्वे प्रवर्तते ॥ ४२॥
sarva-upāya-vidhi-jñaḥ api tattva-hīnaḥ tu niṣphalaḥ .. yasya anubhava-paryaṃtā buddhiḥ tattve pravartate .. 42..
तस्यावलोकनाद्यैश्च परानन्दो ऽभिजायते ॥ तस्माद्यस्यैव संपर्कात्प्रबोधानंदसंभवः ॥ 43॥
तस्य अवलोकन-आद्यैः च परानन्दः अभिजायते ॥ तस्मात् यस्य एव संपर्कात् प्रबोध-आनंद-संभवः ॥ ४३॥
tasya avalokana-ādyaiḥ ca parānandaḥ abhijāyate .. tasmāt yasya eva saṃparkāt prabodha-ānaṃda-saṃbhavaḥ .. 43..
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ स शिष्यैर्विनयाचारचतुरैरुचितो गुरुः ॥ 44॥
गुरुम् तम् एव वृणुयात् न अपरम् मतिमान् नरः ॥ स शिष्यैः विनय-आचार-चतुरैः उचितः गुरुः ॥ ४४॥
gurum tam eva vṛṇuyāt na aparam matimān naraḥ .. sa śiṣyaiḥ vinaya-ācāra-caturaiḥ ucitaḥ guruḥ .. 44..
यावद्विज्ञायते तावत्सेवनीयो मुमुक्षुभिः ॥ ज्ञाते तस्मिन्स्थिरा भक्तिर्यावत्तत्त्वं समाश्रयेत् ॥ 45॥
यावत् विज्ञायते तावत् सेवनीयः मुमुक्षुभिः ॥ ज्ञाते तस्मिन् स्थिरा भक्तिः यावत् तत्त्वम् समाश्रयेत् ॥ ४५॥
yāvat vijñāyate tāvat sevanīyaḥ mumukṣubhiḥ .. jñāte tasmin sthirā bhaktiḥ yāvat tattvam samāśrayet .. 45..
न तु तत्त्वं त्यजेज्जातु नोपेक्षेत कथंचन ॥ यत्रानंदः प्रबोधो वा नाल्पमप्युपलभ्यते ॥ 46॥
न तु तत्त्वम् त्यजेत् जातु न उपेक्षेत कथंचन ॥ यत्र आनंदः प्रबोधः वा न अल्पम् अपि उपलभ्यते ॥ ४६॥
na tu tattvam tyajet jātu na upekṣeta kathaṃcana .. yatra ānaṃdaḥ prabodhaḥ vā na alpam api upalabhyate .. 46..
वत्सरादपि शिष्येण सो ऽन्यं गुरुमुपाश्रयेत् ॥ गुरुमन्यं प्रपन्ने ऽपि नावमन्येत पौर्विकम् ॥ 47॥
वत्सरात् अपि शिष्येण सः अन्यम् गुरुम् उपाश्रयेत् ॥ गुरुम् अन्यम् प्रपन्ने अपि न अवमन्येत पौर्विकम् ॥ ४७॥
vatsarāt api śiṣyeṇa saḥ anyam gurum upāśrayet .. gurum anyam prapanne api na avamanyeta paurvikam .. 47..
गुरोर्भ्रात्ःंस्तथा पुत्रान्बोधकान्प्रेरकानपि ॥ तत्रादावुपसंगम्य ब्राह्मणं वेदपारगम् ॥ 47॥
गुरोः भ्रात्ंन् तथा पुत्रान् बोधकान् प्रेरकान् अपि ॥ तत्र आदौ उपसंगम्य ब्राह्मणम् वेदपारगम् ॥ ४७॥
guroḥ bhrātṃn tathā putrān bodhakān prerakān api .. tatra ādau upasaṃgamya brāhmaṇam vedapāragam .. 47..
गुरुमाराधयेत्प्राज्ञं शुभगं प्रियदर्शनम् ॥ सर्वाभयप्रदातारं करुणाक्रांतमानसम् ॥ 48॥
गुरुम् आराधयेत् प्राज्ञम् शुभगम् प्रिय-दर्शनम् ॥ सर्व-अभय-प्रदातारम् करुणा-आक्रांत-मानसम् ॥ ४८॥
gurum ārādhayet prājñam śubhagam priya-darśanam .. sarva-abhaya-pradātāram karuṇā-ākrāṃta-mānasam .. 48..
तोषयेत्तं प्रयत्नेन मनसा कर्मणा गिरा ॥ तावदाराधयेच्छिष्यः प्रसन्नोसौ भवेद्यथा ॥ 49॥
तोषयेत् तम् प्रयत्नेन मनसा कर्मणा गिरा ॥ तावत् आराधयेत् शिष्यः प्रसन्ना उसौ भवेत् यथा ॥ ४९॥
toṣayet tam prayatnena manasā karmaṇā girā .. tāvat ārādhayet śiṣyaḥ prasannā usau bhavet yathā .. 49..
तस्मिन्प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ 50॥
तस्मिन् प्रसन्ने शिष्यस्य सद्यस् पाप-क्षयः भवेत् ॥ तस्मात् धनानि रत्नानि क्षेत्राणि च गृहाणि च ॥ ५०॥
tasmin prasanne śiṣyasya sadyas pāpa-kṣayaḥ bhavet .. tasmāt dhanāni ratnāni kṣetrāṇi ca gṛhāṇi ca .. 50..
भूषणानि च वासांसि यानशय्यासनानि च ॥ एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ॥ 51॥
भूषणानि च वासांसि यान-शय्या-आसनानि च ॥ एतानि गुरवे दद्यात् भक्त्या वित्त-अनुसारतः ॥ ५१॥
bhūṣaṇāni ca vāsāṃsi yāna-śayyā-āsanāni ca .. etāni gurave dadyāt bhaktyā vitta-anusārataḥ .. 51..
वित्तशाठ्यं न कुर्वीत यदीच्छेत्परमां गतिम् ॥ स एव जनको माता भर्ता बन्धुर्धनं सुखम् ॥ 52॥
वित्त-शाठ्यम् न कुर्वीत यदि इच्छेत् परमाम् गतिम् ॥ सः एव जनकः माता भर्ता बन्धुः धनम् सुखम् ॥ ५२॥
vitta-śāṭhyam na kurvīta yadi icchet paramām gatim .. saḥ eva janakaḥ mātā bhartā bandhuḥ dhanam sukham .. 52..
सखा मित्रं च यत्तस्मात्सर्वं तस्मै निवेदयेत् ॥ निवेद्य पश्चात्स्वात्मानं सान्वयं सपरिग्रहम् ॥ 53॥
सखा मित्रम् च यत् तस्मात् सर्वम् तस्मै निवेदयेत् ॥ निवेद्य पश्चात् स्व-आत्मानम् स अन्वयम् स परिग्रहम् ॥ ५३॥
sakhā mitram ca yat tasmāt sarvam tasmai nivedayet .. nivedya paścāt sva-ātmānam sa anvayam sa parigraham .. 53..
समर्प्य सोदकं तस्मै नित्यं तद्वशगो भवेत् ॥ यदा शिवाय स्वात्मानं दत्तवान् देशिकात्मने ॥ 54॥
समर्प्य स उदकम् तस्मै नित्यम् तद्-वशगः भवेत् ॥ यदा शिवाय स्व-आत्मानम् दत्तवान् देशिक-आत्मने ॥ ५४॥
samarpya sa udakam tasmai nityam tad-vaśagaḥ bhavet .. yadā śivāya sva-ātmānam dattavān deśika-ātmane .. 54..
तदा शैवो भवेद्देही न ततो ऽस्ति पुनर्भवः ॥ गुरुश्च स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् ॥ 55॥
तदा शैवः भवेत् देही न ततस् अस्ति पुनर्भवः ॥ गुरुः च स्व-आश्रितम् शिष्यम् वर्षम् एकम् परीक्षयेत् ॥ ५५॥
tadā śaivaḥ bhavet dehī na tatas asti punarbhavaḥ .. guruḥ ca sva-āśritam śiṣyam varṣam ekam parīkṣayet .. 55..
ब्राह्मणं क्षत्रियं वैश्यं द्विवर्षं च त्रिवर्षकम् ॥ प्राणद्रव्यप्रदानाद्यैरादेशैश्च समासमैः ॥ 56॥
ब्राह्मणम् क्षत्रियम् वैश्यम् द्वि-वर्षम् च त्रि-वर्षकम् ॥ प्राण-द्रव्य-प्रदान-आद्यैः आदेशैः च सम-असमैः ॥ ५६॥
brāhmaṇam kṣatriyam vaiśyam dvi-varṣam ca tri-varṣakam .. prāṇa-dravya-pradāna-ādyaiḥ ādeśaiḥ ca sama-asamaiḥ .. 56..
उत्तमांश्चाधमे कृत्वा नीचानुत्तमकर्मणि ॥ आक्रुष्टास्ताडिता वापि ये विषादं न यान्त्यपि ॥ 57॥
उत्तमान् च अधमे कृत्वा नीच-अन् उत्तम-कर्मणि ॥ आक्रुष्टाः ताडिताः वा अपि ये विषादम् न यान्ति अपि ॥ ५७॥
uttamān ca adhame kṛtvā nīca-an uttama-karmaṇi .. ākruṣṭāḥ tāḍitāḥ vā api ye viṣādam na yānti api .. 57..
ते योग्याः संयताः शुद्धाः शिवसंस्कारकर्मणि ॥ अहिंसका दयावंतो नित्यमुद्युक्तचेतसः ॥ 58॥
ते योग्याः संयताः शुद्धाः शिव-संस्कार-कर्मणि ॥ अहिंसकाः दयावंतः नित्यम् उद्युक्त-चेतसः ॥ ५८॥
te yogyāḥ saṃyatāḥ śuddhāḥ śiva-saṃskāra-karmaṇi .. ahiṃsakāḥ dayāvaṃtaḥ nityam udyukta-cetasaḥ .. 58..
अमानिनो बुद्धिमंतस्त्यक्तस्पर्धाः प्रियंवदाः ॥ ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ॥ 59॥
अमानिनः बुद्धिमंतः त्यक्त-स्पर्धाः प्रियंवदाः ॥ ऋजवः मृदवः सु अच्छाः विनीताः स्थिर-चेतसः ॥ ५९॥
amāninaḥ buddhimaṃtaḥ tyakta-spardhāḥ priyaṃvadāḥ .. ṛjavaḥ mṛdavaḥ su acchāḥ vinītāḥ sthira-cetasaḥ .. 59..
शौचाचारसमायुक्ताः शिवभक्ता द्विजातयः ॥ एवं वृत्तसमोपेता वाङ्मनःकायकर्मभिः ॥ 60॥
शौच-आचार-समायुक्ताः शिव-भक्ताः द्विजातयः ॥ एवम् वृत्त-समोपेताः वाच्-मनः-काय-कर्मभिः ॥ ६०॥
śauca-ācāra-samāyuktāḥ śiva-bhaktāḥ dvijātayaḥ .. evam vṛtta-samopetāḥ vāc-manaḥ-kāya-karmabhiḥ .. 60..
शोध्या बोध्या यथान्यायमिति शास्त्रेषु निश्चयः ॥ नाधिकारः स्वतो नार्याः शिवसंस्कारकर्मणि ॥ 61॥
शोध्याः बोध्याः यथान्यायम् इति शास्त्रेषु निश्चयः ॥ न अधिकारः स्वतस् नार्याः शिव-संस्कार-कर्मणि ॥ ६१॥
śodhyāḥ bodhyāḥ yathānyāyam iti śāstreṣu niścayaḥ .. na adhikāraḥ svatas nāryāḥ śiva-saṃskāra-karmaṇi .. 61..
नियोगाद्भर्तुरस्त्येव भक्तियुक्ता यदीश्वरे ॥ तथैव भर्तृहीनाया पुत्रादेरभ्यनुज्ञया ॥ 62॥
नियोगात् भर्तुः अस्ति एव भक्ति-युक्ता यदि ईश्वरे ॥ तथा एव पुत्र-आदेः अभ्यनुज्ञया ॥ ६२॥
niyogāt bhartuḥ asti eva bhakti-yuktā yadi īśvare .. tathā eva putra-ādeḥ abhyanujñayā .. 62..
अधिकारो भवत्येव कन्यायाः पितुराज्ञया ॥ शूद्राणां मर्त्यजातीनां पतितानां विशेषतः ॥ 63॥
अधिकारः भवति एव कन्यायाः पितुः आज्ञया ॥ शूद्राणाम् मर्त्य-जातीनाम् पतितानाम् विशेषतः ॥ ६३॥
adhikāraḥ bhavati eva kanyāyāḥ pituḥ ājñayā .. śūdrāṇām martya-jātīnām patitānām viśeṣataḥ .. 63..
तथा संकरजातीनां नाध्वशुद्धिर्विधीयते ॥ तैप्यकृत्रिमभावश्चेच्छिवे परमकारणे ॥ 64॥
तथा संकर-जातीनाम् न अध्व-शुद्धिः विधीयते ॥ तैप्य-कृत्रिम-भावः चेद् शिवे परम-कारणे ॥ ६४॥
tathā saṃkara-jātīnām na adhva-śuddhiḥ vidhīyate .. taipya-kṛtrima-bhāvaḥ ced śive parama-kāraṇe .. 64..
पादोदकप्रदानाद्यैः कुर्युः पापविशोधनम् ॥ अत्रानुलोमजाता ये युक्ता एव द्विजातिषु ॥ 65॥
पाद-उदक-प्रदान-आद्यैः कुर्युः पाप-विशोधनम् ॥ अत्र अनुलोम-जाताः ये युक्ताः एव द्विजातिषु ॥ ६५॥
pāda-udaka-pradāna-ādyaiḥ kuryuḥ pāpa-viśodhanam .. atra anuloma-jātāḥ ye yuktāḥ eva dvijātiṣu .. 65..
तेषामध्वविशुद्ध्यादि कुर्यान्मातृकुलोचितम् ॥ या तु कन्या स्वपित्राद्यैश्शिवधर्मे नियोजिता ॥ 66॥
तेषाम् अध्व-विशुद्धि-आदि कुर्यात् मातृ-कुल-उचितम् ॥ या तु कन्या स्व-पितृ-आद्यैः शिव-धर्मे नियोजिता ॥ ६६॥
teṣām adhva-viśuddhi-ādi kuryāt mātṛ-kula-ucitam .. yā tu kanyā sva-pitṛ-ādyaiḥ śiva-dharme niyojitā .. 66..
सा भक्ताय प्रदातव्या नापराय विरोधिने ॥ दत्ता चेत्प्रतिकूलाय प्रमादाद्बोधयेत्पतिम् ॥ 67॥
सा भक्ताय प्रदातव्या न अपराय विरोधिने ॥ दत्ता चेद् प्रतिकूलाय प्रमादात् बोधयेत् पतिम् ॥ ६७॥
sā bhaktāya pradātavyā na aparāya virodhine .. dattā ced pratikūlāya pramādāt bodhayet patim .. 67..
अशक्ता तं परित्यज्य मनसा धर्ममाचरेत् ॥ यथा मुनिवरं त्यक्त्वा पतिमत्रिं पतिव्रता ॥ 68॥
अशक्ता तम् परित्यज्य मनसा धर्मम् आचरेत् ॥ यथा मुनि-वरम् त्यक्त्वा पतिम् अत्रिम् पतिव्रता ॥ ६८॥
aśaktā tam parityajya manasā dharmam ācaret .. yathā muni-varam tyaktvā patim atrim pativratā .. 68..
कृतकृत्या ऽभवत्पूर्वं तपसाराध्य शङ्करम् ॥ यथा नारायणं देवं तपसाराध्य पांडवान् ॥ 69॥
कृतकृत्या अभवत् पूर्वम् तपसा आराध्य शङ्करम् ॥ यथा नारायणम् देवम् तपसा आराध्य पांडवान् ॥ ६९॥
kṛtakṛtyā abhavat pūrvam tapasā ārādhya śaṅkaram .. yathā nārāyaṇam devam tapasā ārādhya pāṃḍavān .. 69..
पतींल्लब्धवती धर्मे गुरुभिर्न नियोजिता ॥ अस्वातन्त्र्यकृतो दोषो नेहास्ति परमार्थतः ॥ 70॥
पतीन् लब्धवती धर्मे गुरुभिः न नियोजिता ॥ अस्वातन्त्र्य-कृतः दोषः न इह अस्ति परमार्थतः ॥ ७०॥
patīn labdhavatī dharme gurubhiḥ na niyojitā .. asvātantrya-kṛtaḥ doṣaḥ na iha asti paramārthataḥ .. 70..
शिवधर्मे नियुक्तायाश्शिवशासनगौरवात् ॥ बहुनात्र किमुक्तेन यो ऽपि को ऽपि शिवाश्रयः ॥ 71॥
शिव-धर्मे नियुक्तायाः शिव-शासन-गौरवात् ॥ बहुना अत्र किम् उक्तेन यः अपि कः अपि शिव-आश्रयः ॥ ७१॥
śiva-dharme niyuktāyāḥ śiva-śāsana-gauravāt .. bahunā atra kim uktena yaḥ api kaḥ api śiva-āśrayaḥ .. 71..
संस्कार्यो गुर्वधीनश्चेत्संस्क्रिया न प्रभिद्यते ॥ गुरोरालोकनादेव स्पर्शात्संभाषणादपि ॥ 72॥
संस्कार्यः गुरु-अधीनः चेद् संस्क्रिया न प्रभिद्यते ॥ गुरोः आलोकनात् एव स्पर्शात् संभाषणात् अपि ॥ ७२॥
saṃskāryaḥ guru-adhīnaḥ ced saṃskriyā na prabhidyate .. guroḥ ālokanāt eva sparśāt saṃbhāṣaṇāt api .. 72..
यस्य संजायते प्रज्ञा तस्य नास्ति पराजयः ॥ मनसा यस्तु संस्कारः क्रियते योगवर्त्मना ॥ 73॥
यस्य संजायते प्रज्ञा तस्य न अस्ति पराजयः ॥ मनसा यः तु संस्कारः क्रियते योग-वर्त्मना ॥ ७३॥
yasya saṃjāyate prajñā tasya na asti parājayaḥ .. manasā yaḥ tu saṃskāraḥ kriyate yoga-vartmanā .. 73..
स नेह कथितो गुह्यो गुरुवक्त्रैकगोचरः ॥ क्रियावान्यस्तु संस्कारः कुंडमंडपपूर्वकः ॥ स वक्ष्यते समासेन तस्य शक्यो न विस्तरः ॥ 74॥
स ना इह कथितः गुह्यः गुरु-वक्त्र-एक-गोचरः ॥ क्रियावान् यः तु संस्कारः कुंड-मंडप-पूर्वकः ॥ स वक्ष्यते समासेन तस्य शक्यः न विस्तरः ॥ ७४॥
sa nā iha kathitaḥ guhyaḥ guru-vaktra-eka-gocaraḥ .. kriyāvān yaḥ tu saṃskāraḥ kuṃḍa-maṃḍapa-pūrvakaḥ .. sa vakṣyate samāsena tasya śakyaḥ na vistaraḥ .. 74..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यं नाम पञ्चदशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे दीक्षाविधाने गुरुमाहात्म्यम् नाम पञ्चदशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe dīkṣāvidhāne gurumāhātmyam nāma pañcadaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In