| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
पुण्ये ऽहनि शुचौ देशे बहुदोषविवर्जिते ॥देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ ७.२, १६.१ ॥
पुण्ये अहनि शुचौ देशे बहु-दोष-विवर्जिते ॥देशिकः प्रथमम् कुर्यात् संस्कारम् समय-आह्वयम् ॥ ७।२, १६।१ ॥
puṇye ahani śucau deśe bahu-doṣa-vivarjite ..deśikaḥ prathamam kuryāt saṃskāram samaya-āhvayam .. 7.2, 16.1 ..
परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ ७.२, १६.२ ॥
परीक्ष्य भूमिम् विधिवत् गंध-वर्ण-रस-आदिभिः ॥शिल्पि-शास्त्र-उक्त-मार्गेण मण्डपम् तत्र कल्पयेत् ॥ ७।२, १६।२ ॥
parīkṣya bhūmim vidhivat gaṃdha-varṇa-rasa-ādibhiḥ ..śilpi-śāstra-ukta-mārgeṇa maṇḍapam tatra kalpayet .. 7.2, 16.2 ..
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ॥अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ७.२, १६.३ ॥
कृत्वा वेदिम् च तद्-मध्ये कुण्डानि परिकल्पयेत् ॥अष्ट-दिक्षु तथा दिक्षु तत्र ऐशान्याम् पुनर् क्रमात् ॥ ७।२, १६।३ ॥
kṛtvā vedim ca tad-madhye kuṇḍāni parikalpayet ..aṣṭa-dikṣu tathā dikṣu tatra aiśānyām punar kramāt .. 7.2, 16.3 ..
प्रधानकुंडं कुर्वीत यद्वा पश्चिमभागतः ॥प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ७.२, १६.४ ॥
प्रधान-कुंडम् कुर्वीत यत् वा पश्चिम-भागतः ॥प्रधानम् एकम् एव अथ कृत्वा शोभाम् प्रकल्पयेत् ॥ ७।२, १६।४ ॥
pradhāna-kuṃḍam kurvīta yat vā paścima-bhāgataḥ ..pradhānam ekam eva atha kṛtvā śobhām prakalpayet .. 7.2, 16.4 ..
वितानध्वजमालाभिर्विविधाभिरनेकशः ॥वेदिमध्ये ततः कुर्यान्मंडलं शुभलक्षणम् ॥ ७.२, १६.५ ॥
वितान-ध्वज-मालाभिः विविधाभिः अनेकशस् ॥वेदि-मध्ये ततस् कुर्यात् मंडलम् शुभ-लक्षणम् ॥ ७।२, १६।५ ॥
vitāna-dhvaja-mālābhiḥ vividhābhiḥ anekaśas ..vedi-madhye tatas kuryāt maṃḍalam śubha-lakṣaṇam .. 7.2, 16.5 ..
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ॥सिंदूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ७.२, १६.६ ॥
रक्त-हेम-आदिभिः चूर्णैः ईश्वर-आवाहन-उचितम् ॥सिंदूर-शालिनी-वार-चूर्णैः एव अथ निर्धनः ॥ ७।२, १६।६ ॥
rakta-hema-ādibhiḥ cūrṇaiḥ īśvara-āvāhana-ucitam ..siṃdūra-śālinī-vāra-cūrṇaiḥ eva atha nirdhanaḥ .. 7.2, 16.6 ..
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ॥एकहस्तस्य पद्मस्य कर्णिकाष्टांगुला मता ॥ ७.२, १६.७ ॥
एक-हस्तम् द्वि-हस्तम् वा सितम् वा रक्तम् एव वा ॥एक-हस्तस्य पद्मस्य कर्णिका अष्ट-अंगुला मता ॥ ७।२, १६।७ ॥
eka-hastam dvi-hastam vā sitam vā raktam eva vā ..eka-hastasya padmasya karṇikā aṣṭa-aṃgulā matā .. 7.2, 16.7 ..
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ॥द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ७.२, १६.८ ॥
केसराणि तद्-अर्धानि शेषम् च अष्टदल-आदिकम् ॥द्वि-हस्तस्य तु पद्मस्य द्विगुणम् कर्णिका-आदिकम् ॥ ७।२, १६।८ ॥
kesarāṇi tad-ardhāni śeṣam ca aṣṭadala-ādikam ..dvi-hastasya tu padmasya dviguṇam karṇikā-ādikam .. 7.2, 16.8 ..
कृत्वा शोभोपशोभाढ्यमैशान्यां तस्य कल्पयेत् ॥एकहस्तं तदर्धं वा पुनर्वेद्यः तु मंडलम् ॥ ७.२, १६.९ ॥
कृत्वा शोभा-उपशोभा-आढ्यम् ऐशान्याम् तस्य कल्पयेत् ॥एक-हस्तम् तद्-अर्धम् वा पुनर् वेद्यः तु मण्डलम् ॥ ७।२, १६।९ ॥
kṛtvā śobhā-upaśobhā-āḍhyam aiśānyām tasya kalpayet ..eka-hastam tad-ardham vā punar vedyaḥ tu maṇḍalam .. 7.2, 16.9 ..
व्रीहितंदुलसिद्धार्थतिलपुष्पकुशास्तृते ॥तत्र लक्षणसंयुक्तं शिवकुंभं प्रसाधयेत् ॥ ७.२, १६.१० ॥
व्रीहि-तंदुल-सिद्धार्थ-तिल-पुष्प-कुश-आस्तृते ॥तत्र लक्षण-संयुक्तम् शिव-कुंभम् प्रसाधयेत् ॥ ७।२, १६।१० ॥
vrīhi-taṃdula-siddhārtha-tila-puṣpa-kuśa-āstṛte ..tatra lakṣaṇa-saṃyuktam śiva-kuṃbham prasādhayet .. 7.2, 16.10 ..
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ॥गन्धपुष्पाक्षताकीर्णं कुशदूर्वांकुराचितम् ॥ ७.२, १६.११ ॥
सौवर्णम् राजतम् वा अपि ताम्र-जम् मृद्-मयम् तु वा ॥गन्ध-पुष्प-अक्षत-आकीर्णम् कुश-दूर्वा-अंकुर-आचितम् ॥ ७।२, १६।११ ॥
sauvarṇam rājatam vā api tāmra-jam mṛd-mayam tu vā ..gandha-puṣpa-akṣata-ākīrṇam kuśa-dūrvā-aṃkura-ācitam .. 7.2, 16.11 ..
सितसूत्रावृतं कंठे नववस्त्रयुगावृतम् ॥शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ ७.२, १६.१२ ॥
सित-सूत्र-आवृतम् कंठे नव-वस्त्र-युग-आवृतम् ॥शुद्ध-अम्बु-पूर्णम् उत्कूर्चम् स द्रव्यम् स पिधानकम् ॥ ७।२, १६।१२ ॥
sita-sūtra-āvṛtam kaṃṭhe nava-vastra-yuga-āvṛtam ..śuddha-ambu-pūrṇam utkūrcam sa dravyam sa pidhānakam .. 7.2, 16.12 ..
भृङ्गारं वर्धनीं चापि शंखं च चक्रमेव वा ॥विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ ७.२, १६.१३ ॥
भृङ्गारम् वर्धनीम् च अपि शंखम् च चक्रम् एव वा ॥विना सूत्र-आदिकम् सर्वम् पद्म-पत्रम् अथ अपि वा ॥ ७।२, १६।१३ ॥
bhṛṅgāram vardhanīm ca api śaṃkham ca cakram eva vā ..vinā sūtra-ādikam sarvam padma-patram atha api vā .. 7.2, 16.13 ..
तस्यासनारविंदस्य कल्पयेदुत्तरे दले ॥अग्रतश्चंदनांभोभिरस्त्रराजस्य वर्धनीम् ॥ ७.२, १६.१४ ॥
तस्य आसन-अरविंदस्य कल्पयेत् उत्तरे दले ॥अग्रतस् चंदन-अंभोभिः अस्त्रराजस्य वर्धनीम् ॥ ७।२, १६।१४ ॥
tasya āsana-araviṃdasya kalpayet uttare dale ..agratas caṃdana-aṃbhobhiḥ astrarājasya vardhanīm .. 7.2, 16.14 ..
मण्डलस्य ततः प्राच्यां मंत्रकुंभे च पूर्ववत् ॥कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ ७.२, १६.१५ ॥
मण्डलस्य ततस् प्राच्याम् मंत्र-कुंभे च पूर्ववत् ॥कृत्वा विधिवत् ईशस्य महा-पूजाम् समाचरेत् ॥ ७।२, १६।१५ ॥
maṇḍalasya tatas prācyām maṃtra-kuṃbhe ca pūrvavat ..kṛtvā vidhivat īśasya mahā-pūjām samācaret .. 7.2, 16.15 ..
अथार्णवस्य तीरे वा नद्यां गोष्ठे ऽपि वा गिरौ ॥देवागरे गृहे वापि देशे ऽन्यस्मिन्मनोहरे ॥ ७.२, १६.१६ ॥
अथ अर्णवस्य तीरे वा नद्याम् गोष्ठे अपि वा गिरौ ॥देव-आगरे गृहे वा अपि देशे अन्यस्मिन् मनोहरे ॥ ७।२, १६।१६ ॥
atha arṇavasya tīre vā nadyām goṣṭhe api vā girau ..deva-āgare gṛhe vā api deśe anyasmin manohare .. 7.2, 16.16 ..
कृत्वा पूर्वोदितं सर्वं विना वा मंडपादिकम् ॥मंडलं पूर्ववत्कृत्वा स्थंडिलं च विभावसोः ॥ ७.२, १६.१७ ॥
कृत्वा पूर्व-उदितम् सर्वम् विना वा मंडप-आदिकम् ॥मंडलम् पूर्ववत् कृत्वा स्थंडिलम् च विभावसोः ॥ ७।२, १६।१७ ॥
kṛtvā pūrva-uditam sarvam vinā vā maṃḍapa-ādikam ..maṃḍalam pūrvavat kṛtvā sthaṃḍilam ca vibhāvasoḥ .. 7.2, 16.17 ..
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ॥सर्वमंगलसंयुक्तः समाचरितनैत्यकः ॥ ७.२, १६.१८ ॥
प्रविश्य पूजा-भवनम् प्रहृष्ट-वदनः गुरुः ॥सर्व-मंगल-संयुक्तः समाचरित-नैत्यकः ॥ ७।२, १६।१८ ॥
praviśya pūjā-bhavanam prahṛṣṭa-vadanaḥ guruḥ ..sarva-maṃgala-saṃyuktaḥ samācarita-naityakaḥ .. 7.2, 16.18 ..
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ॥शिवकुंभे तथा भूयः शिवमावाह्य पूजयेत् ॥ ७.२, १६.१९ ॥
महा-पूजाम् महेशस्य कृत्वा मण्डल-मध्यतस् ॥शिव-कुंभे तथा भूयस् शिवम् आवाह्य पूजयेत् ॥ ७।२, १६।१९ ॥
mahā-pūjām maheśasya kṛtvā maṇḍala-madhyatas ..śiva-kuṃbhe tathā bhūyas śivam āvāhya pūjayet .. 7.2, 16.19 ..
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ॥अर्चयेदस्त्रवर्धन्यामस्त्रमीशस्य दक्षिणे ॥ ७.२, १६.२० ॥
पश्चिम-अभिमुखम् ध्यात्वा यज्ञरक्षकम् ईश्वरम् ॥अर्चयेत् अस्त्रवर्धन्याम् अस्त्रम् ईशस्य दक्षिणे ॥ ७।२, १६।२० ॥
paścima-abhimukham dhyātvā yajñarakṣakam īśvaram ..arcayet astravardhanyām astram īśasya dakṣiṇe .. 7.2, 16.20 ..
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ॥कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ ७.२, १६.२१ ॥
मन्त्र-कुम्भे च विन्यस्य मन्त्रम् मन्त्र-विशारदः ॥कृत्वा मुद्रा-आदिकम् सर्वम् मन्त्र-यागम् समाचरेत् ॥ ७।२, १६।२१ ॥
mantra-kumbhe ca vinyasya mantram mantra-viśāradaḥ ..kṛtvā mudrā-ādikam sarvam mantra-yāgam samācaret .. 7.2, 16.21 ..
ततश्शिवानले होमं कुर्याद्देशिकसत्तमः ॥प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ ७.२, १६.२२ ॥
ततस् शिव-अनले होमम् कुर्यात् देशिक-सत्तमः ॥प्रधान-कुण्डे परितस् जुहुयुः च अपरे द्विजाः ॥ ७।२, १६।२२ ॥
tatas śiva-anale homam kuryāt deśika-sattamaḥ ..pradhāna-kuṇḍe paritas juhuyuḥ ca apare dvijāḥ .. 7.2, 16.22 ..
आचार्यात्पादमर्धं वा होमस्तेषां विधीयते ॥प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ ७.२, १६.२३ ॥
आचार्यात् पादम् अर्धम् वा होमः तेषाम् विधीयते ॥प्रधान-कुण्डे एव अथ जुहुयात् देशिक-उत्तमः ॥ ७।२, १६।२३ ॥
ācāryāt pādam ardham vā homaḥ teṣām vidhīyate ..pradhāna-kuṇḍe eva atha juhuyāt deśika-uttamaḥ .. 7.2, 16.23 ..
स्वाध्यायमपरे कुर्युः स्तोत्रं मंगलवाचनम् ॥जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ ७.२, १६.२४ ॥
स्वाध्यायम् अपरे कुर्युः स्तोत्रम् मंगल-वाचनम् ॥जपम् च विधिवत् च अन्ये शिव-भक्ति-परायणाः ॥ ७।२, १६।२४ ॥
svādhyāyam apare kuryuḥ stotram maṃgala-vācanam ..japam ca vidhivat ca anye śiva-bhakti-parāyaṇāḥ .. 7.2, 16.24 ..
नृत्यं गीतं च वाद्यं च मंगलान्यपराणि च ॥पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ ७.२, १६.२५ ॥
नृत्यम् गीतम् च वाद्यम् च मंगलानि अपराणि च ॥पूजनम् च सदस्यानाम् कृत्वा सम्यक् विधानतः ॥ ७।२, १६।२५ ॥
nṛtyam gītam ca vādyam ca maṃgalāni aparāṇi ca ..pūjanam ca sadasyānām kṛtvā samyak vidhānataḥ .. 7.2, 16.25 ..
पुण्याहं कारयित्वाथ पुनः संपूज्य शंकरम् ॥प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ ७.२, १६.२६ ॥
पुण्याहम् कारयित्वा अथ पुनर् संपूज्य शंकरम् ॥प्रार्थयेत् देशिकः देवम् शिष्य-अनुग्रह-काम्यया ॥ ७।२, १६।२६ ॥
puṇyāham kārayitvā atha punar saṃpūjya śaṃkaram ..prārthayet deśikaḥ devam śiṣya-anugraha-kāmyayā .. 7.2, 16.26 ..
प्रसीद देवदेवेश देहमाविश्य मामकम् ॥विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ ७.२, १६.२७ ॥
प्रसीद देवदेवेश देहम् आविश्य मामकम् ॥विमोचय एनम् विश्वेश घृणया च घृणा-निधे ॥ ७।२, १६।२७ ॥
prasīda devadeveśa deham āviśya māmakam ..vimocaya enam viśveśa ghṛṇayā ca ghṛṇā-nidhe .. 7.2, 16.27 ..
अथ चैवं करोमीति लब्धानुज्ञस्तु देशिकः ॥आनीयोपोषितं शिष्यं हविष्याशिनमेव वा ॥ ७.२, १६.२८ ॥
अथ च एवम् करोमि इति लब्ध-अनुज्ञः तु देशिकः ॥आनीय उपोषितम् शिष्यम् हविष्य-आशिनम् एव वा ॥ ७।२, १६।२८ ॥
atha ca evam karomi iti labdha-anujñaḥ tu deśikaḥ ..ānīya upoṣitam śiṣyam haviṣya-āśinam eva vā .. 7.2, 16.28 ..
एकाशनं वा विरतं स्नातं प्रातःकृतक्रियम् ॥जपंतं प्रणवं देवं ध्यायंतं कृतमंगलम् ॥ ७.२, १६.२९ ॥
एक-अशनम् वा विरतम् स्नातम् प्रातर् कृत-क्रियम् ॥जपंतम् प्रणवम् देवम् ध्यायंतम् कृत-मंगलम् ॥ ७।२, १६।२९ ॥
eka-aśanam vā viratam snātam prātar kṛta-kriyam ..japaṃtam praṇavam devam dhyāyaṃtam kṛta-maṃgalam .. 7.2, 16.29 ..
द्वारस्य पश्चिमस्याग्रमण्डले दक्षिणस्य वा ॥दर्भासने समासीनं विधायोदङ्मुखं शिशुम् ॥ ७.२, १६.३० ॥
द्वारस्य पश्चिमस्य अग्र-मण्डले दक्षिणस्य वा ॥दर्भ-आसने समासीनम् विधाय उदक्-मुखम् शिशुम् ॥ ७।२, १६।३० ॥
dvārasya paścimasya agra-maṇḍale dakṣiṇasya vā ..darbha-āsane samāsīnam vidhāya udak-mukham śiśum .. 7.2, 16.30 ..
स्वयं प्राग्वदनस्तिष्ठन्नूर्ध्वकायं कृतांजलिम् ॥संप्रोक्ष्य प्रोक्षणौतोयैर्मूर्धन्यस्त्रेण मुद्रया ॥ ७.२, १६.३१ ॥
स्वयम् प्राच्-वदनः तिष्ठन् ऊर्ध्व-कायम् कृत-अंजलिम् ॥संप्रोक्ष्य प्रोक्षणौ तोयैः मूर्धनि अस्त्रेण मुद्रया ॥ ७।२, १६।३१ ॥
svayam prāc-vadanaḥ tiṣṭhan ūrdhva-kāyam kṛta-aṃjalim ..saṃprokṣya prokṣaṇau toyaiḥ mūrdhani astreṇa mudrayā .. 7.2, 16.31 ..
पुष्पक्षेपेण संताड्य बध्नीयाल्लोचनं गुरुः ॥दुकूलार्धेन वस्त्रेण मंत्रितेन नवेन च ॥ ७.२, १६.३२ ॥
पुष्प-क्षेपेण संताड्य बध्नीयात् लोचनम् गुरुः ॥दुकूल-अर्धेन वस्त्रेण मंत्रितेन नवेन च ॥ ७।२, १६।३२ ॥
puṣpa-kṣepeṇa saṃtāḍya badhnīyāt locanam guruḥ ..dukūla-ardhena vastreṇa maṃtritena navena ca .. 7.2, 16.32 ..
ततः प्रवेशयेच्छिष्यं गुरुर्द्वारेण मंडलम् ॥सो ऽपि तेनेरितः शंभोराचरेत्त्रिः प्रदक्षिणम् ॥ ७.२, १६.३३ ॥
ततस् प्रवेशयेत् शिष्यम् गुरुः द्वारेण मंडलम् ॥सः अपि तेन ईरितः शंभोः आचरेत् त्रिस् प्रदक्षिणम् ॥ ७।२, १६।३३ ॥
tatas praveśayet śiṣyam guruḥ dvāreṇa maṃḍalam ..saḥ api tena īritaḥ śaṃbhoḥ ācaret tris pradakṣiṇam .. 7.2, 16.33 ..
ततस्सुवर्णसंमिश्रं दत्त्वा पुष्पांजलिं प्रभोः ॥प्राङ्मुखश्चोदङ्मुखो वा प्रणमेद्दंडवत्क्षितो ॥ ७.२, १६.३४ ॥
ततस् सुवर्ण-संमिश्रम् दत्त्वा पुष्प-अंजलिम् प्रभोः ॥प्राच्-मुखः च उदक्-मुखः वा प्रणमेत् दण्ड-वत् क्षितो ॥ ७।२, १६।३४ ॥
tatas suvarṇa-saṃmiśram dattvā puṣpa-aṃjalim prabhoḥ ..prāc-mukhaḥ ca udak-mukhaḥ vā praṇamet daṇḍa-vat kṣito .. 7.2, 16.34 ..
ततस्संप्रोक्ष्य मूलेन शिरस्यस्त्रेण पूर्ववत् ॥संताड्य देशिकस्तस्य मोचयेन्नेत्रबंधनम् ॥ ७.२, १६.३५ ॥
ततस् संप्रोक्ष्य मूलेन शिरसि अस्त्रेण पूर्ववत् ॥संताड्य देशिकः तस्य मोचयेत् नेत्र-बंधनम् ॥ ७।२, १६।३५ ॥
tatas saṃprokṣya mūlena śirasi astreṇa pūrvavat ..saṃtāḍya deśikaḥ tasya mocayet netra-baṃdhanam .. 7.2, 16.35 ..
स दृष्ट्वा मंडलं भूयः प्रणमेत्साञ्जलिः प्रभुम् ॥अथासीनं शिवाचार्यो मंडलस्य तु दक्षिणे ॥ ७.२, १६.३६ ॥
स दृष्ट्वा मंडलम् भूयस् प्रणमेत् स अञ्जलिः प्रभुम् ॥अथ आसीनम् शिव-आचार्यः मंडलस्य तु दक्षिणे ॥ ७।२, १६।३६ ॥
sa dṛṣṭvā maṃḍalam bhūyas praṇamet sa añjaliḥ prabhum ..atha āsīnam śiva-ācāryaḥ maṃḍalasya tu dakṣiṇe .. 7.2, 16.36 ..
उपवेश्यात्मनस्सव्ये शिष्यं दर्भासने गुरुः ॥आराध्य च महादेवं शिवहस्तं प्रविन्यसेत् ॥ ७.२, १६.३७ ॥
उपवेश्य आत्मनः सव्ये शिष्यम् दर्भ-आसने गुरुः ॥आराध्य च महादेवम् शिव-हस्तम् प्रविन्यसेत् ॥ ७।२, १६।३७ ॥
upaveśya ātmanaḥ savye śiṣyam darbha-āsane guruḥ ..ārādhya ca mahādevam śiva-hastam pravinyaset .. 7.2, 16.37 ..
शिवतेजोमयं पाणिं शिवमंत्रमुदीरयेत् ॥शिवाभिमानसंपन्नो न्यसेच्छिष्यस्य मस्तके ॥ ७.२, १६.३८ ॥
शिव-तेजः-मयम् पाणिम् शिव-मंत्रम् उदीरयेत् ॥शिव-अभिमान-संपन्नः न्यसेत् शिष्यस्य मस्तके ॥ ७।२, १६।३८ ॥
śiva-tejaḥ-mayam pāṇim śiva-maṃtram udīrayet ..śiva-abhimāna-saṃpannaḥ nyaset śiṣyasya mastake .. 7.2, 16.38 ..
सर्वांगालंबनं चैव कुर्यात्तेनैव देशिकः ॥शिष्यो ऽपि प्रणमेद्भूमौ देशिकाकृतमीश्वरम् ॥ ७.२, १६.३९ ॥
सर्व-अंग-आलंबनम् च एव कुर्यात् तेन एव देशिकः ॥शिष्यः अपि प्रणमेत् भूमौ देशिका-कृतम् ईश्वरम् ॥ ७।२, १६।३९ ॥
sarva-aṃga-ālaṃbanam ca eva kuryāt tena eva deśikaḥ ..śiṣyaḥ api praṇamet bhūmau deśikā-kṛtam īśvaram .. 7.2, 16.39 ..
ततश्शिवानले देवं समभ्यर्च्य यथाविधि ॥हुताहुतित्रयं शिष्यमुपवेश्य यथा पुरा ॥ ७.२, १६.४० ॥
ततस् शिव-अनले देवम् समभ्यर्च्य यथाविधि ॥हुत-आहुति-त्रयम् शिष्यम् उपवेश्य यथा पुरा ॥ ७।२, १६।४० ॥
tatas śiva-anale devam samabhyarcya yathāvidhi ..huta-āhuti-trayam śiṣyam upaveśya yathā purā .. 7.2, 16.40 ..
दर्भाग्रैः संस्पृशंस्तं च विद्ययात्मानमाविशेत् ॥नमस्कृत्य महादेवं नाडीसंधानमाचरेत् ॥ ७.२, १६.४१ ॥
दर्भ-अग्रैः संस्पृशन् तम् च विद्यया आत्मानम् आविशेत् ॥नमस्कृत्य महादेवम् नाडीसंधानम् आचरेत् ॥ ७।२, १६।४१ ॥
darbha-agraiḥ saṃspṛśan tam ca vidyayā ātmānam āviśet ..namaskṛtya mahādevam nāḍīsaṃdhānam ācaret .. 7.2, 16.41 ..
शिवशास्त्रोक्तमार्गेण कृत्वा प्राणस्य निर्गमम् ॥शिष्यदेहप्रवेशं च स्मृत्वा मंत्रांस्तु तर्पयेत् ॥ ७.२, १६.४२ ॥
शिव-शास्त्र-उक्त-मार्गेण कृत्वा प्राणस्य निर्गमम् ॥शिष्य-देह-प्रवेशम् च स्मृत्वा मंत्रान् तु तर्पयेत् ॥ ७।२, १६।४२ ॥
śiva-śāstra-ukta-mārgeṇa kṛtvā prāṇasya nirgamam ..śiṣya-deha-praveśam ca smṛtvā maṃtrān tu tarpayet .. 7.2, 16.42 ..
संतर्पणाय मूलस्य तेनैवाहुतयो दश ॥देयास्तिस्रस्तथांगानामंगैरेव यथाक्रमम् ॥ ७.२, १६.४३ ॥
संतर्पणाय मूलस्य तेन एव आहुतयः दश ॥देयाः तिस्रः तथा अंगानाम् अंगैः एव यथाक्रमम् ॥ ७।२, १६।४३ ॥
saṃtarpaṇāya mūlasya tena eva āhutayaḥ daśa ..deyāḥ tisraḥ tathā aṃgānām aṃgaiḥ eva yathākramam .. 7.2, 16.43 ..
ततः पूर्णाहुतिं दत्त्वा प्रायश्चित्ताय देशिकः ॥पुनर्दशाहुतीन्कुर्यान्मूलमंत्रेण मंत्रवित् ॥ ७.२, १६.४४ ॥
ततस् पूर्णाहुतिम् दत्त्वा प्रायश्चित्ताय देशिकः ॥पुनर् दश-आहुतीन् कुर्यात् मूलमंत्रेण मंत्र-विद् ॥ ७।२, १६।४४ ॥
tatas pūrṇāhutim dattvā prāyaścittāya deśikaḥ ..punar daśa-āhutīn kuryāt mūlamaṃtreṇa maṃtra-vid .. 7.2, 16.44 ..
पुनः संपूज्य देवेशं सम्यगाचम्य देशिकः ॥हुत्वा चैव यथान्यायं स्वजात्या वैश्यमुद्धरेत् ॥ ७.२, १६.४५ ॥
पुनर् संपूज्य देवेशम् सम्यक् आचम्य देशिकः ॥हुत्वा च एव यथान्यायम् स्व-जात्या वैश्यम् उद्धरेत् ॥ ७।२, १६।४५ ॥
punar saṃpūjya deveśam samyak ācamya deśikaḥ ..hutvā ca eva yathānyāyam sva-jātyā vaiśyam uddharet .. 7.2, 16.45 ..
तस्यैवं जनयेत्क्षात्रमुद्धारं च ततः पुनः ॥कृत्वा तथैव विप्रत्वं जनयेदस्य देशिकः ॥ ७.२, १६.४६ ॥
तस्य एवम् जनयेत् क्षात्रम् उद्धारम् च ततस् पुनर् ॥कृत्वा तथा एव विप्र-त्वम् जनयेत् अस्य देशिकः ॥ ७।२, १६।४६ ॥
tasya evam janayet kṣātram uddhāram ca tatas punar ..kṛtvā tathā eva vipra-tvam janayet asya deśikaḥ .. 7.2, 16.46 ..
राजन्यं चैवमुद्धृत्य कृत्वा विप्रं पुनस्तयोः ॥रुद्रत्वं जनयेद्विप्रे रुद्रनामैव साधयेत् ॥ ७.२, १६.४७ ॥
राजन्यम् च एवम् उद्धृत्य कृत्वा विप्रम् पुनर् तयोः ॥रुद्र-त्वम् जनयेत् विप्रे रुद्र-नाम एव साधयेत् ॥ ७।२, १६।४७ ॥
rājanyam ca evam uddhṛtya kṛtvā vipram punar tayoḥ ..rudra-tvam janayet vipre rudra-nāma eva sādhayet .. 7.2, 16.47 ..
प्रोक्षणं ताडनं कृत्वा शिशोस्स्वात्मानमात्मनि ॥शिवात्मकमनुस्मृत्य स्फुरंतं विस्फुलिंगवत् ॥ ७.२, १६.४८ ॥
प्रोक्षणम् ताडनम् कृत्वा शिशोः स्व-आत्मानम् आत्मनि ॥शिव-आत्मकम् अनुस्मृत्य स्फुरंतम् विस्फुलिंग-वत् ॥ ७।२, १६।४८ ॥
prokṣaṇam tāḍanam kṛtvā śiśoḥ sva-ātmānam ātmani ..śiva-ātmakam anusmṛtya sphuraṃtam visphuliṃga-vat .. 7.2, 16.48 ..
नाड्या यथोक्तया वायुं रेचयेन्मंत्रतो गुरुः ॥निर्गम्य प्रविशेन्नाड्या शिष्यस्य हृदयं तथा ॥ ७.२, १६.४९ ॥
नाड्या यथा उक्तया वायुम् रेचयेत् मंत्रतः गुरुः ॥निर्गम्य प्रविशेत् नाड्या शिष्यस्य हृदयम् तथा ॥ ७।२, १६।४९ ॥
nāḍyā yathā uktayā vāyum recayet maṃtrataḥ guruḥ ..nirgamya praviśet nāḍyā śiṣyasya hṛdayam tathā .. 7.2, 16.49 ..
प्रविश्य तस्य चैतन्यं नीलबिन्दुनिभं स्मरन् ॥स्वतेजसापास्तमलं ज्वलंतमनुचिंतयेत् ॥ ७.२, १६.५० ॥
प्रविश्य तस्य चैतन्यम् नील-बिन्दु-निभम् स्मरन् ॥स्व-तेजसा अपास्त-मलम् ज्वलंतम् अनुचिंतयेत् ॥ ७।२, १६।५० ॥
praviśya tasya caitanyam nīla-bindu-nibham smaran ..sva-tejasā apāsta-malam jvalaṃtam anuciṃtayet .. 7.2, 16.50 ..
तमादाय तया नाड्या मंत्री संहारमुद्रया ॥न पूरकेण निवेश्यैनमेकीभावार्थमात्मनः ॥ ७.२, १६.५१ ॥
तम् आदाय तया नाड्या मंत्री संहार-मुद्रया ॥न पूरकेण निवेश्य एनम् एकीभाव-अर्थम् आत्मनः ॥ ७।२, १६।५१ ॥
tam ādāya tayā nāḍyā maṃtrī saṃhāra-mudrayā ..na pūrakeṇa niveśya enam ekībhāva-artham ātmanaḥ .. 7.2, 16.51 ..
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥तस्मादादाय शिष्यस्य हृदये तन्निवेशयेत् ॥ ७.२, १६.५२ ॥
कुंभकेन तथा नाड्या रेचकेन यथा पुरा ॥तस्मात् आदाय शिष्यस्य हृदये तत् निवेशयेत् ॥ ७।२, १६।५२ ॥
kuṃbhakena tathā nāḍyā recakena yathā purā ..tasmāt ādāya śiṣyasya hṛdaye tat niveśayet .. 7.2, 16.52 ..
तमालभ्य शिवाल्लब्धं तस्मै दत्त्वोपवीतकम् ॥हुत्वा"हुतित्रयं पश्चाद्दद्यात्पूर्णाहुतिं ततः ॥ ७.२, १६.५३ ॥
तम् आलभ्य शिवात् लब्धम् तस्मै दत्त्वा उपवीतकम् ॥हुत्वा"हुति-त्रयम् पश्चात् दद्यात् पूर्णाहुतिम् ततस् ॥ ७।२, १६।५३ ॥
tam ālabhya śivāt labdham tasmai dattvā upavītakam ..hutvā"huti-trayam paścāt dadyāt pūrṇāhutim tatas .. 7.2, 16.53 ..
देवस्य दक्षिणे शिष्यमुपवेश्यवरासने ॥कुशपुष्पपरिस्तीर्णे बद्धांजलिरुदङ्मुखम् ॥ ७.२, १६.५४ ॥
देवस्य दक्षिणे शिष्यम् उपवेश्य वरासने ॥कुश-पुष्प-परिस्तीर्णे बद्ध-अंजलिः उदक्-मुखम् ॥ ७।२, १६।५४ ॥
devasya dakṣiṇe śiṣyam upaveśya varāsane ..kuśa-puṣpa-paristīrṇe baddha-aṃjaliḥ udak-mukham .. 7.2, 16.54 ..
स्वस्तिकासनमारूढं विधाय प्राङ्मुखः स्वयम् ॥वरासनस्थितो मंत्रैर्महामंगलनिःस्वनैः ॥ ७.२, १६.५५ ॥
स्वस्तिक-आसनम् आरूढम् विधाय प्राच्-मुखः स्वयम् ॥वरासन-स्थितः मंत्रैः महामंगल-निःस्वनैः ॥ ७।२, १६।५५ ॥
svastika-āsanam ārūḍham vidhāya prāc-mukhaḥ svayam ..varāsana-sthitaḥ maṃtraiḥ mahāmaṃgala-niḥsvanaiḥ .. 7.2, 16.55 ..
समादाय घटं पूर्णं पूर्णमेव प्रसादितम् ॥ध्यायमानः शिवं शिष्यमाभिषिंचेत देशिकः ॥ ७.२, १६.५६ ॥
समादाय घटम् पूर्णम् पूर्णम् एव प्रसादितम् ॥ध्यायमानः शिवम् शिष्यम् आ अभिषिंचेत देशिकः ॥ ७।२, १६।५६ ॥
samādāya ghaṭam pūrṇam pūrṇam eva prasāditam ..dhyāyamānaḥ śivam śiṣyam ā abhiṣiṃceta deśikaḥ .. 7.2, 16.56 ..
अथापनुद्य स्नानांबु परिधाय सितांबरम् ॥आचान्तोलंकृतश्शिष्यः प्रांजलिर्मंडपं व्रजेत् ॥ ७.२, १६.५७ ॥
अथा अपनुद्य स्नान-अंबु परिधाय सित-अंबरम् ॥आचान्त-उलंकृतः शिष्यः प्रांजलिः मंडपम् व्रजेत् ॥ ७।२, १६।५७ ॥
athā apanudya snāna-aṃbu paridhāya sita-aṃbaram ..ācānta-ulaṃkṛtaḥ śiṣyaḥ prāṃjaliḥ maṃḍapam vrajet .. 7.2, 16.57 ..
उपवेश्य यथापूर्वं तं गुरुर्दर्भविष्टरे ॥संपूज्य मंडलं देवं करन्यासं समाचरेत् ॥ ७.२, १६.५८ ॥
उपवेश्य यथापूर्वम् तम् गुरुः दर्भ-विष्टरे ॥संपूज्य मंडलम् देवम् कर-न्यासम् समाचरेत् ॥ ७।२, १६।५८ ॥
upaveśya yathāpūrvam tam guruḥ darbha-viṣṭare ..saṃpūjya maṃḍalam devam kara-nyāsam samācaret .. 7.2, 16.58 ..
ततस्तु भस्मना देवं ध्यायन्मनसि देशिकः ॥समालभेत पाणिभ्यां शिशुं शिवमुदीरयेत् ॥ ७.२, १६.५९ ॥
ततस् तु भस्मना देवम् ध्यायन् मनसि देशिकः ॥समालभेत पाणिभ्याम् शिशुम् शिवम् उदीरयेत् ॥ ७।२, १६।५९ ॥
tatas tu bhasmanā devam dhyāyan manasi deśikaḥ ..samālabheta pāṇibhyām śiśum śivam udīrayet .. 7.2, 16.59 ..
अथ तस्य शिवाचार्यो दहनप्लावनादिकम् ॥सकलीकरणं कृत्वा मातृकान्यासवर्त्मना ॥ ७.२, १६.६० ॥
अथ तस्य शिव-आचार्यः दहन-प्लावन-आदिकम् ॥सकलीकरणम् कृत्वा मातृका-न्यास-वर्त्मना ॥ ७।२, १६।६० ॥
atha tasya śiva-ācāryaḥ dahana-plāvana-ādikam ..sakalīkaraṇam kṛtvā mātṛkā-nyāsa-vartmanā .. 7.2, 16.60 ..
ततः शिवासनं ध्यात्वा शिष्यमूर्ध्नि देशिकः ॥तत्रावाह्य यथान्यायमर्चयेन्मनसा शिवम् ॥ ७.२, १६.६१ ॥
ततस् शिव-आसनम् ध्यात्वा शिष्य-मूर्ध्नि देशिकः ॥तत्र आवाह्य यथान्यायम् अर्चयेत् मनसा शिवम् ॥ ७।२, १६।६१ ॥
tatas śiva-āsanam dhyātvā śiṣya-mūrdhni deśikaḥ ..tatra āvāhya yathānyāyam arcayet manasā śivam .. 7.2, 16.61 ..
प्रार्थयेत्प्रांजलिर्देवं नित्यमत्र स्थितो भव ॥इति विज्ञाप्य तं शंभोस्तेजसा भासुरं स्मरेत् ॥ ७.२, १६.६२ ॥
प्रार्थयेत् प्रांजलिः देवम् नित्यम् अत्र स्थितः भव ॥इति विज्ञाप्य तम् शंभोः तेजसा भासुरम् स्मरेत् ॥ ७।२, १६।६२ ॥
prārthayet prāṃjaliḥ devam nityam atra sthitaḥ bhava ..iti vijñāpya tam śaṃbhoḥ tejasā bhāsuram smaret .. 7.2, 16.62 ..
संपूज्याथ शिवं शैवीमाज्ञां प्राप्य शिवात्मिकाम् ॥कर्णे शिष्यस्य शनकैश्शिवमन्त्रमुदीरयेत् ॥ ७.२, १६.६३ ॥
संपूज्य अथ शिवम् शैवीम् आज्ञाम् प्राप्य शिव-आत्मिकाम् ॥कर्णे शिष्यस्य शनकैस् शिव-मन्त्रम् उदीरयेत् ॥ ७।२, १६।६३ ॥
saṃpūjya atha śivam śaivīm ājñām prāpya śiva-ātmikām ..karṇe śiṣyasya śanakais śiva-mantram udīrayet .. 7.2, 16.63 ..
स तु बद्धांजलिः श्रुत्वा मन्त्रं तद्गतमानसः ॥शनैस्तं व्याहरेच्छिष्यशिवाचार्यस्य शासनात् ॥ ७.२, १६.६४ ॥
स तु बद्धांजलिः श्रुत्वा मन्त्रम् तद्-गत-मानसः ॥शनैस् तम् व्याहरेत् शिष्य-शिव-आचार्यस्य शासनात् ॥ ७।२, १६।६४ ॥
sa tu baddhāṃjaliḥ śrutvā mantram tad-gata-mānasaḥ ..śanais tam vyāharet śiṣya-śiva-ācāryasya śāsanāt .. 7.2, 16.64 ..
ततः शाक्तं च संदिश्य मन्त्रं मन्त्रविचक्षणः ॥उच्चारयित्वा च सुखं तस्मै मंगलमादिशेत् ॥ ७.२, १६.६५ ॥
ततस् शाक्तम् च संदिश्य मन्त्रम् मन्त्र-विचक्षणः ॥उच्चारयित्वा च सुखम् तस्मै मंगलम् आदिशेत् ॥ ७।२, १६।६५ ॥
tatas śāktam ca saṃdiśya mantram mantra-vicakṣaṇaḥ ..uccārayitvā ca sukham tasmai maṃgalam ādiśet .. 7.2, 16.65 ..
ततस्समासान्मन्त्रार्थं वाच्यवाचकयोगतः ॥समदिश्येश्वरं रूपं योगमासनमादिशेत् ॥ ७.२, १६.६६ ॥
ततस् समासात् मन्त्र-अर्थम् वाच्य-वाचक-योगतः ॥समदिश्य ईश्वरम् रूपम् योगम् आसनम् आदिशेत् ॥ ७।२, १६।६६ ॥
tatas samāsāt mantra-artham vācya-vācaka-yogataḥ ..samadiśya īśvaram rūpam yogam āsanam ādiśet .. 7.2, 16.66 ..
अथ गुर्वाज्ञया शिष्यः शिवाग्निगुरुसन्निधौ ॥भक्त्यैवमभिसंधाय दीक्षावाक्यमुदीरयेत् ॥ ७.२, १६.६७ ॥
अथ गुरु-आज्ञया शिष्यः शिव-अग्नि-गुरु-सन्निधौ ॥भक्त्या एवम् अभिसंधाय दीक्षा-वाक्यम् उदीरयेत् ॥ ७।२, १६।६७ ॥
atha guru-ājñayā śiṣyaḥ śiva-agni-guru-sannidhau ..bhaktyā evam abhisaṃdhāya dīkṣā-vākyam udīrayet .. 7.2, 16.67 ..
वरं प्राणपरित्यागश्छेदनं शिरसो ऽपि वा ॥न त्वनभ्यर्च्य भुंजीय भगवन्तं त्रिलोचनम् ॥ ७.२, १६.६८ ॥
वरम् प्राण-परित्यागः छेदनम् शिरसः अपि वा ॥न तु अन् अभ्यर्च्य भुंजीय भगवन्तम् त्रिलोचनम् ॥ ७।२, १६।६८ ॥
varam prāṇa-parityāgaḥ chedanam śirasaḥ api vā ..na tu an abhyarcya bhuṃjīya bhagavantam trilocanam .. 7.2, 16.68 ..
स एव दद्यान्नियतो यावन्मोहविपर्ययः ॥तावदाराधयेद्देवं तन्निष्ठस्तत्परायणः ॥ ७.२, १६.६९ ॥
सः एव दद्यात् नियतः यावत् मोह-विपर्ययः ॥तावत् आराधयेत् देवम् तद्-निष्ठः तद्-परायणः ॥ ७।२, १६।६९ ॥
saḥ eva dadyāt niyataḥ yāvat moha-viparyayaḥ ..tāvat ārādhayet devam tad-niṣṭhaḥ tad-parāyaṇaḥ .. 7.2, 16.69 ..
ततः स समयो नाम भविष्यति शिवाश्रमे ॥लब्धाधिकारो गुर्वाज्ञापालकस्तद्वशो भवेत् ॥ ७.२, १६.७० ॥
ततस् स समयः नाम भविष्यति शिव-आश्रमे ॥लब्ध-अधिकारः गुरु-आज्ञा-पालकः तद्-वशः भवेत् ॥ ७।२, १६।७० ॥
tatas sa samayaḥ nāma bhaviṣyati śiva-āśrame ..labdha-adhikāraḥ guru-ājñā-pālakaḥ tad-vaśaḥ bhavet .. 7.2, 16.70 ..
अतः परं न्यस्तकरो भस्मादाय स्वहस्ततः ॥दद्याच्छिष्याय मूलेन रुद्राक्षं चाभिमंत्रितम् ॥ ७.२, १६.७१ ॥
अतस् परम् न्यस्त-करः भस्म आदाय स्व-हस्ततः ॥दद्यात् शिष्याय मूलेन रुद्राक्षम् च अभिमंत्रितम् ॥ ७।२, १६।७१ ॥
atas param nyasta-karaḥ bhasma ādāya sva-hastataḥ ..dadyāt śiṣyāya mūlena rudrākṣam ca abhimaṃtritam .. 7.2, 16.71 ..
प्रतिमा वापि देवस्य गूढदेहमथापि वा ॥पूजाहोमजपध्यानसाधनानि च संभवे ॥ ७.२, १६.७२ ॥
प्रतिमा वा अपि देवस्य गूढ-देहम् अथ अपि वा ॥पूजा-होम-जप-ध्यान-साधनानि च संभवे ॥ ७।२, १६।७२ ॥
pratimā vā api devasya gūḍha-deham atha api vā ..pūjā-homa-japa-dhyāna-sādhanāni ca saṃbhave .. 7.2, 16.72 ..
सोपि शिष्यः शिवाचार्याल्लब्धानि बहुमानतः ॥आददीताज्ञया तस्य देशिकस्य न चान्यथा ॥ ७.२, १६.७३ ॥
सः उपि शिष्यः शिव-आचार्यात् लब्धानि बहु-मानतः ॥आददीत आज्ञया तस्य देशिकस्य न च अन्यथा ॥ ७।२, १६।७३ ॥
saḥ upi śiṣyaḥ śiva-ācāryāt labdhāni bahu-mānataḥ ..ādadīta ājñayā tasya deśikasya na ca anyathā .. 7.2, 16.73 ..
आचार्यादाप्तमखिलं शिरस्याधाय भक्तितः ॥रक्षयेत्पूजयेच्छंभुं मठे वा गृह एववा ॥ ७.२, १६.७४ ॥
आचार्यात् आप्तम् अखिलम् शिरसि आधाय भक्तितः ॥रक्षयेत् पूजयेत् शंभुम् मठे वा गृहे एव वा ॥ ७।२, १६।७४ ॥
ācāryāt āptam akhilam śirasi ādhāya bhaktitaḥ ..rakṣayet pūjayet śaṃbhum maṭhe vā gṛhe eva vā .. 7.2, 16.74 ..
अतः परं शिवाचारमादिशेदस्य देशिकः ॥भक्तिश्रद्धानुसारेण प्रज्ञायाश्चानुसारतः ॥ ७.२, १६.७५ ॥
अतस् परम् शिव-आचारम् आदिशेत् अस्य देशिकः ॥भक्ति-श्रद्धा-अनुसारेण प्रज्ञायाः च अनुसारतः ॥ ७।२, १६।७५ ॥
atas param śiva-ācāram ādiśet asya deśikaḥ ..bhakti-śraddhā-anusāreṇa prajñāyāḥ ca anusārataḥ .. 7.2, 16.75 ..
यदुक्तं यत्समाज्ञातं यच्चैवान्यत्प्रकीर्तितम् ॥शिवाचार्येण समये तत्सर्वं शिरसा वहेत् ॥ ७.२, १६.७६ ॥
यत् उक्तम् यत् समाज्ञातम् यत् च एव अन्यत् प्रकीर्तितम् ॥शिवाचार्येण समये तत् सर्वम् शिरसा वहेत् ॥ ७।२, १६।७६ ॥
yat uktam yat samājñātam yat ca eva anyat prakīrtitam ..śivācāryeṇa samaye tat sarvam śirasā vahet .. 7.2, 16.76 ..
शिवागमस्य ग्रहणं वाचनं श्रवणं तथा ॥देशिकदेशतः कुर्यान्न स्वेच्छातो न चान्यतः ॥ ७.२, १६.७७ ॥
शिव-आगमस्य ग्रहणम् वाचनम् श्रवणम् तथा ॥देशिक-देशतः कुर्यात् न स्व-इच्छातः न च अन्यतस् ॥ ७।२, १६।७७ ॥
śiva-āgamasya grahaṇam vācanam śravaṇam tathā ..deśika-deśataḥ kuryāt na sva-icchātaḥ na ca anyatas .. 7.2, 16.77 ..
इति संक्षेपतः प्रोक्तः संस्कारः समयाह्वयः ॥साक्षाच्छिवपुरप्राप्तौ नृणां परमसाधनम् ॥ ७.२, १६.७८ ॥
इति संक्षेपतः प्रोक्तः संस्कारः समय-आह्वयः ॥साक्षात् शिव-पुर-प्राप्तौ नृणाम् परम-साधनम् ॥ ७।२, १६।७८ ॥
iti saṃkṣepataḥ proktaḥ saṃskāraḥ samaya-āhvayaḥ ..sākṣāt śiva-pura-prāptau nṛṇām parama-sādhanam .. 7.2, 16.78 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे शिष्यसंस्कारवर्णनं नाम षोडशोऽध्यायः॥ ॥ ७.२, १६.७९ ॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खंडे शिष्यसंस्कारवर्णनम् नाम षोडशः अध्यायः॥ ॥ ७।२, १६।७९ ॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṃḍe śiṣyasaṃskāravarṇanam nāma ṣoḍaśaḥ adhyāyaḥ.. .. 7.2, 16.79 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In