| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥ षडध्वशुद्धिं कुर्वीत सर्वबंधविमुक्तये ॥ ७.२,१७.१॥
अतस् परम् समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ॥ षडध्व-शुद्धिम् कुर्वीत सर्व-बंध-विमुक्तये ॥ ७।२,१७।१॥
atas param samāvekṣya guruḥ śiṣyasya yogyatām .. ṣaḍadhva-śuddhim kurvīta sarva-baṃdha-vimuktaye .. 7.2,17.1..
कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ॥ मंत्रश्चेति समासेन षडध्वा परिपठ्यते ॥ ७.२,१७.२॥
कलाम् तत्त्वम् च भुवनम् वर्णम् पदम् अतस् परम् ॥ मंत्रः च इति समासेन षडध्वा परिपठ्यते ॥ ७।२,१७।२॥
kalām tattvam ca bhuvanam varṇam padam atas param .. maṃtraḥ ca iti samāsena ṣaḍadhvā paripaṭhyate .. 7.2,17.2..
निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ॥ व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ७.२,१७.३॥
निवृत्त्य आद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ॥ व्याप्ताः कलाभिः इतरे तु अध्वानः पञ्च पञ्चभिः ॥ ७।२,१७।३॥
nivṛttya ādyāḥ kalāḥ pañca kalādhvā kathyate budhaiḥ .. vyāptāḥ kalābhiḥ itare tu adhvānaḥ pañca pañcabhiḥ .. 7.2,17.3..
शिवतत्त्वादिभूम्यंतं तत्त्वाध्वा समुदाहृतः ॥ षड्विंशत्संख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ७.२,१७.४॥
शिवतत्त्व-आदि-भूमि-अंतम् तत्त्वाध्वा समुदाहृतः ॥ षड्विंशत्-संख्यया उपेतः शुद्ध-अशुद्ध-उभय-आत्मकः ॥ ७।२,१७।४॥
śivatattva-ādi-bhūmi-aṃtam tattvādhvā samudāhṛtaḥ .. ṣaḍviṃśat-saṃkhyayā upetaḥ śuddha-aśuddha-ubhaya-ātmakaḥ .. 7.2,17.4..
आधाराद्युन्मनांतश्च भुवनाध्वा प्रकीर्तितः ॥ विना भेदोपभेदाभ्यां षष्टिसंख्यासमन्वितः ॥ ७.२,१७.५॥
आधार-आदि-उन्मना-अंतः च भुवनाध्वा प्रकीर्तितः ॥ विना भेद-उपभेदाभ्याम् षष्टि-संख्या-समन्वितः ॥ ७।२,१७।५॥
ādhāra-ādi-unmanā-aṃtaḥ ca bhuvanādhvā prakīrtitaḥ .. vinā bheda-upabhedābhyām ṣaṣṭi-saṃkhyā-samanvitaḥ .. 7.2,17.5..
पञ्चाशद्रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ॥ अनेकभेदसंपन्नः पदाध्वा समुदाहृतः ॥ ७.२,१७.६॥
पञ्चाशत् रुद्र-रूपाः तु वर्णाः वर्ण-अध्व-संज्ञिताः ॥ अनेक-भेद-संपन्नः पदाध्वा समुदाहृतः ॥ ७।२,१७।६॥
pañcāśat rudra-rūpāḥ tu varṇāḥ varṇa-adhva-saṃjñitāḥ .. aneka-bheda-saṃpannaḥ padādhvā samudāhṛtaḥ .. 7.2,17.6..
सर्वोपमंत्रैर्मंत्राध्वा व्याप्तः परमविद्यया ॥ यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७.२,१७.७॥
सर्व-उपमंत्रैः मंत्राध्वा व्याप्तः परम-विद्यया ॥ यथा शिवः न तत्त्वेषु गण्यते तत्त्व-नायकः ॥ ७।२,१७।७॥
sarva-upamaṃtraiḥ maṃtrādhvā vyāptaḥ parama-vidyayā .. yathā śivaḥ na tattveṣu gaṇyate tattva-nāyakaḥ .. 7.2,17.7..
मंत्राध्वनि न गण्येत तथासौ मंत्रनायकः ॥ कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ७.२,१७.८॥
मंत्राध्वनि न गण्येत तथा असौ मंत्रनायकः ॥ च ॥ ७।२,१७।८॥
maṃtrādhvani na gaṇyeta tathā asau maṃtranāyakaḥ .. ca .. 7.2,17.8..
न वेत्ति तत्त्वतो यस्य नैवार्हत्यध्वशोधनम् ॥ षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ७.२,१७.९॥
न वेत्ति तत्त्वतः यस्य ना एवा अर्हति अध्व-शोधनम् ॥ षड्विधस्य अध्वनः रूपम् न येन विदितम् भवेत् ॥ ७।२,१७।९॥
na vetti tattvataḥ yasya nā evā arhati adhva-śodhanam .. ṣaḍvidhasya adhvanaḥ rūpam na yena viditam bhavet .. 7.2,17.9..
व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ॥ तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ ७.२,१७.१०॥
व्याप्य-व्यापक-ता तेन ज्ञातुम् एव न शक्यते ॥ तस्मात् अध्व-स्वरूपम् च व्याप्य-व्यापक-ताम् तथा ॥ ७।२,१७।१०॥
vyāpya-vyāpaka-tā tena jñātum eva na śakyate .. tasmāt adhva-svarūpam ca vyāpya-vyāpaka-tām tathā .. 7.2,17.10..
यथावदवगम्यैव कुर्यादध्वविशोधनम् ॥ कुंडमंडलपर्यंतं तत्र कृत्वा यथा पुरा ॥ ७.२,१७.११॥
यथावत् अवगम्य एव कुर्यात् अध्व-विशोधनम् ॥ कुंड-मंडल-पर्यंतम् तत्र कृत्वा यथा पुरा ॥ ७।२,१७।११॥
yathāvat avagamya eva kuryāt adhva-viśodhanam .. kuṃḍa-maṃḍala-paryaṃtam tatra kṛtvā yathā purā .. 7.2,17.11..
द्विहस्तमानं कुर्वीत प्राच्यां कलशमंडलम् ॥ ततः स्नातश्शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ ७.२,१७.१२॥
द्वि-हस्त-मानम् कुर्वीत प्राच्याम् कलश-मंडलम् ॥ ततस् स्नातः शिव-आचार्यः स शिष्यः कृत-नैत्यकः ॥ ७।२,१७।१२॥
dvi-hasta-mānam kurvīta prācyām kalaśa-maṃḍalam .. tatas snātaḥ śiva-ācāryaḥ sa śiṣyaḥ kṛta-naityakaḥ .. 7.2,17.12..
प्रविश्य मंडलं शंभोः पूजां पूर्ववदाचरेत् ॥ तत्राढकावरैस्सिद्धं तंदुलैः पायसं प्रभोः ॥ ७.२,१७.१३॥
प्रविश्य मंडलम् शंभोः पूजाम् पूर्ववत् आचरेत् ॥ तत्र आढका-वरैः सिद्धम् तंदुलैः पायसम् प्रभोः ॥ ७।२,१७।१३॥
praviśya maṃḍalam śaṃbhoḥ pūjām pūrvavat ācaret .. tatra āḍhakā-varaiḥ siddham taṃdulaiḥ pāyasam prabhoḥ .. 7.2,17.13..
अर्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ॥ पुरतः कल्पिते वाथ मंडले वर्णिमंडिते ॥ ७.२,१७.१४॥
अर्धम् निवेद्य होम-अर्थम् शेषम् समुपकल्पयेत् ॥ पुरतस् कल्पिते वा अथ मंडले वर्णि-मंडिते ॥ ७।२,१७।१४॥
ardham nivedya homa-artham śeṣam samupakalpayet .. puratas kalpite vā atha maṃḍale varṇi-maṃḍite .. 7.2,17.14..
स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ॥ तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ ७.२,१७.१५॥
स्थापयेत् पञ्च-कलशान् दिक्षु मध्ये च देशिकः ॥ तेषु ब्रह्माणि मूल-अर्णैः बिन्दु-नाद-समन्वितैः ॥ ७।२,१७।१५॥
sthāpayet pañca-kalaśān dikṣu madhye ca deśikaḥ .. teṣu brahmāṇi mūla-arṇaiḥ bindu-nāda-samanvitaiḥ .. 7.2,17.15..
नम आद्यैर्यकरांतैः कल्पयेत्कल्पवित्तमः ॥ ईशानं मध्यमे कुंभे पुरुषं पुरतः स्थिते ॥ ७.२,१७.१६॥
नमः आद्यैः य-कर-अंतैः कल्पयेत् कल्प-वित्तमः ॥ ईशानम् मध्यमे कुंभे पुरुषम् पुरतस् स्थिते ॥ ७।२,१७।१६॥
namaḥ ādyaiḥ ya-kara-aṃtaiḥ kalpayet kalpa-vittamaḥ .. īśānam madhyame kuṃbhe puruṣam puratas sthite .. 7.2,17.16..
अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ॥ रक्षां विधाय मुद्रा च बद्ध्वा कुंभाभिमंत्रणम् ॥ ७.२,१७.१७॥
अघोरम् दक्षिणे वामे वामम् सद्यम् च पश्चिमे ॥ रक्षाम् विधाय मुद्रा च बद्ध्वा कुंभ-अभिमंत्रणम् ॥ ७।२,१७।१७॥
aghoram dakṣiṇe vāme vāmam sadyam ca paścime .. rakṣām vidhāya mudrā ca baddhvā kuṃbha-abhimaṃtraṇam .. 7.2,17.17..
कृत्वा शिवानलैर्होमं प्रारभेत्यथा पुरा ॥ यदर्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ ७.२,१७.१८॥
कृत्वा शिव-अनलैः होमम् प्रारभ इति अथा पुरा ॥ यद्-अर्धम् पायसम् पूर्वम् होम-अर्थम् परिकल्पितम् ॥ ७।२,१७।१८॥
kṛtvā śiva-analaiḥ homam prārabha iti athā purā .. yad-ardham pāyasam pūrvam homa-artham parikalpitam .. 7.2,17.18..
हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ॥ तर्पणांतं च मंत्राणां कृत्वा कर्म यथा पुरा ॥ ७.२,१७.१९॥
हुत्वा शिष्यस्य तत् शेषम् भोक्तुम् समुपकल्पयेत् ॥ तर्पण-अंतम् च मंत्राणाम् कृत्वा कर्म यथा पुरा ॥ ७।२,१७।१९॥
hutvā śiṣyasya tat śeṣam bhoktum samupakalpayet .. tarpaṇa-aṃtam ca maṃtrāṇām kṛtvā karma yathā purā .. 7.2,17.19..
हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ॥ ओंकारादनु हुंकारं ततो मूलं फडंतकम् ॥ ७.२,१७.२०॥
हुत्वा पूर्णाहुतिम् तेषाम् ततस् कुर्यात् प्रदीपनम् ॥ ओंकारात् अनु हुंकारम् ततस् मूलम् फट् अंतकम् ॥ ७।२,१७।२०॥
hutvā pūrṇāhutim teṣām tatas kuryāt pradīpanam .. oṃkārāt anu huṃkāram tatas mūlam phaṭ aṃtakam .. 7.2,17.20..
स्वाहांतं दीपने प्राहुरंगानि च यथाक्रमम् ॥ तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ ७.२,१७.२१॥
स्वाहा-अंतम् दीपने प्राहुः अंगानि च यथाक्रमम् ॥ तेषाम् आहुतयः तिस्रः देयाः दीपन-कर्मणि ॥ ७।२,१७।२१॥
svāhā-aṃtam dīpane prāhuḥ aṃgāni ca yathākramam .. teṣām āhutayaḥ tisraḥ deyāḥ dīpana-karmaṇi .. 7.2,17.21..
मंत्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ॥ त्रिगुणं त्रिगुणी कृत्य द्विजकन्याकृतं सितम् ॥ ७.२,१७.२२॥
मंत्रैः एकैकशस् तैः तु विचिन्त्याः दीप्त-मूर्तयः ॥ त्रिगुणम् त्रिगुणी कृत्य द्विज-कन्या-कृतम् सितम् ॥ ७।२,१७।२२॥
maṃtraiḥ ekaikaśas taiḥ tu vicintyāḥ dīpta-mūrtayaḥ .. triguṇam triguṇī kṛtya dvija-kanyā-kṛtam sitam .. 7.2,17.22..
सूत्रं सूत्रेण संमंत्र्य शिखाग्रे बंधयेच्छिशोः ॥ चरणांगुष्ठपर्यंतमूर्ध्वकायस्य तिष्ठतः ॥ ७.२,१७.२३॥
सूत्रम् सूत्रेण संमंत्र्य शिखा-अग्रे बंधयेत् शिशोः ॥ चरण-अंगुष्ठ-पर्यंतम् ऊर्ध्वकायस्य तिष्ठतः ॥ ७।२,१७।२३॥
sūtram sūtreṇa saṃmaṃtrya śikhā-agre baṃdhayet śiśoḥ .. caraṇa-aṃguṣṭha-paryaṃtam ūrdhvakāyasya tiṣṭhataḥ .. 7.2,17.23..
लंबयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ॥ शांतया मुद्रयादाय मूलमंत्रेण मंत्रवित् ॥ ७.२,१७.२४॥
लंबयित्वा तु तत् सूत्रम् सुषुम्णाम् तत्र योजयेत् ॥ शांतया मुद्रया आदाय मूलमंत्रेण मंत्र-विद् ॥ ७।२,१७।२४॥
laṃbayitvā tu tat sūtram suṣumṇām tatra yojayet .. śāṃtayā mudrayā ādāya mūlamaṃtreṇa maṃtra-vid .. 7.2,17.24..
हुत्वाहुतित्रयं तस्यास्सान्निध्यमुपकल्पयेत् ॥ हृदि संताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ ७.२,१७.२५॥
हुत्वा आहुति-त्रयम् तस्याः सान्निध्यम् उपकल्पयेत् ॥ हृदि संताड्य शिष्यस्य पुष्प-क्षेपेण पूर्ववत् ॥ ७।२,१७।२५॥
hutvā āhuti-trayam tasyāḥ sānnidhyam upakalpayet .. hṛdi saṃtāḍya śiṣyasya puṣpa-kṣepeṇa pūrvavat .. 7.2,17.25..
चैतन्यं समुपादाय द्वादशांते निवेद्य च ॥ सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ ७.२,१७.२६॥
चैतन्यम् समुपादाय द्वादशान्ते निवेद्य च ॥ सूत्रम् सूत्रेण संयोज्य संरक्ष्य अस्त्रेण वर्मणा ॥ ७।२,१७।२६॥
caitanyam samupādāya dvādaśānte nivedya ca .. sūtram sūtreṇa saṃyojya saṃrakṣya astreṇa varmaṇā .. 7.2,17.26..
अवगुंठ्याथ तत्सूत्रं शिष्यदेहं विचिंतयेत् ॥ मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ ७.२,१७.२७॥
अवगुंठ्य अथ तत् सूत्रम् शिष्य-देहम् विचिंतयेत् ॥ मूल-त्रय-मयम् पाशम् भोग-भोग्य-त्व-लक्षणम् ॥ ७।२,१७।२७॥
avaguṃṭhya atha tat sūtram śiṣya-deham viciṃtayet .. mūla-traya-mayam pāśam bhoga-bhogya-tva-lakṣaṇam .. 7.2,17.27..
विषयेन्द्रियदेहादिजनकं तस्य भावयेत् ॥ व्योमादिभूतरूपिण्यः शांत्यतीतादयः कलाः ॥ ७.२,१७.२८॥
विषय-इन्द्रिय-देह-आदि-जनकम् तस्य भावयेत् ॥ व्योम-आदि-भूत-रूपिण्यः शांति-अतीत-आदयः कलाः ॥ ७।२,१७।२८॥
viṣaya-indriya-deha-ādi-janakam tasya bhāvayet .. vyoma-ādi-bhūta-rūpiṇyaḥ śāṃti-atīta-ādayaḥ kalāḥ .. 7.2,17.28..
सूत्रे स्वनामभिर्योज्यः पूज्यश्चैव नमोयुतैः ॥ अथवा बीजभूतैस्तत्कृत्वा पूर्वोदितं क्रमात् ॥ ७.२,१७.२९॥
सूत्रे स्व-नामभिः योज्यः पूज्यः च एव नमः-युतैः ॥ अथवा बीज-भूतैः तत् कृत्वा पूर्व-उदितम् क्रमात् ॥ ७।२,१७।२९॥
sūtre sva-nāmabhiḥ yojyaḥ pūjyaḥ ca eva namaḥ-yutaiḥ .. athavā bīja-bhūtaiḥ tat kṛtvā pūrva-uditam kramāt .. 7.2,17.29..
ततो मलादेस्तत्त्वादौ व्याप्तिं समलोकयेत् ॥ कलाव्याप्तिं मलादौ च हुत्वा संदीपयेत्कलाः ॥ ७.२,१७.३०॥
ततस् मल-आदेः तत्त्व-आदौ व्याप्तिम् समलोकयेत् ॥ कला-व्याप्तिम् मल-आदौ च हुत्वा संदीपयेत् कलाः ॥ ७।२,१७।३०॥
tatas mala-ādeḥ tattva-ādau vyāptim samalokayet .. kalā-vyāptim mala-ādau ca hutvā saṃdīpayet kalāḥ .. 7.2,17.30..
शिष्यं शिरसि संताड्य सूत्रं देहे यथाक्रमम् ॥ शांत्यतीतपदे सूत्रं लाञ्छयेन्मंत्रमुच्चरन् ॥ ७.२,१७.३१॥
शिष्यम् शिरसि संताड्य सूत्रम् देहे यथाक्रमम् ॥ शांति-अतीत-पदे सूत्रम् लाञ्छयेत् मंत्रम् उच्चरन् ॥ ७।२,१७।३१॥
śiṣyam śirasi saṃtāḍya sūtram dehe yathākramam .. śāṃti-atīta-pade sūtram lāñchayet maṃtram uccaran .. 7.2,17.31..
एवं कृत्वा निवृत्त्यन्तं शांत्यतीतमनुक्रमात् ॥ हुत्वाहुतित्रयं पश्चान्मण्डले च शिवं यजेत् ॥ ७.२,१७.३२॥
एवम् कृत्वा निवृत्ति-अन्तम् शांति-अतीतम् अनुक्रमात् ॥ हुत्वा आहुति-त्रयम् पश्चात् मण्डले च शिवम् यजेत् ॥ ७।२,१७।३२॥
evam kṛtvā nivṛtti-antam śāṃti-atītam anukramāt .. hutvā āhuti-trayam paścāt maṇḍale ca śivam yajet .. 7.2,17.32..
देवस्य दक्षिणे शिष्यमुपवेश्योत्तरामुखम् ॥ सदर्भे मण्डले दद्याद्धोमशिष्टं चरुं गुरुः ॥ ७.२,१७.३३॥
देवस्य दक्षिणे शिष्यम् उपवेश्य उत्तरा-मुखम् ॥ स दर्भे मण्डले दद्यात् होम-शिष्टम् चरुम् गुरुः ॥ ७।२,१७।३३॥
devasya dakṣiṇe śiṣyam upaveśya uttarā-mukham .. sa darbhe maṇḍale dadyāt homa-śiṣṭam carum guruḥ .. 7.2,17.33..
शिष्यस्तद्गुरुणा दत्तं सत्कृत्य शिवपूर्वकम् ॥ भुक्त्वा पश्चाद्द्विराचम्य शिवमन्त्रमुदीरयेत् ॥ ७.२,१७.३४॥
शिष्यः तद्-गुरुणा दत्तम् सत्कृत्य शिव-पूर्वकम् ॥ भुक्त्वा पश्चात् द्विस् आचम्य शिव-मन्त्रम् उदीरयेत् ॥ ७।२,१७।३४॥
śiṣyaḥ tad-guruṇā dattam satkṛtya śiva-pūrvakam .. bhuktvā paścāt dvis ācamya śiva-mantram udīrayet .. 7.2,17.34..
अपरे मण्डले दद्यात्पञ्चगव्यं तथा गुरुः ॥ सो ऽपि तच्छक्तितः पीत्वा द्विराचम्य शिवं स्मरेत् ॥ ७.२,१७.३५॥
अपरे मण्डले दद्यात् पञ्चगव्यम् तथा गुरुः ॥ सः अपि तद्-शक्तितः पीत्वा द्विस् आचम्य शिवम् स्मरेत् ॥ ७।२,१७।३५॥
apare maṇḍale dadyāt pañcagavyam tathā guruḥ .. saḥ api tad-śaktitaḥ pītvā dvis ācamya śivam smaret .. 7.2,17.35..
तृतीये मण्डले शिष्यमुपवेश्य यथा पुरा ॥ प्रदद्याद्दंतपवनं यथाशास्त्रोक्तलक्षणम् ॥ ७.२,१७.३६॥
तृतीये मण्डले शिष्यम् उपवेश्य यथा पुरा ॥ प्रदद्यात् दन्तपवनम् यथा शास्त्र-उक्त-लक्षणम् ॥ ७।२,१७।३६॥
tṛtīye maṇḍale śiṣyam upaveśya yathā purā .. pradadyāt dantapavanam yathā śāstra-ukta-lakṣaṇam .. 7.2,17.36..
अग्रेण तस्य मृदुना प्राङ्मुखो वाप्युदङ्मुखः ॥ वाचं नियम्य चासीनश्शिष्यो दंतान्विशोधयेत् ॥ ७.२,१७.३७॥
अग्रेण तस्य मृदुना प्राच्-मुखः वा अपि उदक्-मुखः ॥ वाचम् नियम्य च आसीनः शिष्यः दन्तान् विशोधयेत् ॥ ७।२,१७।३७॥
agreṇa tasya mṛdunā prāc-mukhaḥ vā api udak-mukhaḥ .. vācam niyamya ca āsīnaḥ śiṣyaḥ dantān viśodhayet .. 7.2,17.37..
प्रक्षाल्य दंतपवनं त्यक्त्वाचम्य शिवं स्मरेत् ॥ प्रविशेद्देशिकादिष्टः प्रांजलिः शिवमण्डलम् ॥ ७.२,१७.३८॥
प्रक्षाल्य दन्तपवनम् त्यक्त्वा आचम्य शिवम् स्मरेत् ॥ प्रविशेत् देशिक-आदिष्टः प्रांजलिः शिव-मण्डलम् ॥ ७।२,१७।३८॥
prakṣālya dantapavanam tyaktvā ācamya śivam smaret .. praviśet deśika-ādiṣṭaḥ prāṃjaliḥ śiva-maṇḍalam .. 7.2,17.38..
त्यक्तं तद्दन्तपवनं दृश्यते गुरुणा यदि ॥ प्रागुदक्पश्चिमे वाग्रे शिवमन्यच्छिवेतरम् ॥ ७.२,१७.३९॥
त्यक्तम् तत् दन्तपवनम् दृश्यते गुरुणा यदि ॥ प्राच्-उदक्-पश्चिमे वा अग्रे शिवम् अन्यत् शिव-इतरम् ॥ ७।२,१७।३९॥
tyaktam tat dantapavanam dṛśyate guruṇā yadi .. prāc-udak-paścime vā agre śivam anyat śiva-itaram .. 7.2,17.39..
अशस्ताशामुखे तस्मिन्गुरुस्तद्दोषशांतये ॥ शतमर्धं तदर्धं वाजुहुयान्मूलमन्त्रतः ॥ ७.२,१७.४०॥
अशस्त-आशा-मुखे तस्मिन् गुरुः तद्-दोष-शांतये ॥ शतम् अर्धम् तद्-अर्धम् वा आजुहुयात् मूलमन्त्रतः ॥ ७।२,१७।४०॥
aśasta-āśā-mukhe tasmin guruḥ tad-doṣa-śāṃtaye .. śatam ardham tad-ardham vā ājuhuyāt mūlamantrataḥ .. 7.2,17.40..
ततः शिष्यं समालभ्य जपित्वा कर्णयोः शिवम् ॥ देवस्य दक्षिणे भागे तं शिष्यमधिवासयेत् ॥ ७.२,१७.४१॥
ततस् शिष्यम् समालभ्य जपित्वा कर्णयोः शिवम् ॥ देवस्य दक्षिणे भागे तम् शिष्यम् अधिवासयेत् ॥ ७।२,१७।४१॥
tatas śiṣyam samālabhya japitvā karṇayoḥ śivam .. devasya dakṣiṇe bhāge tam śiṣyam adhivāsayet .. 7.2,17.41..
अहतास्तरणास्तीर्णे स दर्भशयने शुचिः ॥ मंत्रिते ऽन्तः शिवं ध्यायञ्शयीत प्राक्छिरा निशि ॥ ७.२,१७.४२॥
अहत-आस्तरण-आस्तीर्णे स दर्भ-शयने शुचिः ॥ मंत्रिते अन्तर् शिवम् ध्यायन् शयीत प्राक् शिराः निशि ॥ ७।२,१७।४२॥
ahata-āstaraṇa-āstīrṇe sa darbha-śayane śuciḥ .. maṃtrite antar śivam dhyāyan śayīta prāk śirāḥ niśi .. 7.2,17.42..
शिखायां बद्धसूत्रस्य शिखया तच्छिखां गुरुः ॥ आबध्याहतवस्त्रेण तमाच्छाद्य च वर्मणा ॥ ७.२,१७.४३॥
शिखायाम् बद्ध-सूत्रस्य शिखया तद्-शिखाम् गुरुः ॥ आबध्य अहत-वस्त्रेण तम् आच्छाद्य च वर्मणा ॥ ७।२,१७।४३॥
śikhāyām baddha-sūtrasya śikhayā tad-śikhām guruḥ .. ābadhya ahata-vastreṇa tam ācchādya ca varmaṇā .. 7.2,17.43..
रेखात्रयं च परितो भस्मना तिलसर्षपैः ॥ कृत्वास्त्रजप्तैस्तद्वाह्ये दिगीशानां बलिं हरेत् ॥ ७.२,१७.४४॥
रेखा-त्रयम् च परितस् भस्मना तिल-सर्षपैः ॥ कृत्वा अस्त्र-जप्तैः तद्-वाह्ये दिगीशानाम् बलिम् हरेत् ॥ ७।२,१७।४४॥
rekhā-trayam ca paritas bhasmanā tila-sarṣapaiḥ .. kṛtvā astra-japtaiḥ tad-vāhye digīśānām balim haret .. 7.2,17.44..
शिष्यो ऽपि परतो ऽनश्नन्कृत्वैवमधिवासनम् ॥ प्रबुध्योत्थाय गुरवे स्वप्नं दृष्टं निवेदयेत् ॥ ७.२,१७.४५॥
शिष्यः अपि परतस् अन् अश्नन् कृत्वा एवम् अधिवासनम् ॥ प्रबुध्य उत्थाय गुरवे स्वप्नम् दृष्टम् निवेदयेत् ॥ ७।२,१७।४५॥
śiṣyaḥ api paratas an aśnan kṛtvā evam adhivāsanam .. prabudhya utthāya gurave svapnam dṛṣṭam nivedayet .. 7.2,17.45..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं नाम सप्तदशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवदीक्षाविधानवर्णनम् नाम सप्तदशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivadīkṣāvidhānavarṇanam nāma saptadaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In