| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
ततः स्नानादिकं सर्वं समाप्याचार्यचोदितः ॥ गच्छेद्बद्धांजलिर्ध्यायञ्छिवमण्डलपार्श्वतः ॥ ७.२,१८.१॥
ततस् स्नान-आदिकम् सर्वम् समाप्य आचार्य-चोदितः ॥ गच्छेत् बद्धांजलिः ध्यायन् शिव-मण्डल-पार्श्वतः ॥ ७।२,१८।१॥
tatas snāna-ādikam sarvam samāpya ācārya-coditaḥ .. gacchet baddhāṃjaliḥ dhyāyan śiva-maṇḍala-pārśvataḥ .. 7.2,18.1..
अथ पूजां विना सर्वं कृत्वा पूर्वदिने यथा ॥ नेत्रबंधनपर्यंतं दर्शयेन्मण्डलं गुरुः ॥ ७.२,१८.२॥
अथ पूजाम् विना सर्वम् कृत्वा पूर्व-दिने यथा ॥ नेत्र-बंधन-पर्यंतम् दर्शयेत् मण्डलम् गुरुः ॥ ७।२,१८।२॥
atha pūjām vinā sarvam kṛtvā pūrva-dine yathā .. netra-baṃdhana-paryaṃtam darśayet maṇḍalam guruḥ .. 7.2,18.2..
बद्धनेत्रेण शिष्येण पुष्पावकिरणे कृते ॥ यत्रापतंति पुष्णाणि तस्य नामा ऽस्य संदिशेत् ॥ ७.२,१८.३॥
बद्ध-नेत्रेण शिष्येण पुष्प-अवकिरणे कृते ॥ यत्र आपतन्ति पुष्णाणि तस्य नामा अस्य संदिशेत् ॥ ७।२,१८।३॥
baddha-netreṇa śiṣyeṇa puṣpa-avakiraṇe kṛte .. yatra āpatanti puṣṇāṇi tasya nāmā asya saṃdiśet .. 7.2,18.3..
तं चोपनीय निर्माल्यमण्डले ऽस्मिन्यथा पुरा ॥ पूजयेद्देवमीशानं जुहुयाच्च शिवानले ॥ ७.२,१८.४॥
तम् च उपनीय निर्माल्य-मण्डले अस्मिन् यथा पुरा ॥ पूजयेत् देवम् ईशानम् जुहुयात् च शिव-अनले ॥ ७।२,१८।४॥
tam ca upanīya nirmālya-maṇḍale asmin yathā purā .. pūjayet devam īśānam juhuyāt ca śiva-anale .. 7.2,18.4..
शिष्येण यदि दुःस्वप्नो दृष्टस्तद्दोषशांतये ॥ शतमर्धं तदर्धं वा जुहुयान्मूलविद्यया ॥ ७.२,१८.५॥
शिष्येण यदि दुःस्वप्नः दृष्टः तद्-दोष-शांतये ॥ शतम् अर्धम् तद्-अर्धम् वा जुहुयात् मूलविद्यया ॥ ७।२,१८।५॥
śiṣyeṇa yadi duḥsvapnaḥ dṛṣṭaḥ tad-doṣa-śāṃtaye .. śatam ardham tad-ardham vā juhuyāt mūlavidyayā .. 7.2,18.5..
ततः सूत्रं शिखाबद्धं लंबयित्वा यथा पुरा ॥ आधारपूजाप्रभृति यन्निवृत्तिकलाश्रयम् ॥ ७.२,१८.६॥
ततस् सूत्रम् शिखा-बद्धम् लंबयित्वा यथा पुरा ॥ आधार-पूजा-प्रभृति यत् निवृत्ति-कला-आश्रयम् ॥ ७।२,१८।६॥
tatas sūtram śikhā-baddham laṃbayitvā yathā purā .. ādhāra-pūjā-prabhṛti yat nivṛtti-kalā-āśrayam .. 7.2,18.6..
वागीश्वरीपूजनांतं कुर्याद्धोमपुरस्सरम् ॥ अथ प्रणम्य वागीशं निवृत्तेर्व्यापिकां सतीम् ॥ ७.२,१८.७॥
कुर्यात् ॥ अथ प्रणम्य वागीशम् निवृत्तेः व्यापिकाम् सतीम् ॥ ७।२,१८।७॥
kuryāt .. atha praṇamya vāgīśam nivṛtteḥ vyāpikām satīm .. 7.2,18.7..
मण्डले देवमभ्यर्च्य हुत्वा चैवाहुतित्रयम् ॥ प्रापयेच्च शिशोः प्राप्तिं युगपत्सर्वयोनिषु ॥ ७.२,१८.८॥
मण्डले देवम् अभ्यर्च्य हुत्वा च एव आहुति-त्रयम् ॥ प्रापयेत् च शिशोः प्राप्तिम् युगपद् सर्व-योनिषु ॥ ७।२,१८।८॥
maṇḍale devam abhyarcya hutvā ca eva āhuti-trayam .. prāpayet ca śiśoḥ prāptim yugapad sarva-yoniṣu .. 7.2,18.8..
सूत्रदेहे ऽथ शिष्यस्य ताडनप्रोक्षणादिकम् ॥ कृत्वात्मानं समादाय द्वादशांते निवेद्य च ॥ ७.२,१८.९॥
सूत्र-देहे अथ शिष्यस्य ताडन-प्रोक्षण-आदिकम् ॥ कृत्वा आत्मानम् समादाय द्वादशान्ते निवेद्य च ॥ ७।२,१८।९॥
sūtra-dehe atha śiṣyasya tāḍana-prokṣaṇa-ādikam .. kṛtvā ātmānam samādāya dvādaśānte nivedya ca .. 7.2,18.9..
ततो ऽप्यादाय मूलेन मुद्रया शास्त्रदृष्टया ॥ योजयेन्मनसाचार्यो युगपत्सर्वयोनिषु ॥ ७.२,१८.१०॥
ततस् अपि आदाय मूलेन मुद्रया शास्त्र-दृष्टया ॥ योजयेत् मनसा आचार्यः युगपद् सर्व-योनिषु ॥ ७।२,१८।१०॥
tatas api ādāya mūlena mudrayā śāstra-dṛṣṭayā .. yojayet manasā ācāryaḥ yugapad sarva-yoniṣu .. 7.2,18.10..
देवानां जातयश्चाष्टौ तिरश्चां पञ्च जातयः ॥ जात्यैकया च मानुष्या योनयश्च चतुर्दश ॥ ७.२,१८.११॥
देवानाम् जातयः च अष्टौ तिरश्चाम् पञ्च जातयः ॥ जात्या एकया च मानुष्याः योनयः च चतुर्दश ॥ ७।२,१८।११॥
devānām jātayaḥ ca aṣṭau tiraścām pañca jātayaḥ .. jātyā ekayā ca mānuṣyāḥ yonayaḥ ca caturdaśa .. 7.2,18.11..
तासु सर्वासु युगपत्प्रवेशाय शिशोर्धिया ॥ वागीशान्यां यथान्यायं शिष्यात्मानं निवेशयेत् ॥ ७.२,१८.१२॥
तासु सर्वासु युगपद् प्रवेशाय शिशोः धिया ॥ वागीशान्याम् यथान्यायम् शिष्य-आत्मानम् निवेशयेत् ॥ ७।२,१८।१२॥
tāsu sarvāsu yugapad praveśāya śiśoḥ dhiyā .. vāgīśānyām yathānyāyam śiṣya-ātmānam niveśayet .. 7.2,18.12..
गर्भनिष्पत्तये देवं संपूज्य प्रणिपत्य च ॥ हुत्वा चैव यथान्यायं निष्पन्नं तदनुस्मरेत् ॥ ७.२,१८.१३॥
गर्भ-निष्पत्तये देवम् संपूज्य प्रणिपत्य च ॥ हुत्वा च एव यथान्यायम् निष्पन्नम् तत् अनुस्मरेत् ॥ ७।२,१८।१३॥
garbha-niṣpattaye devam saṃpūjya praṇipatya ca .. hutvā ca eva yathānyāyam niṣpannam tat anusmaret .. 7.2,18.13..
निष्पन्नस्यैवमुत्पत्तिमनुवृत्तिं च कर्मणा ॥ आर्जवं भोगनिष्पत्तिः कुर्यात्प्रीतिं परां तथा ॥ ७.२,१८.१४॥
निष्पन्नस्य एवम् उत्पत्तिम् अनुवृत्तिम् च कर्मणा ॥ आर्जवम् भोग-निष्पत्तिः कुर्यात् प्रीतिम् पराम् तथा ॥ ७।२,१८।१४॥
niṣpannasya evam utpattim anuvṛttim ca karmaṇā .. ārjavam bhoga-niṣpattiḥ kuryāt prītim parām tathā .. 7.2,18.14..
निष्कृत्यर्थं च जात्यायुर्भोगसंस्कारसिद्धये ॥ हुत्वाहुतित्रयं देवं प्रार्थयेद्देशिकोत्तमः ॥ ७.२,१८.१५॥
निष्कृति-अर्थम् च जाति-आयुः-भोग-संस्कार-सिद्धये ॥ हुत्वा आहुति-त्रयम् देवम् प्रार्थयेत् देशिक-उत्तमः ॥ ७।२,१८।१५॥
niṣkṛti-artham ca jāti-āyuḥ-bhoga-saṃskāra-siddhaye .. hutvā āhuti-trayam devam prārthayet deśika-uttamaḥ .. 7.2,18.15..
भोक्तृत्वविषयासंगमलं तत्कायशोधनम् ॥ कृत्वैवमेव शिष्यस्य छिंद्यात्पाशत्रयं ततः ॥ ७.२,१८.१६॥
भोक्तृ-त्व-विषय-असंग-मलम् तत् काय-शोधनम् ॥ कृत्वा एवम् एव शिष्यस्य छिन्द्यात् पाश-त्रयम् ततस् ॥ ७।२,१८।१६॥
bhoktṛ-tva-viṣaya-asaṃga-malam tat kāya-śodhanam .. kṛtvā evam eva śiṣyasya chindyāt pāśa-trayam tatas .. 7.2,18.16..
निकृत्या परि बद्धस्य पाशस्यात्यंतभेदतः ॥ कृत्वा शिष्यस्य चैतन्यं स्वच्छं मन्येत केवलम् ॥ ७.२,१८.१७॥
निकृत्या परि बद्धस्य पाशस्य अत्यंत-भेदतः ॥ कृत्वा शिष्यस्य चैतन्यम् स्वच्छम् मन्येत केवलम् ॥ ७।२,१८।१७॥
nikṛtyā pari baddhasya pāśasya atyaṃta-bhedataḥ .. kṛtvā śiṣyasya caitanyam svaccham manyeta kevalam .. 7.2,18.17..
हुत्वा पूर्णाहुतिं वह्नौ ब्रह्माणं पूजयेत्ततः ॥ हुत्वाहुतित्रयं तस्मै शिवाज्ञामनुसंदिशेत् ॥ ७.२,१८.१८॥
हुत्वा पूर्णाहुतिम् वह्नौ ब्रह्माणम् पूजयेत् ततस् ॥ हुत्वा आहुति-त्रयम् तस्मै शिव-आज्ञाम् अनुसंदिशेत् ॥ ७।२,१८।१८॥
hutvā pūrṇāhutim vahnau brahmāṇam pūjayet tatas .. hutvā āhuti-trayam tasmai śiva-ājñām anusaṃdiśet .. 7.2,18.18..
पितामह त्वया नास्य यातुः शैवं परं पदम् ॥ प्रतिबन्धो विधातव्यः शैवाज्ञैषा गरीयसी ॥ ७.२,१८.१९॥
पितामह त्वया न अस्य यातुः शैवम् परम् पदम् ॥ प्रतिबन्धः विधातव्यः शैव-आज्ञा एषा गरीयसी ॥ ७।२,१८।१९॥
pitāmaha tvayā na asya yātuḥ śaivam param padam .. pratibandhaḥ vidhātavyaḥ śaiva-ājñā eṣā garīyasī .. 7.2,18.19..
इत्यादिश्य तमभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवं जुहुयादाहुतित्रयम् ॥ ७.२,१८.२०॥
इति आदिश्य तम् अभ्यर्च्य विसृज च विधानतः ॥ समभ्यर्च्य महादेवम् जुहुयात् आहुति-त्रयम् ॥ ७।२,१८।२०॥
iti ādiśya tam abhyarcya visṛja ca vidhānataḥ .. samabhyarcya mahādevam juhuyāt āhuti-trayam .. 7.2,18.20..
निवृत्त्या शुद्धमुद्धृत्य शिष्यात्मानं यथा पुरा ॥ निवेश्यात्मनि सूत्रे च वागीशं पूजयेत्ततः ॥ ७.२,१८.२१॥
निवृत्त्या शुद्धम् उद्धृत्य शिष्य-आत्मानम् यथा पुरा ॥ निवेश्य आत्मनि सूत्रे च वागीशम् पूजयेत् ततस् ॥ ७।२,१८।२१॥
nivṛttyā śuddham uddhṛtya śiṣya-ātmānam yathā purā .. niveśya ātmani sūtre ca vāgīśam pūjayet tatas .. 7.2,18.21..
हुत्वाहुतित्रयं तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यान्निवृत्तः संधानं प्रतिष्ठां कलया सह ॥ ७.२,१८.२२॥
हुत्वा आहुति-त्रयम् तस्मै प्रणम्य च विसृज्य ताम् ॥ कुर्यात् निवृत्तः संधानम् प्रतिष्ठाम् कलया सह ॥ ७।२,१८।२२॥
hutvā āhuti-trayam tasmai praṇamya ca visṛjya tām .. kuryāt nivṛttaḥ saṃdhānam pratiṣṭhām kalayā saha .. 7.2,18.22..
संधाने युगपत्पूजां कृत्वा हुत्वाहुतित्रयम् ॥ शिष्यात्मनः प्रतिष्ठायां प्रवेशं त्वथ भावयेत् ॥ ७.२,१८.२३॥
संधाने युगपद् पूजाम् कृत्वा हुत्वा आहुति-त्रयम् ॥ शिष्य-आत्मनः प्रतिष्ठायाम् प्रवेशम् तु अथ भावयेत् ॥ ७।२,१८।२३॥
saṃdhāne yugapad pūjām kṛtvā hutvā āhuti-trayam .. śiṣya-ātmanaḥ pratiṣṭhāyām praveśam tu atha bhāvayet .. 7.2,18.23..
ततः प्रतिष्ठामावाह्य कृत्वाशेषं पुरोदितम् ॥ तद्व्याप्तिं व्यापिकां तस्य वागीशानीं च भावयेत् ॥ ७.२,१८.२४॥
ततस् प्रतिष्ठाम् आवाह्य कृत्वा अशेषम् पुरा उदितम् ॥ तद्-व्याप्तिम् व्यापिकाम् तस्य वागीशानीम् च भावयेत् ॥ ७।२,१८।२४॥
tatas pratiṣṭhām āvāhya kṛtvā aśeṣam purā uditam .. tad-vyāptim vyāpikām tasya vāgīśānīm ca bhāvayet .. 7.2,18.24..
पूर्णेदुमंडलप्रख्यां कृत्वा शेषं च पूर्ववत् ॥ विष्णवे संविशेदाज्ञां शिवस्य परमात्मनः ॥ ७.२,१८.२५॥
पूर्णेदु-मंडल-प्रख्याम् कृत्वा शेषम् च पूर्ववत् ॥ विष्णवे संविशेत् आज्ञाम् शिवस्य परमात्मनः ॥ ७।२,१८।२५॥
pūrṇedu-maṃḍala-prakhyām kṛtvā śeṣam ca pūrvavat .. viṣṇave saṃviśet ājñām śivasya paramātmanaḥ .. 7.2,18.25..
विष्णोर्विसर्जनाद्यं च कृत्वा शेषं च विद्यया ॥ प्रतिष्ठामनुसंधाय तस्यां चापि यथा पुरा ॥ ७.२,१८.२६॥
विष्णोः विसर्जन-आद्यम् च कृत्वा शेषम् च विद्यया ॥ प्रतिष्ठाम् अनुसंधाय तस्याम् च अपि यथा पुरा ॥ ७।२,१८।२६॥
viṣṇoḥ visarjana-ādyam ca kṛtvā śeṣam ca vidyayā .. pratiṣṭhām anusaṃdhāya tasyām ca api yathā purā .. 7.2,18.26..
कृत्वानुचिन्त्य तद्व्याप्तिं वागीशां च यथाक्रमम् ॥ दीप्ताग्नौ पूर्णहोमान्तं कृत्वा शेषं च पूर्ववत् ॥ ७.२,१८.२७॥
कृत्वा अनुचिन्त्य तद्-व्याप्तिम् वागीशाम् च यथाक्रमम् ॥ दीप्त-अग्नौ पूर्णहोम-अन्तम् कृत्वा शेषम् च पूर्ववत् ॥ ७।२,१८।२७॥
kṛtvā anucintya tad-vyāptim vāgīśām ca yathākramam .. dīpta-agnau pūrṇahoma-antam kṛtvā śeṣam ca pūrvavat .. 7.2,18.27..
नीलरुद्रमुपस्थाप्य तस्मै पूजादिकं तथा ॥ कृत्वा कर्म शिवाज्ञां च दद्यात्पूर्वोक्तवर्त्मना ॥ ७.२,१८.२८॥
नीलरुद्रम् उपस्थाप्य तस्मै पूजा-आदिकम् तथा ॥ कृत्वा कर्म शिव-आज्ञाम् च दद्यात् पूर्व-उक्त-वर्त्मना ॥ ७।२,१८।२८॥
nīlarudram upasthāpya tasmai pūjā-ādikam tathā .. kṛtvā karma śiva-ājñām ca dadyāt pūrva-ukta-vartmanā .. 7.2,18.28..
तपस्तमपि चोद्वास्य कृत्वा तस्याथ शांतये ॥ विद्याकलां समाधाय तद्व्याप्तिं चावलोकयेत् ॥ ७.२,१८.२९॥
तपः तम् अपि च उद्वास्य कृत्वा तस्य अथ शांतये ॥ समाधाय च अवलोकयेत् ॥ ७।२,१८।२९॥
tapaḥ tam api ca udvāsya kṛtvā tasya atha śāṃtaye .. samādhāya ca avalokayet .. 7.2,18.29..
स्वात्मनो व्यापिकां तद्वद्वागीशीं च यथा पुरा ॥ बालार्कसदृशाकारां भासयंतीं दिशो दश ॥ ७.२,१८.३०॥
स्व-आत्मनः व्यापिकाम् तद्वत् वागीशीम् च यथा पुरा ॥ बाल-अर्क-सदृश-आकाराम् भासयन्तीम् दिशः दश ॥ ७।२,१८।३०॥
sva-ātmanaḥ vyāpikām tadvat vāgīśīm ca yathā purā .. bāla-arka-sadṛśa-ākārām bhāsayantīm diśaḥ daśa .. 7.2,18.30..
ततः शेषं यथापूर्वं कृत्वा देवं महेश्वरम् ॥ आवाह्याराध्य हुत्वास्मै शिवाज्ञां मनसा दिशेत् ॥ ७.२,१८.३१॥
ततस् शेषम् यथापूर्वम् कृत्वा देवम् महेश्वरम् ॥ आवाह्य आराध्य हुत्वा अस्मै शिव-आज्ञाम् मनसा दिशेत् ॥ ७।२,१८।३१॥
tatas śeṣam yathāpūrvam kṛtvā devam maheśvaram .. āvāhya ārādhya hutvā asmai śiva-ājñām manasā diśet .. 7.2,18.31..
महेश्वरं तथोत्सृज्य कृत्वान्यां च कलामिमाम् ॥ शांत्यतीतां कलां नीत्वा तद्व्याप्तिमवलोकयेत् ॥ ७.२,१८.३२॥
महेश्वरम् तथा उत्सृज्य कृत्वा अन्याम् च कलाम् इमाम् ॥ शांति-अतीताम् कलाम् नीत्वा तद्-व्याप्तिम् अवलोकयेत् ॥ ७।२,१८।३२॥
maheśvaram tathā utsṛjya kṛtvā anyām ca kalām imām .. śāṃti-atītām kalām nītvā tad-vyāptim avalokayet .. 7.2,18.32..
स्वात्मनो व्यापिकां तद्वद्वागीशां च विचिंतयेत् ॥ नभोमंडलसंकाशां पूर्णांतं चापि पूर्ववत् ॥ ७.२,१८.३३॥
स्व-आत्मनः व्यापिकाम् तद्वत् वागीशाम् च विचिंतयेत् ॥ नभः-मंडल-संकाशाम् पूर्ण-अंतम् च अपि पूर्ववत् ॥ ७।२,१८।३३॥
sva-ātmanaḥ vyāpikām tadvat vāgīśām ca viciṃtayet .. nabhaḥ-maṃḍala-saṃkāśām pūrṇa-aṃtam ca api pūrvavat .. 7.2,18.33..
कृत्वा शेषविधानेन समभ्यर्च्य सदाशिवम् ॥ तस्मै समादिशेदाज्ञां शंभोरमितकर्मणः ॥ ७.२,१८.३४॥
कृत्वा शेष-विधानेन समभ्यर्च्य सदाशिवम् ॥ तस्मै समादिशेत् आज्ञाम् शंभोः अमित-कर्मणः ॥ ७।२,१८।३४॥
kṛtvā śeṣa-vidhānena samabhyarcya sadāśivam .. tasmai samādiśet ājñām śaṃbhoḥ amita-karmaṇaḥ .. 7.2,18.34..
तत्रापि च यथापूर्वं शिवं शिरसि पूर्ववत् ॥ समभ्यर्च्य च वागीशं प्रणम्य च विसर्जयेत् ॥ ७.२,१८.३५॥
तत्र अपि च यथापूर्वम् शिवम् शिरसि पूर्ववत् ॥ समभ्यर्च्य च वागीशम् प्रणम्य च विसर्जयेत् ॥ ७।२,१८।३५॥
tatra api ca yathāpūrvam śivam śirasi pūrvavat .. samabhyarcya ca vāgīśam praṇamya ca visarjayet .. 7.2,18.35..
ततश्शिवेन सम्प्रोक्ष्य शिष्यं शिरसि पूर्ववत् ॥ विलयं शांत्यतीतायाः शक्तितत्त्वे ऽथ चिंतयेत् ॥ ७.२,१८.३६॥
ततस् शिवेन सम्प्रोक्ष्य शिष्यम् शिरसि पूर्ववत् ॥ विलयम् शांति-अतीतायाः शक्ति-तत्त्वे अथ चिंतयेत् ॥ ७।२,१८।३६॥
tatas śivena samprokṣya śiṣyam śirasi pūrvavat .. vilayam śāṃti-atītāyāḥ śakti-tattve atha ciṃtayet .. 7.2,18.36..
षडध्वनः परे पारे सर्वाध्वव्यापिनी पराम् ॥ कोटिसूर्यप्रतीकाशं शैवीं शक्तिञ्च चिन्तयेत् ॥ ७.२,१८.३७॥
षडध्वनः परे पारे सर्व-अध्व-व्यापिनी पराम् ॥ कोटि-सूर्य-प्रतीकाशम् शैवीम् शक्तिम् च चिन्तयेत् ॥ ७।२,१८।३७॥
ṣaḍadhvanaḥ pare pāre sarva-adhva-vyāpinī parām .. koṭi-sūrya-pratīkāśam śaivīm śaktim ca cintayet .. 7.2,18.37..
तदग्रे शिष्यमानीय शुद्धस्फटिकनिर्मलम् ॥ प्रक्षाल्य कर्तरीं पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ ७.२,१८.३८॥
तद्-अग्रे शिष्यम् आनीय शुद्ध-स्फटिक-निर्मलम् ॥ प्रक्षाल्य कर्तरीम् पश्चात् शिवशास्त्र-उक्त-मार्गतः ॥ ७।२,१८।३८॥
tad-agre śiṣyam ānīya śuddha-sphaṭika-nirmalam .. prakṣālya kartarīm paścāt śivaśāstra-ukta-mārgataḥ .. 7.2,18.38..
कुर्यात्तस्य शिखाच्छेदं सह सूत्रेण देशिकः ॥ ततस्तां गोमये न्यस्य शिवाग्नौ जुहुयाच्छिखाम् ॥ ७.२,१८.३९॥
कुर्यात् तस्य शिखा-आच्छेदम् सह सूत्रेण देशिकः ॥ ततस् ताम् गोमये न्यस्य शिव-अग्नौ जुहुयात् शिखाम् ॥ ७।२,१८।३९॥
kuryāt tasya śikhā-ācchedam saha sūtreṇa deśikaḥ .. tatas tām gomaye nyasya śiva-agnau juhuyāt śikhām .. 7.2,18.39..
वौषडंतेन मूलेन पुनः प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यं तद्देहे विनिवर्तयेत् ॥ ७.२,१८.४०॥
वौषट् अंतेन मूलेन पुनर् प्रक्षाल्य कर्तरीम् ॥ हस्ते शिष्यस्य चैतन्यम् तद्-देहे विनिवर्तयेत् ॥ ७।२,१८।४०॥
vauṣaṭ aṃtena mūlena punar prakṣālya kartarīm .. haste śiṣyasya caitanyam tad-dehe vinivartayet .. 7.2,18.40..
ततः स्नातं समाचांतं कृतस्वस्त्ययनं शिशुम् ॥ प्रवेश्य मंडलाभ्यासं प्रणिपत्य च दंडवत् ॥ ७.२,१८.४१॥
ततस् स्नातम् समाचांतम् कृत-स्वस्त्ययनम् शिशुम् ॥ प्रवेश्य मंडल-अभ्यासम् प्रणिपत्य च दंड-वत् ॥ ७।२,१८।४१॥
tatas snātam samācāṃtam kṛta-svastyayanam śiśum .. praveśya maṃḍala-abhyāsam praṇipatya ca daṃḍa-vat .. 7.2,18.41..
पूजां कृत्वा यथान्यायं क्रियावैकल्यशुद्धये ॥ वाचकेनैव मंत्रेण जुहुयादाहुतित्रयम् ॥ ७.२,१८.४२॥
पूजाम् कृत्वा यथान्यायम् क्रिया-वैकल्य-शुद्धये ॥ वाचकेन एव मंत्रेण जुहुयात् आहुति-त्रयम् ॥ ७।२,१८।४२॥
pūjām kṛtvā yathānyāyam kriyā-vaikalya-śuddhaye .. vācakena eva maṃtreṇa juhuyāt āhuti-trayam .. 7.2,18.42..
उपांशूच्चारयोगेन जुहुयादाहुतित्रयम् ॥ पुनस्संपूज्य देवेशं मन्त्रवैकल्यशुद्धये ॥ ७.२,१८.४३॥
उपांशु उच्चार-योगेन जुहुयात् आहुति-त्रयम् ॥ पुनर् संपूज्य देवेशम् मन्त्र-वैकल्य-शुद्धये ॥ ७।२,१८।४३॥
upāṃśu uccāra-yogena juhuyāt āhuti-trayam .. punar saṃpūjya deveśam mantra-vaikalya-śuddhaye .. 7.2,18.43..
मानसोच्चारयोगेन जुहुयादाहुतित्रयम् ॥ तत्र शंभुं समाराध्य मंडलस्थं सहांबया ॥ हुत्वाहुतित्रयं पश्चात्प्रार्थयेत्प्रांजलिर्गुरुः ॥ ७.२,१८.४४॥
मानस-उच्चार-योगेन जुहुयात् आहुति-त्रयम् ॥ तत्र शंभुम् समाराध्य मंडल-स्थम् सह अंबया ॥ हुत्वा आहुति-त्रयम् पश्चात् प्रार्थयेत् प्रांजलिः गुरुः ॥ ७।२,१८।४४॥
mānasa-uccāra-yogena juhuyāt āhuti-trayam .. tatra śaṃbhum samārādhya maṃḍala-stham saha aṃbayā .. hutvā āhuti-trayam paścāt prārthayet prāṃjaliḥ guruḥ .. 7.2,18.44..
भगवंस्त्वत्प्रसादेन शुद्धिरस्य षडध्वनः ॥ कृता तस्मात्परं धाम गमयैनं तवाव्ययम् ॥ ७.२,१८.४५॥
भगवन् त्वद्-प्रसादेन शुद्धिः अस्य षडध्वनः ॥ कृता तस्मात् परम् धाम गमय एनम् तव अव्ययम् ॥ ७।२,१८।४५॥
bhagavan tvad-prasādena śuddhiḥ asya ṣaḍadhvanaḥ .. kṛtā tasmāt param dhāma gamaya enam tava avyayam .. 7.2,18.45..
इति विज्ञाप्य देवाय नाडीसंधानपूर्वकम् ॥ पूर्णांतं पूर्ववत्कृत्वा ततो भूतानि शोधयेत् ॥ ७.२,१८.४६॥
इति विज्ञाप्य देवाय नाडी-संधान-पूर्वकम् ॥ पूर्ण-अंतम् पूर्ववत् कृत्वा ततस् भूतानि शोधयेत् ॥ ७।२,१८।४६॥
iti vijñāpya devāya nāḍī-saṃdhāna-pūrvakam .. pūrṇa-aṃtam pūrvavat kṛtvā tatas bhūtāni śodhayet .. 7.2,18.46..
स्थिरास्थिरे ततः शुद्ध्यै शीतोष्णे च ततः पदे ॥ ध्यायेद्व्याप्त्यैकताकारे भूतशोधनकर्मणि ॥ ७.२,१८.४७॥
स्थिर-अस्थिरे ततस् शुद्ध्यै शीत-उष्णे च ततस् पदे ॥ ध्यायेत् व्याप्त्या एकता-आकारे भूत-शोधन-कर्मणि ॥ ७।२,१८।४७॥
sthira-asthire tatas śuddhyai śīta-uṣṇe ca tatas pade .. dhyāyet vyāptyā ekatā-ākāre bhūta-śodhana-karmaṇi .. 7.2,18.47..
भूतानां ग्रंथिविच्छेदं कृत्वा त्यक्त्वा सहाधिपैः ॥ भूतानि स्थितयोगेन यो जपेत्परमे शिवे ॥ ७.२,१८.४८॥
भूतानाम् ग्रंथि-विच्छेदम् कृत्वा त्यक्त्वा सह अधिपैः ॥ भूतानि स्थित-योगेन यः जपेत् परमे शिवे ॥ ७।२,१८।४८॥
bhūtānām graṃthi-vicchedam kṛtvā tyaktvā saha adhipaiḥ .. bhūtāni sthita-yogena yaḥ japet parame śive .. 7.2,18.48..
विशोध्यास्य तनुं दग्ध्वा प्लावयित्वा सुधाकणैः ॥ स्थाप्यात्मानं ततः कुर्याद्विशुद्धाध्वमयं वपुः ॥ ७.२,१८.४९॥
विशोध्य अस्य तनुम् दग्ध्वा प्लावयित्वा सुधा-कणैः ॥ स्थाप्य आत्मानम् ततस् कुर्यात् विशुद्ध-अध्व-मयम् वपुः ॥ ७।२,१८।४९॥
viśodhya asya tanum dagdhvā plāvayitvā sudhā-kaṇaiḥ .. sthāpya ātmānam tatas kuryāt viśuddha-adhva-mayam vapuḥ .. 7.2,18.49..
तत्रादौ शान्त्यतीतां तु व्यापिकां स्वाध्वनः कलाम् ॥ शुद्धामेव शिशोर्मूर्ध्नि न्यसेच्छान्तिमुखे तथा ॥ ७.२,१८.५०॥
तत्र आदौ शान्ति-अतीताम् तु व्यापिकाम् स्वाध्वनः कलाम् ॥ शुद्धाम् एव शिशोः मूर्ध्नि न्यसेत् शान्तिमुखे तथा ॥ ७।२,१८।५०॥
tatra ādau śānti-atītām tu vyāpikām svādhvanaḥ kalām .. śuddhām eva śiśoḥ mūrdhni nyaset śāntimukhe tathā .. 7.2,18.50..
विद्यां गलादिनाभ्यंतं प्रतिष्ठां तदधः क्रमात् ॥ जान्वंतं तदधो न्यस्येन्निवृत्तिं चानुचिंतयेत् ॥ ७.२,१८.५१॥
विद्याम् गल-आदि-नाभ्यंतम् प्रतिष्ठाम् तद्-अधस् क्रमात् ॥ जानु-अंतम् तद्-अधस् न्यस्येत् निवृत्तिम् च अनुचिंतयेत् ॥ ७।२,१८।५१॥
vidyām gala-ādi-nābhyaṃtam pratiṣṭhām tad-adhas kramāt .. jānu-aṃtam tad-adhas nyasyet nivṛttim ca anuciṃtayet .. 7.2,18.51..
स्वबीजैस्सूत्रमंत्रं च न्यस्यां गैस्तं शिवात्मकम् ॥ बुद्ध्वा तं हृदयांभोजे देवमावाह्य पूजयेत् ॥ ७.२,१८.५२॥
स्व-बीजैः सूत्र-मंत्रम् च न्यस्याम् गैः तम् शिव-आत्मकम् ॥ बुद्ध्वा तम् हृदय-अंभोजे देवम् आवाह्य पूजयेत् ॥ ७।२,१८।५२॥
sva-bījaiḥ sūtra-maṃtram ca nyasyām gaiḥ tam śiva-ātmakam .. buddhvā tam hṛdaya-aṃbhoje devam āvāhya pūjayet .. 7.2,18.52..
आशास्य नित्यसांनिध्यं शिवस्वात्म्यं शिशौ गुरुः ॥ शिवतेजोमयस्यास्य शिशोरापादयेद्गुणान् ॥ ७.२,१८.५३॥
आशास्य नित्य-सांनिध्यम् शिव-स्वात्म्यम् शिशौ गुरुः ॥ शिव-तेजः-मयस्य अस्य शिशोः आपादयेत् गुणान् ॥ ७।२,१८।५३॥
āśāsya nitya-sāṃnidhyam śiva-svātmyam śiśau guruḥ .. śiva-tejaḥ-mayasya asya śiśoḥ āpādayet guṇān .. 7.2,18.53..
अणिमादीन्प्रसीदेति प्रदद्यादाहुतित्रयम् ॥ तथैव तु गुणानेव पुनरस्योपपादयेत् ॥ ७.२,१८.५४॥
अणिम-आदीन् प्रसीद इति प्रदद्यात् आहुति-त्रयम् ॥ तथा एव तु गुणान् एव पुनर् अस्य उपपादयेत् ॥ ७।२,१८।५४॥
aṇima-ādīn prasīda iti pradadyāt āhuti-trayam .. tathā eva tu guṇān eva punar asya upapādayet .. 7.2,18.54..
सर्वज्ञातां तथा तृप्तिं बोधं चाद्यन्तवर्जितम् ॥ अलुप्तशक्तिं स्वातन्त्र्यमनंतां शक्तिमेव च ॥ ७.२,१८.५५॥
सर्वज्ञ-ताम् तथा तृप्तिम् बोधम् च आदि-अन्त-वर्जितम् ॥ अलुप्त-शक्तिम् स्वातन्त्र्यम् अनंताम् शक्तिम् एव च ॥ ७।२,१८।५५॥
sarvajña-tām tathā tṛptim bodham ca ādi-anta-varjitam .. alupta-śaktim svātantryam anaṃtām śaktim eva ca .. 7.2,18.55..
ततो देवमनुज्ञाप्य सद्यादिकलशैस्तु तम् ॥ अभिषिंचेत देवेशं ध्यायन्हृदि यथाक्रमम् ॥ ७.२,१८.५६॥
ततस् देवम् अनुज्ञाप्य सद्य-आदि-कलशैः तु तम् ॥ अभिषिंचेत देवेशम् ध्यायन् हृदि यथाक्रमम् ॥ ७।२,१८।५६॥
tatas devam anujñāpya sadya-ādi-kalaśaiḥ tu tam .. abhiṣiṃceta deveśam dhyāyan hṛdi yathākramam .. 7.2,18.56..
अथोपवेश्य तं शिष्यं शिवमभ्यर्च्य पूर्ववत् ॥ लब्धानुज्ञः शिवाच्छैवीं विद्यामस्मै समादिशेत् ॥ ७.२,१८.५७॥
अथ उपवेश्य तम् शिष्यम् शिवम् अभ्यर्च्य पूर्ववत् ॥ लब्ध-अनुज्ञः शिवात् शैवीम् विद्याम् अस्मै समादिशेत् ॥ ७।२,१८।५७॥
atha upaveśya tam śiṣyam śivam abhyarcya pūrvavat .. labdha-anujñaḥ śivāt śaivīm vidyām asmai samādiśet .. 7.2,18.57..
ओंकारपूर्विकां तत्र संपुटान्तु नमो ऽंतगाम् ॥ शिवशक्तियुताञ्चैव शक्तिविद्यां च तादृशीम् ॥ ७.२,१८.५८॥
ओंकार-पूर्विकाम् तत्र नमः अंत-गाम् ॥ शिव-शक्ति-युताम् च एव शक्ति-विद्याम् च तादृशीम् ॥ ७।२,१८।५८॥
oṃkāra-pūrvikām tatra namaḥ aṃta-gām .. śiva-śakti-yutām ca eva śakti-vidyām ca tādṛśīm .. 7.2,18.58..
ऋषिं छन्दश्च देवं च शिवतां शिवयोस्तथा ॥ पूजां सावरणां शम्भोरासनानि च सन्दिशेत् ॥ ७.२,१८.५९॥
ऋषिम् छन्दः च देवम् च शिवताम् शिवयोः तथा ॥ पूजाम् स आवरणाम् शम्भोः आसनानि च सन्दिशेत् ॥ ७।२,१८।५९॥
ṛṣim chandaḥ ca devam ca śivatām śivayoḥ tathā .. pūjām sa āvaraṇām śambhoḥ āsanāni ca sandiśet .. 7.2,18.59..
पुनः संपूज्य देवेशं यन्मया समनुष्ठितम् ॥ सुकृतं कुरु तत्सर्वमिति विज्ञापयेच्छिवम् ॥ ७.२,१८.६०॥
पुनर् संपूज्य देवेशम् यत् मया समनुष्ठितम् ॥ सुकृतम् कुरु तत् सर्वम् इति विज्ञापयेत् शिवम् ॥ ७।२,१८।६०॥
punar saṃpūjya deveśam yat mayā samanuṣṭhitam .. sukṛtam kuru tat sarvam iti vijñāpayet śivam .. 7.2,18.60..
सहशिष्यो गुरुर्देवं दण्डवत्क्षितिमंडले ॥ प्रणम्योद्वासयेत्तस्मान्मंडलात्पावकादपि ॥ ७.२,१८.६१॥
सह शिष्यः गुरुः देवम् दण्ड-वत् क्षिति-मंडले ॥ प्रणम्य उद्वासयेत् तस्मात् मंडलात् पावकात् अपि ॥ ७।२,१८।६१॥
saha śiṣyaḥ guruḥ devam daṇḍa-vat kṣiti-maṃḍale .. praṇamya udvāsayet tasmāt maṃḍalāt pāvakāt api .. 7.2,18.61..
ततः सदसिकाः सर्वे पूज्याः पूजार्हकाः क्रमात् ॥ सेव्या वित्तानुसारेण सदस्याश्च सहर्त्विजः ॥ ७.२,१८.६२॥
ततस् सदसिकाः सर्वे पूज्याः पूजा-अर्हकाः क्रमात् ॥ सेव्याः वित्त-अनुसारेण सदस्याः च सह ऋत्विजः ॥ ७।२,१८।६२॥
tatas sadasikāḥ sarve pūjyāḥ pūjā-arhakāḥ kramāt .. sevyāḥ vitta-anusāreṇa sadasyāḥ ca saha ṛtvijaḥ .. 7.2,18.62..
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,१८.६३॥
वित्त-शाठ्यम् न कुर्वीत यदि इच्छेत् शिवम् आत्मनः ॥ ७।२,१८।६३॥
vitta-śāṭhyam na kurvīta yadi icchet śivam ātmanaḥ .. 7.2,18.63..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे षडध्वशुद्ध्यादिकथनं नामाष्टादशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे षडध्वशुद्ध्यादिकथनम् नाम अष्टादशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe ṣaḍadhvaśuddhyādikathanam nāma aṣṭādaśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In