| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि साधकं नाम नामतः ॥ संस्कारमन्त्रमाहात्म्यं कथने सूचितं मया ॥ ७.२,१९.१॥
अतस् परम् प्रवक्ष्यामि साधकम् नाम नामतः ॥ संस्कार-मन्त्र-माहात्म्यम् कथने सूचितम् मया ॥ ७।२,१९।१॥
atas param pravakṣyāmi sādhakam nāma nāmataḥ .. saṃskāra-mantra-māhātmyam kathane sūcitam mayā .. 7.2,19.1..
संपूज्य मंडले देवं स्थाप्य कुम्भे च पूर्ववत् ॥ हुत्वा शिष्यमनुष्णीषं प्रापयेद्भुवि मंडले ॥ ७.२,१९.२॥
संपूज्य मंडले देवम् स्थाप्य कुम्भे च पूर्ववत् ॥ हुत्वा शिष्यम् अन् उष्णीषम् प्रापयेत् भुवि मंडले ॥ ७।२,१९।२॥
saṃpūjya maṃḍale devam sthāpya kumbhe ca pūrvavat .. hutvā śiṣyam an uṣṇīṣam prāpayet bhuvi maṃḍale .. 7.2,19.2..
पूर्वांतं पूर्ववत्कृत्वा हुत्वाहुतिशतं तथा ॥ संतर्प्य मूलमन्त्रेण कलशैर्देशिकोत्तमः ॥ ७.२,१९.३॥
पूर्व-अंतम् पूर्ववत् कृत्वा हुत्वा आहुति-शतम् तथा ॥ संतर्प्य मूलमन्त्रेण कलशैः देशिक-उत्तमः ॥ ७।२,१९।३॥
pūrva-aṃtam pūrvavat kṛtvā hutvā āhuti-śatam tathā .. saṃtarpya mūlamantreṇa kalaśaiḥ deśika-uttamaḥ .. 7.2,19.3..
सन्दीप्य च यथापूर्वं कृत्वा पूर्वोदितं क्रमात् ॥ अभिषिच्य यथापूर्वं प्रदद्यान्मन्त्रमुत्तमम् ॥ ७.२,१९.४॥
सन्दीप्य च यथापूर्वम् कृत्वा पूर्व-उदितम् क्रमात् ॥ अभिषिच्य यथापूर्वम् प्रदद्यात् मन्त्रम् उत्तमम् ॥ ७।२,१९।४॥
sandīpya ca yathāpūrvam kṛtvā pūrva-uditam kramāt .. abhiṣicya yathāpūrvam pradadyāt mantram uttamam .. 7.2,19.4..
तत्र विद्योपदेशांतं कृत्वा विस्तरशः क्रमात् ॥ पुष्पाम्बुना शिशोः पाणौ विद्यां शैवीं समर्पयेत् ॥ ७.२,१९.५॥
तत्र विद्या-उपदेश-अंतम् कृत्वा विस्तरशः क्रमात् ॥ पुष्प-अम्बुना शिशोः पाणौ विद्याम् शैवीम् समर्पयेत् ॥ ७।२,१९।५॥
tatra vidyā-upadeśa-aṃtam kṛtvā vistaraśaḥ kramāt .. puṣpa-ambunā śiśoḥ pāṇau vidyām śaivīm samarpayet .. 7.2,19.5..
तवैहिकामुष्मिकयोः सर्वसिद्धिफलप्रदः ॥ भवत्येव महामन्त्रः प्रसादात्परमेष्ठिनः ॥ ७.२,१९.६॥
तव ऐहिक-आमुष्मिकयोः सर्व-सिद्धि-फल-प्रदः ॥ भवति एव महा-मन्त्रः प्रसादात् परमेष्ठिनः ॥ ७।२,१९।६॥
tava aihika-āmuṣmikayoḥ sarva-siddhi-phala-pradaḥ .. bhavati eva mahā-mantraḥ prasādāt parameṣṭhinaḥ .. 7.2,19.6..
इत्युत्वा देवमभ्यर्च्य लब्धानुज्ञः शिवाद्गुरुः ॥ साधनं शिवयोगं च साधकाय समादिशेत् ॥ ७.२,१९.७॥
इति उत्वा देवम् अभ्यर्च्य लब्ध-अनुज्ञः शिवात् गुरुः ॥ साधनम् शिव-योगम् च साधकाय समादिशेत् ॥ ७।२,१९।७॥
iti utvā devam abhyarcya labdha-anujñaḥ śivāt guruḥ .. sādhanam śiva-yogam ca sādhakāya samādiśet .. 7.2,19.7..
तच्छ्रुत्वा गुरुसंदेशं क्रमशो मंत्रसाधकः ॥ पुरतो विनियोगस्य मन्त्रसाधनमाचरेत् ॥ ७.२,१९.८॥
तत् श्रुत्वा गुरु-संदेशम् क्रमशस् मंत्र-साधकः ॥ पुरतस् विनियोगस्य मन्त्र-साधनम् आचरेत् ॥ ७।२,१९।८॥
tat śrutvā guru-saṃdeśam kramaśas maṃtra-sādhakaḥ .. puratas viniyogasya mantra-sādhanam ācaret .. 7.2,19.8..
साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ॥ पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणः ॥ ७.२,१९.९॥
साधनम् मूलमन्त्रस्य पुरश्चरणम् उच्यते ॥ पुरतस् चरणीय-त्वात् विनियोग-आख्य-कर्मणः ॥ ७।२,१९।९॥
sādhanam mūlamantrasya puraścaraṇam ucyate .. puratas caraṇīya-tvāt viniyoga-ākhya-karmaṇaḥ .. 7.2,19.9..
नात्यन्तं करणीयन्तु मुमुक्षोर्मन्त्रसाधनम् ॥ कृतन्तु तदिहान्यत्र तास्यापि शुभदं भवेत् ॥ ७.२,१९.१०॥
न अत्यन्तम् करणीयन्तु तु मुमुक्षोः मन्त्र-साधनम् ॥ तत् इह अन्यत्र शुभ-दम् भवेत् ॥ ७।२,१९।१०॥
na atyantam karaṇīyantu tu mumukṣoḥ mantra-sādhanam .. tat iha anyatra śubha-dam bhavet .. 7.2,19.10..
शुभे ऽहनि शुभे देशे काले वा दोषवर्जिते ॥ शुक्लदन्तनखः स्नातः कृतपूर्वाह्णिकक्रियः ॥ ७.२,१९.११॥
शुभे अहनि शुभे देशे काले वा दोष-वर्जिते ॥ शुक्ल-दन्त-नखः स्नातः कृत-पूर्वाह्णिक-क्रियः ॥ ७।२,१९।११॥
śubhe ahani śubhe deśe kāle vā doṣa-varjite .. śukla-danta-nakhaḥ snātaḥ kṛta-pūrvāhṇika-kriyaḥ .. 7.2,19.11..
अलंकृत्य यथा लब्धैर्गंधमाल्यविभूषणैः ॥ सोष्णीषः सोत्तरासंगः सर्वशुक्लसमाहितः ॥ ७.२,१९.१२॥
अलंकृत्य यथा लब्धैः गंध-माल्य-विभूषणैः ॥ स उष्णीषः स उत्तरासंगः सर्व-शुक्ल-समाहितः ॥ ७।२,१९।१२॥
alaṃkṛtya yathā labdhaiḥ gaṃdha-mālya-vibhūṣaṇaiḥ .. sa uṣṇīṣaḥ sa uttarāsaṃgaḥ sarva-śukla-samāhitaḥ .. 7.2,19.12..
देवालये गृहे ऽन्यस्मिन्देशे वा सुमनोहरे ॥ सुखेनाभ्यस्तपूर्वेण त्वासनेन कृतासनः ॥ ७.२,१९.१३॥
देवालये गृहे अन्यस्मिन् देशे वा सु मनोहरे ॥ सुखेन अभ्यस्त-पूर्वेण तु आसनेन कृत-आसनः ॥ ७।२,१९।१३॥
devālaye gṛhe anyasmin deśe vā su manohare .. sukhena abhyasta-pūrveṇa tu āsanena kṛta-āsanaḥ .. 7.2,19.13..
तनुं कृत्वात्मनः शैवीं शिवशास्त्रोक्तवर्त्मना ॥ संपूज्य देवदेवेशं नकुलीश्वरमीश्वरम् ॥ ७.२,१९.१४॥
तनुम् कृत्वा आत्मनः शैवीम् शिव-शास्त्र-उक्त-वर्त्मना ॥ संपूज्य देवदेवेशम् नकुलि-ईश्वरम् ईश्वरम् ॥ ७।२,१९।१४॥
tanum kṛtvā ātmanaḥ śaivīm śiva-śāstra-ukta-vartmanā .. saṃpūjya devadeveśam nakuli-īśvaram īśvaram .. 7.2,19.14..
निवेद्य पायसं तस्मै समप्याराधनं क्रमात् ॥ प्रणिपत्य च तं देवं प्राप्तानुज्ञश्च तन्मुखात् ॥ ७.२,१९.१५॥
निवेद्य पायसम् तस्मै समपि आराधनम् क्रमात् ॥ प्रणिपत्य च तम् देवम् प्राप्त-अनुज्ञः च तद्-मुखात् ॥ ७।२,१९।१५॥
nivedya pāyasam tasmai samapi ārādhanam kramāt .. praṇipatya ca tam devam prāpta-anujñaḥ ca tad-mukhāt .. 7.2,19.15..
कोटिवारं तदर्धं वा तदर्धं वा जपेच्छिवम् ॥ लक्षविंशतिकं वापि दशलक्षमथापि वा ॥ ७.२,१९.१६॥
कोटि-वारम् तद्-अर्धम् वा तद्-अर्धम् वा जपेत् शिवम् ॥ लक्ष-विंशतिकम् वा अपि दश-लक्षम् अथ अपि वा ॥ ७।२,१९।१६॥
koṭi-vāram tad-ardham vā tad-ardham vā japet śivam .. lakṣa-viṃśatikam vā api daśa-lakṣam atha api vā .. 7.2,19.16..
ततश्च पायसाक्षारलवणैकमिताशनः ॥ अहिंसकः क्षमी शांतो दांतश्चैव सदा भवेत् ॥ ७.२,१९.१७॥
ततस् च पायसा-क्षार-लवण-एक-मित-अशनः ॥ अहिंसकः क्षमी शांतः दांतः च एव सदा भवेत् ॥ ७।२,१९।१७॥
tatas ca pāyasā-kṣāra-lavaṇa-eka-mita-aśanaḥ .. ahiṃsakaḥ kṣamī śāṃtaḥ dāṃtaḥ ca eva sadā bhavet .. 7.2,19.17..
अलाभे पायसस्याश्नन्फलमूलादिकानि वा ॥ विहितानि शिवेनैव विशिष्टान्युत्तरोत्तरम् ॥ ७.२,१९.१८॥
अलाभे पायसस्य अश्नन् फल-मूल-आदिकानि वा ॥ विहितानि शिवेन एव विशिष्टानि उत्तरोत्तरम् ॥ ७।२,१९।१८॥
alābhe pāyasasya aśnan phala-mūla-ādikāni vā .. vihitāni śivena eva viśiṣṭāni uttarottaram .. 7.2,19.18..
चरुं भक्ष्यमथो सक्तुकणान्यावकमेव च ॥ शाकं पयो दधि घृतं मूलं फलमथोदकम् ॥ ७.२,१९.१९॥
चरुम् भक्ष्यम् अथो सक्तु-कणान् यावकम् एव च ॥ शाकम् पयः दधि घृतम् मूलम् फलम् अथ उदकम् ॥ ७।२,१९।१९॥
carum bhakṣyam atho saktu-kaṇān yāvakam eva ca .. śākam payaḥ dadhi ghṛtam mūlam phalam atha udakam .. 7.2,19.19..
अभिमंत्र्य च मन्त्रेण भक्ष्यभोज्यादिकानि च ॥ साधने ऽस्मिन्विशेषेण नित्यं भुञ्जीत वाग्यतः ॥ ७.२,१९.२०॥
च मन्त्रेण भक्ष्य-भोज्य-आदिकानि च ॥ साधने अस्मिन् विशेषेण नित्यम् भुञ्जीत वाग्यतः ॥ ७।२,१९।२०॥
ca mantreṇa bhakṣya-bhojya-ādikāni ca .. sādhane asmin viśeṣeṇa nityam bhuñjīta vāgyataḥ .. 7.2,19.20..
मन्त्राष्टशतपूतेन जलेन शुचिना व्रती ॥ स्नायान्नदीनदोत्थेन प्रोक्षयेद्वाथ शक्तितः ॥ ७.२,१९.२१॥
मन्त्र-अष्टशत-पूतेन जलेन शुचिना व्रती ॥ स्नायात् नदीनद-उत्थेन प्रोक्षयेत् वा अथ शक्तितस् ॥ ७।२,१९।२१॥
mantra-aṣṭaśata-pūtena jalena śucinā vratī .. snāyāt nadīnada-utthena prokṣayet vā atha śaktitas .. 7.2,19.21..
तर्पयेच्च तथा नित्यं जुहुयाच्च शिवानले ॥ सप्तभिः पञ्चभिर्द्रव्यैस्त्रिभिर्वाथ घृतेन वा ॥ ७.२,१९.२२॥
तर्पयेत् च तथा नित्यम् जुहुयात् च शिव-अनले ॥ सप्तभिः पञ्चभिः द्रव्यैः त्रिभिः वा अथ घृतेन वा ॥ ७।२,१९।२२॥
tarpayet ca tathā nityam juhuyāt ca śiva-anale .. saptabhiḥ pañcabhiḥ dravyaiḥ tribhiḥ vā atha ghṛtena vā .. 7.2,19.22..
इत्थं भक्त्या शिवं शैवो यः साधयति साधकः ॥ तस्येहामुत्र दुष्प्रापं न किंचिदपि विद्यते ॥ ७.२,१९.२३॥
इत्थम् भक्त्या शिवम् शैवः यः साधयति साधकः ॥ तस्य इह अमुत्र दुष्प्रापम् न किंचिद् अपि विद्यते ॥ ७।२,१९।२३॥
ittham bhaktyā śivam śaivaḥ yaḥ sādhayati sādhakaḥ .. tasya iha amutra duṣprāpam na kiṃcid api vidyate .. 7.2,19.23..
अथवा ऽहरहर्मंत्रं जपेदेकाग्रमानसः ॥ अनश्नन्नेव साहस्रं विना मन्त्रस्य साधनम् ॥ ७.२,१९.२४॥
अथवा अहर् अहर् मंत्रम् जपेत् एकाग्र-मानसः ॥ अन् अश्नन् एव साहस्रम् विना मन्त्रस्य साधनम् ॥ ७।२,१९।२४॥
athavā ahar ahar maṃtram japet ekāgra-mānasaḥ .. an aśnan eva sāhasram vinā mantrasya sādhanam .. 7.2,19.24..
न तस्य दुर्लभं किंचिन्न तस्यास्त्यशुभं क्वचित् ॥ इह विद्यां श्रियं सौख्यं लब्ध्वा मुक्तिं च विंदति ॥ ७.२,१९.२५॥
न तस्य दुर्लभम् किंचिद् न तस्य अस्ति अशुभम् क्वचिद् ॥ इह विद्याम् श्रियम् सौख्यम् लब्ध्वा मुक्तिम् च विंदति ॥ ७।२,१९।२५॥
na tasya durlabham kiṃcid na tasya asti aśubham kvacid .. iha vidyām śriyam saukhyam labdhvā muktim ca viṃdati .. 7.2,19.25..
साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ जपेज्जलैर्भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ७.२,१९.२६॥
साधने विनियोगे च नित्ये नैमित्तिके तथा ॥ जपेत् जलैः भस्मना च स्नात्वा मन्त्रेण च क्रमात् ॥ ७।२,१९।२६॥
sādhane viniyoge ca nitye naimittike tathā .. japet jalaiḥ bhasmanā ca snātvā mantreṇa ca kramāt .. 7.2,19.26..
शुचिर्बद्धशिखस्सूत्री सपवित्रकरस्तथा ॥ धृतत्रिपुंड्ररुद्राक्षो विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२,१९.२७॥
शुचिः बद्ध-शिखः सूत्री स पवित्र-करः तथा ॥ धृत-त्रिपुंड्र-रुद्र-अक्षः विद्याम् पञ्चाक्षरीम् जपेत् ॥ ७।२,१९।२७॥
śuciḥ baddha-śikhaḥ sūtrī sa pavitra-karaḥ tathā .. dhṛta-tripuṃḍra-rudra-akṣaḥ vidyām pañcākṣarīm japet .. 7.2,19.27..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे साधकसंस्कारमन्त्रमाहात्म्यं नामैकोनविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे साधकसंस्कारमन्त्रमाहात्म्यम् नाम एकोनविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe sādhakasaṃskāramantramāhātmyam nāma ekonaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In