| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः॥
किं तत्पाशुपतं ज्ञानं कथं पशुपतिश्शिवः ॥ कथं धौम्याग्रजः पृष्टः कृष्णेनाक्लिष्टकर्मणा ॥ ७.२,२.१॥
किम् तत् पाशुपतम् ज्ञानम् कथम् पशुपतिः शिवः ॥ कथम् धौम्य-अग्रजः पृष्टः कृष्णेन अक्लिष्ट-कर्मणा ॥ ७।२,२।१॥
kim tat pāśupatam jñānam katham paśupatiḥ śivaḥ .. katham dhaumya-agrajaḥ pṛṣṭaḥ kṛṣṇena akliṣṭa-karmaṇā .. 7.2,2.1..
एतत्सर्वं समाचक्ष्व वायो शंकरविग्रह ॥ तत्समो न हि वक्तास्ति त्रैलोक्येष्वपरः प्रभुः ॥ ७.२,२.२॥
एतत् सर्वम् समाचक्ष्व वायो शंकर-विग्रह ॥ तद्-समः न हि वक्ता अस्ति त्रैलोक्येषु अपरः प्रभुः ॥ ७।२,२।२॥
etat sarvam samācakṣva vāyo śaṃkara-vigraha .. tad-samaḥ na hi vaktā asti trailokyeṣu aparaḥ prabhuḥ .. 7.2,2.2..
सूत उवाच॥
इत्याकर्ण्य वचस्तेषां महर्षीणां प्रभंजनः ॥ संस्मृत्य शिवमीशानं प्रवक्तुमुपचक्रमे ॥ ७.२,२.३॥
इति आकर्ण्य वचः तेषाम् महा-ऋषीणाम् प्रभंजनः ॥ संस्मृत्य शिवम् ईशानम् प्रवक्तुम् उपचक्रमे ॥ ७।२,२।३॥
iti ākarṇya vacaḥ teṣām mahā-ṛṣīṇām prabhaṃjanaḥ .. saṃsmṛtya śivam īśānam pravaktum upacakrame .. 7.2,2.3..
वायुरुवाच॥
पुरा साक्षान्महेशेन श्रीकंठाख्येन मन्दरे ॥ देव्यै देवेन कथितं ज्ञानं पाशुपतं परम् ॥ ७.२,२.४॥
पुरा साक्षात् महेशेन श्रीकंठ-आख्येन मन्दरे ॥ देव्यै देवेन कथितम् ज्ञानम् पाशुपतम् परम् ॥ ७।२,२।४॥
purā sākṣāt maheśena śrīkaṃṭha-ākhyena mandare .. devyai devena kathitam jñānam pāśupatam param .. 7.2,2.4..
तदेव पृष्टं कृष्णेन विष्णुना विश्वयोनिना ॥ पशुत्वं च सुरादीनां पतित्वं च शिवस्य च ॥ ७.२,२.५॥
तत् एव पृष्टम् कृष्णेन विष्णुना विश्वयोनिना ॥ पशु-त्वम् च सुर-आदीनाम् पति-त्वम् च शिवस्य च ॥ ७।२,२।५॥
tat eva pṛṣṭam kṛṣṇena viṣṇunā viśvayoninā .. paśu-tvam ca sura-ādīnām pati-tvam ca śivasya ca .. 7.2,2.5..
यथोपदिष्टं कृष्णाय मुनिना ह्युपमन्युना ॥ तथा समासतो वक्ष्ये तच्छृणुध्वमतंद्रिताः ॥ ७.२,२.६॥
यथा उपदिष्टम् कृष्णाय मुनिना हि उपमन्युना ॥ तथा समासतस् वक्ष्ये तत् शृणुध्वम् अतंद्रिताः ॥ ७।२,२।६॥
yathā upadiṣṭam kṛṣṇāya muninā hi upamanyunā .. tathā samāsatas vakṣye tat śṛṇudhvam ataṃdritāḥ .. 7.2,2.6..
पुरोपमन्युमासीनं विष्णुःकृष्णवपुर्धरः ॥ प्रणिपत्य यथान्यायमिदं वचनमब्रवीत् ॥ ७.२,२.७॥
पुरा उपमन्युम् आसीनम् विष्णुः कृष्ण-वपुः-धरः ॥ प्रणिपत्य यथान्यायम् इदम् वचनम् अब्रवीत् ॥ ७।२,२।७॥
purā upamanyum āsīnam viṣṇuḥ kṛṣṇa-vapuḥ-dharaḥ .. praṇipatya yathānyāyam idam vacanam abravīt .. 7.2,2.7..
श्रीकृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि देव्यै देवेन भाषितम् ॥ दिव्यं पाशुपतं ज्ञानं विभूतिं वास्य कृत्स्नशः ॥ ७.२,२.८॥
भगवन् श्रोतुम् इच्छामि देव्यै देवेन भाषितम् ॥ दिव्यम् पाशुपतम् ज्ञानम् विभूतिम् वा अस्य कृत्स्नशस् ॥ ७।२,२।८॥
bhagavan śrotum icchāmi devyai devena bhāṣitam .. divyam pāśupatam jñānam vibhūtim vā asya kṛtsnaśas .. 7.2,2.8..
कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः ॥ कैः पाशैस्ते निबध्यंते विमुच्यंते च ते कथम् ॥ ७.२,२.९॥
कथम् पशुपतिः देवः पशवः के प्रकीर्तिताः ॥ कैः पाशैः ते निबध्यंते विमुच्यंते च ते कथम् ॥ ७।२,२।९॥
katham paśupatiḥ devaḥ paśavaḥ ke prakīrtitāḥ .. kaiḥ pāśaiḥ te nibadhyaṃte vimucyaṃte ca te katham .. 7.2,2.9..
इति संचोदितः श्रीमानुपमन्युर्महात्मना ॥ प्रणम्य देवं देवीं च प्राह पुष्टो यथा तथा ॥ ७.२,२.१०॥
इति संचोदितः श्रीमान् उपमन्युः महात्मना ॥ प्रणम्य देवम् देवीम् च प्राह पुष्टः यथा तथा ॥ ७।२,२।१०॥
iti saṃcoditaḥ śrīmān upamanyuḥ mahātmanā .. praṇamya devam devīm ca prāha puṣṭaḥ yathā tathā .. 7.2,2.10..
उपमन्युरुवाच॥
ब्रह्माद्याः स्थावरांताश्च देवदेवस्य शूलिनः ॥ पशवः परिकीर्त्यंते संसारवशवर्तिनः ॥ ७.२,२.११॥
ब्रह्म-आद्याः स्थावर-अन्ताः च देवदेवस्य शूलिनः ॥ पशवः परिकीर्त्यंते संसार-वश-वर्तिनः ॥ ७।२,२।११॥
brahma-ādyāḥ sthāvara-antāḥ ca devadevasya śūlinaḥ .. paśavaḥ parikīrtyaṃte saṃsāra-vaśa-vartinaḥ .. 7.2,2.11..
तेषां पतित्वाद्देवेशः शिवः पशुपतिः स्मृतः ॥ मलमायादिभिः पाशैः स बध्नाति पशून्पतिः ॥ ७.२,२.१२॥
तेषाम् पति-त्वात् देवेशः शिवः पशुपतिः स्मृतः ॥ मल-माया-आदिभिः पाशैः स बध्नाति पशून् पतिः ॥ ७।२,२।१२॥
teṣām pati-tvāt deveśaḥ śivaḥ paśupatiḥ smṛtaḥ .. mala-māyā-ādibhiḥ pāśaiḥ sa badhnāti paśūn patiḥ .. 7.2,2.12..
स एव मोचकस्तेषां भक्त्या सम्यगुपासितः ॥ चतुर्विंशतितत्त्वानि मायाकर्मगुणा अमी ॥ ७.२,२.१३॥
सः एव मोचकः तेषाम् भक्त्या सम्यक् उपासितः ॥ चतुर्विंशति-तत्त्वानि माया-कर्म-गुणाः अमी ॥ ७।२,२।१३॥
saḥ eva mocakaḥ teṣām bhaktyā samyak upāsitaḥ .. caturviṃśati-tattvāni māyā-karma-guṇāḥ amī .. 7.2,2.13..
विषया इति कथ्यन्ते पाशा जीवनिबन्धनाः ॥ ब्रह्मादिस्तम्बपर्यंतान् पशून्बद्ध्वा महेश्वरः ॥ ७.२,२.१४॥
विषयाः इति कथ्यन्ते पाशाः जीव-निबन्धनाः ॥ ब्रह्म-आदि-स्तम्ब-पर्यन्तान् पशून् बद्ध्वा महेश्वरः ॥ ७।२,२।१४॥
viṣayāḥ iti kathyante pāśāḥ jīva-nibandhanāḥ .. brahma-ādi-stamba-paryantān paśūn baddhvā maheśvaraḥ .. 7.2,2.14..
पाशैरेतैः पतिर्देवः कार्यं कारयति स्वकम् ॥ तस्याज्ञया महेशस्य प्रकृतिः पुरुषोचिताम् ॥ ७.२,२.१५॥
पाशैः एतैः पतिः देवः कार्यम् कारयति स्वकम् ॥ तस्य आज्ञया महेशस्य प्रकृतिः पुरुष-उचिताम् ॥ ७।२,२।१५॥
pāśaiḥ etaiḥ patiḥ devaḥ kāryam kārayati svakam .. tasya ājñayā maheśasya prakṛtiḥ puruṣa-ucitām .. 7.2,2.15..
बुद्धिं प्रसूते सा बुद्धिरहंकारमहंकृतिः ॥ इन्द्रियाणि दशैकं च तन्मात्रापञ्चकं तथा ॥ ७.२,२.१६॥
बुद्धिम् प्रसूते सा बुद्धिः अहंकारम् अहंकृतिः ॥ इन्द्रियाणि दश-एकम् च तन्मात्र-पञ्चकम् तथा ॥ ७।२,२।१६॥
buddhim prasūte sā buddhiḥ ahaṃkāram ahaṃkṛtiḥ .. indriyāṇi daśa-ekam ca tanmātra-pañcakam tathā .. 7.2,2.16..
शासनाद्देवदेवस्य शिवस्य शिवदायिनः ॥ तन्मात्राण्यपि तस्यैव शासनेन महीयसा ॥ ७.२,२.१७॥
शासनात् देवदेवस्य शिवस्य शिव-दायिनः ॥ तन्मात्राणि अपि तस्य एव शासनेन महीयसा ॥ ७।२,२।१७॥
śāsanāt devadevasya śivasya śiva-dāyinaḥ .. tanmātrāṇi api tasya eva śāsanena mahīyasā .. 7.2,2.17..
महाभूतान्यशेषाणि भावयंत्यनुपूर्वशः ॥ ब्रह्मादीनां तृणान्तानां देहिनां देहसंगतिम् ॥ ७.२,२.१८॥
महाभूतानि अशेषाणि भावयंति अनुपूर्वशस् ॥ ब्रह्म-आदीनाम् तृण-अन्तानाम् देहिनाम् देह-संगतिम् ॥ ७।२,२।१८॥
mahābhūtāni aśeṣāṇi bhāvayaṃti anupūrvaśas .. brahma-ādīnām tṛṇa-antānām dehinām deha-saṃgatim .. 7.2,2.18..
महाभूतान्यशेषाणि जनयंति शिवाज्ञया ॥ अध्यवस्यति वै बुद्धिरहंकारोभिमन्यते ॥ ७.२,२.१९॥
महाभूतानि अशेषाणि जनयन्ति शिव-आज्ञया ॥ अध्यवस्यति वै बुद्धिः अहंकारः अभिमन्यते ॥ ७।२,२।१९॥
mahābhūtāni aśeṣāṇi janayanti śiva-ājñayā .. adhyavasyati vai buddhiḥ ahaṃkāraḥ abhimanyate .. 7.2,2.19..
चित्तं चेतयते चापि मनः संकल्पयत्यपि ॥ श्रोत्रादीनि च गृह्णन्ति शब्दादीन्विषयान् पृथक् ॥ ७.२,२.२०॥
चित्तम् चेतयते च अपि मनः संकल्पयति अपि ॥ श्रोत्र-आदीनि च गृह्णन्ति शब्द-आदीन् विषयान् पृथक् ॥ ७।२,२।२०॥
cittam cetayate ca api manaḥ saṃkalpayati api .. śrotra-ādīni ca gṛhṇanti śabda-ādīn viṣayān pṛthak .. 7.2,2.20..
स्वानेव नान्यान्देवस्य दिव्येनाज्ञाबलेन वै ॥ वागादीन्यपि यान्यासंस्तानि कर्मेन्द्रियाणि च ॥ ७.२,२.२१॥
स्वान् एव न अन्यान् देवस्य दिव्येन आज्ञा-बलेन वै ॥ वाच्-आदीनि अपि यानि आसन् तानि कर्मेन्द्रियाणि च ॥ ७।२,२।२१॥
svān eva na anyān devasya divyena ājñā-balena vai .. vāc-ādīni api yāni āsan tāni karmendriyāṇi ca .. 7.2,2.21..
यथा स्वं कर्म कुर्वन्ति नान्यत्किंचिच्छिवाज्ञया ॥ शब्दादयोपि गृह्यंते क्रियन्ते वचनादयः ॥ ७.२,२.२२॥
यथा स्वम् कर्म कुर्वन्ति न अन्यत् किंचिद् शिव-आज्ञया ॥ शब्द-आदयः अपि गृह्यंते क्रियन्ते वचन-आदयः ॥ ७।२,२।२२॥
yathā svam karma kurvanti na anyat kiṃcid śiva-ājñayā .. śabda-ādayaḥ api gṛhyaṃte kriyante vacana-ādayaḥ .. 7.2,2.22..
अविलंघ्या हि सर्वेषामाज्ञा शंभोर्गरीयसी ॥ अवकाशमशेषाणां भूतानां संप्रयच्छति ॥ ७.२,२.२३॥
अविलंघ्या हि सर्वेषाम् आज्ञा शंभोः गरीयसी ॥ अवकाशम् अशेषाणाम् भूतानाम् संप्रयच्छति ॥ ७।२,२।२३॥
avilaṃghyā hi sarveṣām ājñā śaṃbhoḥ garīyasī .. avakāśam aśeṣāṇām bhūtānām saṃprayacchati .. 7.2,2.23..
आकाशः परमेशस्य शासनादेव सर्वगः ॥ प्राणाद्यैश्च तथा नामभेदैरंतर्बहिर्जगत् ॥ ७.२,२.२४॥
आकाशः परमेशस्य शासनात् एव सर्वगः ॥ प्राण-आद्यैः च तथा नाम-भेदैः अन्तर् बहिस् जगत् ॥ ७।२,२।२४॥
ākāśaḥ parameśasya śāsanāt eva sarvagaḥ .. prāṇa-ādyaiḥ ca tathā nāma-bhedaiḥ antar bahis jagat .. 7.2,2.24..
बिभर्ति सर्वं शर्वस्य शासनेन प्रभञ्जनः ॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि ॥ ७.२,२.२५॥
बिभर्ति सर्वम् शर्वस्य शासनेन प्रभञ्जनः ॥ हव्यम् वहति देवानाम् कव्यम् कव्य-आशिनाम् अपि ॥ ७।२,२।२५॥
bibharti sarvam śarvasya śāsanena prabhañjanaḥ .. havyam vahati devānām kavyam kavya-āśinām api .. 7.2,2.25..
पाकाद्यं च करोत्यग्निः परमेश्वरशासनात् ॥ संजीवनाद्यं सर्वस्य कुर्वत्यापस्तदाज्ञया ॥ ७.२,२.२६॥
पाक-आद्यम् च करोति अग्निः परमेश्वर-शासनात् ॥ संजीवन-आद्यम् सर्वस्य कुर्वति आपः तद्-आज्ञया ॥ ७।२,२।२६॥
pāka-ādyam ca karoti agniḥ parameśvara-śāsanāt .. saṃjīvana-ādyam sarvasya kurvati āpaḥ tad-ājñayā .. 7.2,2.26..
विश्वम्भरा जगन्नित्यं धत्ते विश्वेश्वराज्ञया ॥ देवान्पात्यसुरान् हंति त्रिलोकमभिरक्षति ॥ ७.२,२.२७॥
विश्वम्भराः जगत् नित्यम् धत्ते विश्वेश्वर-आज्ञया ॥ देवान् पाति असुरान् हंति त्रिलोकम् अभिरक्षति ॥ ७।२,२।२७॥
viśvambharāḥ jagat nityam dhatte viśveśvara-ājñayā .. devān pāti asurān haṃti trilokam abhirakṣati .. 7.2,2.27..
आज्ञया तस्य देवेन्द्रः सर्वैर्देवैरलंघ्यया ॥ आधिपत्यमपां नित्यं कुरुते वरुणस्सदा ॥ ७.२,२.२८॥
आज्ञया तस्य देव-इन्द्रः सर्वैः देवैः अ लंघ्यया ॥ आधिपत्यम् अपाम् नित्यम् कुरुते वरुणः सदा ॥ ७।२,२।२८॥
ājñayā tasya deva-indraḥ sarvaiḥ devaiḥ a laṃghyayā .. ādhipatyam apām nityam kurute varuṇaḥ sadā .. 7.2,2.28..
पाशैर्बध्नाति च यथा दंड्यांस्तस्यैव शासनात् ॥ ददाति नित्यं यक्षेन्द्रो द्रविणं द्रविणेश्वरः ॥ ७.२,२.२९॥
पाशैः बध्नाति च यथा दंड्यान् तस्य एव शासनात् ॥ ददाति नित्यम् यक्ष-इन्द्रः द्रविणम् द्रविण-ईश्वरः ॥ ७।२,२।२९॥
pāśaiḥ badhnāti ca yathā daṃḍyān tasya eva śāsanāt .. dadāti nityam yakṣa-indraḥ draviṇam draviṇa-īśvaraḥ .. 7.2,2.29..
पुण्यानुरूपं भूतेभ्यः पुरुषस्यानुशासनात् ॥ करोति संपदः शश्वज्ज्ञानं चापि सुमेधसाम् ॥ ७.२,२.३०॥
पुण्य-अनुरूपम् भूतेभ्यः पुरुषस्य अनुशासनात् ॥ करोति संपदः शश्वत् ज्ञानम् च अपि सुमेधसाम् ॥ ७।२,२।३०॥
puṇya-anurūpam bhūtebhyaḥ puruṣasya anuśāsanāt .. karoti saṃpadaḥ śaśvat jñānam ca api sumedhasām .. 7.2,2.30..
निग्रहं चाप्यसाधूनामीशानश्शिवशासनात् ॥ धत्ते तु धरणीं मूर्ध्ना शेषः शिवनियोगतः ॥ ७.२,२.३१॥
निग्रहम् च अपि असाधूनाम् ईशानः शिव-शासनात् ॥ धत्ते तु धरणीम् मूर्ध्ना शेषः शिव-नियोगतः ॥ ७।२,२।३१॥
nigraham ca api asādhūnām īśānaḥ śiva-śāsanāt .. dhatte tu dharaṇīm mūrdhnā śeṣaḥ śiva-niyogataḥ .. 7.2,2.31..
यामाहुस्तामसीं रौद्रीं मूर्तिमंतकरीं हरेः ॥ सृजत्यशेषमीशस्य शासनाच्चतुराननः ॥ ७.२,२.३२॥
याम् आहुः तामसीम् रौद्रीम् मूर्तिमंत-करीम् हरेः ॥ सृजति अशेषम् ईशस्य शासनात् चतुराननः ॥ ७।२,२।३२॥
yām āhuḥ tāmasīm raudrīm mūrtimaṃta-karīm hareḥ .. sṛjati aśeṣam īśasya śāsanāt caturānanaḥ .. 7.2,2.32..
अन्याभिर्मूर्तिभिः स्वाभिः पाति चांते निहन्ति च ॥ विष्णुः पालयते विश्वं कालकालस्य शासनात् ॥ ७.२,२.३३॥
अन्याभिः मूर्तिभिः स्वाभिः पाति च अन्ते निहन्ति च ॥ विष्णुः पालयते विश्वम् काल-कालस्य शासनात् ॥ ७।२,२।३३॥
anyābhiḥ mūrtibhiḥ svābhiḥ pāti ca ante nihanti ca .. viṣṇuḥ pālayate viśvam kāla-kālasya śāsanāt .. 7.2,2.33..
सृजते त्रसते चापि स्वकाभिस्तनुभिस्त्रिभिः ॥ हरत्यंते जगत्सर्वं हरस्तस्यैव शासनात् ॥ ७.२,२.३४॥
सृजते त्रसते च अपि स्वकाभिः तनुभिः त्रिभिः ॥ हरति अन्ते जगत् सर्वम् हरः तस्य एव शासनात् ॥ ७।२,२।३४॥
sṛjate trasate ca api svakābhiḥ tanubhiḥ tribhiḥ .. harati ante jagat sarvam haraḥ tasya eva śāsanāt .. 7.2,2.34..
सृजत्यपि च विश्वात्मा त्रिधा भिन्नस्तु रक्षति ॥ कालः करोति सकलं कालस्संहरति प्रजाः ॥ ७.२,२.३५॥
सृजति अपि च विश्वात्मा त्रिधा भिन्नः तु रक्षति ॥ कालः करोति सकलम् कालः संहरति प्रजाः ॥ ७।२,२।३५॥
sṛjati api ca viśvātmā tridhā bhinnaḥ tu rakṣati .. kālaḥ karoti sakalam kālaḥ saṃharati prajāḥ .. 7.2,2.35..
कालः पालयते विश्वं कालकालस्य शासनात् ॥ त्रिभिरंशैर्जगद्बिभ्रत्तेजोभिर्वृष्टिमादिशन् ॥ ७.२,२.३६॥
कालः पालयते विश्वम् काल-कालस्य शासनात् ॥ त्रिभिः अंशैः जगत् बिभ्रत् तेजोभिः वृष्टिम् आदिशन् ॥ ७।२,२।३६॥
kālaḥ pālayate viśvam kāla-kālasya śāsanāt .. tribhiḥ aṃśaiḥ jagat bibhrat tejobhiḥ vṛṣṭim ādiśan .. 7.2,2.36..
दिवि वर्षत्यसौ भानुर्देवदेवस्य शासनात् ॥ पुष्णात्योषधिजातानि भूतान्याह्लादयत्यपि ॥ ७.२,२.३७॥
दिवि वर्षति असौ भानुः देवदेवस्य शासनात् ॥ पुष्णाति ओषधि-जातानि भूतानि आह्लादयति अपि ॥ ७।२,२।३७॥
divi varṣati asau bhānuḥ devadevasya śāsanāt .. puṣṇāti oṣadhi-jātāni bhūtāni āhlādayati api .. 7.2,2.37..
देवैश्च पीयते चंद्रश्चन्द्रभूषणशासनात् ॥ आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ॥ ७.२,२.३८॥
देवैः च पीयते चंद्रः चन्द्रभूषण-शासनात् ॥ आदित्याः वसवः रुद्राः अश्विनौ मरुतः तथा ॥ ७।२,२।३८॥
devaiḥ ca pīyate caṃdraḥ candrabhūṣaṇa-śāsanāt .. ādityāḥ vasavaḥ rudrāḥ aśvinau marutaḥ tathā .. 7.2,2.38..
खेचरा ऋषयस्सिद्धा भोगिनो मनुजा मृगाः ॥ पशवः पक्षिणश्चैव कीटाद्याः स्थावराणि च ॥ ७.२,२.३९॥
खेचराः ऋषयः सिद्धाः भोगिनः मनुजाः मृगाः ॥ पशवः पक्षिणः च एव कीट-आद्याः स्थावराणि च ॥ ७।२,२।३९॥
khecarāḥ ṛṣayaḥ siddhāḥ bhoginaḥ manujāḥ mṛgāḥ .. paśavaḥ pakṣiṇaḥ ca eva kīṭa-ādyāḥ sthāvarāṇi ca .. 7.2,2.39..
नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ वेदाः सांगाश्च शास्त्राणि मंत्रस्तोममखादयः ॥ ७.२,२.४०॥
नद्यः समुद्राः गिरयः काननानि सरांसि च ॥ वेदाः स अंगाः च शास्त्राणि मंत्र-स्तोम-मख-आदयः ॥ ७।२,२।४०॥
nadyaḥ samudrāḥ girayaḥ kānanāni sarāṃsi ca .. vedāḥ sa aṃgāḥ ca śāstrāṇi maṃtra-stoma-makha-ādayaḥ .. 7.2,2.40..
कालाग्न्यादिशिवांतानि भुवनानि सहाधिपैः ॥ ब्रह्मांडान्यप्यसंख्यानि तेषामावरणानि च ॥ ७.२,२.४१॥
कालाग्नि-आदि-शिव-अंतानि भुवनानि सह अधिपैः ॥ ब्रह्मांडानि अपि असंख्यानि तेषाम् आवरणानि च ॥ ७।२,२।४१॥
kālāgni-ādi-śiva-aṃtāni bhuvanāni saha adhipaiḥ .. brahmāṃḍāni api asaṃkhyāni teṣām āvaraṇāni ca .. 7.2,2.41..
वर्तमानान्यतीतानि भविष्यन्त्यपि कृत्स्नशः ॥ दिशश्च विदिशश्चैव कालभेदाः कलादयः ॥ ७.२,२.४२॥
वर्तमानानि अतीतानि भविष्यन्ति अपि कृत्स्नशस् ॥ दिशः च विदिशः च एव काल-भेदाः कला-आदयः ॥ ७।२,२।४२॥
vartamānāni atītāni bhaviṣyanti api kṛtsnaśas .. diśaḥ ca vidiśaḥ ca eva kāla-bhedāḥ kalā-ādayaḥ .. 7.2,2.42..
यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपि वा ॥ तत्सर्वं शंकरस्याज्ञा बलेन समधिष्ठितम् ॥ ७.२,२.४३॥
यत् च किंचिद् जगति अस्मिन् दृश्यते श्रूयते अपि वा ॥ तत् सर्वम् शंकरस्य आज्ञा बलेन समधिष्ठितम् ॥ ७।२,२।४३॥
yat ca kiṃcid jagati asmin dṛśyate śrūyate api vā .. tat sarvam śaṃkarasya ājñā balena samadhiṣṭhitam .. 7.2,2.43..
आज्ञाबलात्तस्य धरा स्थितेह धराधरा वारिधराः समुद्राः ॥ ज्योतिर्गणाः शक्रमुखाश्च देवाः स्थिरं चिरं वा चिदचिद्यदस्ति ॥ ७.२,२.४४॥
आज्ञा-बलात् तस्य धरा स्थिता इह धराधराः वारिधराः समुद्राः ॥ ज्योतिः-गणाः शक्र-मुखाः च देवाः स्थिरम् चिरम् वा चित्-अचित्-यत् अस्ति ॥ ७।२,२।४४॥
ājñā-balāt tasya dharā sthitā iha dharādharāḥ vāridharāḥ samudrāḥ .. jyotiḥ-gaṇāḥ śakra-mukhāḥ ca devāḥ sthiram ciram vā cit-acit-yat asti .. 7.2,2.44..
उपमन्युरुवाच॥
अत्याश्चर्यमिदं कृष्ण शंभोरमितकर्मणः ॥ आज्ञाकृतं शृणुष्वैतच्छ्रुतं श्रुतिमुखे मया ॥ ७.२,२.४५॥
अति आश्चर्यम् इदम् कृष्ण शंभोः अमित-कर्मणः ॥ आज्ञा-कृतम् शृणुष्व एतत् श्रुतम् श्रुति-मुखे मया ॥ ७।२,२।४५॥
ati āścaryam idam kṛṣṇa śaṃbhoḥ amita-karmaṇaḥ .. ājñā-kṛtam śṛṇuṣva etat śrutam śruti-mukhe mayā .. 7.2,2.45..
पुरा किल सुराः सेंद्रा विवदंतः परस्परम् ॥ असुरान्समरे जित्वा जेताहमहमित्युत ॥ ७.२,२.४६॥
पुरा किल सुराः स इंद्राः विवदन्तः परस्परम् ॥ असुरान् समरे जित्वा जेता अहम् अहम् इति उत ॥ ७।२,२।४६॥
purā kila surāḥ sa iṃdrāḥ vivadantaḥ parasparam .. asurān samare jitvā jetā aham aham iti uta .. 7.2,2.46..
तदा महेश्वरस्तेषां मध्यतो वरवेषधृक् ॥ स्वलक्षणैर्विहीनांगः स्वयं यक्ष इवाभवत् ॥ ७.२,२.४७॥
तदा महेश्वरः तेषाम् मध्यतस् वर-वेष-धृक् ॥ स्व-लक्षणैः विहीन-अंगः स्वयम् यक्षः इव अभवत् ॥ ७।२,२।४७॥
tadā maheśvaraḥ teṣām madhyatas vara-veṣa-dhṛk .. sva-lakṣaṇaiḥ vihīna-aṃgaḥ svayam yakṣaḥ iva abhavat .. 7.2,2.47..
स तानाह सुरानेकं तृणमादाय भूतले ॥ य एतद्विकृतं कर्तुं क्षमते स तु दैत्यजित् ॥ ७.२,२.४८॥
स तान् आह सुरान् एकम् तृणम् आदाय भू-तले ॥ यः एतत् विकृतम् कर्तुम् क्षमते स तु दैत्यजित् ॥ ७।२,२।४८॥
sa tān āha surān ekam tṛṇam ādāya bhū-tale .. yaḥ etat vikṛtam kartum kṣamate sa tu daityajit .. 7.2,2.48..
यक्षस्य वचनं श्रुत्वा वज्रपाणिः शचीपतिः ॥ किंचित्क्रुद्धो विहस्यैनं तृणमादातुमुद्यतः ॥ ७.२,२.४९॥
यक्षस्य वचनम् श्रुत्वा वज्रपाणिः शचीपतिः ॥ किंचिद् क्रुद्धः विहस्य एनम् तृणम् आदातुम् उद्यतः ॥ ७।२,२।४९॥
yakṣasya vacanam śrutvā vajrapāṇiḥ śacīpatiḥ .. kiṃcid kruddhaḥ vihasya enam tṛṇam ādātum udyataḥ .. 7.2,2.49..
न तत्तृणमुपदातुं मनसापि च शक्यते ॥ यथा तथापि तच्छेत्तुं वज्रं वज्रधरो ऽसृजत् ॥ ७.२,२.५०॥
न तत् तृणम् उपदातुम् मनसा अपि च शक्यते ॥ यथा तथा अपि तत् छेत्तुम् वज्रम् वज्रधरः असृजत् ॥ ७।२,२।५०॥
na tat tṛṇam upadātum manasā api ca śakyate .. yathā tathā api tat chettum vajram vajradharaḥ asṛjat .. 7.2,2.50..
तद्वज्रं निजवज्रेण संसृष्टमिव सर्वतः ॥ तृणेनाभिहतं तेन तिर्यगग्रं पपात ह ॥ ७.२,२.५१॥
तत् वज्रम् निज-वज्रेण संसृष्टम् इव सर्वतस् ॥ तृणेन अभिहतम् तेन तिर्यक्-अग्रम् पपात ह ॥ ७।२,२।५१॥
tat vajram nija-vajreṇa saṃsṛṣṭam iva sarvatas .. tṛṇena abhihatam tena tiryak-agram papāta ha .. 7.2,2.51..
ततश्चान्ये सुसंरब्धा लोकपाला महाबलाः ॥ ससृजुस्तृणमुद्दिश्य स्वायुधानि सहस्रशः ॥ ७.२,२.५२॥
ततस् च अन्ये सु संरब्धाः लोकपालाः महा-बलाः ॥ ससृजुः तृणम् उद्दिश्य स्व-आयुधानि सहस्रशस् ॥ ७।२,२।५२॥
tatas ca anye su saṃrabdhāḥ lokapālāḥ mahā-balāḥ .. sasṛjuḥ tṛṇam uddiśya sva-āyudhāni sahasraśas .. 7.2,2.52..
प्रजज्ज्वाल महावह्निः प्रचंडः पवनो ववौ ॥ प्रवृद्धो ऽपांपतिर्यद्वत्प्रलये समुपस्थिते ॥ ७.२,२.५३॥
प्रजज्ज्वाल महा-वह्निः प्रचंडः पवनः ववौ ॥ प्रवृद्धः अपांपतिः यद्वत् प्रलये समुपस्थिते ॥ ७।२,२।५३॥
prajajjvāla mahā-vahniḥ pracaṃḍaḥ pavanaḥ vavau .. pravṛddhaḥ apāṃpatiḥ yadvat pralaye samupasthite .. 7.2,2.53..
एवं देवैस्समारब्धं तृणमुद्दिश्य यत्नतः ॥ व्यर्थमासीदहो कृष्ण यक्षस्यात्मबलेन वै ॥ ७.२,२.५४॥
एवम् देवैः समारब्धम् तृणम् उद्दिश्य यत्नतः ॥ व्यर्थम् आसीत् अहो कृष्ण यक्षस्य आत्म-बलेन वै ॥ ७।२,२।५४॥
evam devaiḥ samārabdham tṛṇam uddiśya yatnataḥ .. vyartham āsīt aho kṛṣṇa yakṣasya ātma-balena vai .. 7.2,2.54..
तदाह यक्षं देवेंद्रः को भवानित्यमर्षितः ॥ ततस्स पश्यतामेव तेषामंतरधादथ ॥ ७.२,२.५५॥
तत् आह यक्षम् देवेंद्रः कः भवान् इति अमर्षितः ॥ ततस् स पश्यताम् एव तेषाम् अंतरधात् अथ ॥ ७।२,२।५५॥
tat āha yakṣam deveṃdraḥ kaḥ bhavān iti amarṣitaḥ .. tatas sa paśyatām eva teṣām aṃtaradhāt atha .. 7.2,2.55..
तदंतरे हैमवती देवी दिव्यविभूषणा ॥ आविरासीन्नभोरंगे शोभमाना शुचिस्मिता ॥ ७.२,२.५६॥
तद्-अंतरे हैमवती देवी दिव्य-विभूषणा ॥ आविरासीत् नभोः अंगे शोभमाना शुचि-स्मिता ॥ ७।२,२।५६॥
tad-aṃtare haimavatī devī divya-vibhūṣaṇā .. āvirāsīt nabhoḥ aṃge śobhamānā śuci-smitā .. 7.2,2.56..
तां दृष्ट्वा विस्मयाविष्टा देवाः शक्रपुरोगमाः ॥ प्रणम्य यक्षं पप्रच्छुः को ऽसौ यक्षो विलक्षणः ॥ ७.२,२.५७॥
ताम् दृष्ट्वा विस्मय-आविष्टाः देवाः शक्र-पुरोगमाः ॥ प्रणम्य यक्षम् पप्रच्छुः कः असौ यक्षः विलक्षणः ॥ ७।२,२।५७॥
tām dṛṣṭvā vismaya-āviṣṭāḥ devāḥ śakra-purogamāḥ .. praṇamya yakṣam papracchuḥ kaḥ asau yakṣaḥ vilakṣaṇaḥ .. 7.2,2.57..
सा ऽब्रवीत्सस्मितं देवी स युष्माकमगोचरः ॥ तेनेदं भ्रम्यते चक्रं संसाराख्यं चराचरम् ॥ ७.२,२.५८॥
सा अब्रवीत् स स्मितम् देवी स युष्माकम् अगोचरः ॥ तेन इदम् भ्रम्यते चक्रम् संसार-आख्यम् चराचरम् ॥ ७।२,२।५८॥
sā abravīt sa smitam devī sa yuṣmākam agocaraḥ .. tena idam bhramyate cakram saṃsāra-ākhyam carācaram .. 7.2,2.58..
तेनादौ क्रियते विश्वं तेन संह्रियते पुनः ॥ न तन्नियन्ता कश्चित्स्यात्तेन सर्वं नियम्यते ॥ ७.२,२.५९॥
तेन आदौ क्रियते विश्वम् तेन संह्रियते पुनर् ॥ न तद्-नियन्ता कश्चिद् स्यात् तेन सर्वम् नियम्यते ॥ ७।२,२।५९॥
tena ādau kriyate viśvam tena saṃhriyate punar .. na tad-niyantā kaścid syāt tena sarvam niyamyate .. 7.2,2.59..
इत्युक्त्वा सा महादेवी तत्रैवांतरधत्त वै ॥ देवाश्च विस्मिताः सर्वे तां प्रणम्य दिवं ययुः ॥ ७.२,२.६०॥
इति उक्त्वा सा महादेवी तत्र एवा अंतरधत्त वै ॥ देवाः च विस्मिताः सर्वे ताम् प्रणम्य दिवम् ययुः ॥ ७।२,२।६०॥
iti uktvā sā mahādevī tatra evā aṃtaradhatta vai .. devāḥ ca vismitāḥ sarve tām praṇamya divam yayuḥ .. 7.2,2.60..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखंडे द्वितीयो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खंडे द्वितीयः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṃḍe dvitīyaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In