| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अथैवं संस्कृतं शिष्यं कृतपाशुपतव्रतम् ॥ आचार्यत्वे ऽभिषिंचेत तद्योगत्वेन चान्यथा ॥ ७.२,२०.१॥
अथ एवम् संस्कृतम् शिष्यम् कृत-पाशुपत-व्रतम् ॥ आचार्य-त्वे अभिषिंचेत तद्-योग-त्वेन च अन्यथा ॥ ७।२,२०।१॥
atha evam saṃskṛtam śiṣyam kṛta-pāśupata-vratam .. ācārya-tve abhiṣiṃceta tad-yoga-tvena ca anyathā .. 7.2,20.1..
मण्डलं पूर्ववत्कृत्त्वा संपूज्य परमेश्वरम् ॥ स्थापयत्पञ्चकलशान्दिक्षु मध्ये च पूर्ववत् ॥ ७.२,२०.२॥
मण्डलम् पूर्ववत् कृत्त्वा संपूज्य परमेश्वरम् ॥ स्थापयत् पञ्च-कलशान् दिक्षु मध्ये च पूर्ववत् ॥ ७।२,२०।२॥
maṇḍalam pūrvavat kṛttvā saṃpūjya parameśvaram .. sthāpayat pañca-kalaśān dikṣu madhye ca pūrvavat .. 7.2,20.2..
निवृत्तिं पुरतो न्यस्य प्रतिष्ठां पश्चिमे घटे ॥ विद्यां दक्षिणतः शांतिमुत्तरे मध्यतः पराम् ॥ ७.२,२०.३॥
निवृत्तिम् पुरतस् न्यस्य प्रतिष्ठाम् पश्चिमे घटे ॥ विद्याम् दक्षिणतस् शांतिम् उत्तरे मध्यतस् पराम् ॥ ७।२,२०।३॥
nivṛttim puratas nyasya pratiṣṭhām paścime ghaṭe .. vidyām dakṣiṇatas śāṃtim uttare madhyatas parām .. 7.2,20.3..
कृत्वा रक्षादिकं तत्र बद्ध्वा मुद्रां च धैनवीम् ॥ अभिमंत्र्य घटान्हुत्वा पूर्णांतं च यथा पुरा ॥ ७.२,२०.४॥
कृत्वा रक्षा-आदिकम् तत्र बद्ध्वा मुद्राम् च धैनवीम् ॥ अभिमंत्र्य घटान् हुत्वा पूर्ण-अंतम् च यथा पुरा ॥ ७।२,२०।४॥
kṛtvā rakṣā-ādikam tatra baddhvā mudrām ca dhainavīm .. abhimaṃtrya ghaṭān hutvā pūrṇa-aṃtam ca yathā purā .. 7.2,20.4..
प्रवेश्य मंडले शिष्यमनुष्णीषं च देशिकः ॥ तर्पणाद्यं तु मंत्राणां कुर्यात्पूर्वावसानकम् ॥ ७.२,२०.५॥
प्रवेश्य मंडले शिष्यम् अन् उष्णीषम् च देशिकः ॥ तर्पण-आद्यम् तु मंत्राणाम् कुर्यात् पूर्व-अवसानकम् ॥ ७।२,२०।५॥
praveśya maṃḍale śiṣyam an uṣṇīṣam ca deśikaḥ .. tarpaṇa-ādyam tu maṃtrāṇām kuryāt pūrva-avasānakam .. 7.2,20.5..
ततः संपूज्य देवेशमनुज्ञाप्य च पूर्ववत् ॥ अभिषेकाय तं शिष्यमासनं त्वधिरोहयेत् ॥ ७.२,२०.६॥
ततस् संपूज्य देवेशम् अनुज्ञाप्य च पूर्ववत् ॥ अभिषेकाय तम् शिष्यम् आसनम् तु अधिरोहयेत् ॥ ७।२,२०।६॥
tatas saṃpūjya deveśam anujñāpya ca pūrvavat .. abhiṣekāya tam śiṣyam āsanam tu adhirohayet .. 7.2,20.6..
सकलीकृत्य तं पश्चात्कलापञ्चकरूपिणम् ॥ न्यस्तमंत्रतनुं बद्ध्वा शिवं शिष्यं समर्पयेत् ॥ ७.२,२०.७॥
सकलीकृत्य तम् पश्चात् कला-पञ्चक-रूपिणम् ॥ न्यस्त-मंत्र-तनुम् बद्ध्वा शिवम् शिष्यम् समर्पयेत् ॥ ७।२,२०।७॥
sakalīkṛtya tam paścāt kalā-pañcaka-rūpiṇam .. nyasta-maṃtra-tanum baddhvā śivam śiṣyam samarpayet .. 7.2,20.7..
ततो निवृत्तिकुंभादिघटानुद्धृत्य वै क्रमात् ॥ मध्यमान्ताच्छिवेनैव शिष्यं तमभिषेचयत् ॥ ७.२,२०.८॥
ततस् निवृत्ति-कुंभ-आदि-घटान् उद्धृत्य वै क्रमात् ॥ मध्यम-अन्तात् शिवेन एव शिष्यम् तम् अभिषेचयत् ॥ ७।२,२०।८॥
tatas nivṛtti-kuṃbha-ādi-ghaṭān uddhṛtya vai kramāt .. madhyama-antāt śivena eva śiṣyam tam abhiṣecayat .. 7.2,20.8..
शिवहस्तं समर्प्याथ शिशोः शिरसि देशिकः ॥ शिवभावसमापन्नः शिवाचार्यं तमादिशेत् ॥ ७.२,२०.९॥
शिवहस्तम् समर्प्य अथ शिशोः शिरसि देशिकः ॥ शिव-भाव-समापन्नः शिव-आचार्यम् तम् आदिशेत् ॥ ७।२,२०।९॥
śivahastam samarpya atha śiśoḥ śirasi deśikaḥ .. śiva-bhāva-samāpannaḥ śiva-ācāryam tam ādiśet .. 7.2,20.9..
अथालंकृत्य तं देवमाराध्य शिवमण्डले ॥ शतमष्टोत्तरं हुत्वा दद्यात्पूर्णाहुतिं ततः ॥ ७.२,२०.१०॥
अथा अलंकृत्य तम् देवम् आराध्य शिव-मण्डले ॥ शतम् अष्ट-उत्तरम् हुत्वा दद्यात् पूर्णाहुतिम् ततस् ॥ ७।२,२०।१०॥
athā alaṃkṛtya tam devam ārādhya śiva-maṇḍale .. śatam aṣṭa-uttaram hutvā dadyāt pūrṇāhutim tatas .. 7.2,20.10..
पुनः सम्पूज्य देवेशं प्रणम्य भुवि दंडवत् ॥ शिरस्यंजलिमाधाय शिवं विज्ञापयेद्गुरुः ॥ ७.२,२०.११॥
पुनर् सम्पूज्य देवेशम् प्रणम्य भुवि दंड-वत् ॥ शिरसि अंजलिम् आधाय शिवम् विज्ञापयेत् गुरुः ॥ ७।२,२०।११॥
punar sampūjya deveśam praṇamya bhuvi daṃḍa-vat .. śirasi aṃjalim ādhāya śivam vijñāpayet guruḥ .. 7.2,20.11..
भगवंस्त्वत्प्रसादेन देशिको.यं मया कृतः ॥ अनुगृह्य त्वया देव दिव्याज्ञास्मै प्रदीयताम् ॥ ७.२,२०.१२॥
भगवन् त्वद्-प्रसादेन देशिकः।यम् मया कृतः ॥ अनुगृह्य त्वया देव दिव्या आज्ञा अस्मै प्रदीयताम् ॥ ७।२,२०।१२॥
bhagavan tvad-prasādena deśikaḥ.yam mayā kṛtaḥ .. anugṛhya tvayā deva divyā ājñā asmai pradīyatām .. 7.2,20.12..
एवं विज्ञाप्य शिष्येण सह भूयः प्रणम्य च ॥ शिवं शिवागमं दिव्यं पूजयेच्छिववद्गुरुः ॥ ७.२,२०.१३॥
एवम् विज्ञाप्य शिष्येण सह भूयस् प्रणम्य च ॥ शिवम् शिव-आगमम् दिव्यम् पूजयेत् शिव-वत् गुरुः ॥ ७।२,२०।१३॥
evam vijñāpya śiṣyeṇa saha bhūyas praṇamya ca .. śivam śiva-āgamam divyam pūjayet śiva-vat guruḥ .. 7.2,20.13..
पुनः शिवमनुज्ञाप्य शिवज्ञानस्य पुस्तकम् ॥ उभाभ्यामथ पाणिभ्यां दद्याच्छिष्याय देशिकः ॥ ७.२,२०.१४॥
पुनर् शिवम् अनुज्ञाप्य शिव-ज्ञानस्य पुस्तकम् ॥ उभाभ्याम् अथ पाणिभ्याम् दद्यात् शिष्याय देशिकः ॥ ७।२,२०।१४॥
punar śivam anujñāpya śiva-jñānasya pustakam .. ubhābhyām atha pāṇibhyām dadyāt śiṣyāya deśikaḥ .. 7.2,20.14..
स ताम्मूर्ध्नि समाधाय विद्यां विद्यासनोपरि ॥ अधिरोप्य यथान्यायमभिवंद्य समर्चयेत् ॥ ७.२,२०.१५॥
स ताम् मूर्ध्नि समाधाय विद्याम् विद्या-आसन-उपरि ॥ अधिरोप्य यथान्यायम् अभिवंद्य समर्चयेत् ॥ ७।२,२०।१५॥
sa tām mūrdhni samādhāya vidyām vidyā-āsana-upari .. adhiropya yathānyāyam abhivaṃdya samarcayet .. 7.2,20.15..
अथ तस्मै गुरुर्दद्याद्राजोपकरणान्यपि ॥ आचार्यपदवीं प्राप्तो राज्यं चापि यतो ऽर्हति ॥ ७.२,२०.१६॥
अथ तस्मै गुरुः दद्यात् राज-उपकरणानि अपि ॥ आचार्य-पदवीम् प्राप्तः राज्यम् च अपि यतस् अर्हति ॥ ७।२,२०।१६॥
atha tasmai guruḥ dadyāt rāja-upakaraṇāni api .. ācārya-padavīm prāptaḥ rājyam ca api yatas arhati .. 7.2,20.16..
अथानुशासनं कुर्यात्पूर्वैराचरितं यथा ॥ यथा च शिवशास्त्रोक्तं यथा लोकेषु पूज्यते ॥ ७.२,२०.१७॥
अथ अनुशासनम् कुर्यात् पूर्वैः आचरितम् यथा ॥ यथा च शिव-शास्त्र-उक्तम् यथा लोकेषु पूज्यते ॥ ७।२,२०।१७॥
atha anuśāsanam kuryāt pūrvaiḥ ācaritam yathā .. yathā ca śiva-śāstra-uktam yathā lokeṣu pūjyate .. 7.2,20.17..
शिष्यान्परिक्ष्य यत्नेन शिवशास्त्रोक्तलक्षणैः ॥ संस्कृत्य च शिवज्ञानं तेभ्यो दद्याच्च देशिकः ॥ ७.२,२०.१८॥
शिष्यान् परिक्ष्य यत्नेन शिव-शास्त्र-उक्त-लक्षणैः ॥ संस्कृत्य च शिव-ज्ञानम् तेभ्यः दद्यात् च देशिकः ॥ ७।२,२०।१८॥
śiṣyān parikṣya yatnena śiva-śāstra-ukta-lakṣaṇaiḥ .. saṃskṛtya ca śiva-jñānam tebhyaḥ dadyāt ca deśikaḥ .. 7.2,20.18..
एवं सर्वमनायासं शौचं क्षांतिं दयां तथा ॥ अस्पृहामप्यसूयां च यत्नेन च विभावयेत् ॥ ७.२,२०.१९॥
एवम् सर्वम् अनायासम् शौचम् क्षांतिम् दयाम् तथा ॥ अस्पृहाम् अपि असूयाम् च यत्नेन च विभावयेत् ॥ ७।२,२०।१९॥
evam sarvam anāyāsam śaucam kṣāṃtim dayām tathā .. aspṛhām api asūyām ca yatnena ca vibhāvayet .. 7.2,20.19..
इत्थमादिश्य तं शिष्यं शिवमुद्वास्य मंडलात् ॥ शिवकुंभानलादींश्च सदस्यानपि पूजयेत् ॥ ७.२,२०.२०॥
इत्थम् आदिश्य तम् शिष्यम् शिवम् उद्वास्य मंडलात् ॥ शिव-कुंभ-अनल-आदीन् च सदस्यान् अपि पूजयेत् ॥ ७।२,२०।२०॥
ittham ādiśya tam śiṣyam śivam udvāsya maṃḍalāt .. śiva-kuṃbha-anala-ādīn ca sadasyān api pūjayet .. 7.2,20.20..
युगपद्वाथ संस्कारान्कुर्वीत सगणो गुरुः ॥ तत्र यत्र द्वयं वापि प्रयोगस्योपदिश्यते ॥ ७.२,२०.२१॥
युगपद् वा अथ संस्कारान् कुर्वीत स गणः गुरुः ॥ तत्र यत्र द्वयम् वा अपि प्रयोगस्य उपदिश्यते ॥ ७।२,२०।२१॥
yugapad vā atha saṃskārān kurvīta sa gaṇaḥ guruḥ .. tatra yatra dvayam vā api prayogasya upadiśyate .. 7.2,20.21..
तदादावेव कलशान्कल्पयेदध्वशुद्धिवत् ॥ कृत्वा समयसंस्कारमभिषेकं विनाखिलम् ॥ ७.२,२०.२२॥
तद्-आदौ एव कलशान् कल्पयेत् अध्व-शुद्धि-वत् ॥ कृत्वा समय-संस्कारम् अभिषेकम् विना अखिलम् ॥ ७।२,२०।२२॥
tad-ādau eva kalaśān kalpayet adhva-śuddhi-vat .. kṛtvā samaya-saṃskāram abhiṣekam vinā akhilam .. 7.2,20.22..
समभ्यर्च्य शिवं भूयः कृत्वा चाध्वविशोधनम् ॥ तस्मिन्परिसमाप्ते तु पुनर्देवं प्रपूजयेत् ॥ ७.२,२०.२३॥
समभ्यर्च्य शिवम् भूयस् कृत्वा च अध्व-विशोधनम् ॥ तस्मिन् परिसमाप्ते तु पुनर् देवम् प्रपूजयेत् ॥ ७।२,२०।२३॥
samabhyarcya śivam bhūyas kṛtvā ca adhva-viśodhanam .. tasmin parisamāpte tu punar devam prapūjayet .. 7.2,20.23..
हुत्वा मंत्रन्तु संतर्प्य संदीप्याशास्य चेश्वरम् ॥ समर्प्य मंत्रं शिष्यस्य पाणौ शेषं समापयेत् ॥ ७.२,२०.२४॥
हुत्वा संतर्प्य संदीप्य आशास्य च ईश्वरम् ॥ समर्प्य मंत्रम् शिष्यस्य पाणौ शेषम् समापयेत् ॥ ७।२,२०।२४॥
hutvā saṃtarpya saṃdīpya āśāsya ca īśvaram .. samarpya maṃtram śiṣyasya pāṇau śeṣam samāpayet .. 7.2,20.24..
अथवा मंत्रसंस्कारमनुचिंत्याखिलं क्रमात् ॥ अध्वशुद्धिं गुरुः कुर्यादभिषेकावसानिकम् ॥ ७.२,२०.२५॥
अथवा मंत्र-संस्कारम् अनुचिंत्य अखिलम् क्रमात् ॥ अध्व-शुद्धिम् गुरुः कुर्यात् अभिषेक-अवसानिकम् ॥ ७।२,२०।२५॥
athavā maṃtra-saṃskāram anuciṃtya akhilam kramāt .. adhva-śuddhim guruḥ kuryāt abhiṣeka-avasānikam .. 7.2,20.25..
तत्र यः शान्त्यतीतादिकलासु विहितो विधिः ॥ स सर्वो ऽपि विधातव्यस्तत्त्वत्रयविशोधने ॥ ७.२,२०.२६॥
तत्र यः शान्ति-अतीत-आदि-कलासु विहितः विधिः ॥ स सर्वः अपि विधातव्यः तत्त्व-त्रय-विशोधने ॥ ७।२,२०।२६॥
tatra yaḥ śānti-atīta-ādi-kalāsu vihitaḥ vidhiḥ .. sa sarvaḥ api vidhātavyaḥ tattva-traya-viśodhane .. 7.2,20.26..
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमुदाहृतम् ॥ शक्तौ शिवस्ततो विद्यात्तस्यास्त्वात्मा समुद्बभौ ॥ ७.२,२०.२७॥
शिव-विद्या-आत्म-तत्त्व-आख्यम् तत्त्व-त्रयम् उदाहृतम् ॥ शक्तौ शिवः ततस् विद्यात् तस्याः तु आत्मा समुद्बभौ ॥ ७।२,२०।२७॥
śiva-vidyā-ātma-tattva-ākhyam tattva-trayam udāhṛtam .. śaktau śivaḥ tatas vidyāt tasyāḥ tu ātmā samudbabhau .. 7.2,20.27..
शिवेन शांत्यतीताध्वा व्याप्तस्तदपरः परः ॥ विद्यया परिशिष्टो ऽध्वा ह्यात्मना निखिलः क्रमात् ॥ ७.२,२०.२८॥
शिवेन शांति-अतीत-अध्वा व्याप्तः तद्-अपरः परः ॥ विद्यया परिशिष्टः अध्वा हि आत्मना निखिलः क्रमात् ॥ ७।२,२०।२८॥
śivena śāṃti-atīta-adhvā vyāptaḥ tad-aparaḥ paraḥ .. vidyayā pariśiṣṭaḥ adhvā hi ātmanā nikhilaḥ kramāt .. 7.2,20.28..
दुर्लभं शांभवं मत्वा मंत्रमूलं मनीषिणः ॥ शाक्तं शंसीत संस्कारं शिवशास्त्रार्थपारगाः ॥ ७.२,२०.२९॥
दुर्लभम् शांभवम् मत्वा मंत्र-मूलम् मनीषिणः ॥ शाक्तम् शंसीत संस्कारम् शिव-शास्त्र-अर्थ-पारगाः ॥ ७।२,२०।२९॥
durlabham śāṃbhavam matvā maṃtra-mūlam manīṣiṇaḥ .. śāktam śaṃsīta saṃskāram śiva-śāstra-artha-pāragāḥ .. 7.2,20.29..
इति ते सर्वमाख्यातं संस्काराख्यस्य कर्मणः ॥ चातुर्विध्यमिदं कृष्ण किं भूय श्रोतुमिच्छसि ॥ ७.२,२०.३०॥
इति ते सर्वम् आख्यातम् संस्कार-आख्यस्य कर्मणः ॥ चातुर्विध्यम् इदम् कृष्ण किम् श्रोतुम् इच्छसि ॥ ७।२,२०।३०॥
iti te sarvam ākhyātam saṃskāra-ākhyasya karmaṇaḥ .. cāturvidhyam idam kṛṣṇa kim śrotum icchasi .. 7.2,20.30..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे विशेषादिसंस्कृतिर्नाम विंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे विशेषादिसंस्कृतिः नाम विंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe viśeṣādisaṃskṛtiḥ nāma viṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In