| |
|

This overlay will guide you through the buttons:

कृष्ण उवाच॥
भगवञ्छ्रोतुमिच्छामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोदितं कर्म नित्यनैमित्तिकं तथा ॥ ७.२,२१.१॥
भगवन् श्रोतुम् इच्छामि शिव-आश्रम-निषेविणाम् ॥ शिव-शास्त्र-उदितम् कर्म नित्य-नैमित्तिकम् तथा ॥ ७।२,२१।१॥
bhagavan śrotum icchāmi śiva-āśrama-niṣeviṇām .. śiva-śāstra-uditam karma nitya-naimittikam tathā .. 7.2,21.1..
उपमन्युरुवाच॥
प्रातरुत्थाय शयनाद्ध्यात्वा देवं सहाम्बया ॥ विचार्य कार्यं निर्गच्छेद्गृहादभ्युदिते ऽरुणे ॥ ७.२,२१.२॥
प्रातर् उत्थाय शयनात् ध्यात्वा देवम् सह अम्बया ॥ विचार्य कार्यम् निर्गच्छेत् गृहात् अभ्युदिते अरुणे ॥ ७।२,२१।२॥
prātar utthāya śayanāt dhyātvā devam saha ambayā .. vicārya kāryam nirgacchet gṛhāt abhyudite aruṇe .. 7.2,21.2..
अबाधे विजने देशे कुर्यादावश्यकं ततः ॥ कृत्वा शौचं विधानेन दंतधावनमाचरेत् ॥ ७.२,२१.३॥
अबाधे विजने देशे कुर्यात् आवश्यकम् ततस् ॥ कृत्वा शौचम् विधानेन दंतधावनम् आचरेत् ॥ ७।२,२१।३॥
abādhe vijane deśe kuryāt āvaśyakam tatas .. kṛtvā śaucam vidhānena daṃtadhāvanam ācaret .. 7.2,21.3..
अलाभे दंतकाष्ठानामष्टम्यादिदिनेषु च ॥ अपां द्वादशगण्डूषैः कुर्यादास्यविशोधनम् ॥ ७.२,२१.४॥
अलाभे दन्त-काष्ठानाम् अष्टमी-आदि-दिनेषु च ॥ अपाम् द्वादश-गण्डूषैः कुर्यात् आस्य-विशोधनम् ॥ ७।२,२१।४॥
alābhe danta-kāṣṭhānām aṣṭamī-ādi-dineṣu ca .. apām dvādaśa-gaṇḍūṣaiḥ kuryāt āsya-viśodhanam .. 7.2,21.4..
आचम्य विधिवत्पश्चाद्वारुणं स्नानमाचरेत् ॥ नद्यां वा देवखाते वा ह्रदे वाथ गृहे ऽपि वा ॥ ७.२,२१.५॥
आचम्य विधिवत् पश्चात् वारुणम् स्नानम् आचरेत् ॥ नद्याम् वा देवखाते वा ह्रदे वा अथ गृहे अपि वा ॥ ७।२,२१।५॥
ācamya vidhivat paścāt vāruṇam snānam ācaret .. nadyām vā devakhāte vā hrade vā atha gṛhe api vā .. 7.2,21.5..
स्नानद्रव्याणि तत्तीरे स्थापयित्वा बहिर्मलम् ॥ व्यापोह्य मृदमालिप्य स्नात्वा गोमयमालिपेत् ॥ ७.२,२१.६॥
स्नान-द्रव्याणि तद्-तीरे स्थापयित्वा बहिस् मलम् ॥ व्यापोह्य मृदम् आलिप्य स्नात्वा गोमयम् आलिपेत् ॥ ७।२,२१।६॥
snāna-dravyāṇi tad-tīre sthāpayitvā bahis malam .. vyāpohya mṛdam ālipya snātvā gomayam ālipet .. 7.2,21.6..
स्नात्वा पुनः पुनर्वस्त्रं त्यक्त्वावाथ विशोध्य च ॥ सुस्नातो नृपवद्भूयः शुद्धं वासो वसीत च ॥ ७.२,२१.७॥
स्नात्वा पुनर् पुनर् वस्त्रम् त्यक्त्वा अव अथ विशोध्य च ॥ सु स्नातः नृप-वत् भूयस् शुद्धम् वासः वसीत च ॥ ७।२,२१।७॥
snātvā punar punar vastram tyaktvā ava atha viśodhya ca .. su snātaḥ nṛpa-vat bhūyas śuddham vāsaḥ vasīta ca .. 7.2,21.7..
मलस्नानं सुगंधाद्यैः स्नानं दन्तविशोधनम् ॥ न कुर्याद्ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७.२,२१.८॥
मल-स्नानम् सुगंध-आद्यैः स्नानम् दन्त-विशोधनम् ॥ न कुर्यात् ब्रह्मचारी च तपस्वी विधवा तथा ॥ ७।२,२१।८॥
mala-snānam sugaṃdha-ādyaiḥ snānam danta-viśodhanam .. na kuryāt brahmacārī ca tapasvī vidhavā tathā .. 7.2,21.8..
सोपवीतश्शिखां बद्धा प्रविश्य च जलांतरम् ॥ अवगाह्य समाचांतो जले न्यस्येत्त्रिमंडलम् ॥ ७.२,२१.९॥
स उपवीतः शिखाम् बद्धा प्रविश्य च जल-अंतरम् ॥ अवगाह्य समाचांतः जले न्यस्येत् त्रि-मंडलम् ॥ ७।२,२१।९॥
sa upavītaḥ śikhām baddhā praviśya ca jala-aṃtaram .. avagāhya samācāṃtaḥ jale nyasyet tri-maṃḍalam .. 7.2,21.9..
सौम्ये मग्नः पुनर्मंत्रं जपेच्छक्त्या शिवं स्मरेत् ॥ उत्थायाचम्य तेनैव स्वात्मानमभिषेचयेत् ॥ ७.२,२१.१०॥
सौम्ये मग्नः पुनर् मंत्रम् जपेत् शक्त्या शिवम् स्मरेत् ॥ उत्थाय आचम्य तेन एव स्व-आत्मानम् अभिषेचयेत् ॥ ७।२,२१।१०॥
saumye magnaḥ punar maṃtram japet śaktyā śivam smaret .. utthāya ācamya tena eva sva-ātmānam abhiṣecayet .. 7.2,21.10..
गोशृंगेण सदर्भेण पालाशेन दलेन वा ॥ पाद्मेन वाथ पाणिभ्यां पञ्चकृत्वस्त्रिरेव वा ॥ ७.२,२१.११॥
गोशृंगेण स दर्भेण पालाशेन दलेन वा ॥ पाद्मेन वा अथ पाणिभ्याम् पञ्च-कृत्वस् त्रिस् एव वा ॥ ७।२,२१।११॥
gośṛṃgeṇa sa darbheṇa pālāśena dalena vā .. pādmena vā atha pāṇibhyām pañca-kṛtvas tris eva vā .. 7.2,21.11..
उद्यानादौ गृहे चैव वर्धन्या कलशेन वा ॥ अवगाहनकाले ऽद्भिर्मंत्रितैरभिषेचयेत् ॥ ७.२,२१.१२॥
उद्यान-आदौ गृहे च एव वर्धन्या कलशेन वा ॥ अवगाहन-काले अद्भिः मंत्रितैः अभिषेचयेत् ॥ ७।२,२१।१२॥
udyāna-ādau gṛhe ca eva vardhanyā kalaśena vā .. avagāhana-kāle adbhiḥ maṃtritaiḥ abhiṣecayet .. 7.2,21.12..
अथ चेद्वारुणं कर्तुमशक्तः शुद्धवाससा ॥ आर्द्रेण शोधयेद्देहमापादतलमस्तकम् ॥ ७.२,२१.१३॥
अथ चेद् वारुणम् कर्तुम् अशक्तः शुद्ध-वाससा ॥ आर्द्रेण शोधयेत् देहम् आपादतलमस्तकम् ॥ ७।२,२१।१३॥
atha ced vāruṇam kartum aśaktaḥ śuddha-vāsasā .. ārdreṇa śodhayet deham āpādatalamastakam .. 7.2,21.13..
आग्नेयं वाथ वा मांत्रं कुर्यात्स्नानं शिवेन वा ॥ शिवचिंतापरं स्नानं युक्तस्यात्मीयमुच्यते ॥ ७.२,२१.१४॥
आग्नेयम् वा अथ वा मांत्रम् कुर्यात् स्नानम् शिवेन वा ॥ शिव-चिंता-परम् स्नानम् युक्तस्य आत्मीयम् उच्यते ॥ ७।२,२१।१४॥
āgneyam vā atha vā māṃtram kuryāt snānam śivena vā .. śiva-ciṃtā-param snānam yuktasya ātmīyam ucyate .. 7.2,21.14..
स्वसूत्रोक्तविधानेन मंत्राचमनपूर्वकम् ॥ आचरेद्ब्रह्मयज्ञांतं कृत्वा देवादितर्पणम् ॥ ७.२,२१.१५॥
स्व-सूत्र-उक्त-विधानेन मंत्र-आचमन-पूर्वकम् ॥ आचरेत् ब्रह्मयज्ञ-अन्तम् कृत्वा देव-आदि-तर्पणम् ॥ ७।२,२१।१५॥
sva-sūtra-ukta-vidhānena maṃtra-ācamana-pūrvakam .. ācaret brahmayajña-antam kṛtvā deva-ādi-tarpaṇam .. 7.2,21.15..
मंडलस्थं महादेवं ध्यात्वाभ्यर्च्य यथाविधि ॥ दद्यादर्घ्यं ततस्तस्मै शिवायादित्यरूपिणे ॥ ७.२,२१.१६॥
मंडल-स्थम् महादेवम् ध्यात्वा अभ्यर्च्य यथाविधि ॥ दद्यात् अर्घ्यम् ततस् तस्मै शिवाय आदित्य-रूपिणे ॥ ७।२,२१।१६॥
maṃḍala-stham mahādevam dhyātvā abhyarcya yathāvidhi .. dadyāt arghyam tatas tasmai śivāya āditya-rūpiṇe .. 7.2,21.16..
अथ वैतत्स्वसूत्रोक्तं कृत्वा हस्तौ विशोधयेत् ॥ करन्यासं ततः कृत्वा सकलीकृतविग्रहः ॥ ७.२,२१.१७॥
अथ वा एतत् स्व-सूत्र-उक्तम् कृत्वा हस्तौ विशोधयेत् ॥ कर-न्यासम् ततस् कृत्वा सकलीकृत-विग्रहः ॥ ७।२,२१।१७॥
atha vā etat sva-sūtra-uktam kṛtvā hastau viśodhayet .. kara-nyāsam tatas kṛtvā sakalīkṛta-vigrahaḥ .. 7.2,21.17..
वामहस्तगतांभोभिर्गंधसिद्धार्थकान्वितैः ॥ कुशपुंजेन वाभ्युक्ष्य मूलमंत्रसमन्वितैः ॥ ७.२,२१.१८॥
वाम-हस्त-गत-अंभोभिः गंध-सिद्धार्थक-अन्वितैः ॥ कुश-पुंजेन वा अभ्युक्ष्य मूल-मंत्र-समन्वितैः ॥ ७।२,२१।१८॥
vāma-hasta-gata-aṃbhobhiḥ gaṃdha-siddhārthaka-anvitaiḥ .. kuśa-puṃjena vā abhyukṣya mūla-maṃtra-samanvitaiḥ .. 7.2,21.18..
आपोहिष्ठादिभिर्मन्त्रैः शेषमाघ्राय वै जलम् ॥ वामनासापुटेनैव देवं संभावयेत्सितम् ॥ ७.२,२१.१९॥
आपोहिष्ठा-आदिभिः मन्त्रैः शेषम् आघ्राय वै जलम् ॥ वाम-नासा-पुटेन एव देवम् संभावयेत् सितम् ॥ ७।२,२१।१९॥
āpohiṣṭhā-ādibhiḥ mantraiḥ śeṣam āghrāya vai jalam .. vāma-nāsā-puṭena eva devam saṃbhāvayet sitam .. 7.2,21.19..
अर्घमादाय देहस्थं सव्यनासापुटेन च ॥ कृष्णवर्णेन बाह्यस्थं भावयेच्च शिलागतम् ॥ ७.२,२१.२०॥
अर्घम् आदाय देह-स्थम् सव्य-नासा-पुटेन च ॥ कृष्ण-वर्णेन बाह्य-स्थम् भावयेत् च शिला-गतम् ॥ ७।२,२१।२०॥
argham ādāya deha-stham savya-nāsā-puṭena ca .. kṛṣṇa-varṇena bāhya-stham bhāvayet ca śilā-gatam .. 7.2,21.20..
तर्पयेदथ देवेभ्य ऋषिभिश्च विशेषतः ॥ भूतेभ्यश्च पितृभ्यश्च दद्यादर्घ्यं यथाविधि ॥ ७.२,२१.२१॥
तर्पयेत् अथ देवेभ्यः ऋषिभिः च विशेषतः ॥ भूतेभ्यः च पितृभ्यः च दद्यात् अर्घ्यम् यथाविधि ॥ ७।२,२१।२१॥
tarpayet atha devebhyaḥ ṛṣibhiḥ ca viśeṣataḥ .. bhūtebhyaḥ ca pitṛbhyaḥ ca dadyāt arghyam yathāvidhi .. 7.2,21.21..
रक्तचंदनतोयेन हस्तमात्रेण मंडलम् ॥ सुवृत्तं कल्पयेद्भूमौ रक्तचूर्णाद्यलंकृतम् ॥ ७.२,२१.२२॥
रक्तचंदन-तोयेन हस्त-मात्रेण मंडलम् ॥ सु वृत्तम् कल्पयेत् भूमौ रक्त-चूर्ण-आदि-अलंकृतम् ॥ ७।२,२१।२२॥
raktacaṃdana-toyena hasta-mātreṇa maṃḍalam .. su vṛttam kalpayet bhūmau rakta-cūrṇa-ādi-alaṃkṛtam .. 7.2,21.22..
तत्र संपूजयेद्भानुं स्वकीयावरणैः सह ॥ स्वखोल्कायेति मंत्रेण सांगतस्सुखसिद्धये ॥ ७.२,२१.२३॥
तत्र संपूजयेत् भानुम् स्वकीय-आवरणैः सह ॥ सु अख-उल्काय इति मंत्रेण ॥ ७।२,२१।२३॥
tatra saṃpūjayet bhānum svakīya-āvaraṇaiḥ saha .. su akha-ulkāya iti maṃtreṇa .. 7.2,21.23..
पुनश्च मंडलं कृत्वा तदंगैः परिपूज्य च ॥ तत्र स्थाप्य हेमपात्रं मागधप्रस्थसंमितम् ॥ ७.२,२१.२४॥
पुनर् च मंडलम् कृत्वा तद्-अंगैः परिपूज्य च ॥ तत्र स्थाप्य हेम-पात्रम् मागध-प्रस्थ-संमितम् ॥ ७।२,२१।२४॥
punar ca maṃḍalam kṛtvā tad-aṃgaiḥ paripūjya ca .. tatra sthāpya hema-pātram māgadha-prastha-saṃmitam .. 7.2,21.24..
पूरयेद्गंधतोयेन रक्तचंदनयोगिना ॥ रक्तपुष्पैस्तिलैश्चैव कुशाक्षतसमन्वितैः ॥ ७.२,२१.२५॥
पूरयेत् गन्ध-तोयेन रक्तचंदन-योगिना ॥ रक्त-पुष्पैः तिलैः च एव कुश-अक्षत-समन्वितैः ॥ ७।२,२१।२५॥
pūrayet gandha-toyena raktacaṃdana-yoginā .. rakta-puṣpaiḥ tilaiḥ ca eva kuśa-akṣata-samanvitaiḥ .. 7.2,21.25..
दूर्वापामार्गगव्यैश्च केवलेन जलेन वा ॥ जानुभ्यां धरणीं गत्वा नत्वा देवं च मंडले ॥ ७.२,२१.२६॥
दूर्वा-अपामार्ग-गव्यैः च केवलेन जलेन वा ॥ जानुभ्याम् धरणीम् गत्वा नत्वा देवम् च मंडले ॥ ७।२,२१।२६॥
dūrvā-apāmārga-gavyaiḥ ca kevalena jalena vā .. jānubhyām dharaṇīm gatvā natvā devam ca maṃḍale .. 7.2,21.26..
कृत्वा शिरसि तत्पात्रं दद्यादर्घ्यं शिवाय तत् ॥ अथवांजलिना तोयं सदर्भं मूलविद्यया ॥ ७.२,२१.२७॥
कृत्वा शिरसि तत् पात्रम् दद्यात् अर्घ्यम् शिवाय तत् ॥ अथवा अंजलिना तोयम् स दर्भम् मूलविद्यया ॥ ७।२,२१।२७॥
kṛtvā śirasi tat pātram dadyāt arghyam śivāya tat .. athavā aṃjalinā toyam sa darbham mūlavidyayā .. 7.2,21.27..
उत्क्षिपेदम्बरस्थाय शिवायादित्यमूर्तये ॥ कृत्वा पुनः करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.२८॥
उत्क्षिपेत् अम्बर-स्थाय शिवाय आदित्य-मूर्तये ॥ कृत्वा पुनर् करन्यासम् कर-शोधन-पूर्वकम् ॥ ७।२,२१।२८॥
utkṣipet ambara-sthāya śivāya āditya-mūrtaye .. kṛtvā punar karanyāsam kara-śodhana-pūrvakam .. 7.2,21.28..
बुद्ध्वेशानादिसद्यांतं पञ्चब्रह्ममयं शिवम् ॥ गृहीत्वा भसितं मन्त्रैर्विमृज्याङ्गानि संस्पृशेत् ॥ ७.२,२१.२९॥
बुद्ध्वा ईशान-आदि-सद्य-अंतम् पञ्च-ब्रह्म-मयम् शिवम् ॥ गृहीत्वा भसितम् मन्त्रैः विमृज्य अङ्गानि संस्पृशेत् ॥ ७।२,२१।२९॥
buddhvā īśāna-ādi-sadya-aṃtam pañca-brahma-mayam śivam .. gṛhītvā bhasitam mantraiḥ vimṛjya aṅgāni saṃspṛśet .. 7.2,21.29..
या दिनांतैश्शिरोवक्त्रहृद्गुह्यचरणान्क्रमात् ॥ ततो मूलेन सर्वांगमालभ्य वसनान्तरम् ॥ ७.२,२१.३०॥
या दिन-अंतैः शिरः-वक्त्र-हृद्-गुह्य-चरणान् क्रमात् ॥ ततस् मूलेन सर्व-अंगम् आलभ्य वसन-अन्तरम् ॥ ७।२,२१।३०॥
yā dina-aṃtaiḥ śiraḥ-vaktra-hṛd-guhya-caraṇān kramāt .. tatas mūlena sarva-aṃgam ālabhya vasana-antaram .. 7.2,21.30..
परिधाय द्विराचम्य प्रोक्ष्यैकादशमन्त्रितैः ॥ जलैराच्छाद्य वासो ऽयद्द्विराचम्य शिवं स्मरेत् ॥ ७.२,२१.३१॥
परिधाय द्विस् आचम्य प्रोक्ष्य एकादश-मन्त्रितैः ॥ जलैः आच्छाद्य वासः अयत् द्विस् आचम्य शिवम् स्मरेत् ॥ ७।२,२१।३१॥
paridhāya dvis ācamya prokṣya ekādaśa-mantritaiḥ .. jalaiḥ ācchādya vāsaḥ ayat dvis ācamya śivam smaret .. 7.2,21.31..
पुनर्न्यस्तकरो मन्त्री त्रिपुंड्रं भस्मना लिखेत् ॥ अवक्रमाय तं व्यक्तं ललाटे गन्धवारिणा ॥ ७.२,२१.३२॥
पुनर् न्यस्त-करः मन्त्री त्रिपुंड्रम् भस्मना लिखेत् ॥ अवक्रमाय तम् व्यक्तम् ललाटे गन्ध-वारिणा ॥ ७।२,२१।३२॥
punar nyasta-karaḥ mantrī tripuṃḍram bhasmanā likhet .. avakramāya tam vyaktam lalāṭe gandha-vāriṇā .. 7.2,21.32..
वृत्तं वा चतुरस्रं वा बिन्दुमर्धेन्दुमेव वा ॥ ललाटे यादृशं पुण्ड्रं लिखितं भस्मना पुनः ॥ ७.२,२१.३३॥
वृत्तम् वा चतुर्-अस्रम् वा बिन्दुम् अर्धेन्दुम् एव वा ॥ ललाटे यादृशम् पुण्ड्रम् लिखितम् भस्मना पुनर् ॥ ७।२,२१।३३॥
vṛttam vā catur-asram vā bindum ardhendum eva vā .. lalāṭe yādṛśam puṇḍram likhitam bhasmanā punar .. 7.2,21.33..
तादृशं भुजयोर्मूर्ध्नि स्तनयोरंतरे लिखेत् ॥ सर्वांगोद्धूलनं चैव न समानं त्रिपुण्ड्रकैः ॥ ७.२,२१.३४॥
तादृशम् भुजयोः मूर्ध्नि स्तनयोः अन्तरे लिखेत् ॥ सर्व-अंग-उद्धूलनम् च एव न समानम् त्रिपुण्ड्रकैः ॥ ७।२,२१।३४॥
tādṛśam bhujayoḥ mūrdhni stanayoḥ antare likhet .. sarva-aṃga-uddhūlanam ca eva na samānam tripuṇḍrakaiḥ .. 7.2,21.34..
तस्मात्त्रिपुण्ड्रमेवैकं लिखेदुद्धूलनं विना ॥ रुद्राक्षान्धारयेद्मूर्ध्नि कंठे श्रोते करे तथा ॥ ७.२,२१.३५॥
तस्मात् त्रिपुण्ड्रम् एव एकम् लिखेत् उद्धूलनम् विना ॥ रुद्राक्षान् धारयेत् मूर्ध्नि कंठे श्रोते करे तथा ॥ ७।२,२१।३५॥
tasmāt tripuṇḍram eva ekam likhet uddhūlanam vinā .. rudrākṣān dhārayet mūrdhni kaṃṭhe śrote kare tathā .. 7.2,21.35..
सुवर्णवर्णमच्छिन्नं शुभं नान्यैर्धृतं शुभम् ॥ विप्रादीनां क्रमाच्छ्रेष्ठं पीतं रक्तमथासितम् ॥ ७.२,२१.३६॥
सुवर्ण-वर्णम् अच्छिन्नम् शुभम् न अन्यैः धृतम् शुभम् ॥ विप्र-आदीनाम् क्रमात् श्रेष्ठम् पीतम् रक्तम् अथ असितम् ॥ ७।२,२१।३६॥
suvarṇa-varṇam acchinnam śubham na anyaiḥ dhṛtam śubham .. vipra-ādīnām kramāt śreṣṭham pītam raktam atha asitam .. 7.2,21.36..
तदलाभे यथालाभं धारणीयमदूषितम् ॥ तत्रापि नोत्तरं नीचैर्धार्यं नीचमथोत्तरैः ॥ ७.२,२१.३७॥
तद्-अलाभे यथालाभम् धारणीयम् अ दूषितम् ॥ तत्र अपि न उत्तरम् नीचैः धार्यम् नीचम् अथ उत्तरैः ॥ ७।२,२१।३७॥
tad-alābhe yathālābham dhāraṇīyam a dūṣitam .. tatra api na uttaram nīcaiḥ dhāryam nīcam atha uttaraiḥ .. 7.2,21.37..
नाशुचिर्धारयेदक्षं सदा कालेषु धारयेत् ॥ इत्थं त्रिसंध्यमथवा द्विसंध्यं सकृदेव वा ॥ ७.२,२१.३८॥
न अशुचिः धारयेत् अक्षम् सदा कालेषु धारयेत् ॥ इत्थम् त्रि-संध्यम् अथवा द्वि-संध्यम् सकृत् एव वा ॥ ७।२,२१।३८॥
na aśuciḥ dhārayet akṣam sadā kāleṣu dhārayet .. ittham tri-saṃdhyam athavā dvi-saṃdhyam sakṛt eva vā .. 7.2,21.38..
कृत्वा स्नानादिकं शक्त्या पूजयेत्परमेश्वरम् ॥ प्रजास्थानं समासाद्य बद्ध्वा रुचिरमासनम् ॥ ७.२,२१.३९॥
कृत्वा स्नान-आदिकम् शक्त्या पूजयेत् परमेश्वरम् ॥ प्रजा-स्थानम् समासाद्य बद्ध्वा रुचिरम् आसनम् ॥ ७।२,२१।३९॥
kṛtvā snāna-ādikam śaktyā pūjayet parameśvaram .. prajā-sthānam samāsādya baddhvā ruciram āsanam .. 7.2,21.39..
ध्यायेद्देवं च देवीं च प्राङ्मुखो वाप्युदङ्मुखः ॥ श्वेतादीन्नकुलीशांतांस्तच्छिष्यान्प्रणमेद्गुरुम् ॥ ७.२,२१.४०॥
ध्यायेत् देवम् च देवीम् च प्राच्-मुखः वा अपि उदक्-मुखः ॥ श्वेत-आदीन् नकुलीश-अंतान् तद्-शिष्यान् प्रणमेत् गुरुम् ॥ ७।२,२१।४०॥
dhyāyet devam ca devīm ca prāc-mukhaḥ vā api udak-mukhaḥ .. śveta-ādīn nakulīśa-aṃtān tad-śiṣyān praṇamet gurum .. 7.2,21.40..
पुनर्देवं शिवं नत्वा ततो नामाष्टकं जपेत् ॥ शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ ७.२,२१.४१॥
पुनर् देवम् शिवम् नत्वा ततस् नाम-अष्टकम् जपेत् ॥ शिवः महेश्वरः च एव रुद्रः विष्णुः पितामहः ॥ ७।२,२१।४१॥
punar devam śivam natvā tatas nāma-aṣṭakam japet .. śivaḥ maheśvaraḥ ca eva rudraḥ viṣṇuḥ pitāmahaḥ .. 7.2,21.41..
संसारवैद्यस्सर्वज्ञः परमात्मेति चाष्टकम् ॥ अथवा शिवमेवैकं जपित्वैकादशाधिकम् ॥ ७.२,२१.४२॥
संसार-वैद्यः सर्वज्ञः परमात्मा इति च अष्टकम् ॥ अथवा शिवम् एव एकम् जपित्वा एकादश-अधिकम् ॥ ७।२,२१।४२॥
saṃsāra-vaidyaḥ sarvajñaḥ paramātmā iti ca aṣṭakam .. athavā śivam eva ekam japitvā ekādaśa-adhikam .. 7.2,21.42..
जिह्वाग्रे तेजसो राशिं ध्यात्वाव्याध्यादिशांतये ॥ प्रक्षाल्य चरणौ कृत्वा करौ चंदनचर्चितौ ॥ प्रकुर्वीत करन्यासं करशोधनपूर्वकम् ॥ ७.२,२१.४३॥
जिह्वा-अग्रे तेजसः राशिम् ध्यात्वा अ व्याधि-आदि-शांतये ॥ प्रक्षाल्य चरणौ कृत्वा करौ चंदन-चर्चितौ ॥ प्रकुर्वीत कर-न्यासम् कर-शोधन-पूर्वकम् ॥ ७।२,२१।४३॥
jihvā-agre tejasaḥ rāśim dhyātvā a vyādhi-ādi-śāṃtaye .. prakṣālya caraṇau kṛtvā karau caṃdana-carcitau .. prakurvīta kara-nyāsam kara-śodhana-pūrvakam .. 7.2,21.43..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिककर्मवर्णनं नामैकविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे नित्यनैमित्तिककर्मवर्णनम् नाम एकविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe nityanaimittikakarmavarṇanam nāma ekaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In