| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
न्यासस्तु त्रिविधः प्रोक्तः स्थित्युत्पत्तिलयक्रमात् ॥स्थितिर्न्यासो गृहस्थानामुत्पत्तिर्ब्रह्मचारिणाम् ॥ ७.२, २२.१ ॥
न्यासः तु त्रिविधः प्रोक्तः स्थिति-उत्पत्ति-लय-क्रमात् ॥स्थितिः न्यासः गृहस्थानाम् उत्पत्तिः ब्रह्मचारिणाम् ॥ ७।२, २२।१ ॥
nyāsaḥ tu trividhaḥ proktaḥ sthiti-utpatti-laya-kramāt ..sthitiḥ nyāsaḥ gṛhasthānām utpattiḥ brahmacāriṇām .. 7.2, 22.1 ..
यतीनां संहृतिन्यासो वनस्थानां तथैव च ॥स एव भर्तृहीनायाः कुटुंबिन्याः स्थितिर्भवेत् ॥ ७.२, २२.२ ॥
यतीनाम् संहृति-न्यासः वनस्थानाम् तथा एव च ॥सः एव भर्तृ-हीनायाः कुटुंबिन्याः स्थितिः भवेत् ॥ ७।२, २२।२ ॥
yatīnām saṃhṛti-nyāsaḥ vanasthānām tathā eva ca ..saḥ eva bhartṛ-hīnāyāḥ kuṭuṃbinyāḥ sthitiḥ bhavet .. 7.2, 22.2 ..
कन्यायाः पुनरुत्पत्तिं वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठादिकनिष्ठांतं स्थितिन्यास उदाहृतः ॥ ७.२, २२.३ ॥
कन्यायाः पुनरुत्पत्तिम् वक्ष्ये न्यासस्य लक्षणम् ॥अंगुष्ठ-आदि-कनिष्ठा-अंतम् स्थितिन्यासः उदाहृतः ॥ ७।२, २२।३ ॥
kanyāyāḥ punarutpattim vakṣye nyāsasya lakṣaṇam ..aṃguṣṭha-ādi-kaniṣṭhā-aṃtam sthitinyāsaḥ udāhṛtaḥ .. 7.2, 22.3 ..
दक्षिणांगुष्ठमारभ्य वामांगुष्ठान्तमेव च ॥उत्पत्तिन्यास आख्यातो विपरीतस्तु संहृतिः ॥ ७.२, २२.४ ॥
दक्षिण-अङ्गुष्ठम् आरभ्य वाम-अंगुष्ठ-अन्तम् एव च ॥उत्पत्ति-न्यासः आख्यातः विपरीतः तु संहृतिः ॥ ७।२, २२।४ ॥
dakṣiṇa-aṅguṣṭham ārabhya vāma-aṃguṣṭha-antam eva ca ..utpatti-nyāsaḥ ākhyātaḥ viparītaḥ tu saṃhṛtiḥ .. 7.2, 22.4 ..
सबिंदुकान्नकारादीन्वर्णान्न्यस्येदनुक्रमात् ॥अंगुलीषु शिवं न्यस्येत्तलयोरप्यनामयोः ॥ ७.२, २२.५ ॥
स बिंदुकान् नकार-आदीन् वर्णान् न्यस्येत् अनुक्रमात् ॥अंगुलीषु शिवम् न्यस्येत् तलयोः अपि अनामयोः ॥ ७।२, २२।५ ॥
sa biṃdukān nakāra-ādīn varṇān nyasyet anukramāt ..aṃgulīṣu śivam nyasyet talayoḥ api anāmayoḥ .. 7.2, 22.5 ..
अस्त्रन्यासं ततः कृत्वा दशदिक्ष्वस्त्रमंत्रतः ॥निवृत्त्यादिकलाः पञ्च पञ्चभूतस्वरूपिणीः ॥ ७.२, २२.६ ॥
अस्त्र-न्यासम् ततस् कृत्वा दश-दिक्षु अस्त्र-मंत्रतः ॥निवृत्ति-आदि-कलाः पञ्च पञ्चभूत-स्वरूपिणीः ॥ ७।२, २२।६ ॥
astra-nyāsam tatas kṛtvā daśa-dikṣu astra-maṃtrataḥ ..nivṛtti-ādi-kalāḥ pañca pañcabhūta-svarūpiṇīḥ .. 7.2, 22.6 ..
पञ्चभूताधिपैस्सार्धं ततच्चिह्नसमन्विताः ॥हृत्कण्टतालुभ्रूमध्यब्रह्मरन्ध्रसमाश्रयाः ॥ ७.२, २२.७ ॥
पञ्चभूत-अधिपैः सार्धम् ॥हृद्-कण्ट-तालु-भ्रू-मध्य-ब्रह्मरन्ध्र-समाश्रयाः ॥ ७।२, २२।७ ॥
pañcabhūta-adhipaiḥ sārdham ..hṛd-kaṇṭa-tālu-bhrū-madhya-brahmarandhra-samāśrayāḥ .. 7.2, 22.7 ..
तद्तद्बीजेन संग्रंथीस्तद्तद्बीजेषु भावयेत् ॥तासां विशोधनार्थाय विद्यां पञ्चाक्षरीं जपेत् ॥ ७.२, २२.८ ॥
तद्-तद्-बीजेन संग्रंथीः तद्-तद्-बीजेषु भावयेत् ॥तासाम् विशोधन-अर्थाय विद्याम् पञ्चाक्षरीम् जपेत् ॥ ७।२, २२।८ ॥
tad-tad-bījena saṃgraṃthīḥ tad-tad-bījeṣu bhāvayet ..tāsām viśodhana-arthāya vidyām pañcākṣarīm japet .. 7.2, 22.8 ..
निरुद्ध्वा प्राणवायुं च गुणसंख्यानुसारतः ॥भूतग्रंथिं ततश्छिद्यादस्त्रेणैवास्त्रमुद्रया ॥ ७.२, २२.९ ॥
निरुद्ध्वा प्राण-वायुम् च गुण-संख्या-अनुसारतः ॥भूतग्रंथिम् ततस् छिद्यात् अस्त्रेण एव अस्त्र-मुद्रया ॥ ७।२, २२।९ ॥
niruddhvā prāṇa-vāyum ca guṇa-saṃkhyā-anusārataḥ ..bhūtagraṃthim tatas chidyāt astreṇa eva astra-mudrayā .. 7.2, 22.9 ..
नाड्या सुषुम्नयात्मानं प्रेरितं प्राणवायुना ॥निर्गतं ब्रह्मरन्ध्रेण योजयेच्छिवतेजसा ॥ ७.२, २२.१० ॥
नाड्या सुषुम्नया आत्मानम् प्रेरितम् प्राण-वायुना ॥निर्गतम् ब्रह्मरन्ध्रेण योजयेत् शिव-तेजसा ॥ ७।२, २२।१० ॥
nāḍyā suṣumnayā ātmānam preritam prāṇa-vāyunā ..nirgatam brahmarandhreṇa yojayet śiva-tejasā .. 7.2, 22.10 ..
विशोष्य वायुना पश्चाद्देहं कालाग्निना दहेत् ॥ततश्चोपरिभावेन कलास्संहृत्य वायुना ॥ ७.२, २२.११ ॥
विशोष्य वायुना पश्चात् देहम् कालाग्निना दहेत् ॥ततस् च उपरि भावेन कलाः संहृत्य वायुना ॥ ७।२, २२।११ ॥
viśoṣya vāyunā paścāt deham kālāgninā dahet ..tatas ca upari bhāvena kalāḥ saṃhṛtya vāyunā .. 7.2, 22.11 ..
देहं संहृत्य वै दग्धं कलास्स्पृष्ट्वा सहाब्धिना ॥प्लावयित्वामृतैर्देहं यथास्थानं निवेशयेत् ॥ ७.२, २२.१२ ॥
देहम् संहृत्य वै दग्धम् कलाः स्पृष्ट्वा सह अब्धिना ॥प्लावयित्वा अमृतैः देहम् यथास्थानम् निवेशयेत् ॥ ७।२, २२।१२ ॥
deham saṃhṛtya vai dagdham kalāḥ spṛṣṭvā saha abdhinā ..plāvayitvā amṛtaiḥ deham yathāsthānam niveśayet .. 7.2, 22.12 ..
अथ संहृत्य वै दग्धः कलासर्गं विनैव तु ॥अमृतप्लावनं कुर्याद्भस्मीभूतस्य वै ततः ॥ ७.२, २२.१३ ॥
अथ संहृत्य वै दग्धः कला-सर्गम् विना एव तु ॥अमृत-प्लावनम् कुर्यात् भस्मीभूतस्य वै ततस् ॥ ७।२, २२।१३ ॥
atha saṃhṛtya vai dagdhaḥ kalā-sargam vinā eva tu ..amṛta-plāvanam kuryāt bhasmībhūtasya vai tatas .. 7.2, 22.13 ..
ततो विद्यामये तस्मिन्देहे दीपशिखाकृतिम् ॥शिवान्निर्गतमात्मानं ब्रह्मरंध्रेण योजयेत् ॥ ७.२, २२.१४ ॥
ततस् विद्या-मये तस्मिन् देहे दीप-शिखा-आकृतिम् ॥शिवात् निर्गतम् आत्मानम् ब्रह्मरंध्रेण योजयेत् ॥ ७।२, २२।१४ ॥
tatas vidyā-maye tasmin dehe dīpa-śikhā-ākṛtim ..śivāt nirgatam ātmānam brahmaraṃdhreṇa yojayet .. 7.2, 22.14 ..
देहस्यान्तः प्रविष्टं तं ध्यात्वा हृदयपंकजे ॥पुनश्चामृतवर्षेण सिंचेद्विद्यामयं वपुः ॥ ७.२, २२.१५ ॥
देहस्य अन्तर् प्रविष्टम् तम् ध्यात्वा हृदय-पंकजे ॥पुनर् च अमृत-वर्षेण सिंचेत् विद्या-मयम् वपुः ॥ ७।२, २२।१५ ॥
dehasya antar praviṣṭam tam dhyātvā hṛdaya-paṃkaje ..punar ca amṛta-varṣeṇa siṃcet vidyā-mayam vapuḥ .. 7.2, 22.15 ..
ततः कुर्यात्करन्यासं करशोधनपूर्वकम् ॥देहन्यासं ततः पश्चान्महत्या मुद्रया चरेत् ॥ ७.२, २२.१६ ॥
ततस् कुर्यात् करन्यासम् कर-शोधन-पूर्वकम् ॥देहन्यासम् ततस् पश्चात् महत्या मुद्रया चरेत् ॥ ७।२, २२।१६ ॥
tatas kuryāt karanyāsam kara-śodhana-pūrvakam ..dehanyāsam tatas paścāt mahatyā mudrayā caret .. 7.2, 22.16 ..
अंगन्यासं ततः कृत्वा शिवोक्तेन तु वर्त्मना ॥वर्णन्यासं ततः कुर्याद्धस्तपादादिसंधिषु ॥ ७.२, २२.१७ ॥
अंगन्यासम् ततस् कृत्वा शिव-उक्तेन तु वर्त्मना ॥वर्ण-न्यासम् ततस् कुर्यात् हस्त-पाद-आदि-संधिषु ॥ ७।२, २२।१७ ॥
aṃganyāsam tatas kṛtvā śiva-uktena tu vartmanā ..varṇa-nyāsam tatas kuryāt hasta-pāda-ādi-saṃdhiṣu .. 7.2, 22.17 ..
षडंगानि ततो न्यस्य जातिषट्कयुतानि च ॥दिग्बंधमाचरेत्पश्चादाग्नेयादि यथाक्रमम् ॥ ७.२, २२.१८ ॥
षष्-अंगानि ततस् न्यस्य जाति-षट्क-युतानि च ॥दिग्बंधम् आचरेत् पश्चात् आग्नेय-आदि यथाक्रमम् ॥ ७।२, २२।१८ ॥
ṣaṣ-aṃgāni tatas nyasya jāti-ṣaṭka-yutāni ca ..digbaṃdham ācaret paścāt āgneya-ādi yathākramam .. 7.2, 22.18 ..
यद्वा मूर्धादिपञ्चांगं न्यासमेव समाचरेत् ॥तथा षडंगन्यासं च भूतशुद्ध्यादिकं विना ॥ ७.२, २२.१९ ॥
यत् वा मूर्ध-आदि-पञ्च-अंगम् न्यासम् एव समाचरेत् ॥तथा षडंगन्यासम् च भूतशुद्धि-आदिकम् विना ॥ ७।२, २२।१९ ॥
yat vā mūrdha-ādi-pañca-aṃgam nyāsam eva samācaret ..tathā ṣaḍaṃganyāsam ca bhūtaśuddhi-ādikam vinā .. 7.2, 22.19 ..
एवं समासरूपेण कृत्वा देहात्मशोधनम् ॥शिवभावमुपागम्य पूजयेत्परमेश्वरम् ॥ ७.२, २२.२० ॥
एवम् समास-रूपेण कृत्वा देह-आत्म-शोधनम् ॥शिव-भावम् उपागम्य पूजयेत् परमेश्वरम् ॥ ७।२, २२।२० ॥
evam samāsa-rūpeṇa kṛtvā deha-ātma-śodhanam ..śiva-bhāvam upāgamya pūjayet parameśvaram .. 7.2, 22.20 ..
अथ यस्यास्त्यवसरो नास्ति वा मतिविभ्रमः ॥स विस्तीर्णेन कल्पेन न्यासकर्म समाचरेत् ॥ ७.२, २२.२१ ॥
अथ यस्य अस्ति अवसरः ना अस्ति वा मति-विभ्रमः ॥स विस्तीर्णेन कल्पेन न्यास-कर्म समाचरेत् ॥ ७।२, २२।२१ ॥
atha yasya asti avasaraḥ nā asti vā mati-vibhramaḥ ..sa vistīrṇena kalpena nyāsa-karma samācaret .. 7.2, 22.21 ..
तत्राद्यो मातृकान्यासो ब्रह्मन्यासस्ततः परः ॥तृतीयः प्रणवन्यासो हंसन्यासस्तदुत्तरः ॥ ७.२, २२.२२ ॥
तत्र आद्यः मातृका-न्यासः ब्रह्म-न्यासः ततस् परः ॥तृतीयः प्रणव-न्यासः हंस-न्यासः तद्-उत्तरः ॥ ७।२, २२।२२ ॥
tatra ādyaḥ mātṛkā-nyāsaḥ brahma-nyāsaḥ tatas paraḥ ..tṛtīyaḥ praṇava-nyāsaḥ haṃsa-nyāsaḥ tad-uttaraḥ .. 7.2, 22.22 ..
पञ्चमः कथ्यते सद्भिर्न्यासः पञ्चाक्षरात्मकः ॥एतेष्वेकमनेकं वा कुर्यात्पूजादि कर्मसु ॥ ७.२, २२.२३ ॥
पञ्चमः कथ्यते सद्भिः न्यासः पञ्च-अक्षर-आत्मकः ॥एतेषु एकम् अनेकम् वा कुर्यात् पूजा-आदि कर्मसु ॥ ७।२, २२।२३ ॥
pañcamaḥ kathyate sadbhiḥ nyāsaḥ pañca-akṣara-ātmakaḥ ..eteṣu ekam anekam vā kuryāt pūjā-ādi karmasu .. 7.2, 22.23 ..
अकारं मूर्ध्नि विन्यस्य आकारं च ललाटके ॥इं ईं च नेत्रयोस्तद्वतुं ऊं श्रवणयोस्तथा ॥ ७.२, २२.२४ ॥
अकारम् मूर्ध्नि विन्यस्य आकारम् च ललाटके ॥इं ईम् च नेत्रयोः तद्वत् तुम् ऊम् श्रवणयोः तथा ॥ ७।२, २२।२४ ॥
akāram mūrdhni vinyasya ākāram ca lalāṭake ..iṃ īm ca netrayoḥ tadvat tum ūm śravaṇayoḥ tathā .. 7.2, 22.24 ..
ऋं ःं कपोलयोश्चैव ळं ॡं नासापुटद्वये ॥एमेमोष्ठद्वयोरोमौं दंतपंक्तिद्वयोः क्रमात् ॥ ७.२, २२.२५ ॥
ऋं ःं कपोलयोः च एव ळं ॡं नासा-पुट-द्वये ॥एम् एम् ओष्ठ-द्वयोः ओम् औम् दंत-पंक्ति-द्वयोः क्रमात् ॥ ७।२, २२।२५ ॥
ṛṃ ḥṃ kapolayoḥ ca eva l̤aṃ ḹṃ nāsā-puṭa-dvaye ..em em oṣṭha-dvayoḥ om aum daṃta-paṃkti-dvayoḥ kramāt .. 7.2, 22.25 ..
अं जिह्वायामथो तालुन्यः प्रयोज्यो यथाक्रमम् ॥कवर्गं दक्षिणे हस्ते न्यसेत्पञ्चसु संधिषु ॥ ७.२, २२.२६ ॥
जिह्वायाम् अथो तालुन्यः प्रयोज्यः यथाक्रमम् ॥कवर्गम् दक्षिणे हस्ते न्यसेत् पञ्चसु संधिषु ॥ ७।२, २२।२६ ॥
jihvāyām atho tālunyaḥ prayojyaḥ yathākramam ..kavargam dakṣiṇe haste nyaset pañcasu saṃdhiṣu .. 7.2, 22.26 ..
चवर्गं च तथा वामहस्तसंधिषु विन्यसेत् ॥टवर्गं च तवर्गं च पादयोरुभयोरपि ॥ ७.२, २२.२७ ॥
चवर्गम् च तथा वाम-हस्त-संधिषु विन्यसेत् ॥टवर्गम् च तवर्गम् च पादयोः उभयोः अपि ॥ ७।२, २२।२७ ॥
cavargam ca tathā vāma-hasta-saṃdhiṣu vinyaset ..ṭavargam ca tavargam ca pādayoḥ ubhayoḥ api .. 7.2, 22.27 ..
पफौ तु पार्श्वयोः पृष्ठे नाभौ चापि बभौ ततः ॥न्यसेन्मकारं हृदये त्वगादिषु यथाक्रमम् ॥ ७.२, २२.२८ ॥
पफौ तु पार्श्वयोः पृष्ठे नाभौ च अपि बभौ ततस् ॥न्यसेत् मकारम् हृदये त्वच्-आदिषु यथाक्रमम् ॥ ७।२, २२।२८ ॥
paphau tu pārśvayoḥ pṛṣṭhe nābhau ca api babhau tatas ..nyaset makāram hṛdaye tvac-ādiṣu yathākramam .. 7.2, 22.28 ..
यकरादिसकारांतान्न्यसेत्सप्तसु धातुषु ॥हंकारं हृदयस्यांतः क्षकारं भ्रूयुगांतरे ॥ ७.२, २२.२९ ॥
य-कर-आदि-सकार-अन्तान् न्यसेत् सप्तसु धातुषु ॥हंकारम् हृदयस्य अंतर् क्षकारम् भ्रू-युग-अंतरे ॥ ७।२, २२।२९ ॥
ya-kara-ādi-sakāra-antān nyaset saptasu dhātuṣu ..haṃkāram hṛdayasya aṃtar kṣakāram bhrū-yuga-aṃtare .. 7.2, 22.29 ..
एवं वर्णान्प्रविन्यस्य पञ्चाशद्रुद्रवर्त्मना ॥अंगवक्त्रकलाभेदात्पञ्च ब्रह्माणि विन्यसेत् ॥ ७.२, २२.३० ॥
एवम् वर्णान् प्रविन्यस्य पञ्चाशत् रुद्रवर्त्मना ॥अंग-वक्त्र-कला-भेदात् पञ्च ब्रह्माणि विन्यसेत् ॥ ७।२, २२।३० ॥
evam varṇān pravinyasya pañcāśat rudravartmanā ..aṃga-vaktra-kalā-bhedāt pañca brahmāṇi vinyaset .. 7.2, 22.30 ..
करन्यासाद्यमपि तैः कृत्वा वाथ न वा क्रमात् ॥शिरोवदनहृद्गुह्यपादेष्वेतानि कल्पयेत् ॥ ७.२, २२.३१ ॥
कर-न्यास-आद्यम् अपि तैः कृत्वा वा अथ न वा क्रमात् ॥शिरः-वदन-हृद्-गुह्य-पादेषु एतानि कल्पयेत् ॥ ७।२, २२।३१ ॥
kara-nyāsa-ādyam api taiḥ kṛtvā vā atha na vā kramāt ..śiraḥ-vadana-hṛd-guhya-pādeṣu etāni kalpayet .. 7.2, 22.31 ..
ततश्चोर्ध्वादिवक्त्राणि पश्चिमांतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चस्वेतेषु च क्रमात् ॥ ७.२, २२.३२ ॥
ततस् च ऊर्ध्व-आदि-वक्त्राणि पश्चिम-अंतानि कल्पयेत् ॥ईशानस्य कलाः पञ्च पञ्चसु एतेषु च क्रमात् ॥ ७।२, २२।३२ ॥
tatas ca ūrdhva-ādi-vaktrāṇi paścima-aṃtāni kalpayet ..īśānasya kalāḥ pañca pañcasu eteṣu ca kramāt .. 7.2, 22.32 ..
ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ ७.२, २२.३३ ॥
ततस् चतुर्षु वक्त्रेषु पुरुषस्य कलाः अपि ॥चतस्रः प्रणिधातव्याः पूर्व-आदि-क्रम-योगतः ॥ ७।२, २२।३३ ॥
tatas caturṣu vaktreṣu puruṣasya kalāḥ api ..catasraḥ praṇidhātavyāḥ pūrva-ādi-krama-yogataḥ .. 7.2, 22.33 ..
हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाश्चाष्टौ पादयोरपि हस्तयोः ॥ ७.२, २२.३४ ॥
हृद्-कंठ-अंसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥अघोरस्य कलाः च अष्टौ पादयोः अपि हस्तयोः ॥ ७।२, २२।३४ ॥
hṛd-kaṃṭha-aṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi ..aghorasya kalāḥ ca aṣṭau pādayoḥ api hastayoḥ .. 7.2, 22.34 ..
पश्चात्त्रयोःदशकलाः पायुमेढ्रोरुजानुषु ॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥ ७.२, २२.३५ ॥
पश्चात् त्रयोः दश-कलाः पायु-मेढ्र-ऊरु-जानुषु ॥जंघा-स्फिच् कटि-पार्श्वेषु वामदेवस्य भावयेत् ॥ ७।२, २२।३५ ॥
paścāt trayoḥ daśa-kalāḥ pāyu-meḍhra-ūru-jānuṣu ..jaṃghā-sphic kaṭi-pārśveṣu vāmadevasya bhāvayet .. 7.2, 22.35 ..
घ्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥अष्टत्रिंशत्कलान्यासमेवं कृत्वानुपूर्वशः ॥ ७.२, २२.३६ ॥
घ्राणे शिरसि बाह्वोः च कल्पयेत् कल्प-वित्तमः ॥अष्टत्रिंशत्-कला-न्यासम् एवम् कृत्वा अनुपूर्वशस् ॥ ७।२, २२।३६ ॥
ghrāṇe śirasi bāhvoḥ ca kalpayet kalpa-vittamaḥ ..aṣṭatriṃśat-kalā-nyāsam evam kṛtvā anupūrvaśas .. 7.2, 22.36 ..
पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥ ७.२, २२.३७ ॥
पश्चात् प्रणव-विद् धीमान् प्रणव-न्यासम् आचरेत् ॥बाहु-द्वये कूर्परयोः तथा च मणिबन्धयोः ॥ ७।२, २२।३७ ॥
paścāt praṇava-vid dhīmān praṇava-nyāsam ācaret ..bāhu-dvaye kūrparayoḥ tathā ca maṇibandhayoḥ .. 7.2, 22.37 ..
पार्श्वोदरोरुजंघेषु पादयोः पृष्ठतस्तथा ॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥ ७.२, २२.३८ ॥
पार्श्व-उदर-ऊरु-जंघेषु पादयोः पृष्ठतस् तथा ॥इत्थम् प्रणव-विन्यासम् कृत्वा न्यास-विचक्षणः ॥ ७।२, २२।३८ ॥
pārśva-udara-ūru-jaṃgheṣu pādayoḥ pṛṣṭhatas tathā ..ittham praṇava-vinyāsam kṛtvā nyāsa-vicakṣaṇaḥ .. 7.2, 22.38 ..
हंसन्यासं प्रकुर्वीत शिवशास्त्रे यथोदितम् ॥बीजं विभज्य हंसस्य नेत्रयोर्घ्राणयोरपि ॥ ७.२, २२.३९ ॥
हंस-न्यासम् प्रकुर्वीत शिवशास्त्रे यथा उदितम् ॥बीजम् विभज्य हंसस्य नेत्रयोः घ्राणयोः अपि ॥ ७।२, २२।३९ ॥
haṃsa-nyāsam prakurvīta śivaśāstre yathā uditam ..bījam vibhajya haṃsasya netrayoḥ ghrāṇayoḥ api .. 7.2, 22.39 ..
विभज्य बाहुनेत्रास्यललाटे घ्राणयोरपि ॥कक्षयोः स्कन्धयोश्चैव पार्श्वयोस्तनयोस्तथा ॥ ७.२, २२.४० ॥
विभज्य बाहु-नेत्र-आस्य-ललाटे घ्राणयोः अपि ॥कक्षयोः स्कन्धयोः च एव पार्श्वयोः तनयोः तथा ॥ ७।२, २२।४० ॥
vibhajya bāhu-netra-āsya-lalāṭe ghrāṇayoḥ api ..kakṣayoḥ skandhayoḥ ca eva pārśvayoḥ tanayoḥ tathā .. 7.2, 22.40 ..
कठ्योः पाण्योर्गुल्फयोश्च यद्वा पञ्चांगवर्त्मना ॥हंसन्यासमिमं कृत्वा न्यसेत्पञ्चाक्षरीं ततः ॥ ७.२, २२.४१ ॥
कठ्योः पाण्योः गुल्फयोः च यत् वा पञ्चांग-वर्त्मना ॥हंस-न्यासम् इमम् कृत्वा न्यसेत् पञ्चाक्षरीम् ततस् ॥ ७।२, २२।४१ ॥
kaṭhyoḥ pāṇyoḥ gulphayoḥ ca yat vā pañcāṃga-vartmanā ..haṃsa-nyāsam imam kṛtvā nyaset pañcākṣarīm tatas .. 7.2, 22.41 ..
यथा पूर्वोक्तमार्गेण शिवत्वं येन जायते ॥नाशिवः शिवमभ्यस्येन्नाशिवः शिवमर्चयेत् ॥ ७.२, २२.४२ ॥
यथा पूर्व-उक्त-मार्गेण शिव-त्वम् येन जायते ॥न अशिवः शिवम् अभ्यस्येत् न अशिवः शिवम् अर्चयेत् ॥ ७।२, २२।४२ ॥
yathā pūrva-ukta-mārgeṇa śiva-tvam yena jāyate ..na aśivaḥ śivam abhyasyet na aśivaḥ śivam arcayet .. 7.2, 22.42 ..
नाशिवस्तु शिवं ध्यायेन्नाशिवम्प्राप्नुयाच्छिवम् ॥तस्माच्छैवीं तनुं कृत्वा त्यक्त्वा च पशुभावनाम् ॥ ७.२, २२.४३ ॥
न अशिवः तु शिवम् ध्यायेत् न अशिवम् प्राप्नुयात् शिवम् ॥तस्मात् शैवीम् तनुम् कृत्वा त्यक्त्वा च पशु-भावनाम् ॥ ७।२, २२।४३ ॥
na aśivaḥ tu śivam dhyāyet na aśivam prāpnuyāt śivam ..tasmāt śaivīm tanum kṛtvā tyaktvā ca paśu-bhāvanām .. 7.2, 22.43 ..
शिवो ऽहमिति संचिन्त्य शैवं कर्म समाचरेत् ॥कर्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः ॥ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७.२, २२.४४ ॥
शिवः अहम् इति संचिन्त्य शैवम् कर्म समाचरेत् ॥कर्म-यज्ञः तपः-यज्ञः जप-यज्ञः तद्-उत्तरः ॥ध्यान-यज्ञः ज्ञान-यज्ञः पञ्च यज्ञाः प्रकीर्तिताः ॥ ७।२, २२।४४ ॥
śivaḥ aham iti saṃcintya śaivam karma samācaret ..karma-yajñaḥ tapaḥ-yajñaḥ japa-yajñaḥ tad-uttaraḥ ..dhyāna-yajñaḥ jñāna-yajñaḥ pañca yajñāḥ prakīrtitāḥ .. 7.2, 22.44 ..
कर्मयज्ञरताः केचित्तपोयज्ञरताः परे ॥जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ७.२, २२.४५ ॥
कर्म-यज्ञ-रताः केचिद् तपः-यज्ञ-रताः परे ॥जप-यज्ञ-रताः च अन्ये ध्यान-यज्ञ-रताः तथा ॥ ७।२, २२।४५ ॥
karma-yajña-ratāḥ kecid tapaḥ-yajña-ratāḥ pare ..japa-yajña-ratāḥ ca anye dhyāna-yajña-ratāḥ tathā .. 7.2, 22.45 ..
ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् ॥क्रमयज्ञो द्विधा प्रोक्तः कामाकामविभेदतः ॥ ७.२, २२.४६ ॥
ज्ञान-यज्ञ-रताः च अन्ये विशिष्टाः च उत्तरोत्तरम् ॥क्रम-यज्ञः द्विधा प्रोक्तः काम-अ काम-विभेदतः ॥ ७।२, २२।४६ ॥
jñāna-yajña-ratāḥ ca anye viśiṣṭāḥ ca uttarottaram ..krama-yajñaḥ dvidhā proktaḥ kāma-a kāma-vibhedataḥ .. 7.2, 22.46 ..
कामान्कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् ॥अकामे रुद्रभवने भोगान्भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४७ ॥
कामान् कामी ततस् भुक्त्वा काम-आसक्तः पुनर् भवेत् ॥अकामे रुद्र-भवने भोगान् भुक्त्वा ततस् च्युतः ॥ ७।२, २२।४७ ॥
kāmān kāmī tatas bhuktvā kāma-āsaktaḥ punar bhavet ..akāme rudra-bhavane bhogān bhuktvā tatas cyutaḥ .. 7.2, 22.47 ..
तपोयज्ञरतो भूत्वा जायते नात्र संशयः ॥तपस्वी च पुनस्तस्मिन्भोगान् भुक्त्वा ततश्च्युतः ॥ ७.२, २२.४८ ॥
तपः-यज्ञ-रतः भूत्वा जायते न अत्र संशयः ॥तपस्वी च पुनर् तस्मिन् भोगान् भुक्त्वा ततस् च्युतः ॥ ७।२, २२।४८ ॥
tapaḥ-yajña-rataḥ bhūtvā jāyate na atra saṃśayaḥ ..tapasvī ca punar tasmin bhogān bhuktvā tatas cyutaḥ .. 7.2, 22.48 ..
जपध्यानरतो भूत्वा जायते भुवि मानवः ॥जपध्यानरतो मर्त्यस्तद्वैशिष्ट्यवशादिह ॥ ७.२, २२.४९ ॥
जप-ध्यान-रतः भूत्वा जायते भुवि मानवः ॥जप-ध्यान-रतः मर्त्यः तद्-वैशिष्ट्य-वशात् इह ॥ ७।२, २२।४९ ॥
japa-dhyāna-rataḥ bhūtvā jāyate bhuvi mānavaḥ ..japa-dhyāna-rataḥ martyaḥ tad-vaiśiṣṭya-vaśāt iha .. 7.2, 22.49 ..
ज्ञानं लब्ध्वाचिरादेव शिवसायुज्यमाप्नुयात् ॥तस्मान्मुक्तो शिवाज्ञप्तः कर्मयज्ञो ऽपि देहिनाम् ॥ ७.२, २२.५० ॥
ज्ञानम् लब्ध्वा अचिरात् एव शिव-सायुज्यम् आप्नुयात् ॥तस्मात् मुक्तः शिव-आज्ञप्तः कर्म-यज्ञः अपि देहिनाम् ॥ ७।२, २२।५० ॥
jñānam labdhvā acirāt eva śiva-sāyujyam āpnuyāt ..tasmāt muktaḥ śiva-ājñaptaḥ karma-yajñaḥ api dehinām .. 7.2, 22.50 ..
अकामः कामसंयुक्तो बन्धायैव भविष्यति ॥तस्मात्पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ७.२, २२.५१ ॥
अकामः काम-संयुक्तः बन्धाय एव भविष्यति ॥तस्मात् पञ्चसु यज्ञेषु ध्यान-ज्ञान-परः भवेत् ॥ ७।२, २२।५१ ॥
akāmaḥ kāma-saṃyuktaḥ bandhāya eva bhaviṣyati ..tasmāt pañcasu yajñeṣu dhyāna-jñāna-paraḥ bhavet .. 7.2, 22.51 ..
ध्यानं ज्ञानं च यस्यास्ति तीर्णस्तेन भवार्णवः ॥हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ७.२, २२.५२ ॥
ध्यानम् ज्ञानम् च यस्य अस्ति तीर्णः तेन भव-अर्णवः ॥हिंसा-आदि-दोष-निर्मुक्तः विशुद्धः चित्त-साधनः ॥ ७।२, २२।५२ ॥
dhyānam jñānam ca yasya asti tīrṇaḥ tena bhava-arṇavaḥ ..hiṃsā-ādi-doṣa-nirmuktaḥ viśuddhaḥ citta-sādhanaḥ .. 7.2, 22.52 ..
ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ॥बहिः कर्मकरा यद्वन्नातीव फलभागिनः ॥ ७.२, २२.५३ ॥
ध्यान-यज्ञः परः तस्मात् अपवर्ग-फल-प्रदः ॥बहिस् कर्मकराः यद्वत् न अतीव फल-भागिनः ॥ ७।२, २२।५३ ॥
dhyāna-yajñaḥ paraḥ tasmāt apavarga-phala-pradaḥ ..bahis karmakarāḥ yadvat na atīva phala-bhāginaḥ .. 7.2, 22.53 ..
दृष्ट्वा नरेन्द्रभवने तद्वदत्रापि कर्मिणः ॥ध्यानिनां हि वपुः सूक्ष्मं भवेत्प्रत्यक्षमैश्वरम् ॥ ७.२, २२.५४ ॥
दृष्ट्वा नरेन्द्र-भवने तद्वत् अत्रा अपि कर्मिणः ॥ध्यानिनाम् हि वपुः सूक्ष्मम् भवेत् प्रत्यक्षम् ऐश्वरम् ॥ ७।२, २२।५४ ॥
dṛṣṭvā narendra-bhavane tadvat atrā api karmiṇaḥ ..dhyāninām hi vapuḥ sūkṣmam bhavet pratyakṣam aiśvaram .. 7.2, 22.54 ..
यथेह कर्मणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् ॥ध्यानयज्ञरतास्तस्माद्देवान्पाषाणमृण्मयान् ॥ ७.२, २२.५५ ॥
यथा इह कर्मणाम् स्थूलम् मृद्-काष्ठ-आद्यैः प्रकल्पितम् ॥ध्यान-यज्ञ-रताः तस्मात् देवान् पाषाण-मृण्मयान् ॥ ७।२, २२।५५ ॥
yathā iha karmaṇām sthūlam mṛd-kāṣṭha-ādyaiḥ prakalpitam ..dhyāna-yajña-ratāḥ tasmāt devān pāṣāṇa-mṛṇmayān .. 7.2, 22.55 ..
नात्यंतं प्रतिपद्यंते शिवयाथात्म्यवेदनात् ॥आत्मस्थं यः शिवं त्यक्त्वा बहिरभ्यर्चयेन्नरः ॥ ७.२, २२.५६ ॥
न अत्यंतम् प्रतिपद्यंते शिव-याथात्म्य-वेदनात् ॥आत्म-स्थम् यः शिवम् त्यक्त्वा बहिस् अभ्यर्चयेत् नरः ॥ ७।२, २२।५६ ॥
na atyaṃtam pratipadyaṃte śiva-yāthātmya-vedanāt ..ātma-stham yaḥ śivam tyaktvā bahis abhyarcayet naraḥ .. 7.2, 22.56 ..
हस्तस्थं फलमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ज्ञानाद्ध्यानं भवेद्ध्यानाज्ज्ञानं भूयः प्रवर्तते ॥ ७.२, २२.५७ ॥
हस्त-स्थम् फलम् उत्सृज्य लिहेत् कूर्परम् आत्मनः ॥ज्ञानात् ध्यानम् भवेत् ध्यानात् ज्ञानम् भूयस् प्रवर्तते ॥ ७।२, २२।५७ ॥
hasta-stham phalam utsṛjya lihet kūrparam ātmanaḥ ..jñānāt dhyānam bhavet dhyānāt jñānam bhūyas pravartate .. 7.2, 22.57 ..
तदुभाभ्यां भवेन्मुक्तिस्तस्माद्ध्यानरतो भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रूयुगान्तरे ॥ ७.२, २२.५८ ॥
तत् उभाभ्याम् भवेत् मुक्तिः तस्मात् ध्यान-रतः भवेत् ॥द्वादशान्ते तथा मूर्ध्नि ललाटे भ्रू-युग-अन्तरे ॥ ७।२, २२।५८ ॥
tat ubhābhyām bhavet muktiḥ tasmāt dhyāna-rataḥ bhavet ..dvādaśānte tathā mūrdhni lalāṭe bhrū-yuga-antare .. 7.2, 22.58 ..
नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ ७.२, २२.५९ ॥
नासा-अग्रे वा तथा आस्ये वा कन्धरे हृदये तथा ॥नाभौ वा शाश्वत-स्थाने श्रद्धा-विद्धेन चेतसा ॥ ७।२, २२।५९ ॥
nāsā-agre vā tathā āsye vā kandhare hṛdaye tathā ..nābhau vā śāśvata-sthāne śraddhā-viddhena cetasā .. 7.2, 22.59 ..
बहिर्यागोपचारेण देवं देवीं च पूजयेत् ॥अथवा पूजयेन्नित्यं लिंगे वा कृतकेपि वा ॥ ७.२, २२.६० ॥
बहिस् याग-उपचारेण देवम् देवीम् च पूजयेत् ॥अथवा पूजयेत् नित्यम् लिंगे वा कृतके अपि वा ॥ ७।२, २२।६० ॥
bahis yāga-upacāreṇa devam devīm ca pūjayet ..athavā pūjayet nityam liṃge vā kṛtake api vā .. 7.2, 22.60 ..
वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥अथवांतर्बहिश्चैव पूजयेत्परमेश्वरम् ॥अंतर्यागरतः पूजां बहिः कुर्वीत वा न वा ॥ ७.२, २२.६१ ॥
वह्नौ वा स्थण्डिले वा अथ भक्त्या वित्त-अनुसारतः ॥अथवा अंतर् बहिस् च एव पूजयेत् परमेश्वरम् ॥अन्तर्याग-रतः पूजाम् बहिस् कुर्वीत वा न वा ॥ ७।२, २२।६१ ॥
vahnau vā sthaṇḍile vā atha bhaktyā vitta-anusārataḥ ..athavā aṃtar bahis ca eva pūjayet parameśvaram ..antaryāga-rataḥ pūjām bahis kurvīta vā na vā .. 7.2, 22.61 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनं नाम द्वाविंशोऽध्यायः॥ ॥ ७.२, २२.६२ ॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवशास्त्रोक्तनित्यनैमित्तिककर्मवर्णनम् नाम द्वाविंशः अध्यायः॥ ॥ ७।२, २२।६२ ॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivaśāstroktanityanaimittikakarmavarṇanam nāma dvāviṃśaḥ adhyāyaḥ.. .. 7.2, 22.62 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In