| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अनुक्तं चात्र पूजायाः कमलोपभयादिव ॥ यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ ७.२,२५.१॥
अन् उक्तम् च अत्र पूजायाः कमल-उपभयात् इव ॥ यत् तत् अन्यत् प्रवक्ष्यामि समासात् न तु विस्तरात् ॥ ७।२,२५।१॥
an uktam ca atra pūjāyāḥ kamala-upabhayāt iva .. yat tat anyat pravakṣyāmi samāsāt na tu vistarāt .. 7.2,25.1..
हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ॥ कुर्यादावरणाभ्यर्चां प्राप्ते नीराजने ऽथ वा ॥ ७.२,२५.२॥
हविः-निवेदनात् पूर्वम् दीप-दानात् अनन्तरम् ॥ कुर्यात् आवरण-अभ्यर्चाम् प्राप्ते नीराजने अथ वा ॥ ७।२,२५।२॥
haviḥ-nivedanāt pūrvam dīpa-dānāt anantaram .. kuryāt āvaraṇa-abhyarcām prāpte nīrājane atha vā .. 7.2,25.2..
तत्रेशानादिसद्यांतं रुद्राद्यस्त्रांतमेव च ॥ शिवस्य वा शिवायाश्च प्रथमावरणे जपेत् ॥ ७.२,२५.३॥
तत्र ईशान-आदि-सद्य-अंतम् रुद्र-आदि-अस्त्र-अंतम् एव च ॥ शिवस्य वा शिवायाः च प्रथम-आवरणे जपेत् ॥ ७।२,२५।३॥
tatra īśāna-ādi-sadya-aṃtam rudra-ādi-astra-aṃtam eva ca .. śivasya vā śivāyāḥ ca prathama-āvaraṇe japet .. 7.2,25.3..
ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ॥ पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ७.२,२५.४॥
ऐशान्याम् पूर्व-भागे च दक्षिणे च उत्तरे तथा ॥ पश्चिमे च तथा आग्नेय्याम् ऐशान्याम् नैरृते तथा ॥ ७।२,२५।४॥
aiśānyām pūrva-bhāge ca dakṣiṇe ca uttare tathā .. paścime ca tathā āgneyyām aiśānyām nairṛte tathā .. 7.2,25.4..
वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ॥ गर्भावरणमाख्यातं मन्त्रसंघातमेव वा ॥ ७.२,२५.५॥
वायव्याम् पुनर् ऐशान्याम् चतुर्-दिक्षु ततस् परम् ॥ गर्भावरणम् आख्यातम् मन्त्र-संघातम् एव वा ॥ ७।२,२५।५॥
vāyavyām punar aiśānyām catur-dikṣu tatas param .. garbhāvaraṇam ākhyātam mantra-saṃghātam eva vā .. 7.2,25.5..
हृदयाद्यस्त्रपर्यंतमथवापि समर्चयेत् ॥ तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ७.२,२५.६॥
हृदय-आदि-अस्त्र-पर्यंतम् अथवा अपि समर्चयेत् ॥ तद्-बहिस् पूर्वतस् शक्रम् यमम् दक्षिणतस् यजेत् ॥ ७।२,२५।६॥
hṛdaya-ādi-astra-paryaṃtam athavā api samarcayet .. tad-bahis pūrvatas śakram yamam dakṣiṇatas yajet .. 7.2,25.6..
वरुणं वारुणे भागे धनदं चोत्तरे बुधः ॥ ईशमैशे ऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७.२,२५.७॥
वरुणम् वारुणे भागे धनदम् च उत्तरे बुधः ॥ ईशम् ऐशे अनलम् स्वीये नैरृते निरृतिम् यजेत् ॥ ७।२,२५।७॥
varuṇam vāruṇe bhāge dhanadam ca uttare budhaḥ .. īśam aiśe analam svīye nairṛte nirṛtim yajet .. 7.2,25.7..
मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ॥ बहिःपद्मस्य वज्राद्यान्यब्जांतान्यायुधान्यपि ॥ ७.२,२५.८॥
मारुते मारुतम् विष्णुम् नैरृते विधिम् ऐश्वरे ॥ बहिस् पद्मस्य वज्र-आद्यानि अब्ज-अंतानि आयुधानि अपि ॥ ७।२,२५।८॥
mārute mārutam viṣṇum nairṛte vidhim aiśvare .. bahis padmasya vajra-ādyāni abja-aṃtāni āyudhāni api .. 7.2,25.8..
प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ॥ देवं देवीं च संप्रेक्ष्य सर्वावरणदेवताः ॥ ७.२,२५.९॥
प्रसिद्ध-रूपाणि आशासु लोकेशानाम् क्रमात् यजेत् ॥ देवम् देवीम् च संप्रेक्ष्य सर्व-आवरण-देवताः ॥ ७।२,२५।९॥
prasiddha-rūpāṇi āśāsu lokeśānām kramāt yajet .. devam devīm ca saṃprekṣya sarva-āvaraṇa-devatāḥ .. 7.2,25.9..
बद्धांजलिपुटा ध्येयाः समासीना यथासुखम् ॥ सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ ७.२,२५.१०॥
बद्ध-अंजलि-पुटाः ध्येयाः समासीनाः यथासुखम् ॥ सर्व-आवरण-देवानाम् स्व-अभिधानैः नमः-युतैः ॥ ७।२,२५।१०॥
baddha-aṃjali-puṭāḥ dhyeyāḥ samāsīnāḥ yathāsukham .. sarva-āvaraṇa-devānām sva-abhidhānaiḥ namaḥ-yutaiḥ .. 7.2,25.10..
पुष्पैः संपूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ॥ गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ७.२,२५.११॥
पुष्पैः संपूजनम् कुर्यात् नत्वा सर्वान् यथाक्रमम् ॥ गर्भ-आवरणम् एव अपि यजेत् स्व-आवरणेन वा ॥ ७।२,२५।११॥
puṣpaiḥ saṃpūjanam kuryāt natvā sarvān yathākramam .. garbha-āvaraṇam eva api yajet sva-āvaraṇena vā .. 7.2,25.11..
योगे ध्याने जपे होमे वाह्ये वाभ्यंतरे ऽपि वा ॥ हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ ७.२,२५.१२॥
योगे ध्याने जपे होमे वाह्ये वा अभ्यंतरे अपि वा ॥ हविः च षड्विधम् देयम् शुद्धम् मुद्ग-अन्नम् एव च ॥ ७।२,२५।१२॥
yoge dhyāne jape home vāhye vā abhyaṃtare api vā .. haviḥ ca ṣaḍvidham deyam śuddham mudga-annam eva ca .. 7.2,25.12..
पायसं दधिसंमिश्रं गौडं च मधुनाप्लुतम् ॥ एतेष्वेकमनेकं वा नानाव्यंजनसंयुतम् ॥ ७.२,२५.१३॥
पायसम् दधि-संमिश्रम् गौडम् च मधुना आप्लुतम् ॥ एतेषु एकम् अनेकम् वा नाना व्यंजन-संयुतम् ॥ ७।२,२५।१३॥
pāyasam dadhi-saṃmiśram gauḍam ca madhunā āplutam .. eteṣu ekam anekam vā nānā vyaṃjana-saṃyutam .. 7.2,25.13..
गुडखंडन्वितं दद्यान्मथितं दधि चोत्तमम् ॥ भक्ष्याण्यपूपमुख्यानि स्वादुमंति फलानि च ॥ ७.२,२५.१४॥
गुड-खंड-अन्वितम् दद्यात् मथितम् दधि च उत्तमम् ॥ भक्ष्याणि अपूप-मुख्यानि स्वादुमंति फलानि च ॥ ७।२,२५।१४॥
guḍa-khaṃḍa-anvitam dadyāt mathitam dadhi ca uttamam .. bhakṣyāṇi apūpa-mukhyāni svādumaṃti phalāni ca .. 7.2,25.14..
रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ॥ मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ ७.२,२५.१५॥
रक्तचन्दन-पुष्प-आढ्यम् पानीयम् च अति शीतलम् ॥ मृदु एला-रस-अक्तम् च खण्डम् पूग-फलस्य च ॥ ७।२,२५।१५॥
raktacandana-puṣpa-āḍhyam pānīyam ca ati śītalam .. mṛdu elā-rasa-aktam ca khaṇḍam pūga-phalasya ca .. 7.2,25.15..
दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ॥ गौराणि स्वर्णवर्णानि विहितानि शिवानि च ॥ शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ ७.२,२५.१६॥
दलानि नागवल्ल्याः च युक्तानि खदिर-आदिभिः ॥ गौराणि स्वर्ण-वर्णानि विहितानि शिवानि च ॥ शैलम् एव सितम् चूर्णम् न अति रूक्षम् न दूषितम् ॥ ७।२,२५।१६॥
dalāni nāgavallyāḥ ca yuktāni khadira-ādibhiḥ .. gaurāṇi svarṇa-varṇāni vihitāni śivāni ca .. śailam eva sitam cūrṇam na ati rūkṣam na dūṣitam .. 7.2,25.16..
कर्पूरं चाथ कंकोलं जात्यादि च नवं शुभम् ॥ आलेपनं चन्दनं स्यान्मूलकाष्ठंरजोमयम् ॥ ७.२,२५.१७॥
कर्पूरम् च अथ कंकोलम् जाति-आदि च नवम् शुभम् ॥ आलेपनम् चन्दनम् स्यात् मूलकाष्ठम् रजोमयम् ॥ ७।२,२५।१७॥
karpūram ca atha kaṃkolam jāti-ādi ca navam śubham .. ālepanam candanam syāt mūlakāṣṭham rajomayam .. 7.2,25.17..
कस्तूरिका कुंकुमं च रसो मृगमदात्मकः ॥ पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ ७.२,२५.१८॥
कस्तूरिका कुंकुमम् च रसः मृगमद-आत्मकः ॥ पुष्पाणि सुरभीणि एव पवित्राणि शुभानि च ॥ ७।२,२५।१८॥
kastūrikā kuṃkumam ca rasaḥ mṛgamada-ātmakaḥ .. puṣpāṇi surabhīṇi eva pavitrāṇi śubhāni ca .. 7.2,25.18..
निर्गंधान्युग्रगंधानि दूषितान्युषितानि च ॥ स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ ७.२,२५.१९॥
निर्गंधानि उग्र-गंधानि दूषितानि उषितानि च ॥ स्वयम् एव विशीर्णानि न देयानि शिव-अर्चने ॥ ७।२,२५।१९॥
nirgaṃdhāni ugra-gaṃdhāni dūṣitāni uṣitāni ca .. svayam eva viśīrṇāni na deyāni śiva-arcane .. 7.2,25.19..
वासांसि च मृदून्येव तपनीयमयानि च ॥ विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ ७.२,२५.२०॥
वासांसि च मृदूनि एव तपनीय-मयानि च ॥ विद्युत्-वलय-कल्पानि भूषणानि विशेषतः ॥ ७।२,२५।२०॥
vāsāṃsi ca mṛdūni eva tapanīya-mayāni ca .. vidyut-valaya-kalpāni bhūṣaṇāni viśeṣataḥ .. 7.2,25.20..
सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ॥ आधूपितानि पुष्पौघैर्वासितानि समंततः ॥ ७.२,२५.२१॥
सर्वाणि एतानि कर्पूर-निर्यास-अगुरु-चन्दनैः ॥ आधूपितानि पुष्प-ओघैः वासितानि समंततः ॥ ७।२,२५।२१॥
sarvāṇi etāni karpūra-niryāsa-aguru-candanaiḥ .. ādhūpitāni puṣpa-oghaiḥ vāsitāni samaṃtataḥ .. 7.2,25.21..
चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णिकैः ॥ घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ ७.२,२५.२२॥
चन्दन-अगुरु-कर्पूर-काष्ठ-गुग्गुलु-चूर्णिकैः ॥ घृतेन मधुना च एव सिद्धः धूपः प्रशस्यते ॥ ७।२,२५।२२॥
candana-aguru-karpūra-kāṣṭha-guggulu-cūrṇikaiḥ .. ghṛtena madhunā ca eva siddhaḥ dhūpaḥ praśasyate .. 7.2,25.22..
कपिलासम्भवेनैव घृतेनातिसुगन्धिना ॥ नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ ७.२,२५.२३॥
कपिला-सम्भवेन एव घृतेन अति सुगन्धिना ॥ नित्यम् प्रदीपिताः दीपाः शस्ताः कर्पूर-संयुताः ॥ ७।२,२५।२३॥
kapilā-sambhavena eva ghṛtena ati sugandhinā .. nityam pradīpitāḥ dīpāḥ śastāḥ karpūra-saṃyutāḥ .. 7.2,25.23..
पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ॥ कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ ७.२,२५.२४॥
पञ्चगव्यम् च मधुरम् पयः दधि घृतम् तथा ॥ कपिला-सम्भवम् शम्भोः इष्टम् स्नाने च पानके ॥ ७।२,२५।२४॥
pañcagavyam ca madhuram payaḥ dadhi ghṛtam tathā .. kapilā-sambhavam śambhoḥ iṣṭam snāne ca pānake .. 7.2,25.24..
आसनानि च भद्राणि गजदंतमयानि च ॥ सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ ७.२,२५.२५॥
आसनानि च भद्राणि गज-दंत-मयानि च ॥ सुवर्ण-रत्न-युक्तानि चित्राणि आस्तरणानि च ॥ ७।२,२५।२५॥
āsanāni ca bhadrāṇi gaja-daṃta-mayāni ca .. suvarṇa-ratna-yuktāni citrāṇi āstaraṇāni ca .. 7.2,25.25..
मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ॥ उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ७.२,२५.२६॥
मृदु-उपधान-युक्तानि सूक्ष्म-तूल-मयानि च ॥ उच्चावचानि रम्याणि शयनानि सुखानि च ॥ ७।२,२५।२६॥
mṛdu-upadhāna-yuktāni sūkṣma-tūla-mayāni ca .. uccāvacāni ramyāṇi śayanāni sukhāni ca .. 7.2,25.26..
नद्यस्समुद्रगामिन्या नटाद्वाम्भः समाहृतम् ॥ शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ ७.२,२५.२७॥
नद्यः समुद्र-गामिन्याः नटात् वा अम्भः समाहृतम् ॥ शीतम् च वस्त्र-पूतम् तत् विशिष्टम् स्नान-पानयोः ॥ ७।२,२५।२७॥
nadyaḥ samudra-gāminyāḥ naṭāt vā ambhaḥ samāhṛtam .. śītam ca vastra-pūtam tat viśiṣṭam snāna-pānayoḥ .. 7.2,25.27..
छत्रं शशिनिभं चारु मुक्तादामविराजितम् ॥ नवरत्नचितं दिव्यं हेमदण्डमनोहरम् ॥ ७.२,२५.२८॥
छत्रम् शशि-निभम् चारु मुक्ता-दाम-विराजितम् ॥ नव-रत्न-चितम् दिव्यम् हेम-दण्ड-मनोहरम् ॥ ७।२,२५।२८॥
chatram śaśi-nibham cāru muktā-dāma-virājitam .. nava-ratna-citam divyam hema-daṇḍa-manoharam .. 7.2,25.28..
चामरे च सिते सूक्ष्मे चामीकरपरिष्कृते ॥ राजहंसद्वयाकारे रत्नदंडोपशोभिते ॥ ७.२,२५.२९॥
चामरे च सिते सूक्ष्मे चामीकर-परिष्कृते ॥ राजहंस-द्वय-आकारे रत्न-दंड-उपशोभिते ॥ ७।२,२५।२९॥
cāmare ca site sūkṣme cāmīkara-pariṣkṛte .. rājahaṃsa-dvaya-ākāre ratna-daṃḍa-upaśobhite .. 7.2,25.29..
दर्पणं चापि सुस्निग्धं दिव्यगन्धानुलेपनम् ॥ समंताद्रत्नसञ्छन्नं स्रग्वैरैश्चापि भूषितम् ॥ ७.२,२५.३०॥
दर्पणम् च अपि सु स्निग्धम् दिव्य-गन्ध-अनुलेपनम् ॥ समंतात् रत्न-सञ्छन्नम् स्रज्-वैरैः च अपि भूषितम् ॥ ७।२,२५।३०॥
darpaṇam ca api su snigdham divya-gandha-anulepanam .. samaṃtāt ratna-sañchannam sraj-vairaiḥ ca api bhūṣitam .. 7.2,25.30..
गम्भीरनिनदः शंखो हंसकुंदेन्दुसन्निभः ॥ आस्वपृष्ठादिदेशेषु रत्नचामीकराचितः ॥ ७.२,२५.३१॥
॥ रत्न-चामीकर-आचितः ॥ ७।२,२५।३१॥
.. ratna-cāmīkara-ācitaḥ .. 7.2,25.31..
काहलानि च रम्याणि नानानादकराणि च ॥ सुवर्णनिर्मितान्येव मौक्तिकालंकृतानि च ॥ ७.२,२५.३२॥
काहलानि च रम्याणि नाना नाद-कराणि च ॥ सुवर्ण-निर्मितानि एव मौक्तिक-अलंकृतानि च ॥ ७।२,२५।३२॥
kāhalāni ca ramyāṇi nānā nāda-karāṇi ca .. suvarṇa-nirmitāni eva mauktika-alaṃkṛtāni ca .. 7.2,25.32..
भेरीमृदंगमुरजतिमिच्छपटहादयः ॥ समुद्रकल्पसन्नादाः कल्पनीयाः प्रयत्नतः ॥ ७.२,२५.३३॥
भेरी-मृदंग-मुरज-तिमिच्छ-पटह-आदयः ॥ समुद्र-कल्प-सन्-नादाः कल्पनीयाः प्रयत्नतः ॥ ७।२,२५।३३॥
bherī-mṛdaṃga-muraja-timiccha-paṭaha-ādayaḥ .. samudra-kalpa-san-nādāḥ kalpanīyāḥ prayatnataḥ .. 7.2,25.33..
भांडान्यपि च रम्याणि पत्राण्यपि च कृत्स्नशः ॥ तदाधाराणि सर्वाणि सौवर्णान्येव साधयेत् ॥ ७.२,२५.३४॥
भांडानि अपि च रम्याणि पत्राणि अपि च कृत्स्नशस् ॥ तद्-आधाराणि सर्वाणि सौवर्णानि एव साधयेत् ॥ ७।२,२५।३४॥
bhāṃḍāni api ca ramyāṇi patrāṇi api ca kṛtsnaśas .. tad-ādhārāṇi sarvāṇi sauvarṇāni eva sādhayet .. 7.2,25.34..
आलयं च महेशस्य शिवस्य परमात्मनः ॥ राजावसथवत्कल्प्यं शिल्पशास्त्रोक्तलक्षणम् ॥ ७.२,२५.३५॥
आलयम् च महेशस्य शिवस्य परमात्मनः ॥ राज-आवसथ-वत् कल्प्यम् शिल्प-शास्त्र-उक्त-लक्षणम् ॥ ७।२,२५।३५॥
ālayam ca maheśasya śivasya paramātmanaḥ .. rāja-āvasatha-vat kalpyam śilpa-śāstra-ukta-lakṣaṇam .. 7.2,25.35..
उच्चप्राकारसंभिन्नं भूधराकारगोपुरम् ॥ अनेकरत्नसंच्छन्नं हेमद्वारकपाटकम् ॥ ७.२,२५.३६॥
उच्च-प्राकार-संभिन्नम् भूधर-आकार-गोपुरम् ॥ अनेक-रत्न-संच्छन्नम् हेम-द्वार-कपाटकम् ॥ ७।२,२५।३६॥
ucca-prākāra-saṃbhinnam bhūdhara-ākāra-gopuram .. aneka-ratna-saṃcchannam hema-dvāra-kapāṭakam .. 7.2,25.36..
तप्तजांबूनदमयं रत्नस्तम्भशतावृतम् ॥ मुक्तादामवितानाढ्यं विद्रुमद्वारतोरणम् ॥ ७.२,२५.३७॥
तप्त-जांबूनद-मयम् रत्न-स्तम्भ-शत-आवृतम् ॥ मुक्ता-दाम-वितान-आढ्यम् विद्रुम-द्वार-तोरणम् ॥ ७।२,२५।३७॥
tapta-jāṃbūnada-mayam ratna-stambha-śata-āvṛtam .. muktā-dāma-vitāna-āḍhyam vidruma-dvāra-toraṇam .. 7.2,25.37..
चामीकरमयैर्दिव्यैर्मुकुटैः कुम्भलक्षणैः ॥ अलंकृतशिरोभागमस्त्र आजेन चिह्नितम् ॥ ७.२,२५.३८॥
चामीकर-मयैः दिव्यैः मुकुटैः कुम्भ-लक्षणैः ॥ अलंकृत-शिरः-भागम् अस्त्रे आजेन चिह्नितम् ॥ ७।२,२५।३८॥
cāmīkara-mayaiḥ divyaiḥ mukuṭaiḥ kumbha-lakṣaṇaiḥ .. alaṃkṛta-śiraḥ-bhāgam astre ājena cihnitam .. 7.2,25.38..
राजन्यार्हनिवासैश्च राजवीथ्यादिशोभितैः ॥ प्रोच्छ्रितप्रांशुशिखरैः प्रासादैश्च समंततः ॥ ७.२,२५.३९॥
राजन्य-अर्ह-निवासैः च राज-वीथि-आदि-शोभितैः ॥ प्रोच्छ्रित-प्रांशु-शिखरैः प्रासादैः च समंततः ॥ ७।२,२५।३९॥
rājanya-arha-nivāsaiḥ ca rāja-vīthi-ādi-śobhitaiḥ .. procchrita-prāṃśu-śikharaiḥ prāsādaiḥ ca samaṃtataḥ .. 7.2,25.39..
आस्थानस्थानवर्यैश्च स्थितैर्दिक्षु विदिक्षु च ॥ अत्यन्तालंकृतप्रांतमंतरावरणैरिव ॥ ७.२,२५.४०॥
आस्थान-स्थान-वर्यैः च स्थितैः दिक्षु विदिक्षु च ॥ अत्यन्त-अलंकृत-प्रांतम् अंतर-आवरणैः इव ॥ ७।२,२५।४०॥
āsthāna-sthāna-varyaiḥ ca sthitaiḥ dikṣu vidikṣu ca .. atyanta-alaṃkṛta-prāṃtam aṃtara-āvaraṇaiḥ iva .. 7.2,25.40..
उत्तमस्त्रीसहस्रैश्च नृत्यगेयविशारदैः ॥ वेणुवीणाविदग्धैश्च पुरुषैर्बहुभिर्युतम् ॥ ७.२,२५.४१॥
उत्तम-स्त्री-सहस्रैः च नृत्य-गेय-विशारदैः ॥ वेणु-वीणा-विदग्धैः च पुरुषैः बहुभिः युतम् ॥ ७।२,२५।४१॥
uttama-strī-sahasraiḥ ca nṛtya-geya-viśāradaiḥ .. veṇu-vīṇā-vidagdhaiḥ ca puruṣaiḥ bahubhiḥ yutam .. 7.2,25.41..
रक्षितं रक्षिभिर्वीरैर्गजवाजिरथान्वितैः ॥ अनेकपुष्पवाटीभिरनेकैश्च सरोवरैः ॥ ७.२,२५.४२॥
रक्षितम् रक्षिभिः वीरैः गज-वाजि-रथ-अन्वितैः ॥ अनेक-पुष्प-वाटीभिः अनेकैः च सरोवरैः ॥ ७।२,२५।४२॥
rakṣitam rakṣibhiḥ vīraiḥ gaja-vāji-ratha-anvitaiḥ .. aneka-puṣpa-vāṭībhiḥ anekaiḥ ca sarovaraiḥ .. 7.2,25.42..
दीर्घिकाभिरनेकाभिर्दिग्विदिक्षु विराजितम् ॥ वेदवेदांततत्त्वज्ञैश्शिवशास्त्रपरायणैः ॥ ७.२,२५.४३॥
दीर्घिकाभिः अनेकाभिः दिश्-विदिक्षु विराजितम् ॥ वेद-वेदांत-तत्त्व-ज्ञैः शिव-शास्त्र-परायणैः ॥ ७।२,२५।४३॥
dīrghikābhiḥ anekābhiḥ diś-vidikṣu virājitam .. veda-vedāṃta-tattva-jñaiḥ śiva-śāstra-parāyaṇaiḥ .. 7.2,25.43..
शिवाश्रमरतैर्भक्तैः शिवशास्त्रोक्तलक्षणैः ॥ शांतैः स्मितमुखैः स्फीतैः सदाचारपरायणैः ॥ ७.२,२५.४४॥
शिव-आश्रम-रतैः भक्तैः शिव-शास्त्र-उक्त-लक्षणैः ॥ शांतैः स्मित-मुखैः स्फीतैः सत्-आचार-परायणैः ॥ ७।२,२५।४४॥
śiva-āśrama-rataiḥ bhaktaiḥ śiva-śāstra-ukta-lakṣaṇaiḥ .. śāṃtaiḥ smita-mukhaiḥ sphītaiḥ sat-ācāra-parāyaṇaiḥ .. 7.2,25.44..
शैवैर्माहेश्वरैश्चैव श्रीमद्भिस्सेवितद्विजैः ॥ एवमंतर्बहिर्वाथयथाशक्तिविनिर्मितैः ॥ ७.२,२५.४५॥
शैवैः माहेश्वरैः च एव श्रीमद्भिः सेवित-द्विजैः ॥ एवम् अंतर् बहिस् वा अथ यथाशक्ति विनिर्मितैः ॥ ७।२,२५।४५॥
śaivaiḥ māheśvaraiḥ ca eva śrīmadbhiḥ sevita-dvijaiḥ .. evam aṃtar bahis vā atha yathāśakti vinirmitaiḥ .. 7.2,25.45..
स्थाने शिलामये दांते दारवे चेष्टकामये ॥ केवलं मृन्मये वापि पुण्यारण्ये ऽथ वा गिरौ ॥ ७.२,२५.४६॥
स्थाने शिला-मये दारवे च इष्टका-मये ॥ केवलम् मृद्-मये वा अपि पुण्य-अरण्ये अथ वा गिरौ ॥ ७।२,२५।४६॥
sthāne śilā-maye dārave ca iṣṭakā-maye .. kevalam mṛd-maye vā api puṇya-araṇye atha vā girau .. 7.2,25.46..
नद्यां देवालये ऽन्यत्र देशे वाथ गृहे शुभे ॥ आढ्यो वाथ दरिद्रो वा स्वकां शक्तिमवंचयन् ॥ द्रव्यैर्न्यायार्जितैरेव भक्त्या देवं समर्चयेत् ॥ ७.२,२५.४७॥
नद्याम् देवालये अन्यत्र देशे वा अथ गृहे शुभे ॥ आढ्यः वा अथ दरिद्रः वा स्वकाम् शक्तिम् अवंचयन् ॥ द्रव्यैः न्याय-अर्जितैः एव भक्त्या देवम् समर्चयेत् ॥ ७।२,२५।४७॥
nadyām devālaye anyatra deśe vā atha gṛhe śubhe .. āḍhyaḥ vā atha daridraḥ vā svakām śaktim avaṃcayan .. dravyaiḥ nyāya-arjitaiḥ eva bhaktyā devam samarcayet .. 7.2,25.47..
अथान्यायार्जितैश्चापि भक्त्या चेच्छिवमर्चयेत् ॥ न तस्य प्रत्यवायो ऽस्ति भाववश्यो यतः प्रभुः ॥ ७.२,२५.४८॥
अथ अन्याय-अर्जितैः च अपि भक्त्या चेद् शिवम् अर्चयेत् ॥ न तस्य प्रत्यवायः अस्ति भाव-वश्यः यतस् प्रभुः ॥ ७।२,२५।४८॥
atha anyāya-arjitaiḥ ca api bhaktyā ced śivam arcayet .. na tasya pratyavāyaḥ asti bhāva-vaśyaḥ yatas prabhuḥ .. 7.2,25.48..
न्यायार्जितैरपि द्रव्यैरभक्त्या पूजयेद्यदि ॥ न तत्फलमवाप्नोति भक्तिरेवात्र कारणम् ॥ ७.२,२५.४९॥
न्याय-अर्जितैः अपि द्रव्यैः अभक्त्या पूजयेत् यदि ॥ न तत् फलम् अवाप्नोति भक्तिः एव अत्र कारणम् ॥ ७।२,२५।४९॥
nyāya-arjitaiḥ api dravyaiḥ abhaktyā pūjayet yadi .. na tat phalam avāpnoti bhaktiḥ eva atra kāraṇam .. 7.2,25.49..
भक्त्या वित्तानुसारेण शिवमुद्दिश्य यत्कृतम् ॥ अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ॥ ७.२,२५.५०॥
भक्त्या वित्त-अनुसारेण शिवम् उद्दिश्य यत् कृतम् ॥ अल्पे महति वा तुल्यम् फलम् आढ्य-दरिद्रयोः ॥ ७।२,२५।५०॥
bhaktyā vitta-anusāreṇa śivam uddiśya yat kṛtam .. alpe mahati vā tulyam phalam āḍhya-daridrayoḥ .. 7.2,25.50..
भक्त्या प्रचोदितः कुर्यादल्पवित्तोपि मानवः ॥ महाविभवसारोपि न कुर्याद्भक्तिवर्जितः ॥ ७.२,२५.५१॥
भक्त्या प्रचोदितः कुर्यात् अल्प-वित्तः अपि मानवः ॥ महा-विभव-सारः अपि न कुर्यात् भक्ति-वर्जितः ॥ ७।२,२५।५१॥
bhaktyā pracoditaḥ kuryāt alpa-vittaḥ api mānavaḥ .. mahā-vibhava-sāraḥ api na kuryāt bhakti-varjitaḥ .. 7.2,25.51..
सर्वस्वमपि यो दद्याच्छिवे भक्तिविवर्जितः ॥ न तेन फलभाक्स स्याद्भक्तिरेवात्र कारणम् ॥ ७.२,२५.५२॥
सर्व-स्वम् अपि यः दद्यात् शिवे भक्ति-विवर्जितः ॥ न तेन फल-भाज् स स्यात् भक्तिः एव अत्र कारणम् ॥ ७।२,२५।५२॥
sarva-svam api yaḥ dadyāt śive bhakti-vivarjitaḥ .. na tena phala-bhāj sa syāt bhaktiḥ eva atra kāraṇam .. 7.2,25.52..
न तत्तपोभिरत्युग्रैर्न च सर्वैर्महामखैः ॥ गच्छेच्छिवपुरं दिव्यं मुक्त्वा भक्तिं शिवात्मकम् ॥ ७.२,२५.५३॥
न तत् तपोभिः अति उग्रैः न च सर्वैः महा-मखैः ॥ गच्छेत् शिव-पुरम् दिव्यम् मुक्त्वा भक्तिम् शिव-आत्मकम् ॥ ७।२,२५।५३॥
na tat tapobhiḥ ati ugraiḥ na ca sarvaiḥ mahā-makhaiḥ .. gacchet śiva-puram divyam muktvā bhaktim śiva-ātmakam .. 7.2,25.53..
गुह्याद्गुह्यतरं कृष्ण सर्वत्र परमेश्वरे ॥ शिवे भक्तिर्न संदेहस्तया भक्तो विमुच्यते ॥ ७.२,२५.५४॥
गुह्यात् गुह्यतरम् कृष्ण सर्वत्र परमेश्वरे ॥ शिवे भक्तिः न संदेहः तया भक्तः विमुच्यते ॥ ७।२,२५।५४॥
guhyāt guhyataram kṛṣṇa sarvatra parameśvare .. śive bhaktiḥ na saṃdehaḥ tayā bhaktaḥ vimucyate .. 7.2,25.54..
शिवमंत्रजपो ध्यानं होमो यज्ञस्तपःश्रुतम् ॥ दानमध्ययनं सर्वे भावार्थं नात्र संशयः ॥ ७.२,२५.५५॥
शिव-मंत्र-जपः ध्यानम् होमः यज्ञः तपः-श्रुतम् ॥ दानम् अध्ययनम् सर्वे भाव-अर्थम् न अत्र संशयः ॥ ७।२,२५।५५॥
śiva-maṃtra-japaḥ dhyānam homaḥ yajñaḥ tapaḥ-śrutam .. dānam adhyayanam sarve bhāva-artham na atra saṃśayaḥ .. 7.2,25.55..
भावहीनो नरस्सर्वं कृत्वापि न विमुच्यते ॥ भावयुक्तः पुनस्सर्वमकृत्वापि विमुच्यते ॥ ७.२,२५.५६॥
भाव-हीनः नरः सर्वम् कृत्वा अपि न विमुच्यते ॥ भाव-युक्तः पुनर् सर्वम् अ कृत्वा अपि विमुच्यते ॥ ७।२,२५।५६॥
bhāva-hīnaḥ naraḥ sarvam kṛtvā api na vimucyate .. bhāva-yuktaḥ punar sarvam a kṛtvā api vimucyate .. 7.2,25.56..
चांद्रायणसहस्रैश्च प्राजापत्यशतैस्तथा ॥ मासोपवासैश्चान्यैश्च शिवभक्तस्य किं पुनः ॥ ७.२,२५.५७॥
चांद्रायण-सहस्रैः च प्राजापत्य-शतैः तथा ॥ मास-उपवासैः च अन्यैः च शिव-भक्तस्य किम् पुनर् ॥ ७।२,२५।५७॥
cāṃdrāyaṇa-sahasraiḥ ca prājāpatya-śataiḥ tathā .. māsa-upavāsaiḥ ca anyaiḥ ca śiva-bhaktasya kim punar .. 7.2,25.57..
अभक्ता मानवाश्चास्मिंल्लोके गिरिगुहासु च ॥ तपंति चाल्पभोगार्थं भक्तो भावेन मुच्यते ॥ ७.२,२५.५८॥
अभक्ताः मानवाः च अस्मिन् लोके गिरि-गुहासु च ॥ तपंति च अल्प-भोग-अर्थम् भक्तः भावेन मुच्यते ॥ ७।२,२५।५८॥
abhaktāḥ mānavāḥ ca asmin loke giri-guhāsu ca .. tapaṃti ca alpa-bhoga-artham bhaktaḥ bhāvena mucyate .. 7.2,25.58..
सात्त्विकं मुक्तिदं कर्म सत्त्वे वै योगिनः स्थिताः ॥ राजसं सिद्धिदं कुर्युः कर्मिणो रजसावृताः ॥ ७.२,२५.५९॥
सात्त्विकम् मुक्ति-दम् कर्म सत्त्वे वै योगिनः स्थिताः ॥ राजसम् सिद्धि-दम् कुर्युः कर्मिणः रजसा आवृताः ॥ ७।२,२५।५९॥
sāttvikam mukti-dam karma sattve vai yoginaḥ sthitāḥ .. rājasam siddhi-dam kuryuḥ karmiṇaḥ rajasā āvṛtāḥ .. 7.2,25.59..
असुरा राक्षसाश्चैव तमोगुणसमन्विताः ॥ ऐहिकार्थं यजन्तीशं नराश्चान्ये ऽपि तादृशाः ॥ ७.२,२५.६०॥
असुराः राक्षसाः च एव तमः-गुण-समन्विताः ॥ ऐहिक-अर्थम् यजन्ति ईशम् नराः च अन्ये अपि तादृशाः ॥ ७।२,२५।६०॥
asurāḥ rākṣasāḥ ca eva tamaḥ-guṇa-samanvitāḥ .. aihika-artham yajanti īśam narāḥ ca anye api tādṛśāḥ .. 7.2,25.60..
तामसं राजसं वापि सात्त्विकं भावमेव च ॥ आश्रित्य भक्त्या पूजाद्यं कुर्वन्भद्रं समश्नुते ॥ ७.२,२५.६१॥
तामसम् राजसम् वा अपि सात्त्विकम् भावम् एव च ॥ आश्रित्य भक्त्या पूजा-आद्यम् कुर्वन् भद्रम् समश्नुते ॥ ७।२,२५।६१॥
tāmasam rājasam vā api sāttvikam bhāvam eva ca .. āśritya bhaktyā pūjā-ādyam kurvan bhadram samaśnute .. 7.2,25.61..
यतः पापार्णवात्त्रातुं भक्तिर्नौरिव निर्मिता ॥ तस्माद्भक्त्युपपन्नस्य रजसा तमसा च किम् ॥ ७.२,२५.६२॥
यतस् पाप-अर्णवात् त्रातुम् भक्तिः नौः इव निर्मिता ॥ तस्मात् भक्ति-उपपन्नस्य रजसा तमसा च किम् ॥ ७।२,२५।६२॥
yatas pāpa-arṇavāt trātum bhaktiḥ nauḥ iva nirmitā .. tasmāt bhakti-upapannasya rajasā tamasā ca kim .. 7.2,25.62..
अन्त्यजो वाधमो वापि मूर्खो वा पतितो ऽपि वा ॥ शिवं प्रपन्नश्चेत्कृष्ण पूज्यस्सर्वसुरासुरैः ॥ ७.२,२५.६३॥
अन्त्यजः वा अधमः वा अपि मूर्खः वा पतितः अपि वा ॥ शिवम् प्रपन्नः चेद् कृष्ण पूज्यः सर्व-सुर-असुरैः ॥ ७।२,२५।६३॥
antyajaḥ vā adhamaḥ vā api mūrkhaḥ vā patitaḥ api vā .. śivam prapannaḥ ced kṛṣṇa pūjyaḥ sarva-sura-asuraiḥ .. 7.2,25.63..
तस्मात्सर्वप्रयत्नेन भक्त्यैव शिवमर्चयेत् ॥ अभुक्तानां क्वचिदपि फलं नास्ति यतस्ततः ॥ ७.२,२५.६४॥
तस्मात् सर्व-प्रयत्नेन भक्त्या एव शिवम् अर्चयेत् ॥ अभुक्तानाम् क्वचिद् अपि फलम् ना अस्ति यतस् ततस् ॥ ७।२,२५।६४॥
tasmāt sarva-prayatnena bhaktyā eva śivam arcayet .. abhuktānām kvacid api phalam nā asti yatas tatas .. 7.2,25.64..
वक्ष्याम्यतिरहस्यं ते शृणु कृष्ण वचो मम ॥ वेदैश्शास्त्रैर्वेदविद्भिर्विचार्य सुविनिश्चितम् ॥ ७.२,२५.६५॥
वक्ष्यामि अति रहस्यम् ते शृणु कृष्ण वचः मम ॥ वेदैः शास्त्रैः वेद-विद्भिः विचार्य सु विनिश्चितम् ॥ ७।२,२५।६५॥
vakṣyāmi ati rahasyam te śṛṇu kṛṣṇa vacaḥ mama .. vedaiḥ śāstraiḥ veda-vidbhiḥ vicārya su viniścitam .. 7.2,25.65..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं नाम पञ्चविंशोऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शिवशास्त्रोक्तपूजनवर्णनम् नाम पञ्चविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śivaśāstroktapūjanavarṇanam nāma pañcaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In