| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
ब्रह्मघ्नो वा सुरापो वा स्तेयीवा गुरुतल्पगः ॥ मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ ७.२,२६.१॥
ब्रह्म-घ्नः वा सुरापः वा स्तेयी वा गुरुतल्प-गः ॥ मातृ-हा पितृ-हा वा अपि वीर-हा भ्रूण-हा अपि वा ॥ ७।२,२६।१॥
brahma-ghnaḥ vā surāpaḥ vā steyī vā gurutalpa-gaḥ .. mātṛ-hā pitṛ-hā vā api vīra-hā bhrūṇa-hā api vā .. 7.2,26.1..
संपूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ॥ तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ ७.२,२६.२॥
संपूज्य अमन्त्रकम् भक्त्या शिवम् परम-कारणम् ॥ तैः तैः पापैः प्रमुच्येत वर्षैः द्वादशभिः क्रमात् ॥ ७।२,२६।२॥
saṃpūjya amantrakam bhaktyā śivam parama-kāraṇam .. taiḥ taiḥ pāpaiḥ pramucyeta varṣaiḥ dvādaśabhiḥ kramāt .. 7.2,26.2..
तस्मात्सर्वप्रयत्नेन पतितो ऽपि यजेच्छिवम् ॥ भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेंद्रियः ॥ ७.२,२६.३॥
तस्मात् सर्व-प्रयत्नेन पतितः अपि यजेत् शिवम् ॥ भक्तः चेद् न अपरः कश्चिद् भिक्षा-आहारः जित-इंद्रियः ॥ ७।२,२६।३॥
tasmāt sarva-prayatnena patitaḥ api yajet śivam .. bhaktaḥ ced na aparaḥ kaścid bhikṣā-āhāraḥ jita-iṃdriyaḥ .. 7.2,26.3..
कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ॥ पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ७.२,२६.४॥
कृत्वा अपि सु महत् पापम् भक्त्या पञ्चाक्षरेण तु ॥ पूजयेत् यदि देवेशम् तस्मात् पापात् प्रमुच्यते ॥ ७।२,२६।४॥
kṛtvā api su mahat pāpam bhaktyā pañcākṣareṇa tu .. pūjayet yadi deveśam tasmāt pāpāt pramucyate .. 7.2,26.4..
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ॥ तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ७.२,२६.५॥
अब्भक्षाः वायुभक्षाः च ये च अन्ये व्रत-कर्शिताः ॥ तेषाम् एतैः व्रतैः न अस्ति शिव-लोक-समागमः ॥ ७।२,२६।५॥
abbhakṣāḥ vāyubhakṣāḥ ca ye ca anye vrata-karśitāḥ .. teṣām etaiḥ vrataiḥ na asti śiva-loka-samāgamaḥ .. 7.2,26.5..
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ॥ सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ७.२,२६.६॥
भक्त्या पञ्चाक्षरेण एव यः शिवम् सकृत् अर्चयेत् ॥ सः उपि गच्छेत् शिव-स्थानम् शिव-मन्त्रस्य गौरवात् ॥ ७।२,२६।६॥
bhaktyā pañcākṣareṇa eva yaḥ śivam sakṛt arcayet .. saḥ upi gacchet śiva-sthānam śiva-mantrasya gauravāt .. 7.2,26.6..
तस्मात्तपांसि यज्ञांश्च सर्वे सर्वस्वदक्षिणाः ॥ शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७.२,२६.७॥
तस्मात् तपांसि यज्ञान् च सर्वे सर्व-स्व-दक्षिणाः ॥ शिव-मूर्ति-अर्चनस्य एते कोटि-अंशेन अपि नो समाः ॥ ७।२,२६।७॥
tasmāt tapāṃsi yajñān ca sarve sarva-sva-dakṣiṇāḥ .. śiva-mūrti-arcanasya ete koṭi-aṃśena api no samāḥ .. 7.2,26.7..
बद्धो वाप्यथ मुक्तो वा पश्चात्पञ्चाक्षरेण चेत् ॥ पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ७.२,२६.८॥
बद्धः वा अपि अथ मुक्तः वा पश्चात् पञ्च-अक्षरेण चेद् ॥ पूजयन् मुच्यते भक्तः न अत्र कार्या विचारणा ॥ ७।२,२६।८॥
baddhaḥ vā api atha muktaḥ vā paścāt pañca-akṣareṇa ced .. pūjayan mucyate bhaktaḥ na atra kāryā vicāraṇā .. 7.2,26.8..
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ॥ यः सकृत्पतितो वापिमूढो वा मुच्यते नरः ॥ ७.२,२६.९॥
अरुद्रः वा स रुद्रः वा सूक्तेन शिवम् अर्चयेत् ॥ यः सकृत् पतितः वा अपि मूढः वा मुच्यते नरः ॥ ७।२,२६।९॥
arudraḥ vā sa rudraḥ vā sūktena śivam arcayet .. yaḥ sakṛt patitaḥ vā api mūḍhaḥ vā mucyate naraḥ .. 7.2,26.9..
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ॥ शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ ७.२,२६.१०॥
षडक्षरेण वा देवम् सूक्त-मन्त्रेण पूजयेत् ॥ शिव-भक्तः जित-क्रोधः हि अलब्धः लब्धः एव च ॥ ७।२,२६।१०॥
ṣaḍakṣareṇa vā devam sūkta-mantreṇa pūjayet .. śiva-bhaktaḥ jita-krodhaḥ hi alabdhaḥ labdhaḥ eva ca .. 7.2,26.10..
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ॥ स ब्रह्मांगेन वा तेन सहंसेन विमुच्यते ॥ ७.२,२६.११॥
अलब्धात् लब्धः एव अत्र विशिष्टः न अत्र संशयः ॥ स ब्रह्म-अंगेन वा तेन स हंसेन विमुच्यते ॥ ७।२,२६।११॥
alabdhāt labdhaḥ eva atra viśiṣṭaḥ na atra saṃśayaḥ .. sa brahma-aṃgena vā tena sa haṃsena vimucyate .. 7.2,26.11..
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ ७.२,२६.१२॥
तस्मात् नित्यम् शिवम् भक्त्या सूक्त-मन्त्रेण पूजयेत् ॥ एक-कालम् द्वि-कालम् वा त्रि-कालम् नित्यम् एव वा ॥ ७।२,२६।१२॥
tasmāt nityam śivam bhaktyā sūkta-mantreṇa pūjayet .. eka-kālam dvi-kālam vā tri-kālam nityam eva vā .. 7.2,26.12..
ये ऽर्चयंति महादेवं विज्ञेयास्ते महेश्वराः ॥ ज्ञानेनात्मसहायेन नार्चितो भगवाञ्छिवः ॥ ७.२,२६.१३॥
ये अर्चयन्ति महादेवम् विज्ञेयाः ते महेश्वराः ॥ ज्ञानेन आत्म-सहायेन न अर्चितः भगवान् शिवः ॥ ७।२,२६।१३॥
ye arcayanti mahādevam vijñeyāḥ te maheśvarāḥ .. jñānena ātma-sahāyena na arcitaḥ bhagavān śivaḥ .. 7.2,26.13..
स चिरं संसरत्यस्मिन्संसारे दुःखसागरे ॥ दुर्ल्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ ७.२,२६.१४॥
स चिरम् संसरति अस्मिन् संसारे दुःख-सागरे ॥ दुर्ल्लभम् प्राप्य मानुष्यम् मूढः ना अर्चयते शिवम् ॥ ७।२,२६।१४॥
sa ciram saṃsarati asmin saṃsāre duḥkha-sāgare .. durllabham prāpya mānuṣyam mūḍhaḥ nā arcayate śivam .. 7.2,26.14..
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ॥ दुर्ल्लभं प्राप्य मानुष्यं ये ऽर्चयन्ति पिनाकिनम् ॥ ७.२,२६.१५॥
निष्फलम् तस्य तत् जन्म मोक्षाय न भवेत् यतस् ॥ दुर्ल्लभम् प्राप्य मानुष्यम् ये अर्चयन्ति पिनाकिनम् ॥ ७।२,२६।१५॥
niṣphalam tasya tat janma mokṣāya na bhavet yatas .. durllabham prāpya mānuṣyam ye arcayanti pinākinam .. 7.2,26.15..
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ॥ भवभक्तिपरा ये च भवप्रणतचेतसः ॥ ७.२,२६.१६॥
तेषाम् हि सफलम् जन्म कृतार्थाः ते नर-उत्तमाः ॥ भव-भक्ति-पराः ये च भव-प्रणत-चेतसः ॥ ७।२,२६।१६॥
teṣām hi saphalam janma kṛtārthāḥ te nara-uttamāḥ .. bhava-bhakti-parāḥ ye ca bhava-praṇata-cetasaḥ .. 7.2,26.16..
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ॥ भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ ७.२,२६.१७॥
भव-संस्मरण-उद्युक्ताः न ते दुःखस्य भागिनः ॥ भवनानि मनोज्ञानि विभ्रम-आभरणाः स्त्रियः ॥ ७।२,२६।१७॥
bhava-saṃsmaraṇa-udyuktāḥ na te duḥkhasya bhāginaḥ .. bhavanāni manojñāni vibhrama-ābharaṇāḥ striyaḥ .. 7.2,26.17..
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ॥ ये वाञ्छन्ति महाभोगान्राज्यं च त्रिदशालये ॥ ७.२,२६.१८॥
धनम् च अतृप्ति-पर्यन्तम् शिव-पूजा-विधेः फलम् ॥ ये वाञ्छन्ति महा-भोगान् राज्यम् च त्रिदशालये ॥ ७।२,२६।१८॥
dhanam ca atṛpti-paryantam śiva-pūjā-vidheḥ phalam .. ye vāñchanti mahā-bhogān rājyam ca tridaśālaye .. 7.2,26.18..
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ॥ सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ ७.२,२६.१९॥
ते वाञ्छन्ति सदा कालम् हरस्य चरण-अम्बुजम् ॥ सौभाग्यम् कान्तिमत् रूपम् सत्त्वम् त्याग-आर्द्र-भाव-ता ॥ ७।२,२६।१९॥
te vāñchanti sadā kālam harasya caraṇa-ambujam .. saubhāgyam kāntimat rūpam sattvam tyāga-ārdra-bhāva-tā .. 7.2,26.19..
शौर्यं वै जगति ख्यातिश्शिवमर्चयतो भवेत् ॥ तस्मात्सर्वं परित्यज्य शिवैकाहितमानसः ॥ ७.२,२६.२०॥
शौर्यम् वै जगति ख्यातिः शिवम् अर्चयतः भवेत् ॥ तस्मात् सर्वम् परित्यज्य शिव-एक-आहित-मानसः ॥ ७।२,२६।२०॥
śauryam vai jagati khyātiḥ śivam arcayataḥ bhavet .. tasmāt sarvam parityajya śiva-eka-āhita-mānasaḥ .. 7.2,26.20..
शिवपूजाविधिं कुर्याद्यदीच्छेच्छिवमात्मनः ॥ त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ ७.२,२६.२१॥
शिव-पूजा-विधिम् कुर्यात् यदि इच्छेत् शिवम् आत्मनः ॥ त्वरितम् जीवितम् याति त्वरितम् याति यौवनम् ॥ ७।२,२६।२१॥
śiva-pūjā-vidhim kuryāt yadi icchet śivam ātmanaḥ .. tvaritam jīvitam yāti tvaritam yāti yauvanam .. 7.2,26.21..
त्वरितं व्याधिरभ्येति तस्मात्पूज्यः पिनाकधृक् ॥ यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ ७.२,२६.२२॥
त्वरितम् व्याधिः अभ्येति तस्मात् पूज्यः पिनाकधृक् ॥ यावत् न आयाति मरणम् यावत् न आक्रमते जरा ॥ ७।२,२६।२२॥
tvaritam vyādhiḥ abhyeti tasmāt pūjyaḥ pinākadhṛk .. yāvat na āyāti maraṇam yāvat na ākramate jarā .. 7.2,26.22..
यावन्नेन्द्रियवैकल्यं तावत्पूजय शंकरम् ॥ न शिवार्चनतुल्यो ऽस्ति धर्मो ऽन्यो भुवनत्रये ॥ ७.२,२६.२३॥
यावत् न इन्द्रिय-वैकल्यम् तावत् पूजय शंकरम् ॥ न शिव-अर्चन-तुल्यः अस्ति धर्मः अन्यः भुवनत्रये ॥ ७।२,२६।२३॥
yāvat na indriya-vaikalyam tāvat pūjaya śaṃkaram .. na śiva-arcana-tulyaḥ asti dharmaḥ anyaḥ bhuvanatraye .. 7.2,26.23..
इति विज्ञाय यत्नेन पूजनीयस्सदाशिवः ॥ द्वारयागं जवनिकां परिवारबलिक्रियाम् ॥ ७.२,२६.२४॥
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ॥ द्वार-यागम् जवनिकाम् परिवार-बलि-क्रियाम् ॥ ७।२,२६।२४॥
iti vijñāya yatnena pūjanīyaḥ sadāśivaḥ .. dvāra-yāgam javanikām parivāra-bali-kriyām .. 7.2,26.24..
नित्योत्सवं च कुर्वीत प्रसादे यदि पूजयेत् ॥ हविर्निवेदनादूर्ध्वं स्वयं चानुचरो ऽपि वा ॥ ७.२,२६.२५॥
नित्य-उत्सवम् च कुर्वीत प्रसादे यदि पूजयेत् ॥ हविः-निवेदनात् ऊर्ध्वम् स्वयम् च अनुचरः अपि वा ॥ ७।२,२६।२५॥
nitya-utsavam ca kurvīta prasāde yadi pūjayet .. haviḥ-nivedanāt ūrdhvam svayam ca anucaraḥ api vā .. 7.2,26.25..
प्रसादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ॥ निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ ७.२,२६.२६॥
प्रसाद-परिवारेभ्यः बलिम् दद्यात् यथाक्रमम् ॥ निर्गम्य सह वादित्रैः तद्-आशा-अभिमुखः स्थितः ॥ ७।२,२६।२६॥
prasāda-parivārebhyaḥ balim dadyāt yathākramam .. nirgamya saha vāditraiḥ tad-āśā-abhimukhaḥ sthitaḥ .. 7.2,26.26..
पुष्पं धूपं च दीपञ्च दद्यादन्नं जलैः सह ॥ ततो दद्यान्महापीठे तिष्ठन्बलिमुदङ्मुखः ॥ ७.२,२६.२७॥
पुष्पम् धूपम् च दीपम् च दद्यात् अन्नम् जलैः सह ॥ ततस् दद्यात् महा-पीठे तिष्ठन् बलिम् उदक्-मुखः ॥ ७।२,२६।२७॥
puṣpam dhūpam ca dīpam ca dadyāt annam jalaiḥ saha .. tatas dadyāt mahā-pīṭhe tiṣṭhan balim udak-mukhaḥ .. 7.2,26.27..
ततो निवेदितं देवे यत्तदन्नादिकं पुरा ॥ तत्सर्वं सावशेषं वा चण्डाय विनिवेदयेत् ॥ ७.२,२६.२८॥
ततस् निवेदितम् देवे यत् तत् अन्न-आदिकम् पुरा ॥ तत् सर्वम् स अवशेषम् वा चण्डाय विनिवेदयेत् ॥ ७।२,२६।२८॥
tatas niveditam deve yat tat anna-ādikam purā .. tat sarvam sa avaśeṣam vā caṇḍāya vinivedayet .. 7.2,26.28..
हुत्वा च विधिवत्पश्चात्पूजाशेषं समापयेत् ॥ कृत्वा प्रयोगं विधिवद्यावन्मन्त्रं जपं ततः ॥ ७.२,२६.२९॥
हुत्वा च विधिवत् पश्चात् पूजा-शेषम् समापयेत् ॥ कृत्वा प्रयोगम् विधिवत् यावत् मन्त्रम् जपम् ततस् ॥ ७।२,२६।२९॥
hutvā ca vidhivat paścāt pūjā-śeṣam samāpayet .. kṛtvā prayogam vidhivat yāvat mantram japam tatas .. 7.2,26.29..
नित्योत्सवं प्रकुर्वीत यथोक्तं शिवशासने ॥ विपुले तैजसे पात्रे रक्तपद्मोपशोभिते ॥ ७.२,२६.३०॥
नित्य-उत्सवम् प्रकुर्वीत यथा उक्तम् शिव-शासने ॥ विपुले तैजसे पात्रे रक्त-पद्म-उपशोभिते ॥ ७।२,२६।३०॥
nitya-utsavam prakurvīta yathā uktam śiva-śāsane .. vipule taijase pātre rakta-padma-upaśobhite .. 7.2,26.30..
अस्त्रं पाशुपतं दिव्यं तत्रावाह्य समर्चयेत् ॥ शिवस्यारोप्यः तत्पात्रं द्विजस्यालंकृतस्य च ॥ ७.२,२६.३१॥
अस्त्रम् पाशुपतम् दिव्यम् तत्र आवाह्य समर्चयेत् ॥ शिवस्य आरोप्यः तत् पात्रम् द्विजस्य अलंकृतस्य च ॥ ७।२,२६।३१॥
astram pāśupatam divyam tatra āvāhya samarcayet .. śivasya āropyaḥ tat pātram dvijasya alaṃkṛtasya ca .. 7.2,26.31..
न्यस्तास्त्रवपुषा तेन दीप्तयष्टिधरस्य च ॥ प्रासादपरिवारेभ्यो बहिर्मंगलनिःस्वनैः ॥ ७.२,२६.३२॥
न्यस्त-अस्त्र-वपुषा तेन दीप्त-यष्टि-धरस्य च ॥ प्रासाद-परिवारेभ्यः बहिस् मंगल-निःस्वनैः ॥ ७।२,२६।३२॥
nyasta-astra-vapuṣā tena dīpta-yaṣṭi-dharasya ca .. prāsāda-parivārebhyaḥ bahis maṃgala-niḥsvanaiḥ .. 7.2,26.32..
नृत्यगेयादिभिश्चैव सह दीपध्वजादिभिः ॥ प्रदक्षिणत्रयं कृत्वा न द्रुतं चाविलम्बितम् ॥ ७.२,२६.३३॥
नृत्य-गेय-आदिभिः च एव सह दीपध्वज-आदिभिः ॥ प्रदक्षिण-त्रयम् कृत्वा न द्रुतम् च अविलम्बितम् ॥ ७।२,२६।३३॥
nṛtya-geya-ādibhiḥ ca eva saha dīpadhvaja-ādibhiḥ .. pradakṣiṇa-trayam kṛtvā na drutam ca avilambitam .. 7.2,26.33..
महापीठं समावृत्य त्रिःप्रदक्षिणयोगतः ॥ पुनः प्रविष्टो द्वारस्थो यजमानः कृताञ्जलिः ॥ ७.२,२६.३४॥
महा-पीठम् समावृत्य त्रिस् प्रदक्षिण-योगतः ॥ पुनर् प्रविष्टः द्वार-स्थः यजमानः कृताञ्जलिः ॥ ७।२,२६।३४॥
mahā-pīṭham samāvṛtya tris pradakṣiṇa-yogataḥ .. punar praviṣṭaḥ dvāra-sthaḥ yajamānaḥ kṛtāñjaliḥ .. 7.2,26.34..
आदायाभ्यंतरं नीत्वा ह्यस्त्रमुद्वासयेत्ततः ॥ प्रदक्षिणादिकं कृत्वा यथापूर्वोदितं क्रमात् ॥ ७.२,२६.३४॥
आदाय अभ्यंतरम् नीत्वा हि अस्त्रम् उद्वासयेत् ततस् ॥ प्रदक्षिण-आदिकम् कृत्वा यथापूर्व-उदितम् क्रमात् ॥ ७।२,२६।३४॥
ādāya abhyaṃtaram nītvā hi astram udvāsayet tatas .. pradakṣiṇa-ādikam kṛtvā yathāpūrva-uditam kramāt .. 7.2,26.34..
आदाय चाष्टपुष्पाणि पूजामथ समापयेत् ॥ ७.२,२६.३५॥
आदाय च अष्ट-पुष्पाणि पूजाम् अथ समापयेत् ॥ ७।२,२६।३५॥
ādāya ca aṣṭa-puṣpāṇi pūjām atha samāpayet .. 7.2,26.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे सांगोपांगपूजाविधानवर्णनं नाम षड्विंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे सांगोपांगपूजाविधानवर्णनम् नाम षड्विंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe sāṃgopāṃgapūjāvidhānavarṇanam nāma ṣaḍviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In