| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थंडिले ऽपि वा ॥ वेद्यां वा ह्यायसे पात्रे मृन्मये वा नवे शुभे ॥ ७.२,२७.१॥
अथ अग्नि-कार्यम् वक्ष्यामि कुण्डे वा स्थंडिले अपि वा ॥ वेद्याम् वा हि आयसे पात्रे मृद्-मये वा नवे शुभे ॥ ७।२,२७।१॥
atha agni-kāryam vakṣyāmi kuṇḍe vā sthaṃḍile api vā .. vedyām vā hi āyase pātre mṛd-maye vā nave śubhe .. 7.2,27.1..
आधायाग्निं विधानेन संस्कृत्य च ततः परम् ॥ तत्राराध्य महादेवं होमकर्म समाचरेत् ॥ ७.२,२७.२॥
आधाय अग्निम् विधानेन संस्कृत्य च ततस् परम् ॥ तत्र आराध्य महादेवम् होम-कर्म समाचरेत् ॥ ७।२,२७।२॥
ādhāya agnim vidhānena saṃskṛtya ca tatas param .. tatra ārādhya mahādevam homa-karma samācaret .. 7.2,27.2..
कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ॥ वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ७.२,२७.३॥
कुण्डम् द्वि-हस्त-मानम् वा हस्त-मात्रम् अथ अपि वा ॥ वृत्तम् वा चतुर्-अस्रम् वा कुर्यात् वेदिम् च मण्डलम् ॥ ७।२,२७।३॥
kuṇḍam dvi-hasta-mānam vā hasta-mātram atha api vā .. vṛttam vā catur-asram vā kuryāt vedim ca maṇḍalam .. 7.2,27.3..
कुण्डं विस्तारवन्निम्नं तन्मध्ये ऽष्टदलाम्बुजम् ॥ चतुरंगुलमुत्सेधं तस्य द्व्यंगुलमेव वा ॥ ७.२,२७.४॥
कुण्डम् विस्तारवत् निम्नम् तद्-मध्ये अष्ट-दल-अम्बुजम् ॥ चतुर्-अंगुलम् उत्सेधम् तस्य द्वि-अंगुलम् एव वा ॥ ७।२,२७।४॥
kuṇḍam vistāravat nimnam tad-madhye aṣṭa-dala-ambujam .. catur-aṃgulam utsedham tasya dvi-aṃgulam eva vā .. 7.2,27.4..
वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ॥ मध्यं च मध्यमांगुल्या मध्यमोत्तमपर्वणोः ॥ ७.२,२७.५॥
वितस्ति-द्विगुण-उन्नत्या नाभिमन्तः प्रचक्षते ॥ मध्यम् च मध्यमांगुल्याः अंगुल्याः मध्यम-उत्तम-पर्वणोः ॥ ७।२,२७।५॥
vitasti-dviguṇa-unnatyā nābhimantaḥ pracakṣate .. madhyam ca madhyamāṃgulyāḥ aṃgulyāḥ madhyama-uttama-parvaṇoḥ .. 7.2,27.5..
अंगुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ॥ मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ७.२,२७.६॥
अंगुलैः कथ्यते सद्भिः चतुर्विंशतिभिः करः ॥ मेखलानाम् त्रयम् वा अपि द्वयम् एकम् अथ अपि वा ॥ ७।२,२७।६॥
aṃgulaiḥ kathyate sadbhiḥ caturviṃśatibhiḥ karaḥ .. mekhalānām trayam vā api dvayam ekam atha api vā .. 7.2,27.6..
यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ॥ अश्वत्थपत्रवद्योनिं गजाधारवदेव वा ॥ ७.२,२७.७॥
यथाशोभम् प्रकुर्वीत श्लक्ष्णम् इष्टम् मृदा स्थिरम् ॥ अश्वत्थ-पत्र-वत् योनिम् गज-आधार-वत् एव वा ॥ ७।२,२७।७॥
yathāśobham prakurvīta ślakṣṇam iṣṭam mṛdā sthiram .. aśvattha-patra-vat yonim gaja-ādhāra-vat eva vā .. 7.2,27.7..
मेखलामध्यतः कुर्यात्पश्चिमे दक्षिणे ऽपि वा ॥ शोभनामग्नितः किंचिन्निम्नामुन्मीलिकां शनैः ॥ ७.२,२७.८॥
मेखला-मध्यतस् कुर्यात् पश्चिमे दक्षिणे अपि वा ॥ शोभनाम् अग्नितः किंचिद् निम्नाम् उन्मीलिकाम् शनैस् ॥ ७।२,२७।८॥
mekhalā-madhyatas kuryāt paścime dakṣiṇe api vā .. śobhanām agnitaḥ kiṃcid nimnām unmīlikām śanais .. 7.2,27.8..
अग्रेण कुण्डाभिमुखीं किंचिदुत्सृज्य मेखलाम् ॥ नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ७.२,२७.९॥
अग्रेण कुण्ड-अभिमुखीम् किंचिद् उत्सृज्य मेखलाम् ॥ न उत्सेध-नियमः वेद्याः सा मार्दी वा अथ सैकती ॥ ७।२,२७।९॥
agreṇa kuṇḍa-abhimukhīm kiṃcid utsṛjya mekhalām .. na utsedha-niyamaḥ vedyāḥ sā mārdī vā atha saikatī .. 7.2,27.9..
मंडलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ॥ कुण्डं च मृन्मयं वेदिमालिपेद्गोमयांबुना ॥ ७.२,२७.१०॥
मंडलम् गो-शकृत्-तोयैः मानम् पात्रस्य न उदितम् ॥ कुण्डम् च मृद्-मयम् वेदिम् आलिपेत् गोमय-अंबुना ॥ ७।२,२७।१०॥
maṃḍalam go-śakṛt-toyaiḥ mānam pātrasya na uditam .. kuṇḍam ca mṛd-mayam vedim ālipet gomaya-aṃbunā .. 7.2,27.10..
प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदंभसा ॥ स्वसूत्रोक्तप्रकारेण कुण्डादौ विल्लिखेत्ततः ॥ ७.२,२७.११॥
प्रक्षाल्य तापयेत् पात्रम् प्रोक्षयेत् अन्यत् अंभसा ॥ स्व-सूत्र-उक्त-प्रकारेण कुण्ड-आदौ विल्लिखेत् ततस् ॥ ७।२,२७।११॥
prakṣālya tāpayet pātram prokṣayet anyat aṃbhasā .. sva-sūtra-ukta-prakāreṇa kuṇḍa-ādau villikhet tatas .. 7.2,27.11..
संप्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ॥ अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ ७.२,२७.१२॥
संप्रोक्ष्य कल्पयेत् दर्भैः पुष्पैः वा वह्नि-विष्टरम् ॥ अर्चन-अर्थम् च होम-अर्थम् सर्व-द्रव्याणि साधयेत् ॥ ७।२,२७।१२॥
saṃprokṣya kalpayet darbhaiḥ puṣpaiḥ vā vahni-viṣṭaram .. arcana-artham ca homa-artham sarva-dravyāṇi sādhayet .. 7.2,27.12..
प्रक्षाल्यक्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ ७.२,२७.१३॥
प्रक्षाल्य-क्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ॥ मणि-जम् काष्ठ-जम् वा अथ श्रोत्रिय-आगार-सम्भवम् ॥ ७।२,२७।१३॥
prakṣālya-kṣālanīyāni prokṣaṇyā prokṣya śodhayet .. maṇi-jam kāṣṭha-jam vā atha śrotriya-āgāra-sambhavam .. 7.2,27.13..
अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ॥ त्रिः प्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ ७.२,२७.१४॥
अन्यम् वा अभ्यर्हितम् वह्निम् ततस् स आधारम् आनयेत् ॥ त्रिस् प्रदक्षिणम् आवृत्य कुण्ड-आदेः उपरि क्रमात् ॥ ७।२,२७।१४॥
anyam vā abhyarhitam vahnim tatas sa ādhāram ānayet .. tris pradakṣiṇam āvṛtya kuṇḍa-ādeḥ upari kramāt .. 7.2,27.14..
वह्निबीजं समुच्चार्य त्वादधीताग्निमासने ॥ योनिमार्गेण वा तद्वदात्मनः संमुखेन वा ॥ ७.२,२७.१५॥
वह्निबीजम् समुच्चार्य तु आदधीत अग्निम् आसने ॥ योनि-मार्गेण वा तद्वत् आत्मनः संमुखेन वा ॥ ७।२,२७।१५॥
vahnibījam samuccārya tu ādadhīta agnim āsane .. yoni-mārgeṇa vā tadvat ātmanaḥ saṃmukhena vā .. 7.2,27.15..
नियोगः प्रदेश सर्वं कुंडं कुर्याद्विचक्षणः ॥ स्वनाभ्यंतःस्थितं वह्निं तद्रंध्राद्विस्फुलिंगवद् ॥ ७.२,२७.१६॥
नियोगः प्रदेश सर्वम् कुंडम् कुर्यात् विचक्षणः ॥ स्वनाभि-अन्तर् स्थितम् वह्निम् तद्-रंध्रात् विस्फुलिंग-वत् ॥ ७।२,२७।१६॥
niyogaḥ pradeśa sarvam kuṃḍam kuryāt vicakṣaṇaḥ .. svanābhi-antar sthitam vahnim tad-raṃdhrāt visphuliṃga-vat .. 7.2,27.16..
निर्गम्य पावके बाह्ये लीनं बिंबाकृति स्मरेत् ॥ आज्यसंस्कारपर्यंतमन्वाधानपुरस्सरम् ॥ ७.२,२७.१७॥
निर्गम्य पावके बाह्ये लीनम् बिंब-आकृति स्मरेत् ॥ आज्य-संस्कार-पर्यन्तम् अन्वाधान-पुरस्सरम् ॥ ७।२,२७।१७॥
nirgamya pāvake bāhye līnam biṃba-ākṛti smaret .. ājya-saṃskāra-paryantam anvādhāna-purassaram .. 7.2,27.17..
स्वसूत्रोक्तक्रमात्कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ ७.२,२७.१८॥
स्व-सूत्र-उक्त-क्रमात् कुर्यात् मूलमन्त्रेण मन्त्र-विद् ॥ शिव-मूर्तिम् समभ्यर्च्य ततस् दक्षिण-पार्श्वतः ॥ ७।२,२७।१८॥
sva-sūtra-ukta-kramāt kuryāt mūlamantreṇa mantra-vid .. śiva-mūrtim samabhyarcya tatas dakṣiṇa-pārśvataḥ .. 7.2,27.18..
न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ॥ स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ ७.२,२७.१९॥
न्यस्य मन्त्रम् घृते मुद्राम् दर्शयेत् धेनु-संज्ञिताम् ॥ स्रुच्-स्रुवौ तैजसौ ग्राह्यौ न कांस्य-आयस-सैसकौ ॥ ७।२,२७।१९॥
nyasya mantram ghṛte mudrām darśayet dhenu-saṃjñitām .. sruc-sruvau taijasau grāhyau na kāṃsya-āyasa-saisakau .. 7.2,27.19..
यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ॥ पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ ७.२,२७.२०॥
यज्ञ-दारु-मयौ वा अपि स्मार्तौ वा शिल्प-सम्मतौ ॥ पर्णे वा ब्रह्मवृक्ष-आदेः अच्छिद्रे मध्ये उत्थिते ॥ ७।२,२७।२०॥
yajña-dāru-mayau vā api smārtau vā śilpa-sammatau .. parṇe vā brahmavṛkṣa-ādeḥ acchidre madhye utthite .. 7.2,27.20..
संसृज्य दर्भैस्तौ वह्नौ संताप्य प्रोक्षयेत्पुनः ॥ पारार्षर्च्यस्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ ७.२,२७.२१॥
संसृज्य दर्भैः तौ वह्नौ संताप्य प्रोक्षयेत् पुनर् ॥ पार-आर्ष-ऋच्य-स्व-सूत्र-उक्त-क्रमेण शिव-पूर्वकैः ॥ ७।२,२७।२१॥
saṃsṛjya darbhaiḥ tau vahnau saṃtāpya prokṣayet punar .. pāra-ārṣa-ṛcya-sva-sūtra-ukta-krameṇa śiva-pūrvakaiḥ .. 7.2,27.21..
जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ॥ भ्रुंस्तुंब्रुश्रुं क्रमेणैव पुंड्रंद्रमित्यतः परम् ॥ ७.२,२७.२२॥
जुहुयात् अष्टभिः बीजैः अग्नि-संस्कार-सिद्धये ॥ भ्रुं स्तुं ब्रुश्रुम् क्रमेण एव पुं ड्रं द्रम् इति अतस् परम् ॥ ७।२,२७।२२॥
juhuyāt aṣṭabhiḥ bījaiḥ agni-saṃskāra-siddhaye .. bhruṃ stuṃ bruśrum krameṇa eva puṃ ḍraṃ dram iti atas param .. 7.2,27.22..
बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ॥ त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ ७.२,२७.२३॥
बीजानि सप्त सप्तानाम् जिह्वानाम् अनुपूर्वशस् ॥ त्रि-शिखा मध्यमा जिह्वा बहु-रूप-समाह्वया ॥ ७।२,२७।२३॥
bījāni sapta saptānām jihvānām anupūrvaśas .. tri-śikhā madhyamā jihvā bahu-rūpa-samāhvayā .. 7.2,27.23..
रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ॥ अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ ७.२,२७.२४॥
रक्ता आग्नेयी नैरृती च कृष्णा अन्या सुप्रभा मता ॥ ॥ ७।२,२७।२४॥
raktā āgneyī nairṛtī ca kṛṣṇā anyā suprabhā matā .. .. 7.2,27.24..
स्वबीजानन्तरं वाच्या स्वाहांतञ्च यथाक्रमम् ॥ जिह्वामंत्रैस्तु तैर्हुत्वाज्यं जिह्वास्त्वेकैकश क्रमात् ॥ ७.२,२७.२५॥
स्व-बीज-अनन्तरम् वाच्या स्वाहा-अंतः च यथाक्रमम् ॥ जिह्वा-मंत्रैः तु तैः हुत्वा आज्यम् जिह्वाः तु एकैकशस् क्रमात् ॥ ७।२,२७।२५॥
sva-bīja-anantaram vācyā svāhā-aṃtaḥ ca yathākramam .. jihvā-maṃtraiḥ tu taiḥ hutvā ājyam jihvāḥ tu ekaikaśas kramāt .. 7.2,27.25..
रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ॥ सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ ७.२,२७.२६॥
रं वह्नया इति स्वाहा इति मध्ये हुत्वा आहुति-त्रयम् ॥ सर्पिषा वा समिद्भिः वा परिषेचनम् आचरेत् ॥ ७।२,२७।२६॥
raṃ vahnayā iti svāhā iti madhye hutvā āhuti-trayam .. sarpiṣā vā samidbhiḥ vā pariṣecanam ācaret .. 7.2,27.26..
एवं कृते शिवाग्निः स्यात्स्मरेत्तत्र शिवासनम् ॥ तत्रावाह्य यजेद्देवमर्धनारीश्वरं शिवम् ॥ ७.२,२७.२७॥
एवम् कृते शिव-अग्निः स्यात् स्मरेत् तत्र शिव-आसनम् ॥ तत्र आवाह्य यजेत् देवम् अर्धनारीश्वरम् शिवम् ॥ ७।२,२७।२७॥
evam kṛte śiva-agniḥ syāt smaret tatra śiva-āsanam .. tatra āvāhya yajet devam ardhanārīśvaram śivam .. 7.2,27.27..
ताः पालाश्यः परा वापि याज्ञिया द्वादशांगुलाः ॥ अवक्रा न स्वयं शुष्कास्सत्वचो निर्व्रणाः समाः ॥ ७.२,२७.२८॥
ताः पालाश्यः पराः वा अपि याज्ञियाः द्वादश-अंगुलाः ॥ अवक्राः न स्वयम् शुष्काः स त्वचः निर्व्रणाः समाः ॥ ७।२,२७।२८॥
tāḥ pālāśyaḥ parāḥ vā api yājñiyāḥ dvādaśa-aṃgulāḥ .. avakrāḥ na svayam śuṣkāḥ sa tvacaḥ nirvraṇāḥ samāḥ .. 7.2,27.28..
दशांगुला वा विहिताः कनिष्ठांगुलिसंमिताः ॥ प्रादेशमात्रा वालाभे होतव्याः सकला अपि ॥ ७.२,२७.२९॥
दश-अंगुलाः वा विहिताः कनिष्ठा-अंगुलि-संमिताः ॥ प्रादेश-मात्राः वा अलाभे होतव्याः सकलाः अपि ॥ ७।२,२७।२९॥
daśa-aṃgulāḥ vā vihitāḥ kaniṣṭhā-aṃguli-saṃmitāḥ .. prādeśa-mātrāḥ vā alābhe hotavyāḥ sakalāḥ api .. 7.2,27.29..
दूर्वापत्रसमाकारां चतुरंगुलमायताम् ॥ दद्यादाज्याहुतिं पश्चादन्नमक्षप्रमाणतः ॥ ७.२,२७.३०॥
दूर्वा-पत्र-सम-आकाराम् चतुर्-अंगुलम् आयताम् ॥ दद्यात् आज्य-आहुतिम् पश्चात् अन्नम् अक्ष-प्रमाणतः ॥ ७।२,२७।३०॥
dūrvā-patra-sama-ākārām catur-aṃgulam āyatām .. dadyāt ājya-āhutim paścāt annam akṣa-pramāṇataḥ .. 7.2,27.30..
लाजांस्तथा सर्षपांश्च यवांश्चैव तिलांस्तथा ॥ सर्पिषाक्तानि भक्ष्याणि लेह्यचोष्याणि सम्भवे ॥ ७.२,२७.३१॥
लाजान् तथा सर्षपान् च यवान् च एव तिलान् तथा ॥ सर्पिषा अक्तानि भक्ष्याणि लेह्य-चोष्याणि सम्भवे ॥ ७।२,२७।३१॥
lājān tathā sarṣapān ca yavān ca eva tilān tathā .. sarpiṣā aktāni bhakṣyāṇi lehya-coṣyāṇi sambhave .. 7.2,27.31..
दशैवाहुतयस्तत्र पञ्च वा त्रितयं च वा ॥ होतव्याः शक्तितो दद्यादेकमेवाथ वाहुतिम् ॥ ७.२,२७.३२॥
दश एव आहुतयः तत्र पञ्च वा त्रितयम् च वा ॥ होतव्याः शक्तितस् दद्यात् एकम् एव अथ वा आहुतिम् ॥ ७।२,२७।३२॥
daśa eva āhutayaḥ tatra pañca vā tritayam ca vā .. hotavyāḥ śaktitas dadyāt ekam eva atha vā āhutim .. 7.2,27.32..
श्रुवेणाज्यं समित्याद्यास्रुचाशेषात्करेण वा ॥ तत्र दिव्येन होतव्यं तीर्थेनार्षेण वा तथा ॥ ७.२,२७.३३॥
श्रुवेण आज्यम् समित्य आद्या आ स्रुचा अशेषात् करेण वा ॥ तत्र दिव्येन होतव्यम् तीर्थेन आर्षेण वा तथा ॥ ७।२,२७।३३॥
śruveṇa ājyam samitya ādyā ā srucā aśeṣāt kareṇa vā .. tatra divyena hotavyam tīrthena ārṣeṇa vā tathā .. 7.2,27.33..
द्रव्येणैकेन वा ऽलाभे जुहुयाच्छ्रद्धया पुनः ॥ प्रायश्चित्ताय जुहुयान्मंत्रयित्वाहुतित्रयम् ॥ ७.२,२७.३४॥
द्रव्येण एकेन वा अलाभे जुहुयात् श्रद्धया पुनर् ॥ प्रायश्चित्ताय जुहुयात् मंत्रयित्वा आहुति-त्रयम् ॥ ७।२,२७।३४॥
dravyeṇa ekena vā alābhe juhuyāt śraddhayā punar .. prāyaścittāya juhuyāt maṃtrayitvā āhuti-trayam .. 7.2,27.34..
ततो होमविशिष्टेन घृतेनापूर्य वै स्रुचम् ॥ निधाय पुष्पं तस्याग्रे श्रुवेणाधोमुखेन ताम् ॥ ७.२,२७.३५॥
ततस् होम-विशिष्टेन घृतेन आपूर्य वै स्रुचम् ॥ निधाय पुष्पम् तस्य अग्रे श्रुवेण अधोमुखेन ताम् ॥ ७।२,२७।३५॥
tatas homa-viśiṣṭena ghṛtena āpūrya vai srucam .. nidhāya puṣpam tasya agre śruveṇa adhomukhena tām .. 7.2,27.35..
सदर्भेन समाच्छाद्य मूलेनांजलिनोत्थितः ॥ वौषडंतेन जुहुयाद्धारां तु यवसंमिताम् ॥ ७.२,२७.३६॥
स दर्भेन समाच्छाद्य मूलेन अंजलिना उत्थितः ॥ वौषट् अंतेन जुहुयात् धाराम् तु यव-संमिताम् ॥ ७।२,२७।३६॥
sa darbhena samācchādya mūlena aṃjalinā utthitaḥ .. vauṣaṭ aṃtena juhuyāt dhārām tu yava-saṃmitām .. 7.2,27.36..
इत्थं पूर्णाहुतिं कृत्वा परिषिंचेच्च पूर्ववत् ॥ तत उद्वास्य देवेशं गोपयेत्तु हुताशनम् ॥ ७.२,२७.३७॥
इत्थम् पूर्णाहुतिम् कृत्वा परिषिंचेत् च पूर्ववत् ॥ ततस् उद्वास्य देवेशम् गोपयेत् तु हुताशनम् ॥ ७।२,२७।३७॥
ittham pūrṇāhutim kṛtvā pariṣiṃcet ca pūrvavat .. tatas udvāsya deveśam gopayet tu hutāśanam .. 7.2,27.37..
तमप्युद्वास्य वा नाभौ यजेत्संधाय नित्यशः ॥ अथवा वह्निमानीय शिवशास्त्रोक्तवर्त्मना ॥ ७.२,२७.३८॥
तम् अपि उद्वास्य वा नाभौ यजेत् संधाय नित्यशस् ॥ अथवा वह्निम् आनीय शिव-शास्त्र-उक्त-वर्त्मना ॥ ७।२,२७।३८॥
tam api udvāsya vā nābhau yajet saṃdhāya nityaśas .. athavā vahnim ānīya śiva-śāstra-ukta-vartmanā .. 7.2,27.38..
वागीशीगर्भसंभूतं संस्कृत्य विधिवद्यजेत् ॥ अन्वाधानं पुनः कृत्वा परिधीन् परिधाय च ॥ ७.२,२७.३९॥
वागीशी-गर्भ-संभूतम् संस्कृत्य विधिवत् यजेत् ॥ अन्वाधानम् पुनर् कृत्वा परिधीन् परिधाय च ॥ ७।२,२७।३९॥
vāgīśī-garbha-saṃbhūtam saṃskṛtya vidhivat yajet .. anvādhānam punar kṛtvā paridhīn paridhāya ca .. 7.2,27.39..
पात्राणि द्वन्द्वरूपेण निक्षिप्येष्ट्वा शिवं ततः ॥ संशोध्य प्रोक्षणीपात्रं प्रोक्ष्यतानि तदंभसा ॥ ७.२,२७.४०॥
पात्राणि द्वन्द्व-रूपेण निक्षिप्य इष्ट्वा शिवम् ततस् ॥ संशोध्य प्रोक्षणी-पात्रम् प्रोक्ष्यतानि तत् अंभसा ॥ ७।२,२७।४०॥
pātrāṇi dvandva-rūpeṇa nikṣipya iṣṭvā śivam tatas .. saṃśodhya prokṣaṇī-pātram prokṣyatāni tat aṃbhasā .. 7.2,27.40..
प्रणीतापात्रमैशान्यां विन्यस्या पूरितं जलैः ॥ आज्यसंस्कारपर्यंतं कृत्वा संशोध्य स्रक्स्रुवौ ॥ ७.२,२७.४१॥
प्रणीता-पात्रम् ऐशान्याम् विन्यस्य आ पूरितम् जलैः ॥ आज्य-संस्कार-पर्यंतम् कृत्वा संशोध्य स्रज्-स्रुवौ ॥ ७।२,२७।४१॥
praṇītā-pātram aiśānyām vinyasya ā pūritam jalaiḥ .. ājya-saṃskāra-paryaṃtam kṛtvā saṃśodhya sraj-sruvau .. 7.2,27.41..
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ कृत्वा पृथक्पृथग्घुत्वा जातमग्निं विचिन्तयेत् ॥ ७.२,२७.४२॥
गर्भाधानम् पुंसवनम् सीमन्तोन्नयनम् ततस् ॥ कृत्वा पृथक् पृथक् हुत्वा जातम् अग्निम् विचिन्तयेत् ॥ ७।२,२७।४२॥
garbhādhānam puṃsavanam sīmantonnayanam tatas .. kṛtvā pṛthak pṛthak hutvā jātam agnim vicintayet .. 7.2,27.42..
त्रिपादं सप्तहस्तं च चतुःशृंगं द्विशीर्षकम् ॥ मधुपिंगं त्रिनयनं सकपर्देन्दुशेखरम् ॥ ७.२,२७.४३॥
त्रि-पादम् सप्त-हस्तम् च चतुर्-शृंगम् द्वि-शीर्षकम् ॥ मधु-पिंगम् त्रिनयनम् स कपर्द-इन्दु-शेखरम् ॥ ७।२,२७।४३॥
tri-pādam sapta-hastam ca catur-śṛṃgam dvi-śīrṣakam .. madhu-piṃgam trinayanam sa kaparda-indu-śekharam .. 7.2,27.43..
रक्तं रक्ताम्बरालेपं माल्यभूषणभूषितम् ॥ सर्वलक्षणसंपन्नं सोपवीतं त्रिमेखलम् ॥ ७.२,२७.४४॥
रक्तम् रक्त-अम्बर-आलेपम् माल्य-भूषण-भूषितम् ॥ सर्व-लक्षण-संपन्नम् स उपवीतम् त्रि-मेखलम् ॥ ७।२,२७।४४॥
raktam rakta-ambara-ālepam mālya-bhūṣaṇa-bhūṣitam .. sarva-lakṣaṇa-saṃpannam sa upavītam tri-mekhalam .. 7.2,27.44..
शक्तिमन्तं स्रुक्स्रुवौ च दधानं दक्षिणे करे ॥ तोमरं तालवृंतं च घृतपात्रं तथेतरैः ॥ ७.२,२७.४५॥
शक्तिमन्तम् स्रुच्-स्रुवौ च दधानम् दक्षिणे करे ॥ तोमरम् तालवृंतम् च घृत-पात्रम् तथा इतरैः ॥ ७।२,२७।४५॥
śaktimantam sruc-sruvau ca dadhānam dakṣiṇe kare .. tomaram tālavṛṃtam ca ghṛta-pātram tathā itaraiḥ .. 7.2,27.45..
जातं ध्यात्वैवमाकारं जातकर्म समाचरेत् ॥ नालापनयनं कृत्वा ततः संशोध्य सूतकम् ॥ ७.२,२७.४६॥
जातम् ध्यात्वा एवम् आकारम् जातकर्म समाचरेत् ॥ नाल-अपनयनम् कृत्वा ततस् संशोध्य सूतकम् ॥ ७।२,२७।४६॥
jātam dhyātvā evam ākāram jātakarma samācaret .. nāla-apanayanam kṛtvā tatas saṃśodhya sūtakam .. 7.2,27.46..
शिवाग्निरुचिनामास्य कृत्वाहुतिपुरस्सरम् ॥ पित्रोर्विसर्जनं कृत्वा चौलोपनयनादिकम् ॥ ७.२,२७.४७॥
शिव-अग्नि-रुचि-नामा अस्य कृत्वा आहुति-पुरस्सरम् ॥ पित्रोः विसर्जनम् कृत्वा चौल-उपनयन-आदिकम् ॥ ७।२,२७।४७॥
śiva-agni-ruci-nāmā asya kṛtvā āhuti-purassaram .. pitroḥ visarjanam kṛtvā caula-upanayana-ādikam .. 7.2,27.47..
अप्तोर्यामावसानान्तं कृत्वा संस्कारमस्य तु ॥ आज्यधारादिहोमं च कृत्वा स्विष्टकृतं ततः ॥ ७.२,२७.४८॥
अप्तोर्याम-अवसान-अन्तम् कृत्वा संस्कारम् अस्य तु ॥ आज्य-धारा-आदि-होमम् च कृत्वा स्विष्टकृतम् ततस् ॥ ७।२,२७।४८॥
aptoryāma-avasāna-antam kṛtvā saṃskāram asya tu .. ājya-dhārā-ādi-homam ca kṛtvā sviṣṭakṛtam tatas .. 7.2,27.48..
रमित्यनेन बीजेन परिषिंचेत्ततः परम् ॥ ब्रह्मविष्णुशिवेशानां लोकेशानां तथैव च ॥ ७.२,२७.४९॥
रं इति अनेन बीजेन परिषिंचेत् ततस् परम् ॥ ब्रह्म-विष्णु-शिव-ईशानाम् लोकेशानाम् तथा एव च ॥ ७।२,२७।४९॥
raṃ iti anena bījena pariṣiṃcet tatas param .. brahma-viṣṇu-śiva-īśānām lokeśānām tathā eva ca .. 7.2,27.49..
तदस्त्राणां च परितः कृत्वा पूजां यथाक्रमम् ॥ धूपदीपादिसिद्ध्यर्थं वह्निमुद्धृत्य कृत्यवित् ॥ ७.२,२७.५०॥
तद्-अस्त्राणाम् च परितस् कृत्वा पूजाम् यथाक्रमम् ॥ धूप-दीप-आदि-सिद्धि-अर्थम् वह्निम् उद्धृत्य कृत्य-विद् ॥ ७।२,२७।५०॥
tad-astrāṇām ca paritas kṛtvā pūjām yathākramam .. dhūpa-dīpa-ādi-siddhi-artham vahnim uddhṛtya kṛtya-vid .. 7.2,27.50..
साधयित्वाज्यपूर्वाणि द्रव्याणि पुनरेव च ॥ कल्पयित्वासनं वह्नौ तत्रावाह्य यथापुरा ॥ ७.२,२७.५१॥
साधयित्वा आज्य-पूर्वाणि द्रव्याणि पुनर् एव च ॥ कल्पयित्वा आसनम् वह्नौ तत्र आवाह्य यथा पुरा ॥ ७।२,२७।५१॥
sādhayitvā ājya-pūrvāṇi dravyāṇi punar eva ca .. kalpayitvā āsanam vahnau tatra āvāhya yathā purā .. 7.2,27.51..
संपूज्य देवं देवीं च ततः पूर्णांतमाचरेत् ॥ अथ वा स्वाश्रमोक्तं तु वह्निकर्म शिवार्पणम् ॥ ७.२,२७.५२॥
संपूज्य देवम् देवीम् च ततस् पूर्ण-अंतम् आचरेत् ॥ अथ वा स्व-आश्रम-उक्तम् तु वह्नि-कर्म शिव-अर्पणम् ॥ ७।२,२७।५२॥
saṃpūjya devam devīm ca tatas pūrṇa-aṃtam ācaret .. atha vā sva-āśrama-uktam tu vahni-karma śiva-arpaṇam .. 7.2,27.52..
बुद्ध्वा शिवाश्रमी कुर्यान्न च तत्रापरो विधिः ॥ शिवाग्नेर्भस्मसंग्राह्यमग्निहोत्रोद्भवं तु वा ॥ ७.२,२७.५३॥
बुद्ध्वा शिव-आश्रमी कुर्यात् न च तत्र अपरः विधिः ॥ शिव-अग्नेः भस्म-संग्राह्यम् अग्निहोत्र-उद्भवम् तु वा ॥ ७।२,२७।५३॥
buddhvā śiva-āśramī kuryāt na ca tatra aparaḥ vidhiḥ .. śiva-agneḥ bhasma-saṃgrāhyam agnihotra-udbhavam tu vā .. 7.2,27.53..
वैवाहोग्निभवं वापि पक्वं शुचि सुगंधि च ॥ कपिलायाः शकृच्छस्तं गृहीतं गगने पतत् ॥ ७.२,२७.५४॥
वैवाह-उग्नि-भवम् वा अपि पक्वम् शुचि सुगंधि च ॥ कपिलायाः शकृत् शस्तम् गृहीतम् गगने पतत् ॥ ७।२,२७।५४॥
vaivāha-ugni-bhavam vā api pakvam śuci sugaṃdhi ca .. kapilāyāḥ śakṛt śastam gṛhītam gagane patat .. 7.2,27.54..
न क्लिन्नं नातिकठिनं न दुर्गन्धं न शोषितम् ॥ उपर्यधः परित्यज्य गृह्णीयात्पतितं यदि ॥ ७.२,२७.५५॥
न क्लिन्नम् न अति कठिनम् न दुर्गन्धम् न शोषितम् ॥ उपरि अधस् परित्यज्य गृह्णीयात् पतितम् यदि ॥ ७।२,२७।५५॥
na klinnam na ati kaṭhinam na durgandham na śoṣitam .. upari adhas parityajya gṛhṇīyāt patitam yadi .. 7.2,27.55..
पिंडीकृत्य शिवाग्न्यादौ तत्क्षिपेन्मूलमंत्रतः ॥ अपक्वमतिपाक्वं च संत्यज्य भसितं सितम् ॥ ७.२,२७.५६॥
पिंडीकृत्य शिव-अग्नि-आदौ तत् क्षिपेत् मूलमंत्रतः ॥ अपक्वम् अतिपाक्वम् च संत्यज्य भसितम् सितम् ॥ ७।२,२७।५६॥
piṃḍīkṛtya śiva-agni-ādau tat kṣipet mūlamaṃtrataḥ .. apakvam atipākvam ca saṃtyajya bhasitam sitam .. 7.2,27.56..
आदाय वा समालोड्य भस्माधारे विनिक्षिपेत् ॥ तैजसं दारवं वापि मृन्मयं शैलमेव च ॥ ७.२,२७.५७॥
आदाय वा समालोड्य भस्म-आधारे विनिक्षिपेत् ॥ तैजसम् दारवम् वा अपि मृद्-मयम् शैलम् एव च ॥ ७।२,२७।५७॥
ādāya vā samāloḍya bhasma-ādhāre vinikṣipet .. taijasam dāravam vā api mṛd-mayam śailam eva ca .. 7.2,27.57..
अन्यद्वा शोभनं शुद्धं भस्माधारं प्रकल्पयेत् ॥ समे देशे शुभे शुद्धे धनवद्भस्म निक्षिपेत् ॥ ७.२,२७.५८॥
अन्यत् वा शोभनम् शुद्धम् भस्म-आधारम् प्रकल्पयेत् ॥ समे देशे शुभे शुद्धे धनवत् भस्म निक्षिपेत् ॥ ७।२,२७।५८॥
anyat vā śobhanam śuddham bhasma-ādhāram prakalpayet .. same deśe śubhe śuddhe dhanavat bhasma nikṣipet .. 7.2,27.58..
न चायुक्तकरे दद्यान्नैवाशुचितले क्षिपेत् ॥ न संस्पृशेच्च नीचांगैर्नोपेक्षेत न लंघयेत् ॥ ७.२,२७.५९॥
न च अयुक्त-करे दद्यात् न एव अशुचि-तले क्षिपेत् ॥ न संस्पृशेत् च नीच-अंगैः न उपेक्षेत न लंघयेत् ॥ ७।२,२७।५९॥
na ca ayukta-kare dadyāt na eva aśuci-tale kṣipet .. na saṃspṛśet ca nīca-aṃgaiḥ na upekṣeta na laṃghayet .. 7.2,27.59..
तस्माद्भसितमादाय विनियुंजीत मन्त्रतः ॥ कालेषूक्तेषु नान्यत्र नायोग्येभ्यः प्रदापयेत् ॥ ७.२,२७.६०॥
तस्मात् भसितम् आदाय विनियुंजीत मन्त्रतः ॥ कालेषु उक्तेषु न अन्यत्र न अयोग्येभ्यः प्रदापयेत् ॥ ७।२,२७।६०॥
tasmāt bhasitam ādāya viniyuṃjīta mantrataḥ .. kāleṣu ukteṣu na anyatra na ayogyebhyaḥ pradāpayet .. 7.2,27.60..
भस्मसंग्रहणं कुर्याद्देवे ऽनुद्वासिते सति ॥ उद्वासने कृते यस्माच्चण्डभस्म प्रजापते ॥ ७.२,२७.६१॥
भस्म-संग्रहणम् कुर्यात् देवे अन् उद्वासिते सति ॥ उद्वासने कृते यस्मात् चण्ड-भस्म प्रजापते ॥ ७।२,२७।६१॥
bhasma-saṃgrahaṇam kuryāt deve an udvāsite sati .. udvāsane kṛte yasmāt caṇḍa-bhasma prajāpate .. 7.2,27.61..
अग्निकार्ये कृते पश्चाच्छिवशास्त्रोक्तमार्गतः ॥ स्वसूत्रोक्तप्रकाराद्वा बलिकर्म समाचरेत् ॥ ७.२,२७.६२॥
अग्नि-कार्ये कृते पश्चात् शिवशास्त्र-उक्त-मार्गतः ॥ स्व-सूत्र-उक्त-प्रकारात् वा बलि-कर्म समाचरेत् ॥ ७।२,२७।६२॥
agni-kārye kṛte paścāt śivaśāstra-ukta-mārgataḥ .. sva-sūtra-ukta-prakārāt vā bali-karma samācaret .. 7.2,27.62..
अथ विद्यासनं न्यस्य सुप्रलिप्ते तु मण्डले ॥ विद्याकोशं प्रतिष्ठाप्य यजेत्पुष्पादिभिः क्रमात् ॥ ७.२,२७.६३॥
अथ विद्यासनम् न्यस्य सु प्रलिप्ते तु मण्डले ॥ विद्या-कोशम् प्रतिष्ठाप्य यजेत् पुष्प-आदिभिः क्रमात् ॥ ७।२,२७।६३॥
atha vidyāsanam nyasya su pralipte tu maṇḍale .. vidyā-kośam pratiṣṭhāpya yajet puṣpa-ādibhiḥ kramāt .. 7.2,27.63..
विद्यायाः पुरतः कृत्वा गुरोरपि च मण्डलम् ॥ तत्रासनवरं कृत्वा पुष्पाद्यै गुरुमर्चयेत् ॥ ७.२,२७.६४॥
विद्यायाः पुरतस् कृत्वा गुरोः अपि च मण्डलम् ॥ तत्र आसन-वरम् कृत्वा पुष्प-आद्यैः गुरुम् अर्चयेत् ॥ ७।२,२७।६४॥
vidyāyāḥ puratas kṛtvā guroḥ api ca maṇḍalam .. tatra āsana-varam kṛtvā puṣpa-ādyaiḥ gurum arcayet .. 7.2,27.64..
ततोनुपूजयेत्पूज्यान् भोजयेच्च बुभुक्षितान् ॥ ततस्स्वयं च भुंजीत शुद्धमन्नं यथासुखम् ॥ ७.२,२७.६५॥
ततस् नुपूजयेत् पूज्यान् भोजयेत् च बुभुक्षितान् ॥ ततस् स्वयम् च भुंजीत शुद्धम् अन्नम् यथासुखम् ॥ ७।२,२७।६५॥
tatas nupūjayet pūjyān bhojayet ca bubhukṣitān .. tatas svayam ca bhuṃjīta śuddham annam yathāsukham .. 7.2,27.65..
निवेदितं च वा देवे तच्छेषं चात्मशुद्धये ॥ श्रद्दधानो न लोभेन न चण्डाय समर्पितम् ॥ ७.२,२७.६६॥
निवेदितम् च वा देवे तत् शेषम् च आत्म-शुद्धये ॥ श्रद्दधानः न लोभेन न चण्डाय समर्पितम् ॥ ७।२,२७।६६॥
niveditam ca vā deve tat śeṣam ca ātma-śuddhaye .. śraddadhānaḥ na lobhena na caṇḍāya samarpitam .. 7.2,27.66..
गन्धमाल्यादि यच्चान्यत्तत्राप्येष समो विधिः ॥ न तु तत्र शिवोस्मीति बुद्धिं कुर्याद्विचक्षणः ॥ ७.२,२७.६७॥
गन्ध-माल्य-आदि यत् च अन्यत् तत्र अपि एष समः विधिः ॥ न तु तत्र शिवः अस्मि इति बुद्धिम् कुर्यात् विचक्षणः ॥ ७।२,२७।६७॥
gandha-mālya-ādi yat ca anyat tatra api eṣa samaḥ vidhiḥ .. na tu tatra śivaḥ asmi iti buddhim kuryāt vicakṣaṇaḥ .. 7.2,27.67..
भुक्त्वाचम्य शिवं ध्यात्वा हृदये मूलमुच्चरेत् ॥ कालशेषं नयेद्योग्यैः शिवशास्त्रकथादिभिः ॥ ७.२,२७.६८॥
भुक्त्वा आचम्य शिवम् ध्यात्वा हृदये मूलम् उच्चरेत् ॥ काल-शेषम् नयेत् योग्यैः शिव-शास्त्र-कथा-आदिभिः ॥ ७।२,२७।६८॥
bhuktvā ācamya śivam dhyātvā hṛdaye mūlam uccaret .. kāla-śeṣam nayet yogyaiḥ śiva-śāstra-kathā-ādibhiḥ .. 7.2,27.68..
रात्रौ व्यतीते पूर्वांशे कृत्वा पूजां मनोहराम् ॥ शिवयोः शयनं त्वेकं कल्पयेदतिशोभनम् ॥ ७.२,२७.६९॥
रात्रौ व्यतीते पूर्व-अंशे कृत्वा पूजाम् मनोहराम् ॥ शिवयोः शयनम् तु एकम् कल्पयेत् अति शोभनम् ॥ ७।२,२७।६९॥
rātrau vyatīte pūrva-aṃśe kṛtvā pūjām manoharām .. śivayoḥ śayanam tu ekam kalpayet ati śobhanam .. 7.2,27.69..
भक्ष्यभोज्यांबरालेपपुष्पमालादिकं तथा ॥ मनसा कर्मणा वापि कृत्वा सर्वं मनोहरम् ॥ ७.२,२७.७०॥
भक्ष्य-भोज्य-अंबर-आलेप-पुष्प-माला-आदिकम् तथा ॥ मनसा कर्मणा वा अपि कृत्वा सर्वम् मनोहरम् ॥ ७।२,२७।७०॥
bhakṣya-bhojya-aṃbara-ālepa-puṣpa-mālā-ādikam tathā .. manasā karmaṇā vā api kṛtvā sarvam manoharam .. 7.2,27.70..
ततो देवस्य देव्याश्च पादमूले शुचिस्स्वपेत् ॥ गृहस्थो भार्यया सार्धं तदन्ये ऽपि तु केवलाः ॥ ७.२,२७.७१॥
ततस् देवस्य देव्याः च पाद-मूले शुचिः स्वपेत् ॥ गृहस्थः भार्यया सार्धम् तद्-अन्ये अपि तु केवलाः ॥ ७।२,२७।७१॥
tatas devasya devyāḥ ca pāda-mūle śuciḥ svapet .. gṛhasthaḥ bhāryayā sārdham tad-anye api tu kevalāḥ .. 7.2,27.71..
प्रत्यूषसमयं बुद्ध्वा मात्रामाद्यामुदीरयेत् ॥ प्रणम्य मनसां देवं सांबं सगणमव्ययम् ॥ ७.२,२७.७२॥
प्रत्यूष-समयम् बुद्ध्वा मात्राम् आद्याम् उदीरयेत् ॥ प्रणम्य मनसाम् देवम् स अंबम् स गणम् अव्ययम् ॥ ७।२,२७।७२॥
pratyūṣa-samayam buddhvā mātrām ādyām udīrayet .. praṇamya manasām devam sa aṃbam sa gaṇam avyayam .. 7.2,27.72..
देशकालोचितं कृत्वा शौचाद्यमपि शक्तितः ॥ शंखादिनिनदैर्दिव्यैर्देवं देवीं च बोधयेत् ॥ ७.२,२७.७३॥
देश-काल-उचितम् कृत्वा शौच-आद्यम् अपि शक्तितः ॥ शंख-आदि-निनदैः दिव्यैः देवम् देवीम् च बोधयेत् ॥ ७।२,२७।७३॥
deśa-kāla-ucitam kṛtvā śauca-ādyam api śaktitaḥ .. śaṃkha-ādi-ninadaiḥ divyaiḥ devam devīm ca bodhayet .. 7.2,27.73..
ततस्तत्समयोन्निद्रैः पुष्पैरतिसुगंधिभिः ॥ निर्वर्त्य शिवयोः पूजां प्रारभेत पुरोदितम् ॥ ७.२,२७.७४॥
ततस् तद्-समय-उन्निद्रैः पुष्पैः अति सुगंधिभिः ॥ निर्वर्त्य शिवयोः पूजाम् प्रारभेत पुरा उदितम् ॥ ७।२,२७।७४॥
tatas tad-samaya-unnidraiḥ puṣpaiḥ ati sugaṃdhibhiḥ .. nirvartya śivayoḥ pūjām prārabheta purā uditam .. 7.2,27.74..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं नाम सप्तविंशोऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे अग्निकार्यवर्णनम् नाम सप्तविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe agnikāryavarṇanam nāma saptaviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In