| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
अतः परं प्रवक्ष्यामि शिवाश्रमनिषेविणाम् ॥ शिवशास्त्रोक्तमार्गेण नैमित्तिकविधिक्रमम् ॥ ७.२,२८.१॥
अतस् परम् प्रवक्ष्यामि शिव-आश्रम-निषेविणाम् ॥ शिवशास्त्र-उक्त-मार्गेण नैमित्तिक-विधि-क्रमम् ॥ ७।२,२८।१॥
atas param pravakṣyāmi śiva-āśrama-niṣeviṇām .. śivaśāstra-ukta-mārgeṇa naimittika-vidhi-kramam .. 7.2,28.1..
सर्वेष्वपि च मासेषु पक्षयोरुभयोरपि ॥ अष्टाभ्यां च चतुर्दश्यां तथा पर्वाणि च क्रमात् ॥ ७.२,२८.२॥
सर्वेषु अपि च मासेषु पक्षयोः उभयोः अपि ॥ अष्टाभ्याम् च चतुर्दश्याम् तथा पर्वाणि च क्रमात् ॥ ७।२,२८।२॥
sarveṣu api ca māseṣu pakṣayoḥ ubhayoḥ api .. aṣṭābhyām ca caturdaśyām tathā parvāṇi ca kramāt .. 7.2,28.2..
अयने विषुवे चैव ग्रहणेषु विशेषतः ॥ कर्तव्या महती पूजा ह्यधिका वापि शक्तितः ॥ ७.२,२८.३॥
अयने विषुवे च एव ग्रहणेषु विशेषतः ॥ कर्तव्या महती पूजा हि अधिका वा अपि शक्तितः ॥ ७।२,२८।३॥
ayane viṣuve ca eva grahaṇeṣu viśeṣataḥ .. kartavyā mahatī pūjā hi adhikā vā api śaktitaḥ .. 7.2,28.3..
मासिमासि यथान्यायं ब्रह्मकूर्चं प्रसाध्य तु ॥ स्नापयित्वा शिवं तेन पिबेच्छेषमुपोषितः ॥ ७.२,२८.४॥
मासि मासि यथान्यायम् ब्रह्मकूर्चम् प्रसाध्य तु ॥ स्नापयित्वा शिवम् तेन पिबेत् शेषम् उपोषितः ॥ ७।२,२८।४॥
māsi māsi yathānyāyam brahmakūrcam prasādhya tu .. snāpayitvā śivam tena pibet śeṣam upoṣitaḥ .. 7.2,28.4..
ब्रह्महत्यादिदोषाणामतीव महतामपि ॥ निष्कृतिर्ब्रह्मकूर्चस्य पानान्नान्या विशिष्यते ॥ ७.२,२८.५॥
ब्रह्महत्या-आदि-दोषाणाम् अतीव महताम् अपि ॥ निष्कृतिः ब्रह्मकूर्चस्य पानात् न अन्या विशिष्यते ॥ ७।२,२८।५॥
brahmahatyā-ādi-doṣāṇām atīva mahatām api .. niṣkṛtiḥ brahmakūrcasya pānāt na anyā viśiṣyate .. 7.2,28.5..
पौषे पुष्यनक्षत्रे कुर्यान्नीराजनं विभोः ॥ माघे मघाख्ये नक्षत्रे प्रदद्याद्घृतकंबलम् ॥ ७.२,२८.६॥
पौषे पुष्य-नक्षत्रे कुर्यात् नीराजनम् विभोः ॥ माघे मघा-आख्ये नक्षत्रे प्रदद्यात् घृतकंबलम् ॥ ७।२,२८।६॥
pauṣe puṣya-nakṣatre kuryāt nīrājanam vibhoḥ .. māghe maghā-ākhye nakṣatre pradadyāt ghṛtakaṃbalam .. 7.2,28.6..
फाल्गुने चोत्तरान्ते वै प्रारभेत महोत्सवम् ॥ चैत्रे चित्रापौर्णमास्यां दोलां कुर्याद्यथाविधि ॥ ७.२,२८.७॥
फाल्गुने च उत्तर-अन्ते वै प्रारभेत महा-उत्सवम् ॥ चैत्रे चित्रा-पौर्णमास्याम् दोलाम् कुर्यात् यथाविधि ॥ ७।२,२८।७॥
phālgune ca uttara-ante vai prārabheta mahā-utsavam .. caitre citrā-paurṇamāsyām dolām kuryāt yathāvidhi .. 7.2,28.7..
वैशाख्यां तु विशाखायां कुर्यात्पुष्पमहालयम् ॥ ज्येष्ठे मूलाख्यनक्षत्रे शीतकुम्भं प्रदापयेत् ॥ ७.२,२८.८॥
वैशाख्याम् तु विशाखायाम् कुर्यात् पुष्पमहालयम् ॥ ज्येष्ठे मूल-आख्य-नक्षत्रे शीतकुम्भम् प्रदापयेत् ॥ ७।२,२८।८॥
vaiśākhyām tu viśākhāyām kuryāt puṣpamahālayam .. jyeṣṭhe mūla-ākhya-nakṣatre śītakumbham pradāpayet .. 7.2,28.8..
आषाढे चोत्तराषाढे पवित्रारोपणं तथा ॥ श्रावणे प्राकृतान्यापि मण्डलानि प्रकल्पयेत् ॥ ७.२,२८.९॥
आषाढे च उत्तराषाढे पवित्र-आरोपणम् तथा ॥ श्रावणे प्राकृतानि आपि मण्डलानि प्रकल्पयेत् ॥ ७।२,२८।९॥
āṣāḍhe ca uttarāṣāḍhe pavitra-āropaṇam tathā .. śrāvaṇe prākṛtāni āpi maṇḍalāni prakalpayet .. 7.2,28.9..
श्रविष्ठाख्ये तु नक्षत्रे प्रौष्ठपद्यां ततः परम् ॥ प्रोक्षयेच्च जलक्रीडां पूर्वाषाढाश्रये दिने ॥ ७.२,२८.१०॥
श्रविष्ठा-आख्ये तु नक्षत्रे प्रौष्ठपद्याम् ततस् परम् ॥ प्रोक्षयेत् च जल-क्रीडाम् पूर्वाषाढ-आश्रये दिने ॥ ७।२,२८।१०॥
śraviṣṭhā-ākhye tu nakṣatre prauṣṭhapadyām tatas param .. prokṣayet ca jala-krīḍām pūrvāṣāḍha-āśraye dine .. 7.2,28.10..
आश्वयुज्यां ततो दद्यात्पायसं च नवोदनम् ॥ अग्निकार्यं च तेनैव कुर्याच्छतभिषग्दिने ॥ ७.२,२८.११॥
आश्वयुज्याम् ततस् दद्यात् पायसम् च नवोदनम् ॥ अग्नि-कार्यम् च तेन एव कुर्यात् शतभिषज्-दिने ॥ ७।२,२८।११॥
āśvayujyām tatas dadyāt pāyasam ca navodanam .. agni-kāryam ca tena eva kuryāt śatabhiṣaj-dine .. 7.2,28.11..
कार्तिक्यां कृतिकायोगे दद्याद्दीपसहस्रकम् ॥ मार्गशीर्षे तथार्द्रायां घृतेन स्नापयेच्छिवम् ॥ ७.२,२८.१२॥
कार्तिक्याम् कृतिका-योगे दद्यात् दीप-सहस्रकम् ॥ मार्गशीर्षे तथा आर्द्रायाम् घृतेन स्नापयेत् शिवम् ॥ ७।२,२८।१२॥
kārtikyām kṛtikā-yoge dadyāt dīpa-sahasrakam .. mārgaśīrṣe tathā ārdrāyām ghṛtena snāpayet śivam .. 7.2,28.12..
अशक्तस्तेषु कालेषु कुर्यादुत्सवमेव वा ॥ आस्थानं वा महापूजामधिकं वा समर्चनम् ॥ ७.२,२८.१३॥
अशक्तः तेषु कालेषु कुर्यात् उत्सवम् एव वा ॥ आस्थानम् वा महा-पूजाम् अधिकम् वा समर्चनम् ॥ ७।२,२८।१३॥
aśaktaḥ teṣu kāleṣu kuryāt utsavam eva vā .. āsthānam vā mahā-pūjām adhikam vā samarcanam .. 7.2,28.13..
आवृत्ते ऽपि च कल्याणे प्रशस्तेष्वपि कर्मसु ॥ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्टदर्शने ॥ ७.२,२८.१४॥
आवृत्ते अपि च कल्याणे प्रशस्तेषु अपि कर्मसु ॥ दौर्मनस्ये दुराचारे दुःस्वप्ने दुष्ट-दर्शने ॥ ७।२,२८।१४॥
āvṛtte api ca kalyāṇe praśasteṣu api karmasu .. daurmanasye durācāre duḥsvapne duṣṭa-darśane .. 7.2,28.14..
उत्पाते वाशुभेन्यस्मिन्रोगे वा प्रबले ऽथ वा ॥ स्नानपूजाजपध्यानहोमदानादिकाः क्रियः ॥ ७.२,२८.१५॥
उत्पाते वा अशुभेन अस्मिन् रोगे वा प्रबले अथ वा ॥ स्नान-पूजा-जप-ध्यान-होम-दान-आदिकाः क्रियः ॥ ७।२,२८।१५॥
utpāte vā aśubhena asmin roge vā prabale atha vā .. snāna-pūjā-japa-dhyāna-homa-dāna-ādikāḥ kriyaḥ .. 7.2,28.15..
निर्मितानुगुणाः कार्याः पुरश्चरणपूर्विकाः ॥ शिवानले च विहते पुनस्सन्धानमाचरेत् ॥ ७.२,२८.१६॥
निर्मित-अनुगुणाः कार्याः पुरश्चरण-पूर्विकाः ॥ शिव-अनले च विहते पुनर् सन्धानम् आचरेत् ॥ ७।२,२८।१६॥
nirmita-anuguṇāḥ kāryāḥ puraścaraṇa-pūrvikāḥ .. śiva-anale ca vihate punar sandhānam ācaret .. 7.2,28.16..
य एवं शर्वधर्मिष्ठो वर्तते नित्यमुद्यतः ॥ तस्यैकजन्मना मुक्तिं प्रयच्छति महेश्वरः ॥ ७.२,२८.१७॥
यः एवम् शर्व-धर्मिष्ठः वर्तते नित्यम् उद्यतः ॥ तस्य एक-जन्मना मुक्तिम् प्रयच्छति महेश्वरः ॥ ७।२,२८।१७॥
yaḥ evam śarva-dharmiṣṭhaḥ vartate nityam udyataḥ .. tasya eka-janmanā muktim prayacchati maheśvaraḥ .. 7.2,28.17..
एतद्यथोत्तरं कुर्यान्नित्यनैमित्तिकेषु यः ॥ दिव्यं श्रीकंठनाथस्य स्थानमाद्यं स गच्छति ॥ ७.२,२८.१८॥
एतत् यथोत्तरम् कुर्यात् नित्य-नैमित्तिकेषु यः ॥ दिव्यम् श्रीकंठनाथस्य स्थानम् आद्यम् स गच्छति ॥ ७।२,२८।१८॥
etat yathottaram kuryāt nitya-naimittikeṣu yaḥ .. divyam śrīkaṃṭhanāthasya sthānam ādyam sa gacchati .. 7.2,28.18..
तत्र भुक्त्वा महाभोगान्कल्पकोटिशतन्नरः ॥ कालांतरेच्युतस्तस्मादौमं कौमारमेव च ॥ ७.२,२८.१९॥
तत्र भुक्त्वा महा-भोगान् कल्प-कोटि-शत-नरः ॥ काल-अंतरे च्युतः तस्मात् औमम् कौमारम् एव च ॥ ७।२,२८।१९॥
tatra bhuktvā mahā-bhogān kalpa-koṭi-śata-naraḥ .. kāla-aṃtare cyutaḥ tasmāt aumam kaumāram eva ca .. 7.2,28.19..
संप्राप्य वैष्णवं ब्राह्मं रुद्रलोकं विशेषतः ॥ तत्रोषित्वा चिरं कालं भुक्त्वा भोगान्यथोदितान् ॥ ७.२,२८.२०॥
संप्राप्य वैष्णवम् ब्राह्मम् रुद्र-लोकम् विशेषतः ॥ तत्र उषित्वा चिरम् कालम् भुक्त्वा भोगान् यथा उदितान् ॥ ७।२,२८।२०॥
saṃprāpya vaiṣṇavam brāhmam rudra-lokam viśeṣataḥ .. tatra uṣitvā ciram kālam bhuktvā bhogān yathā uditān .. 7.2,28.20..
पुनश्चोर्ध्वं गतस्तस्मादतीत्य स्थानपञ्चकम् ॥ श्रीकण्ठाज्ज्ञानमासाद्य तस्माच्छैवपुरं व्रजेत् ॥ ७.२,२८.२१॥
पुनर् च ऊर्ध्वम् गतः तस्मात् अतीत्य स्थान-पञ्चकम् ॥ श्रीकण्ठात् ज्ञानम् आसाद्य तस्मात् शैव-पुरम् व्रजेत् ॥ ७।२,२८।२१॥
punar ca ūrdhvam gataḥ tasmāt atītya sthāna-pañcakam .. śrīkaṇṭhāt jñānam āsādya tasmāt śaiva-puram vrajet .. 7.2,28.21..
अर्धचर्यारतश्चापि द्विरावृत्त्यैवमेव तु ॥ पश्चाज्ज्ञानं समासाद्य शिवसायुज्यमाप्नुयात् ॥ ७.२,२८.२२॥
अर्ध-चर्या-रतः च अपि द्विस् आवृत्त्य एवम् एव तु ॥ पश्चात् ज्ञानम् समासाद्य शिव-सायुज्यम् आप्नुयात् ॥ ७।२,२८।२२॥
ardha-caryā-rataḥ ca api dvis āvṛttya evam eva tu .. paścāt jñānam samāsādya śiva-sāyujyam āpnuyāt .. 7.2,28.22..
अर्धार्धचरितो यस्तु देही देहक्षयात्परम् ॥ अंडांतं वोर्ध्वमव्यक्तमतीत्य भुवनद्वयम् ॥ ७.२,२८.२३॥
अर्ध-अर्ध-चरितः यः तु देही देह-क्षयात् परम् ॥ अंड-अन्तम् वा ऊर्ध्वम् अव्यक्तम् अतीत्य भुवन-द्वयम् ॥ ७।२,२८।२३॥
ardha-ardha-caritaḥ yaḥ tu dehī deha-kṣayāt param .. aṃḍa-antam vā ūrdhvam avyaktam atītya bhuvana-dvayam .. 7.2,28.23..
संप्राप्य पौरुषं रौद्रस्थानमद्रीन्द्रजापतेः ॥ अनेकयुगसाहस्रं भुक्त्वा भोगाननेकधा ॥ ७.२,२८.२४॥
संप्राप्य पौरुषम् रौद्र-स्थानम् अद्रि-इन्द्रजापतेः ॥ अनेक-युग-साहस्रम् भुक्त्वा भोगान् अनेकधा ॥ ७।२,२८।२४॥
saṃprāpya pauruṣam raudra-sthānam adri-indrajāpateḥ .. aneka-yuga-sāhasram bhuktvā bhogān anekadhā .. 7.2,28.24..
पुण्यक्षये क्षितिं प्राप्य कुले महति जायते ॥ तत्रापि पूर्वसंस्कारवशेन स महाद्युतिः ॥ ७.२,२८.२५॥
पुण्य-क्षये क्षितिम् प्राप्य कुले महति जायते ॥ तत्र अपि पूर्व-संस्कार-वशेन स महा-द्युतिः ॥ ७।२,२८।२५॥
puṇya-kṣaye kṣitim prāpya kule mahati jāyate .. tatra api pūrva-saṃskāra-vaśena sa mahā-dyutiḥ .. 7.2,28.25..
पशुधर्मान्परित्यज्य शिवधर्मरतो भवेत् ॥ तद्धर्मगौरवादेव ध्यात्वा शिवपुरं व्रजेत् ॥ ७.२,२८.२६॥
पशुधर्मान् परित्यज्य शिव-धर्म-रतः भवेत् ॥ तद्-धर्म-गौरवात् एव ध्यात्वा शिव-पुरम् व्रजेत् ॥ ७।२,२८।२६॥
paśudharmān parityajya śiva-dharma-rataḥ bhavet .. tad-dharma-gauravāt eva dhyātvā śiva-puram vrajet .. 7.2,28.26..
भोगांश्च विविधान्भुक्त्वा विद्येश्वरपदं व्रजेत् ॥ तत्र विद्येश्वरैस्सार्धं भुक्त्वा भोगान्बहून्क्रमात् ॥ ७.२,२८.२७॥
भोगान् च विविधान् भुक्त्वा विद्येश्वर-पदम् व्रजेत् ॥ तत्र विद्येश्वरैः सार्धम् भुक्त्वा भोगान् बहून् क्रमात् ॥ ७।२,२८।२७॥
bhogān ca vividhān bhuktvā vidyeśvara-padam vrajet .. tatra vidyeśvaraiḥ sārdham bhuktvā bhogān bahūn kramāt .. 7.2,28.27..
अण्डस्यांतर्बहिर्वाथ सकृदावर्तते पुनः ॥ ततो लब्ध्वा शिवज्ञानं परां भक्तिमवाप्य च ॥ ७.२,२८.२८॥
अण्डस्य अंतर् बहिस् वा अथ सकृत् आवर्तते पुनर् ॥ ततस् लब्ध्वा शिव-ज्ञानम् पराम् भक्तिम् अवाप्य च ॥ ७।२,२८।२८॥
aṇḍasya aṃtar bahis vā atha sakṛt āvartate punar .. tatas labdhvā śiva-jñānam parām bhaktim avāpya ca .. 7.2,28.28..
शिवसाधर्म्यमासाद्य न भूयो विनिवर्तते ॥ यश्चातीव शिवे भक्तो विषयासक्तचित्तवत् ॥ ७.२,२८.२९॥
शिव-साधर्म्यम् आसाद्य न भूयस् विनिवर्तते ॥ यः च अतीव शिवे भक्तः विषय-आसक्त-चित्त-वत् ॥ ७।२,२८।२९॥
śiva-sādharmyam āsādya na bhūyas vinivartate .. yaḥ ca atīva śive bhaktaḥ viṣaya-āsakta-citta-vat .. 7.2,28.29..
शिवदर्मानसो कुर्वन्नकुर्वन्वापि मुच्यते ॥ एकावृत्तो द्विरावृत्तस्त्रिरावृत्तो निवर्तकः ॥ ७.२,२८.३०॥
कुर्वन् अ कुर्वन् वा अपि मुच्यते ॥ एक-आवृत्तः द्विस् आवृत्तः त्रिस् आवृत्तः निवर्तकः ॥ ७।२,२८।३०॥
kurvan a kurvan vā api mucyate .. eka-āvṛttaḥ dvis āvṛttaḥ tris āvṛttaḥ nivartakaḥ .. 7.2,28.30..
न पुनश्चक्रवर्ती स्याच्छिवधर्माधिकारवान् ॥ तस्माच्च्छिवाश्रितो भूत्वा येन केनापि हेतुना ॥ ७.२,२८.३१॥
न पुनर् चक्रवर्ती स्यात् शिव-धर्म-अधिकारवान् ॥ तस्मात् शिव-आश्रितः भूत्वा येन केन अपि हेतुना ॥ ७।२,२८।३१॥
na punar cakravartī syāt śiva-dharma-adhikāravān .. tasmāt śiva-āśritaḥ bhūtvā yena kena api hetunā .. 7.2,28.31..
शिवधर्मे मतिं कुर्याच्छ्रेयसे चेत्कृतोद्यमः ॥ नात्र निर्बंधयिष्यामो वयं केचन केनचित् ॥ ७.२,२८.३२॥
शिव-धर्मे मतिम् कुर्यात् श्रेयसे चेद् कृत-उद्यमः ॥ न अत्र निर्बंधयिष्यामः वयम् केचन केनचिद् ॥ ७।२,२८।३२॥
śiva-dharme matim kuryāt śreyase ced kṛta-udyamaḥ .. na atra nirbaṃdhayiṣyāmaḥ vayam kecana kenacid .. 7.2,28.32..
निर्बन्धेभ्यो ऽतिवादेभ्यः प्रकृत्यैतन्न रोचते ॥ रोचते वा परेभ्यस्तु पुण्यसंस्कारगौरवात् ॥ ७.२,२८.३३॥
निर्बन्धेभ्यः अतिवादेभ्यः प्रकृत्या एतत् न रोचते ॥ रोचते वा परेभ्यः तु पुण्य-संस्कार-गौरवात् ॥ ७।२,२८।३३॥
nirbandhebhyaḥ ativādebhyaḥ prakṛtyā etat na rocate .. rocate vā parebhyaḥ tu puṇya-saṃskāra-gauravāt .. 7.2,28.33..
संसारकारणं येषां न प्ररोढुमलं भवेत् ॥ प्रकृत्यनुगुणं तस्माद्विमृश्यैतदशेषतः ॥ ७.२,२८.३४॥
संसार-कारणम् येषाम् न प्ररोढुम् अलम् भवेत् ॥ प्रकृति-अनुगुणम् तस्मात् विमृश्य एतत् अशेषतस् ॥ ७।२,२८।३४॥
saṃsāra-kāraṇam yeṣām na praroḍhum alam bhavet .. prakṛti-anuguṇam tasmāt vimṛśya etat aśeṣatas .. 7.2,28.34..
शिवधर्मे ऽधिकुर्वीत यदीच्छेच्छिवमात्मनः ॥ ७.२,२८.३५॥
शिव-धर्मे अधिकुर्वीत यदि इच्छेत् शिवम् आत्मनः ॥ ७।२,२८।३५॥
śiva-dharme adhikurvīta yadi icchet śivam ātmanaḥ .. 7.2,28.35..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे नित्यनैमित्तिकविधिवर्णनं नामाष्टाविंशो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे नित्यनैमित्तिकविधिवर्णनम् नाम अष्टाविंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe nityanaimittikavidhivarṇanam nāma aṣṭāviṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In