| |
|

This overlay will guide you through the buttons:

श्रीकृष्ण उवाच॥
भगवंस्त्वन्मुखादेव श्रुतं श्रुतिसमं मया ॥ स्वाश्रितानां शिवप्रोक्तं नित्यनैमित्तिकं तथा ॥ ७.२,२९.१॥
भगवन् त्वद्-मुखात् एव श्रुतम् श्रुति-समम् मया ॥ स्व-आश्रितानाम् शिव-प्रोक्तम् नित्यनैमित्तिकम् तथा ॥ ७।२,२९।१॥
bhagavan tvad-mukhāt eva śrutam śruti-samam mayā .. sva-āśritānām śiva-proktam nityanaimittikam tathā .. 7.2,29.1..
इदानीं श्रोतुमिच्छामि शिवधर्माधिकारिणाम् ॥ काम्यमप्यस्ति चेत्कर्म वक्तुमर्हसि साम्प्रतम् ॥ ७.२,२९.२॥
इदानीम् श्रोतुम् इच्छामि शिव-धर्म-अधिकारिणाम् ॥ काम्यम् अपि अस्ति चेद् कर्म वक्तुम् अर्हसि साम्प्रतम् ॥ ७।२,२९।२॥
idānīm śrotum icchāmi śiva-dharma-adhikāriṇām .. kāmyam api asti ced karma vaktum arhasi sāmpratam .. 7.2,29.2..
उपमन्युरुवाच॥
अस्त्यैहिकफलं किञ्चिदामुष्मिकफलं तथा ॥ ऐहिकामुष्मिकञ्चापि तच्च पञ्चविधं पुनः ॥ ७.२,२९.३॥
अस्ति ऐहिक-फलम् किञ्चिद् आमुष्मिक-फलम् तथा ॥ ऐहिक-आमुष्मिकञ्च च अपि तत् च पञ्चविधम् पुनर् ॥ ७।२,२९।३॥
asti aihika-phalam kiñcid āmuṣmika-phalam tathā .. aihika-āmuṣmikañca ca api tat ca pañcavidham punar .. 7.2,29.3..
किंचित्क्रियामयं कर्म किंचित्कर्म तपो मयम् ॥ ७.२,२९.४॥
किंचिद् क्रिया-मयम् कर्म किंचिद् कर्म तपः मयम् ॥ ७।२,२९।४॥
kiṃcid kriyā-mayam karma kiṃcid karma tapaḥ mayam .. 7.2,29.4..
जपध्यानमयं किंचित्किंचित्सर्वमयं तथा ॥ क्रियामयं तथा भिन्नं होमदानार्चनक्रमात् ॥ ७.२,२९.५॥
जप-ध्यान-मयम् किंचिद् किंचिद् सर्व-मयम् तथा ॥ क्रिया-मयम् तथा भिन्नम् होम-दान-अर्चन-क्रमात् ॥ ७।२,२९।५॥
japa-dhyāna-mayam kiṃcid kiṃcid sarva-mayam tathā .. kriyā-mayam tathā bhinnam homa-dāna-arcana-kramāt .. 7.2,29.5..
सर्वशक्तिमतामेव नान्येषां सफलं भवेत् ॥ शक्तिश्चाज्ञा मदेशस्य शिवस्य परमात्मनः ॥ ७.२,२९.६॥
सर्व-शक्तिमताम् एव न अन्येषाम् सफलम् भवेत् ॥ शक्तिः च आज्ञा मद्-एशस्य शिवस्य परमात्मनः ॥ ७।२,२९।६॥
sarva-śaktimatām eva na anyeṣām saphalam bhavet .. śaktiḥ ca ājñā mad-eśasya śivasya paramātmanaḥ .. 7.2,29.6..
तस्मात्काम्यानि कर्माणि कुर्यादाज्ञाधरोद्विजः ॥ अथ वक्ष्यामि काम्यं हि चेहामुत्र फलप्रदम् ॥ ७.२,२९.७॥
तस्मात् काम्यानि कर्माणि कुर्यात् आज्ञा-धरः उद्विजः ॥ अथ वक्ष्यामि काम्यम् हि च इह अमुत्र फल-प्रदम् ॥ ७।२,२९।७॥
tasmāt kāmyāni karmāṇi kuryāt ājñā-dharaḥ udvijaḥ .. atha vakṣyāmi kāmyam hi ca iha amutra phala-pradam .. 7.2,29.7..
शैवैर्माहेश्वरैश्चैव कार्यमंतर्बहिः क्रमात् ॥ शिवो महेश्वरश्चेति नात्यंतमिह भिद्यते ॥ ७.२,२९.८॥
शैवैः माहेश्वरैः च एव कार्यम् अंतर् बहिस् क्रमात् ॥ शिवः महेश्वरः च इति न अत्यंतम् इह भिद्यते ॥ ७।२,२९।८॥
śaivaiḥ māheśvaraiḥ ca eva kāryam aṃtar bahis kramāt .. śivaḥ maheśvaraḥ ca iti na atyaṃtam iha bhidyate .. 7.2,29.8..
यथा तथा न भिद्यंते शैवा माहेश्वरा अपि ॥ शिवाश्रिता हि ते शैवा ज्ञानयज्ञरता नराः ॥ ७.२,२९.९॥
यथा तथा न भिद्यंते शैवाः माहेश्वराः अपि ॥ शिव-आश्रिताः हि ते शैवाः ज्ञान-यज्ञ-रताः नराः ॥ ७।२,२९।९॥
yathā tathā na bhidyaṃte śaivāḥ māheśvarāḥ api .. śiva-āśritāḥ hi te śaivāḥ jñāna-yajña-ratāḥ narāḥ .. 7.2,29.9..
माहेश्वरास्समाख्याता कर्मयज्ञरता भुवि ॥ तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा वहिः ॥ ७.२,२९.१०॥
माहेश्वराः समाख्याता कर्म-यज्ञ-रताः भुवि ॥ तस्मात् आभ्यन्तरे कुर्युः शैवाः माहेश्वराः वहिस् ॥ ७।२,२९।१०॥
māheśvarāḥ samākhyātā karma-yajña-ratāḥ bhuvi .. tasmāt ābhyantare kuryuḥ śaivāḥ māheśvarāḥ vahis .. 7.2,29.10..
न तु प्रयोगो भिद्येत वक्ष्यमाणस्य कर्मणः ॥ परीक्ष्य भूमिं विधिवद्गंधवर्णरसादिभिः ॥ ७.२,२९.११॥
न तु प्रयोगः भिद्येत वक्ष्यमाणस्य कर्मणः ॥ परीक्ष्य भूमिम् विधिवत् गंध-वर्ण-रस-आदिभिः ॥ ७।२,२९।११॥
na tu prayogaḥ bhidyeta vakṣyamāṇasya karmaṇaḥ .. parīkṣya bhūmim vidhivat gaṃdha-varṇa-rasa-ādibhiḥ .. 7.2,29.11..
मनोभिलषिते तत्र वितानविततांबरे ॥ सुप्रलिप्ते महीपृष्ठे दर्पणोदरसंनिभे ॥ ७.२,२९.१२॥
मनः-अभिलषिते तत्र वितान-वितत-अंबरे ॥ सु प्रलिप्ते मही-पृष्ठे दर्पण-उदर-संनिभे ॥ ७।२,२९।१२॥
manaḥ-abhilaṣite tatra vitāna-vitata-aṃbare .. su pralipte mahī-pṛṣṭhe darpaṇa-udara-saṃnibhe .. 7.2,29.12..
प्राचीमुत्पादयेत्पूर्वं शास्त्रदृष्टेन वर्त्मना ॥ एकहस्तं द्विहस्तं वा मण्डलं परिकल्पयेत् ॥ ७.२,२९.१३॥
प्राचीम् उत्पादयेत् पूर्वम् शास्त्र-दृष्टेन वर्त्मना ॥ एक-हस्तम् द्वि-हस्तम् वा मण्डलम् परिकल्पयेत् ॥ ७।२,२९।१३॥
prācīm utpādayet pūrvam śāstra-dṛṣṭena vartmanā .. eka-hastam dvi-hastam vā maṇḍalam parikalpayet .. 7.2,29.13..
आलिखेद्विमलं पद्ममष्टपत्रं सकर्णिकम् ॥ रत्नहेमादिभिश्चूर्णैर्यथासंभवसंभृतैः ॥ ७.२,२९.१४॥
आलिखेत् विमलम् पद्मम् अष्ट-पत्रम् स कर्णिकम् ॥ रत्न-हेम-आदिभिः चूर्णैः यथा संभव-संभृतैः ॥ ७।२,२९।१४॥
ālikhet vimalam padmam aṣṭa-patram sa karṇikam .. ratna-hema-ādibhiḥ cūrṇaiḥ yathā saṃbhava-saṃbhṛtaiḥ .. 7.2,29.14..
पञ्चावरणसंयुक्तं बहुशोभासमन्वितम् ॥ दलेषु सिद्धयः कल्प्याः केसरेषु सशक्तिकाः ॥ ७.२,२९.१५॥
पञ्च-आवरण-संयुक्तम् बहु-शोभा-समन्वितम् ॥ दलेषु सिद्धयः कल्प्याः केसरेषु स शक्तिकाः ॥ ७।२,२९।१५॥
pañca-āvaraṇa-saṃyuktam bahu-śobhā-samanvitam .. daleṣu siddhayaḥ kalpyāḥ kesareṣu sa śaktikāḥ .. 7.2,29.15..
रुद्रा वामादयस्त्वष्टौ पूर्वादिदलतः क्रमात् ॥ कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ ७.२,२९.१६॥
रुद्राः वाम-आदयः तु अष्टौ पूर्व-आदि-दलतः क्रमात् ॥ कर्णिकायाम् च वैराग्यम् बीजेषु नव शक्तयः ॥ ७।२,२९।१६॥
rudrāḥ vāma-ādayaḥ tu aṣṭau pūrva-ādi-dalataḥ kramāt .. karṇikāyām ca vairāgyam bījeṣu nava śaktayaḥ .. 7.2,29.16..
स्कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि चाग्नेयं मंडलं सौरमैन्दवम् ॥ ७.२,२९.१७॥
स्कन्दे शिव-आत्मकः धर्मः नाले ज्ञानम् शिव-आश्रयम् ॥ कर्णिका-उपरि च आग्नेयम् मंडलम् सौरम् ऐन्दवम् ॥ ७।२,२९।१७॥
skande śiva-ātmakaḥ dharmaḥ nāle jñānam śiva-āśrayam .. karṇikā-upari ca āgneyam maṃḍalam sauram aindavam .. 7.2,29.17..
शिवविद्यात्मतत्त्वाख्यं तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमान्वितम् ॥ ७.२,२९.१८॥
शिव-विद्या-आत्म-तत्त्व-आख्यम् तत्त्व-त्रयम् अतस् परम् ॥ सर्व-आसन-उपरि सुखम् विचित्र-कुसुम-अन्वितम् ॥ ७।२,२९।१८॥
śiva-vidyā-ātma-tattva-ākhyam tattva-trayam atas param .. sarva-āsana-upari sukham vicitra-kusuma-anvitam .. 7.2,29.18..
पञ्चावरणसंयुक्तं पूजयेदंबया सह ॥ शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम् ॥ ७.२,२९.१९॥
पञ्च-आवरण-संयुक्तम् पूजयेत् अंबया सह ॥ शुद्ध-स्फटिक-संकाशम् प्रसन्नम् शीतल-द्युतिम् ॥ ७।२,२९।१९॥
pañca-āvaraṇa-saṃyuktam pūjayet aṃbayā saha .. śuddha-sphaṭika-saṃkāśam prasannam śītala-dyutim .. 7.2,29.19..
विद्युद्वलयसंकाशजटामुकुटभूषितम् ॥ शार्दूलचर्मवसनं किञ्चित्स्मितमुखांबुजम् ॥ ७.२,२९.२०॥
विद्युत्-वलय-संकाश-जटा-मुकुट-भूषितम् ॥ शार्दूल-चर्म-वसनम् किञ्चिद् स्मित-मुख-अंबुजम् ॥ ७।२,२९।२०॥
vidyut-valaya-saṃkāśa-jaṭā-mukuṭa-bhūṣitam .. śārdūla-carma-vasanam kiñcid smita-mukha-aṃbujam .. 7.2,29.20..
रक्तपद्मदलप्रख्यपादपाणितलाधरम् ॥ सर्वलक्षणसंपन्नं सर्वाभरणभूषितम् ॥ ७.२,२९.२१॥
रक्त-पद्म-दल-प्रख्य-पाद-पाणि-तल-अधरम् ॥ सर्व-लक्षण-संपन्नम् सर्व-आभरण-भूषितम् ॥ ७।२,२९।२१॥
rakta-padma-dala-prakhya-pāda-pāṇi-tala-adharam .. sarva-lakṣaṇa-saṃpannam sarva-ābharaṇa-bhūṣitam .. 7.2,29.21..
दिव्यायुधवरैर्युक्तं दिव्यगंधानुलेपनम् ॥ पञ्चवक्त्रं दशभुजं चन्द्रखण्डशिखामणिम् ॥ ७.२,२९.२२॥
दिव्य-आयुध-वरैः युक्तम् दिव्य-गंध-अनुलेपनम् ॥ पञ्चवक्त्रम् दश-भुजम् चन्द्र-खण्ड-शिखामणिम् ॥ ७।२,२९।२२॥
divya-āyudha-varaiḥ yuktam divya-gaṃdha-anulepanam .. pañcavaktram daśa-bhujam candra-khaṇḍa-śikhāmaṇim .. 7.2,29.22..
अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् ॥ त्रिलोचनारविंदाढ्यं कृतबालेंदुशेखरम् ॥ ७.२,२९.२३॥
अस्य पूर्व-मुखम् सौम्यम् बाल-अर्क-सदृश-प्रभम् ॥ त्रि-लोचन-अरविंद-आढ्यम् कृत-बाल-इंदु-शेखरम् ॥ ७।२,२९।२३॥
asya pūrva-mukham saumyam bāla-arka-sadṛśa-prabham .. tri-locana-araviṃda-āḍhyam kṛta-bāla-iṃdu-śekharam .. 7.2,29.23..
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् ॥ ७.२,२९.२४॥
दक्षिणम् नील-जीमूत-समान-रुचिर-प्रभम् ॥ भ्रुकुटी-कुटिलम् घोरम् रक्त-वृत्त-ईक्षण-त्रयम् ॥ ७।२,२९।२४॥
dakṣiṇam nīla-jīmūta-samāna-rucira-prabham .. bhrukuṭī-kuṭilam ghoram rakta-vṛtta-īkṣaṇa-trayam .. 7.2,29.24..
दंष्ट्राकरालं दुर्धर्षं स्फुरिताधरपल्लवम् ॥ उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ॥ ७.२,२९.२५॥
दंष्ट्रा-करालम् दुर्धर्षम् स्फुरित-अधर-पल्लवम् ॥ उत्तरम् विद्रुम-प्रख्यम् नील-अलक-विभूषितम् ॥ ७।२,२९।२५॥
daṃṣṭrā-karālam durdharṣam sphurita-adhara-pallavam .. uttaram vidruma-prakhyam nīla-alaka-vibhūṣitam .. 7.2,29.25..
सविलासं त्रिनयनं चन्द्राभरणशेखरम् ॥ पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम् ॥ ७.२,२९.२६॥
सविलासम् त्रिनयनम् चन्द्र-आभरण-शेखरम् ॥ पश्चिमम् पूर्ण-चन्द्र-आभम् लोचन-त्रितय-उज्ज्वलम् ॥ ७।२,२९।२६॥
savilāsam trinayanam candra-ābharaṇa-śekharam .. paścimam pūrṇa-candra-ābham locana-tritaya-ujjvalam .. 7.2,29.26..
चन्द्ररेखाधरं सौम्यं मंदस्मितमनोहरम् ॥ पञ्चमं स्फटिकप्रख्यमिंदुरेखासमुज्ज्वलम् ॥ ७.२,२९.२७॥
चन्द्र-रेखा-धरम् सौम्यम् मंद-स्मित-मनोहरम् ॥ पञ्चमम् स्फटिक-प्रख्यम् इंदु-रेखा-समुज्ज्वलम् ॥ ७।२,२९।२७॥
candra-rekhā-dharam saumyam maṃda-smita-manoharam .. pañcamam sphaṭika-prakhyam iṃdu-rekhā-samujjvalam .. 7.2,29.27..
अतीव सौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम् ॥ दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ७.२,२९.२८॥
अतीव सौम्यम् उत्फुल्ल-लोचन-त्रितय-उज्ज्वलम् ॥ दक्षिणे शूल-परशु-वज्र-खड्ग-अनल-उज्ज्वलम् ॥ ७।२,२९।२८॥
atīva saumyam utphulla-locana-tritaya-ujjvalam .. dakṣiṇe śūla-paraśu-vajra-khaḍga-anala-ujjvalam .. 7.2,29.28..
सव्ये च नागनाराचघण्टापाशांकुशोज्ज्वलम् ॥ निवृत्त्याजानुसंबद्धमानाभेश्च प्रतिष्ठया ॥ ७.२,२९.२९॥
सव्ये च नाग-नाराच-घण्टा-पाश-अंकुश-उज्ज्वलम् ॥ निवृत्त्या अ जानु-संबद्ध-मान-आभेः च प्रतिष्ठया ॥ ७।२,२९।२९॥
savye ca nāga-nārāca-ghaṇṭā-pāśa-aṃkuśa-ujjvalam .. nivṛttyā a jānu-saṃbaddha-māna-ābheḥ ca pratiṣṭhayā .. 7.2,29.29..
आकंठं विद्यया तद्वदाललाटं तु शांतया ॥ तदूर्ध्वं शांत्यतीताख्यकलया परया तथा ॥ ७.२,२९.३०॥
आकंठम् विद्यया तद्वत् आललाटम् तु शांतया ॥ तद्-ऊर्ध्वम् शांति-अतीत-आख्य-कलया परया तथा ॥ ७।२,२९।३०॥
ākaṃṭham vidyayā tadvat ālalāṭam tu śāṃtayā .. tad-ūrdhvam śāṃti-atīta-ākhya-kalayā parayā tathā .. 7.2,29.30..
पञ्चाध्वव्यापिनं साक्षात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवं पुरुषाख्यं पुरातनम् ॥ ७.२,२९.३१॥
पञ्च-अध्व-व्यापिनम् साक्षात् कला-पञ्चक-विग्रहम् ॥ ईशान-मुकुटम् देवम् पुरुष-आख्यम् पुरातनम् ॥ ७।२,२९।३१॥
pañca-adhva-vyāpinam sākṣāt kalā-pañcaka-vigraham .. īśāna-mukuṭam devam puruṣa-ākhyam purātanam .. 7.2,29.31..
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्यपादं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ७.२,२९.३२॥
अघोर-हृदयम् तद्वत् वाम-गुह्यम् महेश्वरम् ॥ सद्य-पादम् च तद्-मूर्तिम् अष्टत्रिंशत्-कला-मयम् ॥ ७।२,२९।३२॥
aghora-hṛdayam tadvat vāma-guhyam maheśvaram .. sadya-pādam ca tad-mūrtim aṣṭatriṃśat-kalā-mayam .. 7.2,29.32..
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ ओंकाराख्यमयं चैव हंसशक्त्या समन्वितम् ॥ ७.२,२९.३३॥
मातृका-मयम् ईशानम् पञ्च-ब्रह्म-मयम् तथा ॥ ओंकार-आख्य-मयम् च एव हंस-शक्त्या समन्वितम् ॥ ७।२,२९।३३॥
mātṛkā-mayam īśānam pañca-brahma-mayam tathā .. oṃkāra-ākhya-mayam ca eva haṃsa-śaktyā samanvitam .. 7.2,29.33..
तथेच्छात्मिकया शक्त्या समारूढांकमंडलम् ॥ ज्ञानाख्यया दक्षिणतो वामतश्च क्रियाख्यया ॥ ७.२,२९.३४॥
तथा इच्छा-आत्मिकया शक्त्या समारूढ-अंक-मंडलम् ॥ ज्ञान-आख्यया दक्षिणतस् वामतस् च क्रिया-आख्यया ॥ ७।२,२९।३४॥
tathā icchā-ātmikayā śaktyā samārūḍha-aṃka-maṃḍalam .. jñāna-ākhyayā dakṣiṇatas vāmatas ca kriyā-ākhyayā .. 7.2,29.34..
तत्त्वत्रयमयं साक्षाद्विद्यामूर्तिं सदाशिवम् ॥ मूर्तिमूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७.२,२९.३५॥
तत्त्व-त्रय-मयम् साक्षात् विद्या-मूर्तिम् सदाशिवम् ॥ मूर्ति-मूलेन संकल्प्य सकलीकृत्य च क्रमात् ॥ ७।२,२९।३५॥
tattva-traya-mayam sākṣāt vidyā-mūrtim sadāśivam .. mūrti-mūlena saṃkalpya sakalīkṛtya ca kramāt .. 7.2,29.35..
संपूज्य च यथान्यायमर्घान्तं मूलविद्यया ॥ मूर्तिमन्तं शिवं साक्षाच्छक्त्या परमया सह ॥ ७.२,२९.३६॥
संपूज्य च यथान्यायम् अर्घ-अन्तम् मूलविद्यया ॥ मूर्तिमन्तम् शिवम् साक्षात् शक्त्या परमया सह ॥ ७।२,२९।३६॥
saṃpūjya ca yathānyāyam argha-antam mūlavidyayā .. mūrtimantam śivam sākṣāt śaktyā paramayā saha .. 7.2,29.36..
तत्रावाह्य महादेवं सदसद्व्यक्तिवर्जितम् ॥ पञ्चोपकरणं कृत्वा पूजयेत्परमेश्वरम् ॥ ७.२,२९.३७॥
तत्र आवाह्य महादेवम् सत्-असत्-व्यक्ति-वर्जितम् ॥ पञ्च-उपकरणम् कृत्वा पूजयेत् परमेश्वरम् ॥ ७।२,२९।३७॥
tatra āvāhya mahādevam sat-asat-vyakti-varjitam .. pañca-upakaraṇam kṛtvā pūjayet parameśvaram .. 7.2,29.37..
ब्रह्मभिश्च षडङ्गैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७.२,२९.३८॥
ब्रह्मभिः च षष्-अङ्गैः च ततस् मातृकया सह ॥ प्रणवेन शिवेन एव शक्ति-युक्तेन च क्रमात् ॥ ७।२,२९।३८॥
brahmabhiḥ ca ṣaṣ-aṅgaiḥ ca tatas mātṛkayā saha .. praṇavena śivena eva śakti-yuktena ca kramāt .. 7.2,29.38..
शांतेन वा तथान्यैश्च वेदमन्त्रैश्च कृत्स्नशः ॥ पूजयेत्परमं देवं केवलेन शिवेन वा ॥ ७.२,२९.३९॥
शांतेन वा तथा अन्यैः च वेद-मन्त्रैः च कृत्स्नशस् ॥ पूजयेत् परमम् देवम् केवलेन शिवेन वा ॥ ७।२,२९।३९॥
śāṃtena vā tathā anyaiḥ ca veda-mantraiḥ ca kṛtsnaśas .. pūjayet paramam devam kevalena śivena vā .. 7.2,29.39..
पाद्यादिमुखवासांतं कृत्वा प्रस्थापनं विना ॥ पञ्चावरणपूजां तु ह्यारभेत यथाक्रमम् ॥ ७.२,२९.४०॥
पाद्य-आदि-मुख-वास-अंतम् कृत्वा प्रस्थापनम् विना ॥ पञ्च-आवरण-पूजाम् तु हि आरभेत यथाक्रमम् ॥ ७।२,२९।४०॥
pādya-ādi-mukha-vāsa-aṃtam kṛtvā prasthāpanam vinā .. pañca-āvaraṇa-pūjām tu hi ārabheta yathākramam .. 7.2,29.40..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे काम्यकर्मवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे काम्यकर्मवर्णनम् नाम एकोनत्रिंशत्तमः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe kāmyakarmavarṇanam nāma ekonatriṃśattamaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In