| |
|

This overlay will guide you through the buttons:

उपमन्युरुवाच॥
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ ७.२, ३.१ ॥
शृणु कृष्ण महेशस्य शिवस्य परमात्मनः ॥मूर्ति-आत्मभिः ततम् कृत्स्नम् जगत् एतत् चराचरम् ॥ ७।२, ३।१ ॥
śṛṇu kṛṣṇa maheśasya śivasya paramātmanaḥ ..mūrti-ātmabhiḥ tatam kṛtsnam jagat etat carācaram .. 7.2, 3.1 ..
स शिवस्सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ॥अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ ७.२, ३.२ ॥
स शिवः सर्वम् एव इदम् स्वकीयाभिः च मूर्तिभिः ॥अधितिष्ठति अमेय-आत्मा हि एतत् सर्वम् अनुस्मृतम् ॥ ७।२, ३।२ ॥
sa śivaḥ sarvam eva idam svakīyābhiḥ ca mūrtibhiḥ ..adhitiṣṭhati ameya-ātmā hi etat sarvam anusmṛtam .. 7.2, 3.2 ..
ब्रह्मा विष्णुस्तथा रुद्रो महेशानस्सदाशिवः ॥मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ७.२, ३.३ ॥
ब्रह्मा विष्णुः तथा रुद्रः महेशानः सदाशिवः ॥मूर्तयः तस्य विज्ञेयाः याभिः विश्वम् इदम् ततम् ॥ ७।२, ३।३ ॥
brahmā viṣṇuḥ tathā rudraḥ maheśānaḥ sadāśivaḥ ..mūrtayaḥ tasya vijñeyāḥ yābhiḥ viśvam idam tatam .. 7.2, 3.3 ..
अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ॥तनूभिस्ताभिराव्याप्तमिह किंचिन्न विद्यते ॥ ७.२, ३.४ ॥
अथ अन्याः च अपि तनवः पञ्च ब्रह्म-समाह्वयाः ॥तनूभिः ताभिः आव्याप्तम् इह किंचिद् न विद्यते ॥ ७।२, ३।४ ॥
atha anyāḥ ca api tanavaḥ pañca brahma-samāhvayāḥ ..tanūbhiḥ tābhiḥ āvyāptam iha kiṃcid na vidyate .. 7.2, 3.4 ..
ईशानः पुरुषो ऽघोरो वामः सद्यस्तथैव च ॥ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ७.२, ३.५ ॥
ईशानः पुरुषः अघोरः वामः सद्यः तथा एव च ॥ब्रह्माणि एतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ७।२, ३।५ ॥
īśānaḥ puruṣaḥ aghoraḥ vāmaḥ sadyaḥ tathā eva ca ..brahmāṇi etāni devasya mūrtayaḥ pañca viśrutāḥ .. 7.2, 3.5 ..
ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ॥भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥ ७.२, ३.६ ॥
ईशान-आख्या तु या तस्य मूर्तिः आद्या गरीयसी ॥भोक्तारम् प्रकृतेः साक्षात् क्षेत्रज्ञम् अधितिष्ठति ॥ ७।२, ३।६ ॥
īśāna-ākhyā tu yā tasya mūrtiḥ ādyā garīyasī ..bhoktāram prakṛteḥ sākṣāt kṣetrajñam adhitiṣṭhati .. 7.2, 3.6 ..
स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ॥गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७.२, ३.७ ॥
स्थाणोः तत्पुरुष-आख्या या मूर्तिः मूर्तिमतः प्रभोः ॥गुण-आश्रय-आत्मकम् भोग्यम् अव्यक्तम् अधितिष्ठति ॥ ७।२, ३।७ ॥
sthāṇoḥ tatpuruṣa-ākhyā yā mūrtiḥ mūrtimataḥ prabhoḥ ..guṇa-āśraya-ātmakam bhogyam avyaktam adhitiṣṭhati .. 7.2, 3.7 ..
धर्माद्यष्टांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥अधितिष्ठत्यघोराख्या मूर्तिरत्यंतपूजिता ॥ ७.२, ३.८ ॥
धर्म-आदि-अष्ट-अङ्ग-संयुक्तम् बुद्धि-तत्त्वम् पिनाकिनः ॥अधितिष्ठति अघोर-आख्या मूर्तिः अत्यंत-पूजिता ॥ ७।२, ३।८ ॥
dharma-ādi-aṣṭa-aṅga-saṃyuktam buddhi-tattvam pinākinaḥ ..adhitiṣṭhati aghora-ākhyā mūrtiḥ atyaṃta-pūjitā .. 7.2, 3.8 ..
वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ॥अहंकृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ७.२, ३.९ ॥
वामदेव-आह्वयाम् मूर्तिम् महादेवस्य वेधसः ॥अहंकृतेः अधिष्ठात्रीम् आहुः आगम-वेदिनः ॥ ७।२, ३।९ ॥
vāmadeva-āhvayām mūrtim mahādevasya vedhasaḥ ..ahaṃkṛteḥ adhiṣṭhātrīm āhuḥ āgama-vedinaḥ .. 7.2, 3.9 ..
सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ॥मानसः समधिष्ठात्रीं मतिमंतः प्रचक्षते ॥ ७.२, ३.१० ॥
सद्यस् जात-आह्वयाम् मूर्तिम् शम्भोः अमित-वर्चसः ॥मानसः समधिष्ठात्रीम् मतिमंतः प्रचक्षते ॥ ७।२, ३।१० ॥
sadyas jāta-āhvayām mūrtim śambhoḥ amita-varcasaḥ ..mānasaḥ samadhiṣṭhātrīm matimaṃtaḥ pracakṣate .. 7.2, 3.10 ..
श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ॥ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ७.२, ३.११ ॥
श्रोत्रस्य वाचः शब्दस्य विभोः व्योम्नः तथा एव च ॥ईश्वरीम् ईश्वरस्य इमाम् ईश-आख्याम् हि विदुः बुधाः ॥ ७।२, ३।११ ॥
śrotrasya vācaḥ śabdasya vibhoḥ vyomnaḥ tathā eva ca ..īśvarīm īśvarasya imām īśa-ākhyām hi viduḥ budhāḥ .. 7.2, 3.11 ..
त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ॥पुरुषाख्यं विदुस्सर्वे पुराणार्थविशारदाः ॥ ७.२, ३.१२ ॥
त्वक्-पाणि-स्पर्श-वायूनाम् ईश्वरीम् मूर्तिम् ऐश्वरीम् ॥पुरुष-आख्यम् विदुः सर्वे पुराण-अर्थ-विशारदाः ॥ ७।२, ३।१२ ॥
tvak-pāṇi-sparśa-vāyūnām īśvarīm mūrtim aiśvarīm ..puruṣa-ākhyam viduḥ sarve purāṇa-artha-viśāradāḥ .. 7.2, 3.12 ..
चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ॥अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ ७.२, ३.१३ ॥
चक्षुषः चरणस्य अपि रूपस्य अग्नेः तथा एव च ॥अघोर-आख्याम् अधिष्ठात्रीम् मूर्तिम् आहुः मनीषिणः ॥ ७।२, ३।१३ ॥
cakṣuṣaḥ caraṇasya api rūpasya agneḥ tathā eva ca ..aghora-ākhyām adhiṣṭhātrīm mūrtim āhuḥ manīṣiṇaḥ .. 7.2, 3.13 ..
रसनायाश्च पायोश्च रसस्यापां तथैव च ॥ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ ७.२, ३.१४ ॥
रसनायाः च पायोः च रसस्य अपाम् तथा एव च ॥ईश्वरीम् वामदेव-आख्याम् मूर्तिम् तद्-निरताम् विदुः ॥ ७।२, ३।१४ ॥
rasanāyāḥ ca pāyoḥ ca rasasya apām tathā eva ca ..īśvarīm vāmadeva-ākhyām mūrtim tad-niratām viduḥ .. 7.2, 3.14 ..
घ्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥सद्यो जाताह्वयां मूर्तिमीश्वरीं संप्रचक्षते ॥ ७.२, ३.१५ ॥
घ्राणस्य च एव उपस्थस्य गंधस्य च भुवः तथा ॥सद्यस् जात-आह्वयाम् मूर्तिम् ईश्वरीम् संप्रचक्षते ॥ ७।२, ३।१५ ॥
ghrāṇasya ca eva upasthasya gaṃdhasya ca bhuvaḥ tathā ..sadyas jāta-āhvayām mūrtim īśvarīm saṃpracakṣate .. 7.2, 3.15 ..
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ॥श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ ७.२, ३.१६ ॥
मूर्तयः पञ्च देवस्य वंदनीयाः प्रयत्नतः ॥श्रेयः-ऊर्थिभिः नरैः नित्यम् श्रेयसाम् एक-हेतवः ॥ ७।२, ३।१६ ॥
mūrtayaḥ pañca devasya vaṃdanīyāḥ prayatnataḥ ..śreyaḥ-ūrthibhiḥ naraiḥ nityam śreyasām eka-hetavaḥ .. 7.2, 3.16 ..
तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ॥तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ ७.२, ३.१७ ॥
तस्य देव-आदिदेवस्य मूर्ति-अष्टक-मयम् जगत् ॥तस्मिन् व्याप्य स्थितम् विश्वम् सूत्रे मणि-गणाः इव ॥ ७।२, ३।१७ ॥
tasya deva-ādidevasya mūrti-aṣṭaka-mayam jagat ..tasmin vyāpya sthitam viśvam sūtre maṇi-gaṇāḥ iva .. 7.2, 3.17 ..
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ॥ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ ७.२, ३.१८ ॥
शर्वः भवः तथा रुद्रः उग्रः भीमः पशोः पतिः ॥ईशानः च महादेवः मूर्तयः च अष्ट विश्रुताः ॥ ७।२, ३।१८ ॥
śarvaḥ bhavaḥ tathā rudraḥ ugraḥ bhīmaḥ paśoḥ patiḥ ..īśānaḥ ca mahādevaḥ mūrtayaḥ ca aṣṭa viśrutāḥ .. 7.2, 3.18 ..
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ॥अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ ७.२, ३.१९ ॥
भूमि-अंभः-अग्नि-मरुत्-व्योम-क्षेत्रज्ञ-अर्क-निशाकराः ॥अधिष्ठिताः महेशस्य शर्व-आद्यैः अष्ट-मूर्तिभिः ॥ ७।२, ३।१९ ॥
bhūmi-aṃbhaḥ-agni-marut-vyoma-kṣetrajña-arka-niśākarāḥ ..adhiṣṭhitāḥ maheśasya śarva-ādyaiḥ aṣṭa-mūrtibhiḥ .. 7.2, 3.19 ..
चराचरात्मकं विश्वं धत्ते विश्वंभरात्मिका ॥शार्वीर्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ ७.२, ३.२० ॥
चराचर-आत्मकम् विश्वम् धत्ते विश्वंभरा-आत्मिका ॥शार्वीः शिव-आह्वया मूर्तिः इति शास्त्रस्य निश्चयः ॥ ७।२, ३।२० ॥
carācara-ātmakam viśvam dhatte viśvaṃbharā-ātmikā ..śārvīḥ śiva-āhvayā mūrtiḥ iti śāstrasya niścayaḥ .. 7.2, 3.20 ..
संजीवनं समस्तस्य जगतस्सलिलात्मिका ॥भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ ७.२, ३.२१ ॥
संजीवनम् समस्तस्य जगतः सलिल-आत्मिका ॥भावि इति गीयते मूर्ति-भवस्य परमात्मनः ॥ ७।२, ३।२१ ॥
saṃjīvanam samastasya jagataḥ salila-ātmikā ..bhāvi iti gīyate mūrti-bhavasya paramātmanaḥ .. 7.2, 3.21 ..
बहिरंतर्गता विश्वं व्याप्य तेजोमयी शुभा ॥रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ ७.२, ३.२२ ॥
बहिस् अंतर्गता विश्वम् व्याप्य तेजः-मयी शुभा ॥रौद्री रुद्र-अव्यया मूर्तिः आस्थिता घोर-रूपिणी ॥ ७।२, ३।२२ ॥
bahis aṃtargatā viśvam vyāpya tejaḥ-mayī śubhā ..raudrī rudra-avyayā mūrtiḥ āsthitā ghora-rūpiṇī .. 7.2, 3.22 ..
स्पंदयत्यनिलात्मदं बिभर्ति स्पंदते स्वयम् ॥औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ ७.२, ३.२३ ॥
स्पंदयति अनिल-आत्म-दम् बिभर्ति स्पंदते स्वयम् ॥औग्री इति कथ्यते सद्भिः मूर्तिः उग्रस्य वेधसः ॥ ७।२, ३।२३ ॥
spaṃdayati anila-ātma-dam bibharti spaṃdate svayam ..augrī iti kathyate sadbhiḥ mūrtiḥ ugrasya vedhasaḥ .. 7.2, 3.23 ..
सर्वावकाशदा सर्वव्यापिका गगनात्मिका ॥मूर्तिर्भीमस्य भीमाख्या भूतवृंदस्य भेदिका ॥ ७.२, ३.२४ ॥
सर्व ॥मूर्तिः भीमस्य भीम-आख्या भूत-वृंदस्य भेदिका ॥ ७।२, ३।२४ ॥
sarva ..mūrtiḥ bhīmasya bhīma-ākhyā bhūta-vṛṃdasya bhedikā .. 7.2, 3.24 ..
सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ॥मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृंतनी ॥ ७.२, ३.२५ ॥
सर्व-आत्मनाम् अधिष्ठात्री सर्व-क्षेत्र-निवासिनी ॥मूर्तिः पशुपतेः ज्ञेया पशु-पाश-निकृंतनी ॥ ७।२, ३।२५ ॥
sarva-ātmanām adhiṣṭhātrī sarva-kṣetra-nivāsinī ..mūrtiḥ paśupateḥ jñeyā paśu-pāśa-nikṛṃtanī .. 7.2, 3.25 ..
दीपयंती जगत्सर्वं दिवाकरसमाह्वया ॥ईशानाख्यमहेशस्य मूर्तिर्दिवि विसर्पति ॥ ७.२, ३.२६ ॥
दीपयन्ती जगत् सर्वम् दिवाकर-समाह्वया ॥ईशान-आख्य-महेशस्य मूर्तिः दिवि विसर्पति ॥ ७।२, ३।२६ ॥
dīpayantī jagat sarvam divākara-samāhvayā ..īśāna-ākhya-maheśasya mūrtiḥ divi visarpati .. 7.2, 3.26 ..
आप्याययति यो विश्वममृतांशुर्निशाकरः ॥महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ ७.२, ३.२७ ॥
आप्याययति यः विश्वम् अमृतांशुः निशाकरः ॥महादेवस्य सा मूर्तिः महादेव-समाह्वया ॥ ७।२, ३।२७ ॥
āpyāyayati yaḥ viśvam amṛtāṃśuḥ niśākaraḥ ..mahādevasya sā mūrtiḥ mahādeva-samāhvayā .. 7.2, 3.27 ..
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मनः ॥व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ॥ ७.२, ३.२८ ॥
आत्मा तस्य अष्टमी मूर्तिः शिवस्य परमात्मनः ॥व्यापिका इतर-मूर्तीनाम् विश्वम् तस्मात् शिव-आत्मकम् ॥ ७।२, ३।२८ ॥
ātmā tasya aṣṭamī mūrtiḥ śivasya paramātmanaḥ ..vyāpikā itara-mūrtīnām viśvam tasmāt śiva-ātmakam .. 7.2, 3.28 ..
वृक्षस्य मूलसेकेन शाखाः पुष्यंति वै यथा ॥शिवस्य पूजया तद्वत्पुष्यत्यस्य वपुर्जगत् ॥ ७.२, ३.२९ ॥
वृक्षस्य मूल-सेकेन शाखाः पुष्यंति वै यथा ॥शिवस्य पूजया तद्वत् पुष्यति अस्य वपुः जगत् ॥ ७।२, ३।२९ ॥
vṛkṣasya mūla-sekena śākhāḥ puṣyaṃti vai yathā ..śivasya pūjayā tadvat puṣyati asya vapuḥ jagat .. 7.2, 3.29 ..
सर्वाभयप्रदानं च सर्वानुग्रहणं तथा ॥सर्वोपकारकरणं शिवस्याराधनं विदुः ॥ ७.२, ३.३० ॥
सर्व-अभय-प्रदानम् च सर्व-अनुग्रहणम् तथा ॥सर्व-उपकार-करणम् शिवस्य आराधनम् विदुः ॥ ७।२, ३।३० ॥
sarva-abhaya-pradānam ca sarva-anugrahaṇam tathā ..sarva-upakāra-karaṇam śivasya ārādhanam viduḥ .. 7.2, 3.30 ..
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ॥तथा सर्वस्य संप्रीत्या प्रीतो भवति शंकरः ॥ ७.२, ३.३१ ॥
यथा इह पुत्र-पौत्र-आदेः प्रीत्या प्रीतः भवेत् पिता ॥तथा सर्वस्य संप्रीत्या प्रीतः भवति शंकरः ॥ ७।२, ३।३१ ॥
yathā iha putra-pautra-ādeḥ prītyā prītaḥ bhavet pitā ..tathā sarvasya saṃprītyā prītaḥ bhavati śaṃkaraḥ .. 7.2, 3.31 ..
देहिनो यस्य कस्यापि क्रियते यदि निग्रहः ॥अनिष्टमष्टमूर्तेस्तत्कृतमेव न संशयः ॥ ७.२, ३.३२ ॥
देहिनः यस्य कस्य अपि क्रियते यदि निग्रहः ॥अनिष्टम् अष्टमूर्तेः तत् कृतम् एव न संशयः ॥ ७।२, ३।३२ ॥
dehinaḥ yasya kasya api kriyate yadi nigrahaḥ ..aniṣṭam aṣṭamūrteḥ tat kṛtam eva na saṃśayaḥ .. 7.2, 3.32 ..
अष्टमूर्त्यात्मना विश्वमधिष्ठाय स्थितं शिवम् ॥भजस्व सर्वभावेन रुद्रः परमकारणम् ॥ ७.२, ३.३३ ॥
अष्टमूर्ति-आत्मना विश्वम् अधिष्ठाय स्थितम् शिवम् ॥भजस्व सर्व-भावेन रुद्रः परम-कारणम् ॥ ७।२, ३।३३ ॥
aṣṭamūrti-ātmanā viśvam adhiṣṭhāya sthitam śivam ..bhajasva sarva-bhāvena rudraḥ parama-kāraṇam .. 7.2, 3.33 ..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे तृतीयो ऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे तृतीयः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe tṛtīyaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In