| |
|

This overlay will guide you through the buttons:

तत्रादौ शिवयोः पार्श्वे दक्षिणे वामतः क्रमात् ॥ गंधाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ ७.२,३०.१॥
तत्र आदौ शिवयोः पार्श्वे दक्षिणे वामतस् क्रमात् ॥ गंध-आद्यैः अर्चयेत् पूर्वम् देवौ हेरंब-षण्मुखौ ॥ ७।२,३०।१॥
tatra ādau śivayoḥ pārśve dakṣiṇe vāmatas kramāt .. gaṃdha-ādyaiḥ arcayet pūrvam devau heraṃba-ṣaṇmukhau .. 7.2,30.1..
ततो ब्रह्माणि परित ईशानादि यथाक्रमम् ॥ सशक्तिकानि सद्यांतं प्रथमावरणे यजेत् ॥ ७.२,३०.२॥
ततस् ब्रह्माणि परितस् ईशान-आदि यथाक्रमम् ॥ स शक्तिकानि सद्य-अंतम् प्रथम-आवरणे यजेत् ॥ ७।२,३०।२॥
tatas brahmāṇi paritas īśāna-ādi yathākramam .. sa śaktikāni sadya-aṃtam prathama-āvaraṇe yajet .. 7.2,30.2..
षडंगान्यपि तत्रैव हृदयादीन्यनुक्रमात् ॥ शिवस्य च शिवायाश्च वाह्नेयादि समर्चयेत् ॥ ७.२,३०.३॥
षष्-अंगानि अपि तत्र एव हृदय-आदीनि अनुक्रमात् ॥ शिवस्य च शिवायाः च वाह्नेय-आदि समर्चयेत् ॥ ७।२,३०।३॥
ṣaṣ-aṃgāni api tatra eva hṛdaya-ādīni anukramāt .. śivasya ca śivāyāḥ ca vāhneya-ādi samarcayet .. 7.2,30.3..
तत्र वामादिकान्रुद्रानष्टौ वामादिशक्तिभिः ॥ अर्चयेद्वा न वा पश्चात्पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४॥
तत्र वामा-आदिकान् रुद्रान् अष्टौ वाम-आदि-शक्तिभिः ॥ अर्चयेत् वा न वा पश्चात् पूर्व-आदि-परितस् क्रमात् ॥ ७।२,३०।४॥
tatra vāmā-ādikān rudrān aṣṭau vāma-ādi-śaktibhiḥ .. arcayet vā na vā paścāt pūrva-ādi-paritas kramāt .. 7.2,30.4..
प्रथमावरणं प्रोक्तं मया ते यदुनंदन ॥ द्वितीयावरणं प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७.२,३०.५॥
प्रथम-आवरणम् प्रोक्तम् मया ते यदु-नन्दन ॥ द्वितीय-आवरणम् प्रीत्या प्रोच्यते श्रद्धया शृणु ॥ ७।२,३०।५॥
prathama-āvaraṇam proktam mayā te yadu-nandana .. dvitīya-āvaraṇam prītyā procyate śraddhayā śṛṇu .. 7.2,30.5..
अनंतं पूर्वादिक्पत्रे तच्छक्तिं तस्य वामतः ॥ सूक्ष्मं दक्षिणदिक्पत्रे सह शक्त्या समर्चयेत् ॥ ७.२,३०.६॥
अनंतम् पूर्वादिश्-पत्रे तद्-शक्तिम् तस्य वामतस् ॥ सूक्ष्मम् दक्षिण-दिश्-पत्रे सह शक्त्या समर्चयेत् ॥ ७।२,३०।६॥
anaṃtam pūrvādiś-patre tad-śaktim tasya vāmatas .. sūkṣmam dakṣiṇa-diś-patre saha śaktyā samarcayet .. 7.2,30.6..
ततः पश्चिमदिक्पत्रे सह शक्त्या शिवोत्तमम् ॥ तथैवोत्तरदिक्पत्रे चैकनेत्रं समर्चयेत् ॥ ७.२,३०.७॥
ततस् पश्चिम-दिश्-पत्रे सह शक्त्या शिव-उत्तमम् ॥ तथा एव उत्तर-दिश्-पत्रे च एकनेत्रम् समर्चयेत् ॥ ७।२,३०।७॥
tatas paścima-diś-patre saha śaktyā śiva-uttamam .. tathā eva uttara-diś-patre ca ekanetram samarcayet .. 7.2,30.7..
एकरुद्रं च तच्छक्तिं पश्चादीशदले ऽर्चयेत् ॥ त्रिमूर्तिं तस्य शक्तिं च पूजयेदग्निदिग्दले ॥ ७.२,३०.८॥
एकरुद्रम् च तद्-शक्तिम् पश्चात् ईश-दले अर्चयेत् ॥ त्रिमूर्तिम् तस्य शक्तिम् च पूजयेत् अग्नि-दिश्-दले ॥ ७।२,३०।८॥
ekarudram ca tad-śaktim paścāt īśa-dale arcayet .. trimūrtim tasya śaktim ca pūjayet agni-diś-dale .. 7.2,30.8..
श्रीकण्ठं नैरृते पत्रे तच्छक्तिं तस्य वामतः ॥ तथैव मारुते पत्रे शिखंडीशं समर्चयेत् ॥ ७.२,३०.९॥
श्रीकण्ठम् नैरृते पत्रे तद्-शक्तिम् तस्य वामतस् ॥ तथा एव मारुते पत्रे शिखंडीशम् समर्चयेत् ॥ ७।२,३०।९॥
śrīkaṇṭham nairṛte patre tad-śaktim tasya vāmatas .. tathā eva mārute patre śikhaṃḍīśam samarcayet .. 7.2,30.9..
द्वितीयावरणे चेज्यास्सर्वर्तश्चक्रवर्तिनः ॥ तृतीयावरणे पूज्याः शक्तिभिश्चाष्टमूर्तयः ॥ ७.२,३०.१०॥
द्वितीय-आवरणे च इज्याः सर्वर्तः चक्रवर्तिनः ॥ तृतीय-आवरणे पूज्याः शक्तिभिः च अष्टमूर्तयः ॥ ७।२,३०।१०॥
dvitīya-āvaraṇe ca ijyāḥ sarvartaḥ cakravartinaḥ .. tṛtīya-āvaraṇe pūjyāḥ śaktibhiḥ ca aṣṭamūrtayaḥ .. 7.2,30.10..
अष्टसु क्रमशो दिक्षु पूर्वादिपरितः क्रमात् ॥ भवः शर्वस्तथेशानो रुद्रः पशुपतिस्ततः ॥ ७.२,३०.११॥
अष्टसु क्रमशस् दिक्षु पूर्व-आदि-परितस् क्रमात् ॥ भवः शर्वः तथा ईशानः रुद्रः पशुपतिः ततस् ॥ ७।२,३०।११॥
aṣṭasu kramaśas dikṣu pūrva-ādi-paritas kramāt .. bhavaḥ śarvaḥ tathā īśānaḥ rudraḥ paśupatiḥ tatas .. 7.2,30.11..
उग्रो भीमो महादेव इत्यष्टौ मूर्तयः क्रमात् ॥ अनंतरं ततश्चैव महादेवादयः क्रमात् ॥ ७.२,३०.१२॥
उग्रः भीमः महादेवः इति अष्टौ मूर्तयः क्रमात् ॥ अनंतरम् ततस् च एव महादेव-आदयः क्रमात् ॥ ७।२,३०।१२॥
ugraḥ bhīmaḥ mahādevaḥ iti aṣṭau mūrtayaḥ kramāt .. anaṃtaram tatas ca eva mahādeva-ādayaḥ kramāt .. 7.2,30.12..
शक्तिभिस्सह संपूज्यास्तत्रैकादशमूर्तयः ॥ महादेवः शिवो रुद्रः शंकरो नीललोहितः ॥ ७.२,३०.१२॥
शक्तिभिः सह संपूज्याः तत्र एकादश-मूर्तयः ॥ महादेवः शिवः रुद्रः शंकरः नीललोहितः ॥ ७।२,३०।१२॥
śaktibhiḥ saha saṃpūjyāḥ tatra ekādaśa-mūrtayaḥ .. mahādevaḥ śivaḥ rudraḥ śaṃkaraḥ nīlalohitaḥ .. 7.2,30.12..
ईशानो विजयो भीमो देवदेवो भवोद्भवः ॥ कपर्दीशश्च कथ्यंते तथैकादशशक्तयः ॥ ७.२,३०.१३॥
ईशानः विजयः भीमः देवदेवः भवोद्भवः ॥ कपर्दीशः च कथ्यंते तथा एकादश-शक्तयः ॥ ७।२,३०।१३॥
īśānaḥ vijayaḥ bhīmaḥ devadevaḥ bhavodbhavaḥ .. kapardīśaḥ ca kathyaṃte tathā ekādaśa-śaktayaḥ .. 7.2,30.13..
तत्राष्टौ प्रथमं पूज्याः वाह्नेयादि यथाक्रमम् ॥ देवदेवः पूर्वपत्रे ईशानं चाग्निगोचरे ॥ ७.२,३०.१४॥
तत्र अष्टौ प्रथमम् पूज्याः वाह्नेय-आदि यथाक्रमम् ॥ देवदेवः पूर्व-पत्रे ईशानम् च अग्नि-गोचरे ॥ ७।२,३०।१४॥
tatra aṣṭau prathamam pūjyāḥ vāhneya-ādi yathākramam .. devadevaḥ pūrva-patre īśānam ca agni-gocare .. 7.2,30.14..
भवोद्भवस्तयोर्मध्ये कपालीशस्ततः परम् ॥ तस्मिन्नावरणे भूयो वृषेन्द्रं पुरतो यजेत् ॥ ७.२,३०.१५॥
भवोद्भवः तयोः मध्ये कपाली ईशः ततस् परम् ॥ तस्मिन् आवरणे भूयस् वृष-इन्द्रम् पुरतस् यजेत् ॥ ७।२,३०।१५॥
bhavodbhavaḥ tayoḥ madhye kapālī īśaḥ tatas param .. tasmin āvaraṇe bhūyas vṛṣa-indram puratas yajet .. 7.2,30.15..
नंदिनं दक्षिणे तस्य महाकालं तथोत्तरे ॥ शास्तारं वह्निदिक्पत्रे मात्ःर्दक्षिणदिग्दले ॥ ७.२,३०.१६॥
नंदिनम् दक्षिणे तस्य महाकालम् तथा उत्तरे ॥ शास्तारम् वह्नि-दिश्-पत्रे मातृ दक्षिण-दिश्-दले ॥ ७।२,३०।१६॥
naṃdinam dakṣiṇe tasya mahākālam tathā uttare .. śāstāram vahni-diś-patre mātṛ dakṣiṇa-diś-dale .. 7.2,30.16..
गजास्यं नैरृते पत्रे षण्मुखं वारुणे पुनः ॥ ज्येष्ठां वायुदले गौरीमुत्तरे चंडमैश्वरे ॥ ७.२,३०.१७॥
गजास्यम् नैरृते पत्रे षण्मुखम् वारुणे पुनर् ॥ ज्येष्ठाम् वायुदले गौरीम् उत्तरे चंडम् ऐश्वरे ॥ ७।२,३०।१७॥
gajāsyam nairṛte patre ṣaṇmukham vāruṇe punar .. jyeṣṭhām vāyudale gaurīm uttare caṃḍam aiśvare .. 7.2,30.17..
शास्तृनन्दीशयोर्मध्ये मुनीन्द्रं वृषभं यजेत् ॥ महाकालस्योत्तरतः पिंगलं तु समर्चयेत् ॥ ७.२,३०.१८॥
शास्तृ-नन्दीशयोः मध्ये मुनि-इन्द्रम् वृषभम् यजेत् ॥ महाकालस्य उत्तरतस् पिंगलम् तु समर्चयेत् ॥ ७।२,३०।१८॥
śāstṛ-nandīśayoḥ madhye muni-indram vṛṣabham yajet .. mahākālasya uttaratas piṃgalam tu samarcayet .. 7.2,30.18..
शास्तृमातृसमूहस्य मध्ये भृंगीश्वरं ततः ॥ मातृविघ्नेशमध्ये तु वीरभद्रं समर्चयेत् ॥ ७.२,३०.१९॥
शास्तृ-मातृ-समूहस्य मध्ये भृंगीश्वरम् ततस् ॥ मातृ-विघ्नेश-मध्ये तु वीरभद्रम् समर्चयेत् ॥ ७।२,३०।१९॥
śāstṛ-mātṛ-samūhasya madhye bhṛṃgīśvaram tatas .. mātṛ-vighneśa-madhye tu vīrabhadram samarcayet .. 7.2,30.19..
स्कन्दविघ्नेशयोर्मध्ये यजेद्देवीं सरस्वतीम् ॥ ज्येष्ठाकुमारयोर्मध्ये श्रियं शिवपदार्चिताम् ॥ ७.२,३०.२०॥
स्कन्द-विघ्नेशयोः मध्ये यजेत् देवीम् सरस्वतीम् ॥ ज्येष्ठा-कुमारयोः मध्ये श्रियम् शिव-पद-अर्चिताम् ॥ ७।२,३०।२०॥
skanda-vighneśayoḥ madhye yajet devīm sarasvatīm .. jyeṣṭhā-kumārayoḥ madhye śriyam śiva-pada-arcitām .. 7.2,30.20..
ज्येष्ठागणाम्बयोर्मध्ये महामोटीं समर्चयेत् ॥ गणाम्बाचण्डयोर्मध्ये देवीं दुर्गां प्रपूजयेत् ॥ ७.२,३०.२१॥
ज्येष्ठा-गणाम्बयोः मध्ये महामोटीम् समर्चयेत् ॥ गण-अम्बा-चण्डयोः मध्ये देवीम् दुर्गाम् प्रपूजयेत् ॥ ७।२,३०।२१॥
jyeṣṭhā-gaṇāmbayoḥ madhye mahāmoṭīm samarcayet .. gaṇa-ambā-caṇḍayoḥ madhye devīm durgām prapūjayet .. 7.2,30.21..
अत्रैवावरणे भूयः शिवानुचरसंहतिम् ॥ रुद्रप्रथमभूताख्यां विविधां च सशक्तिकाम् ॥ ७.२,३०.२२॥
अत्र एव आवरणे भूयस् शिव-अनुचर-संहतिम् ॥ रुद्र-प्रथम-भूत-आख्याम् विविधाम् च स शक्तिकाम् ॥ ७।२,३०।२२॥
atra eva āvaraṇe bhūyas śiva-anucara-saṃhatim .. rudra-prathama-bhūta-ākhyām vividhām ca sa śaktikām .. 7.2,30.22..
शिवायाश्च सखीवर्गं जपेद्ध्यात्वा समाहितः ॥ एवं तृतीयावरणे वितते पूजिते सति ॥ ७.२,३०.२३॥
शिवायाः च सखी-वर्गम् जपेत् ध्यात्वा समाहितः ॥ एवम् तृतीय-आवरणे वितते पूजिते सति ॥ ७।२,३०।२३॥
śivāyāḥ ca sakhī-vargam japet dhyātvā samāhitaḥ .. evam tṛtīya-āvaraṇe vitate pūjite sati .. 7.2,30.23..
चतुर्थावरणं ध्यात्वा बहिस्तस्य समर्चयेत् ॥ भानुः पूर्वदले पूज्यो दक्षिणे चतुराननः ॥ ७.२,३०.२४॥
चतुर्थ-आवरणम् ध्यात्वा बहिस् तस्य समर्चयेत् ॥ भानुः पूर्व-दले पूज्यः दक्षिणे चतुराननः ॥ ७।२,३०।२४॥
caturtha-āvaraṇam dhyātvā bahis tasya samarcayet .. bhānuḥ pūrva-dale pūjyaḥ dakṣiṇe caturānanaḥ .. 7.2,30.24..
रुद्रो वरुणदिक्पत्रे विष्णुरुत्तरदिग्दले ॥ चतुर्णामपि देवानां पृथगावरणान्यथ ॥ ७.२,३०.२५॥
॥ चतुर्णाम् अपि देवानाम् पृथक् आवरणानि अथ ॥ ७।२,३०।२५॥
.. caturṇām api devānām pṛthak āvaraṇāni atha .. 7.2,30.25..
तस्यांगानि षडेवादौ दीप्ताद्याभिश्च शक्तिभिः ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला क्रमात् ॥ ७.२,३०.२६॥
तस्य अंगानि षड् एव आदौ दीप्ता-आद्याभिः च शक्तिभिः ॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिः विमला क्रमात् ॥ ७।२,३०।२६॥
tasya aṃgāni ṣaḍ eva ādau dīptā-ādyābhiḥ ca śaktibhiḥ .. dīptā sūkṣmā jayā bhadrā vibhūtiḥ vimalā kramāt .. 7.2,30.26..
अमोघा विद्युता चैव पूर्वादि परितः स्थिताः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ ७.२,३०.२७॥
अमोघा विद्युता च एव पूर्व-आदि परितस् स्थिताः ॥ द्वितीय-आवरणे पूज्याः चतस्रः मूर्तयः क्रमात् ॥ ७।२,३०।२७॥
amoghā vidyutā ca eva pūrva-ādi paritas sthitāḥ .. dvitīya-āvaraṇe pūjyāḥ catasraḥ mūrtayaḥ kramāt .. 7.2,30.27..
पूर्वाद्युत्तरपर्यंताः शक्तयश्च ततः परम् ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ ७.२,३०.२८॥
पूर्व-आदि-उत्तर-पर्यंताः शक्तयः च ततस् परम् ॥ आदित्यः भास्करः भानुः रविः च इति अनुपूर्वशस् ॥ ७।२,३०।२८॥
pūrva-ādi-uttara-paryaṃtāḥ śaktayaḥ ca tatas param .. ādityaḥ bhāskaraḥ bhānuḥ raviḥ ca iti anupūrvaśas .. 7.2,30.28..
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चैते विवस्वतः ॥ विस्तारा पूर्वदिग्भागे सुतरां दक्षिणे स्थिताः ॥ ७.२,३०.२९॥
अर्कः ब्रह्मा तथा रुद्रः विष्णुः च एते विवस्वतः ॥ पूर्व-दिग्भागे सुतराम् दक्षिणे स्थिताः ॥ ७।२,३०।२९॥
arkaḥ brahmā tathā rudraḥ viṣṇuḥ ca ete vivasvataḥ .. pūrva-digbhāge sutarām dakṣiṇe sthitāḥ .. 7.2,30.29..
बोधनी पश्चिमे भागे आप्यायिन्युत्तरे पुनः ॥ उषां प्रभां तथा प्राज्ञां सन्ध्यामपि ततः परम् ॥ ७.२,३०.३०॥
बोधनी पश्चिमे भागे आप्यायिनी उत्तरे पुनर् ॥ उषाम् प्रभाम् तथा प्राज्ञाम् सन्ध्याम् अपि ततस् परम् ॥ ७।२,३०।३०॥
bodhanī paścime bhāge āpyāyinī uttare punar .. uṣām prabhām tathā prājñām sandhyām api tatas param .. 7.2,30.30..
ऐशानादिषु विन्यस्य द्वितीयावरणे यजेत् ॥ सोममंगारकं चैव बुधं बुद्धिमतां वरम् ॥ ७.२,३०.३१॥
ऐशान-आदिषु विन्यस्य द्वितीय-आवरणे यजेत् ॥ सोमम् अंगारकम् च एव बुधम् बुद्धिमताम् वरम् ॥ ७।२,३०।३१॥
aiśāna-ādiṣu vinyasya dvitīya-āvaraṇe yajet .. somam aṃgārakam ca eva budham buddhimatām varam .. 7.2,30.31..
बृहस्पतिं बृहद्बुद्धिं भार्गवं तेजसां निधिम् ॥ शनैश्चरं तथा राहुं केतुं धूम्रं भयंकरम् ॥ ७.२,३०.३२॥
बृहस्पतिम् बृहत्-बुद्धिम् भार्गवम् तेजसाम् निधिम् ॥ शनैश्चरम् तथा राहुम् केतुम् धूम्रम् भयंकरम् ॥ ७।२,३०।३२॥
bṛhaspatim bṛhat-buddhim bhārgavam tejasām nidhim .. śanaiścaram tathā rāhum ketum dhūmram bhayaṃkaram .. 7.2,30.32..
समंततो यजेदेतांस्तृतीयावरणे क्रमात् ॥ अथवा द्वादशादित्या द्वितीयावरणे यजेत् ॥ ७.२,३०.३३॥
समंततः यजेत् एतान् तृतीय-आवरणे क्रमात् ॥ अथवा द्वादश आदित्याः द्वितीय-आवरणे यजेत् ॥ ७।२,३०।३३॥
samaṃtataḥ yajet etān tṛtīya-āvaraṇe kramāt .. athavā dvādaśa ādityāḥ dvitīya-āvaraṇe yajet .. 7.2,30.33..
तृतीयावरणे चैव राशीन्द्वादश पूजयेत् ॥ सप्तसप्त गणांश्चैव बहिस्तस्य समंततः ॥ ७.२,३०.३४॥
तृतीय-आवरणे च एव राशीन् द्वादश पूजयेत् ॥ सप्त-सप्त गणान् च एव बहिस् तस्य समंततः ॥ ७।२,३०।३४॥
tṛtīya-āvaraṇe ca eva rāśīn dvādaśa pūjayet .. sapta-sapta gaṇān ca eva bahis tasya samaṃtataḥ .. 7.2,30.34..
ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ ७.२,३०.३५॥
ऋषीन् देवान् च गंधर्वान् पन्नगान् अप्सरः-गणान् ॥ ग्रामण्यः च तथा यक्षान् यातुधानान् तथा हयान् ॥ ७।२,३०।३५॥
ṛṣīn devān ca gaṃdharvān pannagān apsaraḥ-gaṇān .. grāmaṇyaḥ ca tathā yakṣān yātudhānān tathā hayān .. 7.2,30.35..
सप्तच्छंदोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ एवं तृतीयावरणे समभ्यर्च्य दिवाकरम् ॥ ७.२,३०.३६॥
सप्त-छंदः-मयान् च एव वालखिल्यान् च पूजयेत् ॥ एवम् तृतीय-आवरणे समभ्यर्च्य दिवाकरम् ॥ ७।२,३०।३६॥
sapta-chaṃdaḥ-mayān ca eva vālakhilyān ca pūjayet .. evam tṛtīya-āvaraṇe samabhyarcya divākaram .. 7.2,30.36..
ब्रह्माणमर्चयेत्पश्चात्त्रिभिरावरणैः सहः ॥ हिरण्यगर्भं पूर्वस्यां विराजं दक्षिणे ततः ॥ ७.२,३०.३७॥
ब्रह्माणम् अर्चयेत् पश्चात् त्रिभिः आवरणैः सहः ॥ हिरण्यगर्भम् पूर्वस्याम् विराजम् दक्षिणे ततस् ॥ ७।२,३०।३७॥
brahmāṇam arcayet paścāt tribhiḥ āvaraṇaiḥ sahaḥ .. hiraṇyagarbham pūrvasyām virājam dakṣiṇe tatas .. 7.2,30.37..
कालं पश्चिमदिग्भागे पुरुषं चोत्तरे यजेत् ॥ हिरण्यगर्भः प्रथमो ब्रह्मा कमलसन्निभः ॥ ७.२,३०.३८॥
कालम् पश्चिम-दिग्भागे पुरुषम् च उत्तरे यजेत् ॥ हिरण्यगर्भः प्रथमः ब्रह्मा कमल-सन्निभः ॥ ७।२,३०।३८॥
kālam paścima-digbhāge puruṣam ca uttare yajet .. hiraṇyagarbhaḥ prathamaḥ brahmā kamala-sannibhaḥ .. 7.2,30.38..
कालो जात्यंजनप्रख्यः पुरुषः स्फटिकोपमः ॥ त्रिगुणो राजसश्चैव तामसः सात्त्विकस्तथा ॥ ७.२,३०.३९॥
कालः जाति-अंजन-प्रख्यः पुरुषः स्फटिक-उपमः ॥ त्रिगुणः राजसः च एव तामसः सात्त्विकः तथा ॥ ७।२,३०।३९॥
kālaḥ jāti-aṃjana-prakhyaḥ puruṣaḥ sphaṭika-upamaḥ .. triguṇaḥ rājasaḥ ca eva tāmasaḥ sāttvikaḥ tathā .. 7.2,30.39..
चत्वार एते क्रमशः प्रथमावरणे स्थिताः ॥ द्वितीयावरणे पूज्याः पूर्वादिपरितः क्रमात् ॥ ७.२,३०.४०॥
चत्वारः एते क्रमशस् प्रथम-आवरणे स्थिताः ॥ द्वितीय-आवरणे पूज्याः पूर्व-आदि-परितस् क्रमात् ॥ ७।२,३०।४०॥
catvāraḥ ete kramaśas prathama-āvaraṇe sthitāḥ .. dvitīya-āvaraṇe pūjyāḥ pūrva-ādi-paritas kramāt .. 7.2,30.40..
सनत्कुमारः सनकः सनंदश्च सनातनः ॥ तृतीयावरणे पश्चादर्चयेच्च प्रजापतीन् ॥ ७.२,३०.४१॥
सनत्कुमारः सनकः सनंदः च सनातनः ॥ तृतीय-आवरणे पश्चात् अर्चयेत् च प्रजापतीन् ॥ ७।२,३०।४१॥
sanatkumāraḥ sanakaḥ sanaṃdaḥ ca sanātanaḥ .. tṛtīya-āvaraṇe paścāt arcayet ca prajāpatīn .. 7.2,30.41..
अष्टौ पूर्वांश्च पूर्वादौ त्रीन्प्राक्पश्चादनुक्रमात् ॥ दक्षो रुचिर्भृगुश्चैव मरीचिश्च तथांगिराः ॥ ७.२,३०.४२॥
अष्टौ पूर्वान् च पूर्व-आदौ त्रीन् प्राक् पश्चात् अनुक्रमात् ॥ दक्षः रुचिः भृगुः च एव मरीचिः च तथा अंगिराः ॥ ७।२,३०।४२॥
aṣṭau pūrvān ca pūrva-ādau trīn prāk paścāt anukramāt .. dakṣaḥ ruciḥ bhṛguḥ ca eva marīciḥ ca tathā aṃgirāḥ .. 7.2,30.42..
पुलस्त्यः पुलहश्चैव क्रतुरत्रिश्च कश्यपः ॥ वसिष्ठश्चेति विख्याताः प्रजानां पतयस्त्विमे ॥ ७.२,३०.४३॥
पुलस्त्यः पुलहः च एव क्रतुः अत्रिः च कश्यपः ॥ वसिष्ठः च इति विख्याताः प्रजानाम् पतयः तु इमे ॥ ७।२,३०।४३॥
pulastyaḥ pulahaḥ ca eva kratuḥ atriḥ ca kaśyapaḥ .. vasiṣṭhaḥ ca iti vikhyātāḥ prajānām patayaḥ tu ime .. 7.2,30.43..
तेषां भार्याश्च तैस्सार्धं पूजनीया यथाक्रमम् ॥ प्रसूतिश्च तथा"कूतिः ख्यातिः सम्भूतिरेव च ॥ ७.२,३०.४४॥
तेषाम् भार्याः च तैः सार्धम् पूजनीयाः यथाक्रमम् ॥ प्रसूतिः च तथा"कूतिः ख्यातिः सम्भूतिः एव च ॥ ७।२,३०।४४॥
teṣām bhāryāḥ ca taiḥ sārdham pūjanīyāḥ yathākramam .. prasūtiḥ ca tathā"kūtiḥ khyātiḥ sambhūtiḥ eva ca .. 7.2,30.44..
धृतिः स्मृतिः क्षमा चैव सन्नतिश्चानसूयका ॥ देवमातारुन्धती च सर्वाः खलु पतिव्रताः ॥ ७.२,३०.४५॥
धृतिः स्मृतिः क्षमा च एव सन्नतिः च अनसूयका ॥ देवमाता अरुन्धती च सर्वाः खलु पतिव्रताः ॥ ७।२,३०।४५॥
dhṛtiḥ smṛtiḥ kṣamā ca eva sannatiḥ ca anasūyakā .. devamātā arundhatī ca sarvāḥ khalu pativratāḥ .. 7.2,30.45..
शिवार्चनरतो नित्यं श्रीमत्यः प्रियदर्शनाः ॥ प्रथमावरणे वेदांश्चतुरो वा प्रपूजयेत् ॥ ७.२,३०.४६॥
शिव-अर्चन-रतः नित्यम् श्रीमत्यः प्रिय-दर्शनाः ॥ प्रथम-आवरणे वेदान् चतुरः वा प्रपूजयेत् ॥ ७।२,३०।४६॥
śiva-arcana-rataḥ nityam śrīmatyaḥ priya-darśanāḥ .. prathama-āvaraṇe vedān caturaḥ vā prapūjayet .. 7.2,30.46..
इतिहासपुराणानि द्वितीयावरणे पुनः ॥ तृतीयावरणे पश्चाद्धर्मशास्त्रपुरस्सराः ॥ ७.२,३०.४७॥
इतिहास-पुराणानि द्वितीय-आवरणे पुनर् ॥ तृतीय-आवरणे पश्चात् धर्मशास्त्र-पुरस्सराः ॥ ७।२,३०।४७॥
itihāsa-purāṇāni dvitīya-āvaraṇe punar .. tṛtīya-āvaraṇe paścāt dharmaśāstra-purassarāḥ .. 7.2,30.47..
वैदिक्यो निखिला विद्याः पूज्या एव समंततः ॥ पूर्वादिपुरतो वेदास्तदन्ये तु यथारुचि ॥ ७.२,३०.४८॥
वैदिक्यः निखिलाः विद्याः पूज्याः एव समंततः ॥ पूर्व-आदि-पुरतस् वेदाः तद्-अन्ये तु यथारुचि ॥ ७।२,३०।४८॥
vaidikyaḥ nikhilāḥ vidyāḥ pūjyāḥ eva samaṃtataḥ .. pūrva-ādi-puratas vedāḥ tad-anye tu yathāruci .. 7.2,30.48..
अष्टधा वा चतुर्धा वा कृत्वा पूजां समंततः ॥ एवं ब्रह्माणमभ्यर्च्य त्रिभिरावरणैर्युतम् ॥ ७.२,३०.४९॥
अष्टधा वा चतुर्धा वा कृत्वा पूजाम् समंततः ॥ एवम् ब्रह्माणम् अभ्यर्च्य त्रिभिः आवरणैः युतम् ॥ ७।२,३०।४९॥
aṣṭadhā vā caturdhā vā kṛtvā pūjām samaṃtataḥ .. evam brahmāṇam abhyarcya tribhiḥ āvaraṇaiḥ yutam .. 7.2,30.49..
दक्षिणे पश्चिमे पश्चाद्रुद्रं सावरणं यजेत् ॥ तस्य ब्रह्मषडंगानि प्रथमावरणं स्मृतम् ॥ ७.२,३०.५०॥
दक्षिणे पश्चिमे पश्चात् रुद्रम् स आवरणम् यजेत् ॥ तस्य ब्रह्म-षष्-अंगानि प्रथम-आवरणम् स्मृतम् ॥ ७।२,३०।५०॥
dakṣiṇe paścime paścāt rudram sa āvaraṇam yajet .. tasya brahma-ṣaṣ-aṃgāni prathama-āvaraṇam smṛtam .. 7.2,30.50..
द्वितीयावरणे चैव विद्येश्वरमयं तथा ॥ तृतीयावरणे भेदो विद्यते स तु कथ्यते ॥ ७.२,३०.५१॥
द्वितीय-आवरणे च एव विद्येश्वर-मयम् तथा ॥ तृतीय-आवरणे भेदः विद्यते स तु कथ्यते ॥ ७।२,३०।५१॥
dvitīya-āvaraṇe ca eva vidyeśvara-mayam tathā .. tṛtīya-āvaraṇe bhedaḥ vidyate sa tu kathyate .. 7.2,30.51..
चतस्रो मूर्तयस्तस्य पूज्याः पूर्वादितः क्रमात् ॥ त्रिगुणास्सकलो देवः पुरस्ताच्छिवसंज्ञकः ॥ ७.२,३०.५२॥
चतस्रः मूर्तयः तस्य पूज्याः पूर्व-आदितः क्रमात् ॥ त्रिगुणाः सकलः देवः पुरस्तात् शिव-संज्ञकः ॥ ७।२,३०।५२॥
catasraḥ mūrtayaḥ tasya pūjyāḥ pūrva-āditaḥ kramāt .. triguṇāḥ sakalaḥ devaḥ purastāt śiva-saṃjñakaḥ .. 7.2,30.52..
राजसो दक्षिणे ब्रह्मा सृष्टिकृत्पूज्यते भवः ॥ तामसः पश्चिमे चाग्निः पूज्यस्संहारको हरः ॥ ७.२,३०.५३॥
राजसः दक्षिणे ब्रह्मा सृष्टि-कृत् पूज्यते भवः ॥ तामसः पश्चिमे च अग्निः पूज्यः संहारकः हरः ॥ ७।२,३०।५३॥
rājasaḥ dakṣiṇe brahmā sṛṣṭi-kṛt pūjyate bhavaḥ .. tāmasaḥ paścime ca agniḥ pūjyaḥ saṃhārakaḥ haraḥ .. 7.2,30.53..
सात्त्विकस्सुखकृत्सौम्ये विष्णुर्विश्वपतिर्मृडः ॥ एवं पश्चिमदिग्भागे शम्भोः षड्विंशकं शिवम् ॥ ७.२,३०.५४॥
सात्त्विकः सुख-कृत् सौम्ये विष्णुः विश्वपतिः मृडः ॥ एवम् पश्चिम-दिग्भागे शम्भोः षड्विंशकम् शिवम् ॥ ७।२,३०।५४॥
sāttvikaḥ sukha-kṛt saumye viṣṇuḥ viśvapatiḥ mṛḍaḥ .. evam paścima-digbhāge śambhoḥ ṣaḍviṃśakam śivam .. 7.2,30.54..
समभ्यर्च्योत्तरे पार्श्वे ततो वैकुंठमर्चयेत् ॥ वासुदेवं पुरस्कृत्वा प्रथमावरणे यजेत् ॥ ७.२,३०.५५॥
समभ्यर्च्य उत्तरे पार्श्वे ततस् वैकुंठम् अर्चयेत् ॥ वासुदेवम् पुरस्कृत्वा प्रथम-आवरणे यजेत् ॥ ७।२,३०।५५॥
samabhyarcya uttare pārśve tatas vaikuṃṭham arcayet .. vāsudevam puraskṛtvā prathama-āvaraṇe yajet .. 7.2,30.55..
अनिरुद्धं दक्षिणतः प्रद्युम्नं पश्चिमे ततः ॥ सौम्ये संकर्षणं पश्चाद्व्यत्यस्तौ वा यजेदिमौ ॥ ७.२,३०.५६॥
अनिरुद्धम् दक्षिणतस् प्रद्युम्नम् पश्चिमे ततस् ॥ सौम्ये संकर्षणम् पश्चात् व्यत्यस्तौ वा यजेत् इमौ ॥ ७।२,३०।५६॥
aniruddham dakṣiṇatas pradyumnam paścime tatas .. saumye saṃkarṣaṇam paścāt vyatyastau vā yajet imau .. 7.2,30.56..
प्रथमावरणं प्रोक्तं द्वितीयावरणं शुभम् ॥ मत्स्यः कूर्मो वराहश्च नरसिंहोथ वामनः ॥ ७.२,३०.५७॥
प्रथम-आवरणम् प्रोक्तम् द्वितीय-आवरणम् शुभम् ॥ मत्स्यः कूर्मः वराहः च नरसिंहः उथ वामनः ॥ ७।२,३०।५७॥
prathama-āvaraṇam proktam dvitīya-āvaraṇam śubham .. matsyaḥ kūrmaḥ varāhaḥ ca narasiṃhaḥ utha vāmanaḥ .. 7.2,30.57..
रामश्चान्यतमः कृष्णो भवानश्वमुखोपि च ॥ तृतीयावरणे चक्रुः पूर्वभागे समर्चयेत् ॥ ७.२,३०.५८॥
रामः च अन्यतमः कृष्णः भवान् अश्वमुखः अपि च ॥ तृतीय-आवरणे चक्रुः पूर्व-भागे समर्चयेत् ॥ ७।२,३०।५८॥
rāmaḥ ca anyatamaḥ kṛṣṇaḥ bhavān aśvamukhaḥ api ca .. tṛtīya-āvaraṇe cakruḥ pūrva-bhāge samarcayet .. 7.2,30.58..
नारायणाख्यां याम्येस्त्रं क्वचिदव्याहतं यजेत् ॥ पश्चिमे पांचजन्यं च शार्ङ्गंधनुरथोत्तरे ॥ ७.२,३०.५९॥
नारायण-आख्याम् क्वचिद् अव्याहतम् यजेत् ॥ पश्चिमे पांचजन्यम् च शार्ङ्गंधनुः अथ उत्तरे ॥ ७।२,३०।५९॥
nārāyaṇa-ākhyām kvacid avyāhatam yajet .. paścime pāṃcajanyam ca śārṅgaṃdhanuḥ atha uttare .. 7.2,30.59..
एवं त्र्यावरणैः साक्षाद्विश्वाख्यां परमं हरिम् ॥ महाविष्णुं सदाविष्णुं मूर्तीकृत्य समर्चयेत् ॥ ७.२,३०.६०॥
एवम् त्रि-आवरणैः साक्षात् विश्व-आख्याम् परमम् हरिम् ॥ समर्चयेत् ॥ ७।२,३०।६०॥
evam tri-āvaraṇaiḥ sākṣāt viśva-ākhyām paramam harim .. samarcayet .. 7.2,30.60..
इत्थं विष्णोश्चतुर्व्यूहक्रमान्मूर्तिचतुष्टयम् ॥ पूजयित्वा च तच्छक्तीश्चतस्रः पुजयेत्क्रमात् ॥ ७.२,३०.६१॥
इत्थम् विष्णोः चतुर्-व्यूह-क्रमात् मूर्ति-चतुष्टयम् ॥ पूजयित्वा च तद्-शक्तीः चतस्रः पुजयेत् क्रमात् ॥ ७।२,३०।६१॥
ittham viṣṇoḥ catur-vyūha-kramāt mūrti-catuṣṭayam .. pūjayitvā ca tad-śaktīḥ catasraḥ pujayet kramāt .. 7.2,30.61..
प्रभामाग्नेयदिग्भागे नैरृते तु सरस्वतीम् ॥ गणांबिका च वायव्ये लक्ष्मीं रौद्रे समर्चयेत् ॥ ७.२,३०.६२॥
प्रभाम् आग्नेय-दिग्भागे नैरृते तु सरस्वतीम् ॥ गणांबिका च वायव्ये लक्ष्मीम् रौद्रे समर्चयेत् ॥ ७।२,३०।६२॥
prabhām āgneya-digbhāge nairṛte tu sarasvatīm .. gaṇāṃbikā ca vāyavye lakṣmīm raudre samarcayet .. 7.2,30.62..
एवं भान्वादिमूर्तीनां तच्छक्तीनामनंतरम् ॥ पूजां विधाय लोकेशांस्तत्रैवावरणे यजेत् ॥ ७.२,३०.६३॥
एवम् भानु-आदि-मूर्तीनाम् तद्-शक्तीनाम् अनंतरम् ॥ पूजाम् विधाय लोकेशान् तत्र एव आवरणे यजेत् ॥ ७।२,३०।६३॥
evam bhānu-ādi-mūrtīnām tad-śaktīnām anaṃtaram .. pūjām vidhāya lokeśān tatra eva āvaraṇe yajet .. 7.2,30.63..
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ वायुं सोमं कुबेरं च पश्चादीशानमर्चयेत् ॥ ७.२,३०.६४॥
इन्द्रम् अग्निम् यमम् च एव निरृतिम् वरुणम् तथा ॥ वायुम् सोमम् कुबेरम् च पश्चात् ईशानम् अर्चयेत् ॥ ७।२,३०।६४॥
indram agnim yamam ca eva nirṛtim varuṇam tathā .. vāyum somam kuberam ca paścāt īśānam arcayet .. 7.2,30.64..
एवं चतुर्थावरणं पूजयित्वा विधानतः ॥ आयुधानि महेशस्य पश्चाद्बांह्यं समर्चयेत् ॥ ७.२,३०.६५॥
एवम् चतुर्थ-आवरणम् पूजयित्वा विधानतः ॥ आयुधानि महेशस्य पश्चात् बांह्यम् समर्चयेत् ॥ ७।२,३०।६५॥
evam caturtha-āvaraṇam pūjayitvā vidhānataḥ .. āyudhāni maheśasya paścāt bāṃhyam samarcayet .. 7.2,30.65..
श्रीमन्त्रिशूलमैशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ ७.२,३०.६६॥
श्रीमत् त्रिशूलम् ऐशाने वज्रम् माहेन्द्र-दिश्-मुखे ॥ परशुम् वह्नि-दिग्भागे याम्ये सायकम् अर्चयेत् ॥ ७।२,३०।६६॥
śrīmat triśūlam aiśāne vajram māhendra-diś-mukhe .. paraśum vahni-digbhāge yāmye sāyakam arcayet .. 7.2,30.66..
नैरृते तु यजेत्खड्गं पाशं वारुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ ७.२,३०.६७॥
नैरृते तु यजेत् खड्गम् पाशम् वारुण-गोचरे ॥ अंकुशम् मारुते भागे पिनाकम् च उत्तरे यजेत् ॥ ७।२,३०।६७॥
nairṛte tu yajet khaḍgam pāśam vāruṇa-gocare .. aṃkuśam mārute bhāge pinākam ca uttare yajet .. 7.2,30.67..
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ पञ्चमावरणं चैव सम्पूज्यानन्तरं बहिः ॥ ७.२,३०.६८॥
पश्चिम-अभिमुखम् रौद्रम् क्षेत्रपालम् समर्चयेत् ॥ पञ्चम-आवरणम् च एव सम्पूज्य अनन्तरम् बहिस् ॥ ७।२,३०।६८॥
paścima-abhimukham raudram kṣetrapālam samarcayet .. pañcama-āvaraṇam ca eva sampūjya anantaram bahis .. 7.2,30.68..
सर्वावरणदेवानां बहिर्वा पञ्चमे ऽथवा ॥ पञ्चमे मातृभिस्सार्धं महोक्ष पुरतो यजेत् ॥ ७.२,३०.६९॥
सर्व-आवरण-देवानाम् बहिस् वा पञ्चमे अथवा ॥ पञ्चमे मातृभिः सार्धम् महा-उक्ष पुरतस् यजेत् ॥ ७।२,३०।६९॥
sarva-āvaraṇa-devānām bahis vā pañcame athavā .. pañcame mātṛbhiḥ sārdham mahā-ukṣa puratas yajet .. 7.2,30.69..
ततः समंततः पूज्यास्सर्वा वै देवयोनयः ॥ खेचरा ऋषयस्सिद्धा दैत्या यक्षाश्च राक्षसाः ॥ ७.२,३०.७०॥
ततस् समंततः पूज्याः सर्वाः वै देवयोनयः ॥ खेचराः ऋषयः सिद्धाः दैत्याः यक्षाः च राक्षसाः ॥ ७।२,३०।७०॥
tatas samaṃtataḥ pūjyāḥ sarvāḥ vai devayonayaḥ .. khecarāḥ ṛṣayaḥ siddhāḥ daityāḥ yakṣāḥ ca rākṣasāḥ .. 7.2,30.70..
अनंताद्याश्च नागेंद्रा नागैस्तत्तत्कुलोद्भवैः ॥ डाकिनीभूतवेतालप्रेतभैरवनायकाः ॥ ७.२,३०.७१॥
अनंत-आद्याः च नाग-इंद्राः नागैः तद्-तद्-कुल-उद्भवैः ॥ डाकिनी-भूत-वेताल-प्रेत-भैरव-नायकाः ॥ ७।२,३०।७१॥
anaṃta-ādyāḥ ca nāga-iṃdrāḥ nāgaiḥ tad-tad-kula-udbhavaiḥ .. ḍākinī-bhūta-vetāla-preta-bhairava-nāyakāḥ .. 7.2,30.71..
पातालवासिनश्चान्ये नानायोनिसमुद्भवाः ॥ नद्यस्समुद्रा गिरयः काननानि सरांसि च ॥ ७.२,३०.७२॥
पाताल-वासिनः च अन्ये नाना योनि-समुद्भवाः ॥ नद्यः समुद्राः गिरयः काननानि सरांसि च ॥ ७।२,३०।७२॥
pātāla-vāsinaḥ ca anye nānā yoni-samudbhavāḥ .. nadyaḥ samudrāḥ girayaḥ kānanāni sarāṃsi ca .. 7.2,30.72..
पशवः पक्षिणो वृक्षाः कीटाद्याः क्षुद्रयोनयः ॥ नराश्च विविधाकारा मृगाश्च क्षुद्रयोनयः ॥ ७.२,३०.७३॥
पशवः पक्षिणः वृक्षाः कीट-आद्याः क्षुद्र-योनयः ॥ नराः च विविध-आकाराः मृगाः च क्षुद्र-योनयः ॥ ७।२,३०।७३॥
paśavaḥ pakṣiṇaḥ vṛkṣāḥ kīṭa-ādyāḥ kṣudra-yonayaḥ .. narāḥ ca vividha-ākārāḥ mṛgāḥ ca kṣudra-yonayaḥ .. 7.2,30.73..
भुवनान्यन्तरण्डस्य ततो ब्रह्माण्डकोटयः ॥ बहिरंडान्यसंख्यानि भुवनानि सहाधिपैः ॥ ७.२,३०.७४॥
भुवनानि अन्तर् अण्डस्य ततस् ब्रह्माण्ड-कोटयः ॥ बहिरंडानि असंख्यानि भुवनानि सह अधिपैः ॥ ७।२,३०।७४॥
bhuvanāni antar aṇḍasya tatas brahmāṇḍa-koṭayaḥ .. bahiraṃḍāni asaṃkhyāni bhuvanāni saha adhipaiḥ .. 7.2,30.74..
ब्रह्मांडाधारका रुद्रा दशदिक्षु व्यवस्थिताः ॥ यद्गौड यच्च मामेयं यद्वा शाक्तं ततः परम् ॥ ७.२,३०.७५॥
ब्रह्मांड-धारकाः रुद्राः दश-दिक्षु व्यवस्थिताः ॥ यत् गौड यत् च मामेयम् यत् वा शाक्तम् ततस् परम् ॥ ७।२,३०।७५॥
brahmāṃḍa-dhārakāḥ rudrāḥ daśa-dikṣu vyavasthitāḥ .. yat gauḍa yat ca māmeyam yat vā śāktam tatas param .. 7.2,30.75..
यत्किञ्चिदस्ति शब्दस्य वाच्यं चिदचिदात्मकम् ॥ तत्सर्वं शिवयोः पार्श्वे बुद्ध्वा सामान्यतो यजेत् ॥ ७.२,३०.७६॥
यत् किञ्चिद् अस्ति शब्दस्य वाच्यम् चित्-अचित्-आत्मकम् ॥ तत् सर्वम् शिवयोः पार्श्वे बुद्ध्वा सामान्यतस् यजेत् ॥ ७।२,३०।७६॥
yat kiñcid asti śabdasya vācyam cit-acit-ātmakam .. tat sarvam śivayoḥ pārśve buddhvā sāmānyatas yajet .. 7.2,30.76..
कृतांजलिपुटाः सर्वे ऽचिंत्याः स्मितमुखास्तथा ॥ प्रीत्या संप्रेक्षमाणाश्च देवं देवीं च सर्वदा ॥ ७.२,३०.७७॥
कृत-अंजलि-पुटाः सर्वे अचिंत्याः स्मित-मुखाः तथा ॥ प्रीत्या संप्रेक्षमाणाः च देवम् देवीम् च सर्वदा ॥ ७।२,३०।७७॥
kṛta-aṃjali-puṭāḥ sarve aciṃtyāḥ smita-mukhāḥ tathā .. prītyā saṃprekṣamāṇāḥ ca devam devīm ca sarvadā .. 7.2,30.77..
इत्थमावरणाभ्यर्चां कृत्वाविक्षेपशांतये ॥ पुनरभ्यर्च्य देवेशं पक्त्वाक्षरमुदीरयेत् ॥ ७.२,३०.७८॥
इत्थम् आवरण-अभ्यर्चाम् कृत्वा अ विक्षेप-शांतये ॥ पुनर् अभ्यर्च्य देवेशम् पक्त्वा अक्षरम् उदीरयेत् ॥ ७।२,३०।७८॥
ittham āvaraṇa-abhyarcām kṛtvā a vikṣepa-śāṃtaye .. punar abhyarcya deveśam paktvā akṣaram udīrayet .. 7.2,30.78..
निवेदयेत्ततः पश्चाच्छिवयोरमृतोपमम् ॥ सुव्यञ्जनसमायुक्तं शुद्धं चारु महाचरुम् ॥ ७.२,३०.७९॥
निवेदयेत् ततस् पश्चात् शिवयोः अमृत-उपमम् ॥ सु व्यञ्जन-समायुक्तम् शुद्धम् चारु महा-चरुम् ॥ ७।२,३०।७९॥
nivedayet tatas paścāt śivayoḥ amṛta-upamam .. su vyañjana-samāyuktam śuddham cāru mahā-carum .. 7.2,30.79..
द्वात्रिंशदाढकैर्मुख्यमधमं त्वाढकावरम् ॥ साधयित्वा यथासंपच्छ्रद्धया विनिवेदयेत् ॥ ७.२,३०.८०॥
द्वात्रिंशत्-आढकैः मुख्यम् अधमम् तु आढक-अवरम् ॥ साधयित्वा यथासंपद् श्रद्धया विनिवेदयेत् ॥ ७।२,३०।८०॥
dvātriṃśat-āḍhakaiḥ mukhyam adhamam tu āḍhaka-avaram .. sādhayitvā yathāsaṃpad śraddhayā vinivedayet .. 7.2,30.80..
ततो निवेद्य पानीयं तांबूलं चोपदंशकैः ॥ नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ७.२,३०.८१॥
ततस् निवेद्य पानीयम् तांबूलम् च उपदंशकैः ॥ नीराजन-आदिकम् कृत्वा पूजा-शेषम् समापयेत् ॥ ७।२,३०।८१॥
tatas nivedya pānīyam tāṃbūlam ca upadaṃśakaiḥ .. nīrājana-ādikam kṛtvā pūjā-śeṣam samāpayet .. 7.2,30.81..
भोगोपयोग्यद्रव्याणि विशिष्टान्येव साधयेत् ॥ वित्तशाठ्यं न कुर्वीत भक्तिमान्विभवे सति ॥ ७.२,३०.८२॥
भोग-उपयोग्य-द्रव्याणि विशिष्टानि एव साधयेत् ॥ वित्त-शाठ्यम् न कुर्वीत भक्तिमान् विभवे सति ॥ ७।२,३०।८२॥
bhoga-upayogya-dravyāṇi viśiṣṭāni eva sādhayet .. vitta-śāṭhyam na kurvīta bhaktimān vibhave sati .. 7.2,30.82..
शठस्योपेक्षकस्यापि व्यंग्यं चैवानुतिष्ठतः ॥ न फलंत्येव कर्माणि काम्यानीति सतां कथा ॥ ७.२,३०.८३॥
शठस्य उपेक्षकस्य अपि व्यंग्यम् च एव अनुतिष्ठतः ॥ न फलंति एव कर्माणि काम्यानि इति सताम् कथा ॥ ७।२,३०।८३॥
śaṭhasya upekṣakasya api vyaṃgyam ca eva anutiṣṭhataḥ .. na phalaṃti eva karmāṇi kāmyāni iti satām kathā .. 7.2,30.83..
तस्मात्सम्यगुपेक्षां च त्यक्त्वा सर्वांगयोगतः ॥ कुर्यात्काम्यानि कर्माणि फलसिद्धिं यदीच्छति ॥ ७.२,३०.८४॥
तस्मात् सम्यक् उपेक्षाम् च त्यक्त्वा सर्व-अंग-योगतः ॥ कुर्यात् काम्यानि कर्माणि फल-सिद्धिम् यदि इच्छति ॥ ७।२,३०।८४॥
tasmāt samyak upekṣām ca tyaktvā sarva-aṃga-yogataḥ .. kuryāt kāmyāni karmāṇi phala-siddhim yadi icchati .. 7.2,30.84..
इत्थं पूजां समाप्याथ देवं देवीं प्रणम्य च ॥ भक्त्या मनस्समाधाय पश्चात्स्तोत्रमुदीरयेत् ॥ ७.२,३०.८५॥
इत्थम् पूजाम् समाप्य अथ देवम् देवीम् प्रणम्य च ॥ भक्त्या मनः समाधाय पश्चात् स्तोत्रम् उदीरयेत् ॥ ७।२,३०।८५॥
ittham pūjām samāpya atha devam devīm praṇamya ca .. bhaktyā manaḥ samādhāya paścāt stotram udīrayet .. 7.2,30.85..
ततः स्तोत्रमुपास्यान्ते त्वष्टोत्तरशतावराम् ॥ जपेत्पञ्चाक्षरीं विद्यां सहस्रोत्तरमुत्सुकः ॥ ७.२,३०.८६॥
ततस् स्तोत्रम् उपास्य अन्ते तु अष्टोत्तरशत-अवराम् ॥ जपेत् पञ्चाक्षरीम् विद्याम् सहस्र-उत्तरम् उत्सुकः ॥ ७।२,३०।८६॥
tatas stotram upāsya ante tu aṣṭottaraśata-avarām .. japet pañcākṣarīm vidyām sahasra-uttaram utsukaḥ .. 7.2,30.86..
विद्यापूजां गुरोः पूजां कृत्वा पश्चाद्यथाक्रमम् ॥ यथोदयं यथाश्राद्धं सदस्यानपि पूजयेत् ॥ ७.२,३०.८७॥
विद्या-पूजाम् गुरोः पूजाम् कृत्वा पश्चात् यथाक्रमम् ॥ यथोदयम् यथाश्राद्धम् सदस्यान् अपि पूजयेत् ॥ ७।२,३०।८७॥
vidyā-pūjām guroḥ pūjām kṛtvā paścāt yathākramam .. yathodayam yathāśrāddham sadasyān api pūjayet .. 7.2,30.87..
ततः उद्वास्य देवेशं सर्वैरावरणैः सह ॥ मण्डलं गुरवे दद्याद्यागोपकरणैस्सह ॥ ७.२,३०.८८॥
ततस् उद्वास्य देवेशम् सर्वैः आवरणैः सह ॥ मण्डलम् गुरवे दद्यात् याग-उपकरणैः सह ॥ ७।२,३०।८८॥
tatas udvāsya deveśam sarvaiḥ āvaraṇaiḥ saha .. maṇḍalam gurave dadyāt yāga-upakaraṇaiḥ saha .. 7.2,30.88..
शिवाश्रितेभ्यो वा दद्यात्सर्वमेवानुपूर्वशः ॥ अथवा तच्छिवायैव शिवक्षेत्रे समर्पयेत् ॥ ७.२,३०.८९॥
शिव-आश्रितेभ्यः वा दद्यात् सर्वम् एव अनुपूर्वशस् ॥ अथवा तत् शिवाय एव शिव-क्षेत्रे समर्पयेत् ॥ ७।२,३०।८९॥
śiva-āśritebhyaḥ vā dadyāt sarvam eva anupūrvaśas .. athavā tat śivāya eva śiva-kṣetre samarpayet .. 7.2,30.89..
शिवाग्नौ वा यजेद्देवं होमद्रव्यैश्च सप्तभिः ॥ समभ्यर्च्य यथान्यायं सर्वावरणदेवताः ॥ ७.२,३०.९०॥
शिव-अग्नौ वा यजेत् देवम् होम-द्रव्यैः च सप्तभिः ॥ समभ्यर्च्य यथान्यायम् सर्व-आवरण-देवताः ॥ ७।२,३०।९०॥
śiva-agnau vā yajet devam homa-dravyaiḥ ca saptabhiḥ .. samabhyarcya yathānyāyam sarva-āvaraṇa-devatāḥ .. 7.2,30.90..
एष योगेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मादधिकः कश्चिद्यागो ऽस्ति भुवने क्वचित् ॥ ७.२,३०.९१॥
एष योगेश्वरः नाम त्रिषु लोकेषु विश्रुतः ॥ न तस्मात् अधिकः कश्चिद् यागः अस्ति भुवने क्वचिद् ॥ ७।२,३०।९१॥
eṣa yogeśvaraḥ nāma triṣu lokeṣu viśrutaḥ .. na tasmāt adhikaḥ kaścid yāgaḥ asti bhuvane kvacid .. 7.2,30.91..
न तदस्ति जगत्यस्मिन्नसध्यं यदनेन तु ॥ ऐहिकं वा फलं किंचिदामुष्मिकफलं तु वा ॥ ७.२,३०.९२॥
न तत् अस्ति जगति अस्मिन् असध्यम् यत् अनेन तु ॥ ऐहिकम् वा फलम् किंचिद् आमुष्मिक-फलम् तु वा ॥ ७।२,३०।९२॥
na tat asti jagati asmin asadhyam yat anena tu .. aihikam vā phalam kiṃcid āmuṣmika-phalam tu vā .. 7.2,30.92..
इदमस्य फलं नेदमिति नैव नियम्यते ॥ श्रेयोरूपस्य कृत्स्नस्य तदिदं श्रेष्टसाधनम् ॥ ७.२,३०.९३॥
इदम् अस्य फलम् न इदम् इति ना एव नियम्यते ॥ श्रेयः-रूपस्य कृत्स्नस्य तत् इदम् श्रेष्ट-साधनम् ॥ ७।२,३०।९३॥
idam asya phalam na idam iti nā eva niyamyate .. śreyaḥ-rūpasya kṛtsnasya tat idam śreṣṭa-sādhanam .. 7.2,30.93..
इदं न शक्यते वक्तुं पुरुषेण यदर्च्यते ॥ चिंतामणेरिवैतस्मात्तत्तेन प्राप्यते फलम् ॥ ७.२,३०.९४॥
इदम् न शक्यते वक्तुम् पुरुषेण यत् अर्च्यते ॥ चिंतामणेः इव एतस्मात् तत् तेन प्राप्यते फलम् ॥ ७।२,३०।९४॥
idam na śakyate vaktum puruṣeṇa yat arcyate .. ciṃtāmaṇeḥ iva etasmāt tat tena prāpyate phalam .. 7.2,30.94..
तथापि क्षुद्रमुद्दिश्य फलं नैतत्प्रयोजयेत् ॥ लघ्वर्थी महतो यस्मात्स्वयं लघुतरो भवेत् ॥ ७.२,३०.९५॥
तथा अपि क्षुद्रम् उद्दिश्य फलम् ना एतत् प्रयोजयेत् ॥ लघु-अर्थी महतः यस्मात् स्वयम् लघुतरः भवेत् ॥ ७।२,३०।९५॥
tathā api kṣudram uddiśya phalam nā etat prayojayet .. laghu-arthī mahataḥ yasmāt svayam laghutaraḥ bhavet .. 7.2,30.95..
महद्वा फलमल्पं वा कृतं चेत्कर्म सिध्यति ॥ महादेवं समुद्दिश्य कृतं कर्म प्रयुज्यताम् ॥ ७.२,३०.९६॥
महत् वा फलम् अल्पम् वा कृतम् चेद् कर्म सिध्यति ॥ महादेवम् समुद्दिश्य कृतम् कर्म प्रयुज्यताम् ॥ ७।२,३०।९६॥
mahat vā phalam alpam vā kṛtam ced karma sidhyati .. mahādevam samuddiśya kṛtam karma prayujyatām .. 7.2,30.96..
तस्मादनन्यलभ्येषु शत्रुमृत्युंजयादिषु ॥ फलेषु दृष्टादृष्टेषु कुर्यादेतद्विचक्षणः ॥ ७.२,३०.९७॥
तस्मात् अन् अन्य-लभ्येषु शत्रु-मृत्युंजय-आदिषु ॥ फलेषु दृष्ट-अदृष्टेषु कुर्यात् एतत् विचक्षणः ॥ ७।२,३०।९७॥
tasmāt an anya-labhyeṣu śatru-mṛtyuṃjaya-ādiṣu .. phaleṣu dṛṣṭa-adṛṣṭeṣu kuryāt etat vicakṣaṇaḥ .. 7.2,30.97..
महत्स्वपि च पातेषु महारागभयादिषु ॥ दुर्भिक्षादिषु शांत्यर्थं शांतिं कुर्यादनेन तु ॥ ७.२,३०.९८॥
महत्सु अपि च पातेषु महा-राग-भय-आदिषु ॥ दुर्भिक्ष-आदिषु शांति-अर्थम् शांतिम् कुर्यात् अनेन तु ॥ ७।२,३०।९८॥
mahatsu api ca pāteṣu mahā-rāga-bhaya-ādiṣu .. durbhikṣa-ādiṣu śāṃti-artham śāṃtim kuryāt anena tu .. 7.2,30.98..
बहुना किं प्रलापेन महाव्यापन्निवारकम् ॥ आत्मीयमस्त्रं शैवानामिदमाह महेश्वरः ॥ ७.२,३०.९९॥
बहुना किम् प्रलापेन महा-व्यापद्-निवारकम् ॥ आत्मीयम् अस्त्रम् शैवानाम् इदम् आह महेश्वरः ॥ ७।२,३०।९९॥
bahunā kim pralāpena mahā-vyāpad-nivārakam .. ātmīyam astram śaivānām idam āha maheśvaraḥ .. 7.2,30.99..
तस्मादितः परं नास्ति परित्राणमिहात्मनः ॥ इति मत्वा प्रयुंजानः कर्मेदं शुभमश्नुते ॥ ७.२,३०.१००॥
तस्मात् इतस् परम् ना अस्ति परित्राणम् इह आत्मनः ॥ इति मत्वा प्रयुंजानः कर्म इदम् शुभम् अश्नुते ॥ ७।२,३०।१००॥
tasmāt itas param nā asti paritrāṇam iha ātmanaḥ .. iti matvā prayuṃjānaḥ karma idam śubham aśnute .. 7.2,30.100..
स्तोत्रमात्रं शुचिर्भूत्वा यः पठेत्सुसमाहितः ॥ सोप्यभीष्टतमादर्थादष्टांशफलमाप्नुयात् ॥ ७.२,३०.१०१॥
स्तोत्र-मात्रम् शुचिः भूत्वा यः पठेत् सु समाहितः ॥ सः उपि अभीष्टतमात् अर्थात् अष्ट-अंश-फलम् आप्नुयात् ॥ ७।२,३०।१०१॥
stotra-mātram śuciḥ bhūtvā yaḥ paṭhet su samāhitaḥ .. saḥ upi abhīṣṭatamāt arthāt aṣṭa-aṃśa-phalam āpnuyāt .. 7.2,30.101..
अर्थं तस्यानुसन्धाय पर्वण्यनशनः पठेत् ॥ अष्टाभ्यां वा चतुर्दश्यां फलमर्धं समाप्नुयात् ॥ ७.२,३०.१०२॥
अर्थम् तस्य अनुसन्धाय पर्वणि अनशनः पठेत् ॥ अष्टाभ्याम् वा चतुर्दश्याम् फलम् अर्धम् समाप्नुयात् ॥ ७।२,३०।१०२॥
artham tasya anusandhāya parvaṇi anaśanaḥ paṭhet .. aṣṭābhyām vā caturdaśyām phalam ardham samāpnuyāt .. 7.2,30.102..
यस्त्वर्थमनुसंधाय पर्वादिषु तथा व्रती ॥ मासमेकं जपेत्स्तोत्रं स कृत्स्नं फलमाप्नुयात् ॥ ७.२,३०.१०३॥
यः तु अर्थम् अनुसंधाय पर्व-आदिषु तथा व्रती ॥ मासम् एकम् जपेत् स्तोत्रम् स कृत्स्नम् फलम् आप्नुयात् ॥ ७।२,३०।१०३॥
yaḥ tu artham anusaṃdhāya parva-ādiṣu tathā vratī .. māsam ekam japet stotram sa kṛtsnam phalam āpnuyāt .. 7.2,30.103..
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे शैवानां काम्यकवर्णनं नाम त्रिंशोऽध्यायः॥
इति श्री-शिव-महापुराणे सप्तम्याम् वायवीयसंहितायाम् उत्तर-खण्डे शैवानाम् काम्यकवर्णनम् नाम त्रिंशः अध्यायः॥
iti śrī-śiva-mahāpurāṇe saptamyām vāyavīyasaṃhitāyām uttara-khaṇḍe śaivānām kāmyakavarṇanam nāma triṃśaḥ adhyāyaḥ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In